१०८ व्याङ् (वि+आङ्)

आप्

  • {व्याप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘स्वेदापूरो युवतिसरितां व्याप गण्डस्थलानि’ (शिशु० ७।७४)। व्याप व्यानशे।
  • ‘तेजोमहिम्ना पुनरावृतात्मा तद् (आसनं) व्याप चामीकरपिञ्जरेण’ (रघु० १८।४०)। कार्त्स्न्येनाध्यासाञ्चक्रे। उपाधिविधुरं नियतं साहचर्यं व्याप्तिः।
  • ‘तस्मात्तमेव होतारं वृणीष्वेत्येतस्य लोकस्य व्याप्तये’ (गो० ब्रा० पू० २।२४)। विशिष्टाऽऽप्तिर्व्याप्तिः।

कुप्

  • {व्याकुप्}
  • कुप् (कुप क्रोधे)।
  • ‘महाजना द्रोणाचार्य्यादयः ब्रह्मकर्मादरे सुरकार्यं न स्याद् अनादरे शिष्टाचारव्याकोप इति भावः’ (भा० शां० २६०।१७ इत्यत्र नीलकण्ठः)।** व्याकोपो विरोधः।**
  • ‘उत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात्’ (ब्र० सू० शां० भा० २।४।७)। व्याकोपो विरोधः।

कू

  • {व्याकू}
  • कू (कूङ् शब्दे)।
  • ‘व्याकूतय एषामिताथो चित्तानि मुह्यत’ (अथर्व० ३।२।४)। व्याकूतयो विरुद्धाः सङ्कल्पाः।

कृ

  • {व्याकृ}
  • कृ (डुकृञ्)।
  • ‘एता एना व्याकरं खिले गा विष्ठिता इव’ (अथर्व० ७।११५।४)। व्याकरं विविच्य आकरोमि। द्विधा करोमीत्यर्थः।
  • ‘व्याकरोमि हविषाहमेतौ’ (अथर्व० १२।२।३२)। पृथक् करोमीत्यर्थः।
  • ‘स्थशो जन्मानि सविता व्याकः’ (ऋ० २।३८।८)।
  • ‘दैवं चैव तत् पित्र्यं च (कर्म) व्याकरोति’ (श० ब्रा० १३।८।२।९)। व्याकरोति विविनक्ति।
  • ‘दृष्ट्वा रूपे व्याकरोत्सत्यानृते प्रजापतिः’ (वा० सं० १९।७७)। व्याकरोत् व्यवेचयत्, विविक्तस्वरूपे अकरोत्। तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्।
  • ‘तस्मादियं व्याकृता वागुद्यते’ (तै० सं० ६।४।७।४)। व्याकरोत् प्रकृतिप्रत्ययादिविभागेन व्यभजत्।
  • ‘येनैव वाचं व्याकरोति’ (ऐ० ब्रा० ५।२२)। शब्दमुच्चारयतीत्यर्थः।
  • ‘तन्नामरूपाभ्यामेव व्याक्रियत’ (श० ब्रा० १४।४।२।१५)। नामरूपभेदेनात्मानं भिन्नवत्।
  • ‘अन्यैरेवैनं (अश्वं) तत्पशुभिर्व्याकुर्वन्ति’ (श० ब्रा० १३।२।८।१)। श्रेयस्तथा विशिंषन्ति पृथक् कुर्वन्तीत्याह।
  • ‘हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ (छां० उ० ६।३।२)।
  • ‘अथ खल्वयं पुरुषो मिथ्या व्याकरोति’ (व० धर्म० २२।१)। व्याहरतीत्यर्थः।
  • ‘समान एव कर्मन्व्याक्रियते’ (श० ब्रा० १।८।३।६)।
  • ‘वक्तव्यं चैव यत्तत्र तद्भवान् व्याकरोतु नः’ (रा० ५।५६।५)। व्याकरोतु व्याख्यातु व्याचष्टाम्।
  • ‘एवमुत्सुकवशात्पयोधरं व्याचकार हरिदिग्विलासिनी’ (रामचरिते २।८२)। व्याचकार प्रकटयामास।
  • ‘मातॄणामेकां वत्सेन व्याकृत्य’ (श० ब्रा० १।७।१।४)। व्याकृत्य पृथक्कृत्वा।
  • ‘अतिनीय मानुषं कालं सायन्दुग्धमपररात्रे प्रातर्दुग्धमपराह्णे व्याकृत्या एव दैवं चैवैतन्मानुषं च व्याकरोति’ (श० ब्रा० १।१।२।१६)। व्याकृत्यै विवेकाय पार्थक्याय। स्वमतव्याक्रियैव परमतनिराक्रिया (इति विदुषां सत्त्ववतां दर्शनम्) व्याक्रिया व्याख्यानम्।
  • ‘व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्’ (भा० शां० २५२।११)। व्याकरणं संशय इति नीलकण्ठः। एतस्य साधुत्वे सन्दिह्महे वयम्। स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते।
  • ‘सर्वार्थानां व्याकरणाद् वैयाकरण उच्यते’ (भा० उ० ४३।६०-६१)॥ व्याकरणात् प्रकटीकरणात्। श्रुतौ संक्षिप्तयोर्दर्शपूर्णमासयोर्व्याकरणेन (म्यूलरप्रणीते सङ्ग्रहे)। सविस्तरेण व्याख्यानेन। गर्भव्याकरणम्। व्याकरणं रचना कल्पना निर्माणमाकारग्रहणम्। इति पूर्वश्लोके ब्रह्माजलिशब्दार्थव्याकारः (मनु० २।७१ इत्यत्र कुल्लूकः)। व्याकारो व्याक्रिया स्पष्टीकरणम्।
  • ‘तस्माद् व्याकरणीय एवायं प्रश्नः’ (यो० सू० ४।३३ भाष्ये)। व्याकरणीयो व्याख्यानीयः, विवरीतव्यः।
  • ‘ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा’ (यो० सू० ३।१७ भा०)। उपतोऽर्थः।
  • ‘न चेत् प्रश्नान्पृच्छतो व्याकरोषि’ (भा० वन० ३।१३।१९)। व्याकरोषि व्याचक्षे व्याख्यासि वक्षि प्रतिब्रवीषि।
  • ‘दम्पत्यो र्व्याकृतैवं हतविधिरुभयोर्लोकयोः शोकयोगम्’ (विश्व० च० काशिवर्णन ७।९२)। व्यर्थौ व्याङावुपसर्गौ। व्याकृतेति कर्तरि लुङ्यात्मनेपदे रूपम्।
  • ‘व्याकरणं च गर्भस्य’ (सुश्रुत० १।३।३)। व्याकरणं विवरणम्।
  • ‘वाग्वै पराच्यव्याकृता ऽवदत्’ (तै० सं० ६।४।७)। अव्याकृता अविभक्ता। अवदत् अभिव्यक्तिमगमत्, ध्वनिमात्रमेवोदचरत् इति भट्टभास्करः।

