१२६ अध्याङ् (अधि+आङ्)

क्रम्

  • {अध्याक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये’ (शा० २।१४)। अध्याक्रान्ताऽङ्गीकृता।
  • ‘अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च’ (भा० वन० १३८२७)। अध्याक्रम्य उपरि पतित्वा।

चर्

  • {अध्याचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत्’ (मनु० २।११९)। अध्याचरिते श्रेयसा विद्याधिकेनान्येन सह साधारण्येन गुरुणा स्वीकृते शय्यासनेपि नोपविशेत् इत्युक्तं भवति। शय्या चासनं चेति शय्यासनम्। समाहारद्वन्द्वः।

धा

  • {अध्याधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘अंसौ को अस्य तद् देवः कुसिन्धे अध्यादधौ’ (अथर्व० १०।२५)। अध्यादधौ अध्याहितवान्। अध्यारोपितवान्।
  • ‘ग्रीवासु मुखमध्याहितम्’ (ऐ० ब्रा० १।२५,३।४१)।
  • ‘स्कम्भेऽध्यृतमाहितम्’ (अथर्व० १०।७।२९)।
  • ‘अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः’ (वा० प० १।२)। अध्याहिता आरोपिता अध्यस्ताः।

भू

  • {अध्याभू}
  • भू (भू सत्तायाम्)।
  • ‘प्राड्विवाकमध्याभवेत्’ (गौ० ध० २।४।२७)। अधिरुपरिभाव ऐश्वर्ये वा। आङागमने। प्राड्विवाकमुपर्यासीनमधः स्थितश्चिरं वा गुणभूतः सन्नागच्छेत्कार्यार्थीति हरदत्तो मिताक्षरायाम्।

रुह्

  • {अध्यारुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘वसुधा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन’ (रघु० १६।२८)। अध्यारुरोह आरुरोह आरूढवती।
  • ‘बुद्धिहीनोप्युच्छ्रितोपि भूभृत् परै रध्यारुह्यमाणमात्मनं न चेतयते’ (दशकु० १५४)। अध्यारुह्यमाणः परवान् क्रियमाणः परवत्तां नीयमानः।
  • ‘दोषानपि गुणपक्षमध्यारोपयद्भिः’ (काद० १०८)। मिथ्या गुणरूपतां प्रापयद्भिः।
  • ‘ततोऽध्यारूढानां पदमसुजनद्वेषजननम्’ (मुद्रा० ५।१२)। अध्यारूढानामुच्चैरधिकारं गतानाम्।
  • ‘आयुधपरिग्रहं यावदध्यारूढो दुर्योगः’ (उत्तर० ६)। अध्यारूढो वृद्धिं गतः।
  • ‘अध्यारुढा खारी द्रोणेन’ (पा० ५।२।७३ सूत्रे वृत्तौ)। खारी द्रोणान्न्यूनेत्यर्थः।
  • ‘वस्तुन्यवस्तुत्वारोपोऽध्यारोपः’ (वे० सा०)।
  • ‘अधिकार्थवचनम् अध्यारोपितार्थवचनम्’ (पा० २।१।३३ सूत्रवृत्तौ)। असन्नेव बुद्ध्या समारोपितो योऽर्थस्तस्य वचनम्।

वप्

  • {अध्यावप्}
  • वप् (डुवप बीजसन्ताने)।
  • ‘अनेकस्यैकत्राध्यावापः समाहारः’ (स्वामी)। अध्यावापः कृतवापं क्षेत्रम्। अधिकरणे घञ्।

वस्

  • {अध्यावस्}
  • वस् (वस निवासे)।
  • ‘यथा हि शून्यां पथिकः सभामध्यावसेत्’ (रा० १।७०।२)। आवसेत्। अनर्थकोऽधिः।
  • ‘गार्हस्थ्यमध्यावसते यथावत्’ (भा० शां० ६१।१६)। अध्याङोरेकतरेणैवार्थसमर्पणादपरोऽपार्थः।
  • ‘अध्यावसत्ततोऽयोध्यामयोध्यां द्विषतां प्रभुः’ (भा० वन० १४८।१५)।
  • ‘यथा रामां भुवं कश्चिदध्यावसति पुण्यकृत्’ (तन्त्रवा० १।३।३)। अधिवसत्येवार्थः। नार्थ आङा।

वह्

  • {अध्यावह्}
  • वह् (वह प्रापणे)।
  • ‘यत्पुनर्लभते नारी नीयमाना तु पैतृकात्। अध्यावाहनिकं नाम स्त्रीधनं परिकीर्तितम्॥’ निगदव्याख्यातम्।

शी

  • {अध्याशी}
  • शी (शीङ् स्वप्ने)।
  • ‘अध्याशयो वा स्फुटपुण्डरीकं पुराधिराजं तदलञ्चकार’ (बुद्ध० १।९)। अध्याशयः कर्णिका।

हृ

  • {अध्याहृ}
  • हृ (हृञ् हरणे)।
  • ‘अपूर्णस्य वाक्यार्थस्यापेक्षितैः पदैः पूरणमध्याहारः। असतो दोषस्याध्याहारोऽभिशापः।’ अध्याहारस्तर्क ऊह इत्यमरः।