कृष्

  • {व्याकृष्}
  • कृष् (कृष विलेखने)।
  • ‘स्रस्तव्याकृष्टवसनाः’ (रा० ५।५४।१५)। व्याकृष्टं व्यपरोपितम्।

क्रुश्

  • {व्याक्रुश्}
  • क्रुश् (क्रुश आह्वाने रोदने च)।
  • ‘हा प्रिये क्वासि नष्टासि व्याक्रोशन्न्यपतत् क्षितौ’ (रा० ३।६८।२)। व्याक्रोशन् उच्चैराक्रोशन्।

क्षिप्

  • {व्याक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘ततो ज्यामभिमृज्याशु व्याक्षिपद् गाण्डिवं धनुः’ (भा० कर्ण० ७४।२)। व्याक्षिपद् आतनोत्। आधूनोत्।
  • ‘अथ प्रहस्याधिरथिर्व्याक्षिपद् धनुरुत्तमम्’ (भा० कर्ण० ७८।२१)। उक्तोऽर्थः।
  • ‘अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः’ (भा० वि० ४५।२९)। व्याक्षिपत् टणत्-कारितवानिति नीलकण्ठः।
  • ‘संहत्य भीमसेनाय व्याक्षिपत्सहसा करम्’ (भा० वन० १०६)।
  • ‘संप्रयुद्धौ हि तौ दृष्ट्वा बलिनौ रामरावणौ। व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः’ (रा० ६।९१।३३)॥ व्याक्षिप्तहृदया हृतहृदयाः।
  • ‘अव्याक्षिप्तोऽक्षिपल्लेखं स स्नानकलशे ततः’ (राज० ३।३७१)। अव्याक्षिप्तः समाहितः। चित्तव्याक्षेपादिना पारोक्ष्यम् (परोक्षे लिट् ३।२।११५ सूत्रे दीक्षितः)। व्याक्षेपो व्यासङ्गः विषयान्तरगमनम्।
  • ‘अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्’ (रघु० १०।६)। अव्याक्षेपोऽविलम्बः।
  • ‘कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भविष्यति’ (वि० पु० ४।१३।४८)। उक्तोऽर्थः।
  • ‘बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः’ (भा० शां० १५६।३)। व्याक्षेप आक्षेपः। यत्राभिहिते लक्षणे प्रवादान्तरव्याक्षेपात् तत्त्वनिश्चयो न भवति तत्र परपक्षव्युदासार्थं परीक्षाऽधिक्रियते (त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरिति वात्स्यायनीये वाक्ये प्रशस्तपादभाष्ये कन्दलीकारस्य वचनम्)। तत्र व्याक्षेपोऽन्तरा क्षेपः पातः।
  • ‘यावदहमपि शयनमुपगम्य नयनव्याक्षेपं करोमि’ (बालच० २)। शयनं शयनीयम्। नयनव्याक्षेपो विषयान्तरेभ्यो दृशोर्व्यपवृत्तिः।

ख्या

  • {व्याख्या}
  • ख्या (ख्या प्रकथने)।
  • ‘व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्व’ (श० ब्रा० १४।५।४।४)। व्याख्यास्यामि विवरीष्यामि।
  • ‘रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर’ (भा० वन० २७४।१०)। विस्तरेणाख्यास्यामीत्यर्थः।
  • ‘इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्। सत्यवत्यात्मजेनेह व्याख्यातममितौजसा’ (भा० आदि० ६१।१४)। व्याख्यातं पठितम्।
  • ‘व्याचख्युश्चैव हतं प्रहस्तम्’ (भट्टि० १४।११३)। ज्ञापयामासुः, वेदयाञ्चक्रुः।
  • ‘विद्वद्वृन्दैः …व्याख्याता सा विद्युन्माला’ (श्रुत० १५)। व्याख्याता कथिता, उदिता। संज्ञितेति तात्पर्यार्थः।
  • ‘तस्य मतिर्जाता व्याख्यातुं पितरं स्वकम्’ (रा० १।९।२७)। व्याख्यातुं सविस्तरं वर्णयितुम्।

चक्ष्

  • {व्याचक्ष्}
  • चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
  • ‘ऋचां सूक्तं व्याचक्षाणः’ (श० ब्रा० १३।४।३।३)। व्याख्यां कुर्वाणः।
  • ‘इति शुश्रुम पूर्वेषां ये नस्तद् व्याचचक्षिरे’ (केन १।३)। व्याख्यातवन्त इत्यर्थः।
  • ‘दक्षिणतो ब्रह्माणमुपवेश्य चतुर्होतॄन् व्याचक्षीत’ (ऐ० ब्रा० ५।२३)। इहोच्चैरुच्चारणं व्याख्यानम्। चतुर्होतृनामकान् मन्त्रानुच्चारयेदित्यर्थः।

दा

  • {व्यादा}
  • दा (डुदाञ् दाने)।
  • ‘एतमु एवान्ततोऽवित्त्वोत्क्रामति व्याददात्येवान्ततः’ (छां० उ० १।२।९)। व्याददाति व्यातास्यो भवति। मुखं व्याददाति (आङो दोऽनास्यविहरणे १।३।२० सूत्रे वृत्तिस्थं प्रत्युदाहरणम्)। विहरति विवृणोतीत्यर्थः। नदी कूलं व्याददाति। विदारयतीत्यर्थः। विपादिकां व्याददाति। पादस्फोटो विपादिका। व्याददाति विपाटयति। व्यादत्ते पिपीलिका पतङ्गस्य मुखम्। विवृणोतीत्यर्थः। मुखं व्यादाय स्वपिति। व्यादाय विवृत्य।

दिश्

  • {व्यादिश्}
  • दिश् (दिश अतिसर्जने)।
  • ‘तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह’ (रा० ३।४।२४)। व्यादिदेश उवाच। दिशिरुच्चारणक्रिय इति भाष्यम्।
  • ‘किन्तु व्यादिश मे देशं सोदकं बहुकाननम्। यत्राश्रमपदं कृत्वा…’ (रा० ३।१३।११)॥ व्यादिश, निर्दिश, कथय।
  • ‘समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य’ (कु० ३।२१)। व्यादिश्यत आदिश्यते आज्ञाप्यते। अतिरिक्तो विः।
  • ‘व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः’ (भा० आश्व ८५।२०)। दीयन्तामित्यादिदेशेत्यर्थः।
  • ‘आसनं चास्य भगवान्वसिष्ठो व्यादिदेश ह’ (रा० १।५२।२)।
  • ‘व्यादिदेश सबाह्यानां भक्ष्य-भोज्यमनुत्तमम्’ (भा० भीष्म० १।१०)। उक्तपूर्व एवार्थः।
  • ‘यद् व्यादिशेत्कार्यमवेक्ष्य धर्मम्…’ (रा० २।२१।५९)। व्यादिशेत्=आदिशेत्।
  • ‘शीघ्रं व्यादिश नौ राजन्वधायैषाम्’ (रा० ५।८९।५१)। उक्तोऽर्थः।
  • ‘दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः। सृज्यतां प्रार्थनीयैका प्रमदा’ (भा० आदि० २११।११)॥ पूर्वेण समानोऽर्थः।
  • ‘नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति’ (भा० वन० १७९।४८)। व्यादिदेश विससर्ज, प्रेषयामास। व्यादिशत् सैनिकान्कांश्चित् ऋष्यशृङ्गाय। उदितचर एवार्थः।
  • ‘प्रजापतिर्देवेभ्यो यज्ञान् व्यादिशत्’ (तै० सं० १।७।३।२)। विभज्याददात्। यज्ञेषु तेषु तेष्वाभजत देवानित्यर्थः।
  • ‘नक्तंचराणां भूतानां व्यादिदेश बलिं तदा’ (भा० आश्व० ६५।९)। व्यादिदेश जहार ददौ।
  • ‘प्रजापतिर्देवेभ्यो भागधेयानि व्यादिशत्’ (काठक० १०।१०)। विभज्याददात्। व्यतरत्।
  • ‘तं (पुरोडाशं) यजमानो व्यादिशतीदं ब्रह्मण इदं होतुरिदमध्वर्योरिदमाग्नीध्र इति’ (आप० श्रौ० ३।१।३।३)। व्यादिशति। विविधं विविच्य आदिशति निर्दिशति।
  • ‘एकादश (गाः) दक्षिणा व्यादिशति’ (का० श्रौ० २२।१५)। निर्दिशतीत्यर्थः।
  • ‘अपश्यत महात्मानं (मणिभद्रं) व्यादिशन्तं (देवतानां) युधिष्ठिर’ (भा० शां० २७१।१५)। देवेभ्यः फलयाचकान् निवेदयन्तम्। अथवा देवाज्ञया याचकेभ्यः फलानि समर्पयन्तम् (नीलकण्ठः)।
  • ‘व्यादेशः सर्वयोधानामद्यैव क्रियतामिह’ (रा० ५।८१।५४)। व्यादेश आदेशः।
  • ‘अन्वेषणेऽनिरुद्धस्य चरान्व्यादिष्टवांस्तदा’ (हरि० २।१२१।३५)। व्यादिष्टवान् आदिष्टवान्। स चरान् दिष्टवांस्तदेति पाठान्तरम्।
  • ‘ते ह देवा ऊचुः। व्यादिष्टोऽयं देवताभ्यो यज्ञः’ (श० ब्रा० ४।१।२।७)। विभज्य वितीर्ण इत्यर्थः।
  • ‘ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे’ (हरि० १।४।१)।
  • ‘प्रजापति र्देवेभ्यो यज्ञान् व्यादिशत्। स आत्मन्यश्वमेधमधत्त’ (तै० ब्रा० ३।८।१४।१)। वाक्यशेषपरिपूर्त्तये पुनरुपादानम्। अर्थस्तु प्राङ्निर्दिष्टः।

दीप्

  • {व्यादीप्}
  • दीप् (दीपी दीप्तौ)।
  • ‘क्षणेन सर्वे विहिताः प्रदीपा व्यादीपयन्तो ध्वजिनीं तवाशु’ (भा० द्रोण० १६३।१७)। व्यादीपयन्तः=सविशेषं प्रकाशयन्तः।

दृश्

  • {व्यादृश्}
  • दृश् (दृशिर् प्रेक्षणे)।
  • ‘व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम्’ (भा० पु० ३।१७।६)। व्यादृश्यते व्यक्तं दृश्यते।

धा

  • {व्याधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘स चेद् व्याधीयीत… सर्वं प्राश्नीयात्’ (बौ० ध० २।१।१।२०)। व्याधीयीत व्याधितः, उपतप्तः स्यात्, रुज्येत।
  • ‘एतद्वै परमं तपः। यद् व्याहितस्य तप्यते’ (श० ब्रा० १४।८।११।१)। व्याहितो व्याधितो रुग्णः।
  • ‘प्रेतो यन्तु व्याध्यः’ (अथर्व० ७।११९।२)। व्याध्यः विशिष्टा मनोनिष्ठाः पीडाः। आधय इत्यर्थः। विविधान्याध्यानानि वेति सायणः। व्याधीयतेऽपथ्यैरिति स्वामी। व्याधीयते विरुद्धो विपरीतः सञ्जन्यते।
  • ‘न छन्दो व्याधीयते’ (पञ्च० ब्रा० १६।११।१३)। व्याधीयते भिद्यते।

धु

  • {व्याधु}
  • धु (धुञ् कम्पने)।
  • ‘करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम्’ (शा० १।२१)। व्याधुन्वत्या इतस्ततश्चलयन्त्याः।
  • ‘व्याधूयन्ते निचुलतरुभिर्मञ्जरी चामराणि’ (विक्रम० ४।४)। विविधं वीज्यन्ते।

नी

  • {व्यानी}
  • (णीञ् प्रापणे)।
  • ‘यदि प्रतिप्रस्थातुः पृषदाज्यं भवति तत्स द्वेधा व्यानयते’ (श० ब्रा० २।५।२।४१)। स्रुक्षु प्रत्येकमासिञ्चतीत्यर्थः।

पद्

  • {व्यापद्}
  • पद् (पद गतौ)।
  • ‘पवित्रं हि सोमो न तस्मिन्भक्षिते पात्रं व्यापद्यते’ (मी० शा० भा० ३।५।२२)। व्यापद्यते दुष्यतीत्यर्थः।
  • ‘न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः। किञ्चिद् व्यापद्यते तत्र…’ (भा० द्रोण० ८४।३४)। व्यापद्यते हिंस्यते हीयते विक्रियते।
  • ‘तेषामन्तर्हितधर्माणामधर्म-प्रधानानामपक्रान्तदेवतानामसवो व्यापद्यन्ते’ (चरक० विमान० ३।२४)। व्यापद्यन्ते विक्रियन्ते।
  • ‘यत्र विसर्जनीयो व्यापद्यते’ (ऋ० प्रा० ४।११)। व्यापद्यते लुप्यते। न श्रूयते इत्यर्थः।
  • ‘शीतोष्णवातवर्षाणि खलु विपरीतान्योषधीर्व्यापादयन्त्यपश्च’ (सुश्रुत० १।२१।११)। व्यापादयन्ति दूषयन्ति विकृतिं नयन्ति।
  • ‘अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्’ (भा० आदि० ३७।२०)। व्यापादयेत् प्रणाशयेत्।
  • ‘यदि तावन्तरेणान्यो दीक्षेत लोकमोषधिभिर्व्यापादयेत्’ (गो० ब्रा० पू० ४।२)। व्यापादयेद् विहीनं कुर्यात्।
  • ‘व्यापन्नेस्मिन् महत्यर्थे यत्नः श्रेयस्तदुच्यताम्’ (भा० सौप्तिक० १।६९)। व्यापन्ने व्यृद्धे विनष्टे।
  • ‘अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम्’ (मेघ० १।१०)। अव्यापन्नाम्=जीवाम्, जीवन्तीम्, ध्रियमाणाम्।
  • ‘औदासीन्यं न युक्तं प्रियसुहृदि गते मत्कृते चातिघोराम्। व्यापत्तिं…’ (मुद्रा० ६।२१)। व्यापत्तिं विपत्तिम्।
  • ‘तस्य व्यापदमनुशोचत्यात्मव्यापदं मन्वानः’ (यो० सू० २।५ भाष्ये)। व्यापदं विपत्तिम्।
  • ‘योनिव्यापादो बीजोपघातश्च’ (न्याय २११५८ वात्स्यायन भा०)। योनिव्यापादो योनिविकारः।
  • ‘व्यापादो द्रोहचिन्तनम्’ (अमरः)।
  • ‘इत्युदीर्य नृपः सुज्जेः सज्जो व्यापादसिद्धये’ (राज० ८।२११०)। व्यापादो निबर्हणम् प्रमापणम्।
  • ‘व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा’ (भा० शां० २६३।३४)। कर्मणां कर्मफलानां व्यापत्तिरसिद्धिर्विलोपो विनाशः।
  • ‘प्रधानद्रव्यव्यापत्तौ साङ्गावृत्तिस्तदादेशात्’ (का० श्रौ० १।७।२७)। व्यापत्तिर्विनाशः।
  • ‘अथाप्यन्तव्यापत्तिर्भवति ओघो मेघो नाधो गाधो वधूर्मध्विति’ (नि० २।२१)। व्यापत्तिर्विकारः।
  • ‘हन्तेः पाठार्थे वर्तमानस्य… वर्णव्यापत्त्या ओघशब्दवद् हकारस्थाने घकारः’ (नि० १।१।६ इत्यत्र दुर्गः)। उक्तोऽर्थः।
  • ‘तस्मात्तदा गर्भस्य जन्म व्यापत्तिमद् भवति’ (चरक० शारीर० ४।२४)। मरणाय भवतीत्यर्थः। यदि पङ्कमग्नां समुद्धरतां परिश्रमेण गोर्व्यापत्तिः स्यान्न तदोद्वर्तारो दुष्येयुः। व्यापत्तिर्मरणम्।
  • ‘न तत्र कर्मणो व्यापत् कथंचिदपि विद्यते’ (भा० द्रोण० १११।३२)। व्यापद् विनाशः फलवैधुर्यम्।
  • ‘व्यापादयन्ति ते विघ्नान्’ (कथा० १२०।२०)। व्यापादयन्ति विशेषेणापादयन्ति प्रापयन्ति, उत्पादयन्ति।
  • ‘व्यापन्नानि हवींषि केशनखकीटपतङ्गैरन्यैर्वा बीभत्सैः’ (आश्व० श्रौ० ३।१०।२०)। व्यापन्नानि दूषितानि विकृतानि।
  • ‘रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम्। अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते’ (सुश्रुत० सू० १४।६)॥ अव्यापन्ना अविकृताः।
  • ‘तत्राव्यापन्नेष्वृतुष्वव्यापन्ना ओषधयो भवन्ति’ (सुश्रुत० १।६।१७)। व्यापादो वैपरीत्यं शीतोष्णादीनाम्।
  • ‘विषमं वा ज्वरं कुर्याद् बलव्यापादमेव वा’ (सुश्रुत० उत्तर० ३९।५६)। बलव्यापादो बलापचयः।
  • ‘त एव (वातपित्तश्लेष्माणः) व्यापन्नाः प्रलयहेतवः’ (सुश्रुत० सूत्र० २१।३)। व्यापन्ना विकृताः। न च सन्धयः।
  • ‘व्यापादितास्तथा हन्युः…’ (सुश्रुत० शरीर० ५।३५)। व्यापादिता आहताः।

पृ

  • {व्यापृ}
  • पृ (पृङ् व्यायामे)।
  • प्रायेणायं व्याङ्पूर्वः। अद्यत्वे कथमात्मना व्याप्रियसे। (इति वयम्)। क्व कर्मण्यासक्तिमान् भवतीत्याह। कथमात्मा व्यापार्यते। पूर्वेण समानोऽर्थः।
  • ‘व्यापारयामास करं किरीटे’ (रघु० ६।१९)। व्यापारयामास हस्तं न्यास।
  • ‘(उमामुखे) व्यापारयामास विलोचनानि’ (कु० ३।६७)। लोचनत्रितयं प्रेरयामास पातयामासेत्यर्थः।
  • ‘मा व्यापृतः परकार्येषु भूस्त्वम्’ (भा० सभा० ६४।६)। परकार्येषु मा स्म प्रसाङ्क्षीः , मात्मानं व्यापीपरः।
  • ‘…वनद्विपानां त्रासार्थं…व्यापारितः शूलभृता’ (रघु० २।३८)। व्यापारितो नियुक्तः।
  • ‘व्यापारितं शिरसि शस्त्रमशस्त्रपाणेः’ (वेणी० ३।१९)। व्यापारितं प्रयुक्तं प्रहृतम् प्रास्तम्।

भाष्

  • {व्याभाष्}
  • भाष् (भाष व्यक्तायां वाचि)।
  • ‘व्याभाषमाणाश्चान्योन्यम्’ (भा० वन० २५२।१५)। व्याङोर्योऽर्थः कमव्यतिहारलक्षणः सोऽन्योन्यमित्यनेनैवोक्तः। तेन शब्दोपजनः केवलं नार्थोपजनः।
  • ‘इङ्गिताना प्रकारैश्च रूप व्याभाषणेन च’ (रा० ४।२।२४)। व्याभाषरण विविधमाभिमुख्येन भाषरणम्। तत्तत्प्रसङ्गे दीयमानेनोत्तरेणेत्यर्थः।
  • ‘तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च’ (रा० ६।१२५।१५)। आभिमुख्येन विविधं भाषणं व्याभाषितम्।
  • ‘व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टताऽनयोः’ (रा० ४।२।२७)। उक्तोऽर्थः।

मृश्

  • {व्यामृश्}
  • मृश् (मृश आमर्शने। आमर्शनं स्पर्शः)।
  • ‘तेषां भुजपरामर्श-व्यामृष्टपरिघाशनि’ (राक्षसानां बलम्) (रा० ६।७५।६०)। व्यामृष्टाः संस्पृष्टाः परिघाः परिघातनाः।

यम्

  • {व्यायम्}
  • यम् (यम उपरमे)।
  • ‘व्यायच्छत्स शरान्कर्णः कुन्ती-पुत्र-जिघांसया’ (भा० द्रोण० १४०।७३)। व्यायच्छत् अक्षिपत्, प्रास्यत्।
  • ‘ब्राह्मणश्च शूद्रश्च चर्मकर्ते व्यायच्छेते’ (तै० ब्रा० १।२।६)। व्यायच्छेते विवदेते कलहायेते।
  • ‘शूद्रार्यौ चर्मणि परिमण्डले व्यायच्छेते’ (का० श्रौ० १३।३।९)। मदीयमिदं मदीयमिदमिति स्पर्धया स्वामिमुखं बलादाकर्षत इत्यर्थः। विवदेते कलहायेते इति तु कश्चिदन्यः।
  • ‘राष्ट्रे व्यायच्छन्ते येऽश्वं रक्षन्ति’ (श० ब्रा० १३।१।६।३)। राष्ट्रे राष्ट्रस्यार्थे व्यायच्छन्ते संग्रामयन्ते इत्यर्थः।
  • ‘अन्योन्यस्पर्धया राजन् व्यायच्छन्त महारथाः’ (भा० भीष्म० ४४।२४)। व्यायामं चक्रुरित्यर्थः।
  • ‘व्यानो व्यायच्छते येन’ (हरि० १।४०।५८)। व्यायामं बलसाध्यं कर्म करोतीत्यर्थः।
  • ‘इदं श्रेयः परमं मन्यमाना व्यायच्छन्ते मुनयः’ (भा० वन० १८६।२६)। व्यायच्छन्ते परमं यतन्ते। उद्यच्छन्ते। उद्यममाचरन्ति।
  • ‘स कस्मात्त्वं जानतां ज्ञानवान्सन् व्यायच्छसे सञ्जय कौरवार्थे’ (भा० उ० २९।१७)। व्यायच्छसे निग्रहं करोषीति नीलकण्ठः।
  • ‘ततो व्यायच्छतामस्त्रैः पृथक्पृथगजिह्मगैः’ (भा० द्रोण० १२९।३९)। व्यायच्छतां प्रहरताम्।
  • ‘वरं व्यायच्छतो मृत्युर्न गृहीतस्य बन्धने’ (मृच्छ० ६।१७)। व्यायच्छतो युध्यमानस्य।
  • ‘तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः’ (रा० ३।५१।४१)। उक्तोऽर्थः। अन्ये तु वीरा नृपपुत्रपौत्राः कृष्णागतैर्नेत्रमनःस्वभावैः।
  • ‘व्यायच्छमाना ददृशुर्न तान्वै सन्दष्टदन्तच्छदताम्रनेत्राः’ (भा० आदि० १८७।११)। व्यायच्छमाना व्याददानाः। चक्षुः प्रसार्य कृष्णां द्रौपदीमेव ददृशुर्न पाण्डवान्।
  • ‘व्यश्वौ गदाव्यायतसम्प्रहारौ’ (रघु० ७।५२)। व्यायतो दीर्घः।
  • ‘कंसोपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान्’ (वि० पु० ५।२०।८२)।
  • ‘तन्न मे दानातिशयव्यवसाये विघ्नाय व्यायन्तुमर्हन्ति भवन्तः’ (अवदा० जा० २)। व्यायन्तुम् उद्योक्तुम् उद्यन्तुम्।
  • ‘व्यायामेन परीप्सस्व जीवितं कौरवात्मज’ (भा० वि० ६९।६)। व्यायामेन नित्यं देशान्तरसंचारेण।
  • ‘रक्षांसि व्यायामे सहामहे’ (अथर्व० २।४।४)। व्यायामे संचरणे। सहामहेऽभिभवामः।
  • ‘अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः’ (भा० शां० २१।७)। व्यायामो युद्धम्।
  • ‘व्यायामकृतसंकल्पः सरयूमन्वगां नदीम्’ (रा० २।६३।२०)। व्यायामो मृगयाविहारः।
  • ‘श्रमव्यायामकुशलाः समपद्यन्त यौवनम्’ (भा० आदि० १०९।१८)। व्यायामो बाहुयुद्धाद्यभ्यासः।
  • ‘व्यायामं मुष्टिभिः कृत्वा तलैरपि समागतैः’ (भा० वन० १६७।४०)। व्यायामः सङ्घट्टनम्।
  • ‘व्यायामसहमत्यर्थम्’ (भा० वि० )। आकर्षणसमर्थम्।
  • ‘ते (देवाश्चासुराश्च) आदित्ये व्यायच्छन्त’ (तै० ब्रा० १।२।६।६)। व्यायच्छन्ताऽकलहायन्त। आदित्योऽयमस्माकमेव स्यादिति।
  • ‘अथ या सहस्रतम्यासीत्तस्यामिन्द्रश्च विष्णुश्च व्यायच्छेताम्’ (तै० सं० ७।१।५)। व्यायच्छेतां विप्रतिपन्नावभवतामिति भट्टभास्करः।
  • ‘सोऽयं व्यायामकालो नोत्सवकालः’ (मुद्रा० ३)। व्यायामो युद्धम्।

रभ्

  • {व्यारभ्}
  • रभ् (रभ राभस्ये)।
  • ‘यदृचैव हौत्रं क्रियते यजुषाऽऽध्वर्यवं साम्नोद्गीथं व्यारब्धा त्रयी विद्या भवति (ऐ० ब्रा० ५।३३)। व्यारब्धा सम्यग् दृढं वा सर्वतो वा धृता भवति।

लभ्

  • {व्यालभ्}
  • लभ् (डुलभष् प्राप्तौ)।
  • ‘यत्रैतत् पशवो मनुष्या वयांसीति वाचं व्यालभन्ते’ (शां० ब्रा० ११।८)। व्यालभन्ते आददते।

वर्ण्

  • {व्यावर्ण्}
  • वर्ण् (वर्ण वर्णक्रियाविस्तारगुणवचनेषु)।
  • ‘हर्षराजाश्रया चर्चाकथा व्थावर्णयिष्यते’ (राज० ७।८७३)। व्यावर्णयिष्यते। उपवर्णयिष्यते, विस्तरेण वर्णयिष्यते।
  • ‘व्यावर्णितमिदं चेष्टमलङ्कारतयैव नः’ (काव्या० २।३६७)। उक्तोऽर्थः।
  • ‘परवञ्चनात्मकान्यपि छलजातिनिग्रहस्थानानि तत्त्वरूपतयोपदिशतोऽक्षपादर्षेर्वैराग्यव्यावर्णनं तमसः प्रकाशात्मकत्वप्रख्यापनमिव’ (स्याद्वाद० १०, हैमः)। विस्पष्टोऽर्थः।

वृ

  • {व्यावृ}
  • वृ (वृञ् वरणे)।
  • ‘व्यावृणु वरवर्णिनि विवक्षितम्’ (हर्ष० प्र० उच्छ्वासे)। प्रकटयेत्यर्थः।
  • ‘गाण्डीवमुक्तैरिषुभिर्महात्मा सर्वा दिशो व्यावृणोदप्रमेयः’ (भा० द्रोण० १४५।९३)। व्यावृणोद् विशेषेणाच्छादयत्।
  • ‘गावो न व्रजं व्युषा आवर्तमः’ (ऋ० १।९२।४)। व्यावः=विवृतमपश्लिष्टमकरोत्।
  • ‘ततो व्यावृत्य वदनं महाचलगुहानिभम्’ (मात्स्य पु० १५२।१९)। व्यावृत्य, विवृत्य, व्यादाय।

वृज्

  • {व्यावृज्}
  • वृज् (वृजि वृजी वर्जने)।
  • ‘तामन्नाद्याय व्यावृज्यासते’ (पञ्च० ब्रा० १०।३।९)।
  • ‘तां चतुर्धा व्यावृज्य गायेत्’ (षड्० ब्रा० २।२)। व्यावृज्य विभज्य।
  • ‘ऊरुवातविनिर्भिन्ना द्रुमा व्यावर्जिताः पथि’ (भा० वन० १७९।५२)। व्यावर्जिता भुग्नाः।

वृत्

  • {व्यावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘व्यावर्तत नदी भीता हलमार्गानुसारिणी’ (हरि० २।४६।३५)। व्यावर्तत विविधं प्रवोढुं प्रवृत्ता।
  • ‘बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते’ (भा० आश्व० १७।७)। व्यावर्तते निवर्तते परावर्तते, अपैति।
  • ‘युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः। धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः’ (भा० वन० १४९।३६)॥ व्यावर्तते आवर्तते आवृत्त्या पुनरुपतिष्ठते।
  • ‘समाना ऋतव एकेन पदेन व्यावर्तन्ते’ (तै० सं० ५।३।१।२)। व्यावृत्ता व्यतिरिक्ता भिन्ना भवन्ति।
  • ‘वाक् सृष्टा न व्यावर्तत’ (काठक० २७।३)। न व्यावर्तत–अव्याकृताऽऽसीत्।
  • ‘द्वा वा एता अस्य पन्थाना अन्तर्बहिश्चाहोरात्रेणैतौ व्यावर्तेते’ (मैत्र्युप० ६।१)। व्यावर्तेते अहोरात्रेण=अह्ना रात्र्या चात्मानं विविङ्क्तः।
  • ‘लौकिक्या वाचा व्यावर्तते ब्रह्म’ (आप० ध० १।४।१३।७)। मिश्रं न भवतीत्यर्थः।
  • ‘ते समावद्वीर्या एवासन्न व्यावर्तन्त’ (ऐ० ब्रा० ३।४९)। विवादं न व्यवातिष्ठिपन्, न समापयन्।
  • ‘अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते। न यावदभ्यपद्येतां व्यावर्तदथ भास्करः’ (भा० द्रोण० ९८।५३)॥ व्यावर्तत मध्याह्नतः परावृत्तोऽभूत्। अवालम्बत।
  • ‘संशयः… हृदि व्यावर्तते लोलः कल्लोल इव सागरे’ (यो० वा० ४।२१।२)। व्यावर्तते भ्राम्यति।
  • ‘ताः सृष्टाः पराच्य एवायन् न व्यावर्तन्त’ (ऐ० ब्रा० ३।३६)। ताः (प्रजाः) न व्यावर्तन्त न पुनरागताः।
  • ‘मखस्य शिरोसीति पिण्डं कृत्वा यथाभागं व्यावर्तेथामिति विभज्य’ (आप० श्रौ० १।८।२४।५)। व्यावर्तेथाम्=प्रथग्भवेतम्।
  • ‘शुक्लादयो हि गवादिकं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्तयन्ति’ (सा० द०)। व्यावर्तयन्ति पृथक्कुर्वन्ति।
  • ‘व्यावर्तये रथं तूर्णं नदीवेगमिवार्णवात्’ (भा० कर्ण० २६।१४)। व्यावर्तये निवर्तये।
  • ‘इमे जीवा वि मृतैराववृत्रन्’ (ऋ० १०।१८।३)। व्याववृत्रनु=व्यावीवृतन्। विविञ्चन्ति पृथक्कुर्वन्त्यात्मानमित्यर्थः।
  • ‘व्यावर्तमानं तु महद् भवद्भिः पुण्यकीर्तिभिः। धृतं यदुकुलम्…’ (हरि० २।२२।१९)। व्यावर्तमानम्=विनश्यत्।
  • ‘व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता’ (रघु० १।२७)। व्यावृत्ता निवृत्ता व्यपगता।
  • ‘(सा मृता) व्यावृत्तनेत्रभ्रमरा पद्मिनीव हिमाहता’ (कथा० ५२।१५२)।
  • ‘व्यावृत्तं लक्ष्म सोमस्य’ (भा० भीष्म० २।३२)। व्यावृत्तम् अपगतम्।
  • ‘व्यावृत्तेऽर्यम्णि’ (भा० द्रोण० १।२१)। परावृत्ते सूर्ये लम्बमाने दिवाकरे।
  • ‘लभे जातमशाखाजं बहुपर्णशाखमप्रतिशुष्काग्रमसुषिरमव्यावृत्त०’ (आप० श्रौ० ७।१।११७)। अव्यावृत्तोऽवलितः। पलाशादेरव्यावृत्तस्य यूप कुर्यादित्याह।
  • ‘सोमपीथस्य चैषा सुरापीथस्य च व्यावृत्तिः’ (ऐ० ब्रा० ८।८)। व्यावृत्तिर्भेदः।
  • ‘अव्यावृत्तिं यज्ञाङ्गैरव्यवायं चेच्छेत्’ (खा० गृ० १।१२५)। अव्यावृत्तिम् अपराङ्मुखताम्।
  • ‘ऋतुव्यावृत्तौ सूयवसे’ (आप० श्रौ० ७।८।२८।७)। व्यावृत्तौ परिवृत्तौ।
  • ‘न श्रदधाम्युदयनग्रहणं त्वयोक्तं व्यावर्तनं करतलैरिव मन्दरस्य’ (प्रतिज्ञा० २।९)। व्यावर्तनं भ्रमणम्।
  • ‘य एवं विद्वान् व्यावृत्य दक्षिणां प्रतिगृह्णाति’ (तै० ब्रा० २।२।५।१)।
  • ‘ततो वा इदं व्यावर्तत’ (पञ्च० ब्रा० २४।११।२)। व्यावर्तत व्यरमत्।
  • ‘वैयावृत्त्यं करिष्यामि दिव्यौषधिविधानतः’ (बृ० क० को० १०२।१२)। वैयावृत्त्यं चिकित्साम्, रोगापनयनम्।
  • ‘ते (अग्नयः) यदव्यावृत्ता आधीयेरन्’ (तै० ब्रा० १।१।८।१)। अव्यावृत्ताः समुदिताः।
  • ‘सर्वं ह वै तत्र व्यावृत्तं भवति’ (तै० ब्रा० ३।९।१९।२)। व्यावृत्तमितरविलक्षणम्।
  • ‘न वा इदं दिवा न नक्तमासीदव्यावृत्तं ते देवा मित्रावरुणावब्रुवन् इदं नो विवासयतम्’ (तै० सं० ६।४।८)। अव्यावृत्तमविभक्तम्। विवासयतं विभज्य स्थापयतम्।

व्यध्

  • {व्याव्यध्}
  • व्यध् (व्यध ताडने)।
  • ‘विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः’ (भा० भीष्म० १२१।२८)। व्याविध्यन् प्राक्षिपन्।
  • ‘गर्भो व्याविद्धं परिवर्तते’ (का० सं० खिल० रक्त० श्लो० ५७)। इदं क्रियाविशेषणम्। आविद्धं कुटिलं भुग्नमिति चामरः। तेन विरत्रातिरिक्तः सुपरिहरः।
  • ‘क्व च शस्त्रं क्व च क्षात्रं तपः क्व च वनं क्व च व्याविद्धमिदम्’ (रा० ३।९।२७)।’ व्याविद्धं परस्परव्याहतम्, संकुलम्।
  • ‘अथ तं भग्नसर्वाङ्गं व्याविद्धनयनाम्बरम्’ (भा० वि० २२।७७)। परित्यक्तनेत्राभिधानदुकूलवसनम्।
  • ‘चिक्षेप तरसा वीरो व्याविध्य (गदां) सत्यविक्रमः’ (भा० वन० १६।१९)। व्याविध्य भ्रमयित्वा।
  • ‘अभ्याहतो घटः, येन तस्योपरि शतकपालो व्याविद्धसक्तुर्निपतितः’ (तन्त्रा० ५।१)। व्याविद्धसक्तुर्विकीर्णसक्तुः। धानाचूर्णं सक्तवः स्युः (इत्यमरः)।
  • ‘व्याविद्धैरिव मीननक्रमकरैः’ (मृच्छ० ५।५)। व्याविद्धैर्भ्रान्तैः।

श्रि

  • {व्याश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘वृक्षाश्चौषधयश्चैव व्याश्रयन्त परस्परम्’ (भा०)। व्याश्रयोऽन्योन्याश्रयः।
  • ‘षष्ठ्या व्याश्रये’ (पा० ५।४।४८)। **व्याश्रयो नानापक्षसमाश्रयः। देवा अर्जुनतोऽभवन्। आदित्याः कर्णतोऽभवन्निति व्याश्रयस्योदाहरणं वृत्तौ स्थितम्। व्याश्रिताश्च भवन्ति। केचित्कंसभक्ताः केचिद् वासुदेवभक्ताः। (हेतुमति च ३।१।२६ सूत्रे भाष्ये)। व्याश्रिता नानापक्षसमाश्रिताः।

श्रु

  • {व्याश्रु}
  • श्रु (श्रु श्रवणे)।
  • ‘मा वि वेनो वि शृणुष्वा जनेषु’ (तै० ब्रा० २।४।७।८)। विशेषेण शृण्वित्यर्थः।

सञ्ज्

  • {व्यासञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘बाहूबाहवि व्यासजेताम्’ (शिशु० १८।१२)। आसत्त्याऽयुध्येताम् इत्यर्थः। कर्मव्यतिहार आत्मनेपदम् इति मल्लिः। तथा सति यकि सति व्यासज्येतामिति स्यात्। छन्दोभङ्गश्च स्यात्।
  • ‘तारापीडो व्यासङ्गविघातार्थं बहिर्नगराद्… विद्यामन्दिरमकारयत्’ (काद०)। व्यासङ्गश्चित्तस्यान्यत्र गमनम्। व्यासज्यवृत्तिर्धर्मः। अनेकद्रव्यसमवेतो गुणादिः।

सिध्

  • {व्यासिध्}
  • सिध् (षिध गत्याम्, षिधू शास्त्रे माङ्गल्ये च)।
  • ‘तत्सर्वं निन्दयामासुर्यज्ञव्यासेधकारिणः’ (वि० पु० १।६।३०)। व्यासेधो विरोधो निषेधः।
  • ‘यत्रेदमुक्तमैकान्तिकत्वं व्यासेधद्भिः’ (योग सू० २।२३ इत्यत्र वैशारद्यां वाचस्पतिमिश्रः)। प्रतिषेधद्भिरित्यर्थः।

स्था

  • {व्यास्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘आ ते राष्ट्रमिह रोहितोऽहार्षीद् व्यास्थन् मृधः’ (अथर्व० १३।१।३५)। व्यास्थन् मृधः शत्रवो विप्रस्थिताः, नाना दिशो भेजुरित्यर्थः।
  • ‘व्यास्थापयति’ (तै० ब्रा०)। नाना दिक्षु विसृजतीत्यर्थः।

हन्

  • {व्याहन्}
  • हन् (हन हिंसागत्योः)।
  • ‘पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः।’ (कौ० अ० २।१०।२८)।
  • ‘व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्’ (भा० आश्व० ४९।१)। व्याहतां परस्परविरुद्धां, संकुलाम्।
  • ‘न ते कञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे’ (रा० २।१०।३४)। न ते कामपीच्छां विहन्तुं प्रत्यूहितुं विरोद्धुमीहे।
  • ‘क्व चारण्यं क्व च क्षात्रं क्व च पालनम्। ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति’ (रा० २।१०६।१८)॥ व्याहतं विप्रतिषिद्धम्

हृ

  • {व्याहृ}
  • हृ (हृञ् हरणे)।
  • ‘यदि व्याहरते राजन्विप्राणां धर्मवादिनाम्। ततो धर्मकृतात् क्षिप्रमपवादात्प्रमुच्यते’ (भा० अनु० ११२।६)। व्याहरते संभाषते विप्रैरित्यर्थः।
  • ‘अनुत्पन्नेषु वाक्येषु चोद्यमाना विवक्षया। किं नु पूर्वं तदा देवी व्याजहार सरस्वती’ (भा० आश्व० २१।२४)॥ व्याजहार उवाच। किं नु तत्त्वं विशेषेण आजहार आहृतवतीति तु नीलकण्ठः।
  • ‘प्रश्नानुच्चरितानद्य व्याहरिष्यसि चेन्मम’ (भा० वन० १८०।१७)। व्याहरिष्यसि वक्ष्यसि प्रतिवक्ष्यसि।
  • ‘स्नातस्तु वरुणस्तेजो जुह्वतोऽग्निः श्रियं हरेत्। भुञ्जानस्य यमस्त्वायुस्तस्मान्न व्याहरेत् त्रिषु’ (कृत्य० द्वि० खण्डे समुद्धृतं शातातप-वचनम्)॥ न व्याहरेन्नोच्चारयेच्छब्दम्। वाग्यतः स्यात्, जोषमासीत्।
  • ‘ततो राज्ञो धृतराष्ट्रस्य गृहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे’ (भा०)। व्याहरत्=अक्रोशत्, अरौत्।
  • ‘वृतो गोपालकैः प्रीतो व्याहरत् कुरुनन्दन’ (भा० वन० २४०।६)। व्याहरत् व्यहरत्। विहारमकरोत्। आङधिकः।
  • ‘नामभिर्व्याहरन्तौ च सवत्सा गाः परन्तपौ’ (हरि० २।१४।३)। व्याहरन्तौ आकारयन्तौ।
  • ‘अव्याहृतं व्याहृताच्छ्रेयः’ (भा० उ० ३६।१२)। व्याहृतमुच्चारितं वाचाभिव्यक्तीकृतम्।
  • ‘प्रश्नमिच्छामि वै किञ्चिद् व्याहृतं भवता स्वयम्’ (हरि० १।२६।३२)। व्याहृतं प्रत्युक्तमुत्तरितम्।
  • ‘अनुत्पन्ने च कार्यार्थे मां त्वं व्याहृतवानसि’ (भा० द्रोण० ५५।१७)। व्याहृतवान् शप्तवान्। अन्यत्रास्मिन्नर्थे प्रायेणानुव्याहरतेः प्रयोगो दृश्यते।
  • ‘श्ववायसैर्व्याहृतमांसशोणितं परत्र कस्त्वा धनयाच्ञ्या तुदेत्’ (अवदा० जा० २८, श्लो० ४४)॥ व्याहृतमभ्यवहृतं खादितम्। अपूर्वोऽर्थोऽन्यत्र सुदुर्लभः।
  • ‘व्याहार्य स ततस्तत्र सबालस्थविरां पुरीम्’ (बृ० श्लो० सं० २।२८)। आकार्येत्यर्थः।
  • ‘अमानुषाणि सत्त्वानि व्याहृतानि मुहुर्मुहुः’ (रा० ७।४१।१८)। व्याहृतानि व्याहृतवन्ति। अर्शआदित्वादच्। व्याहारो व्यक्तवाक्, तद्युक्तानि।

ह्वे

  • {व्याह्वे}
  • ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
  • ‘उभयतस्तर्हि निविदं व्याह्वयीत’ (व्याह्वयेत्)। उच्चारयेदित्यर्थः।
  • ‘ताभ्यो न व्याह्वयीत’ (ऐ० ब्रा० ६।२१)। नानाऽऽह्वानं न कुर्यादित्यर्थः।