०७१ अनुसम्प्र (अनु+सम्+प्र)

आप्

  • {अनुसम्प्राप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘तदिदं मेऽनुसम्प्राप्तं देवि दुःखं स्वयं कृतम्’ (अवदा० दश० १।११)। अनक्रमेण कालपर्यायेण प्राप्तम् इत्यर्थः।
  • ‘ततः सहस्रं विप्राणां विदुषां समलङ्कृतम्। स्नातानामनुसम्प्राप्तम्…’ (भा० शां० १७१।११)॥ अनुक्रमेण सम्प्राप्तमुपागतम्। सहस्रस्य विप्राणां यौगपद्येन प्राप्तेरसम्भवादनुक्रमद्योतकोऽनुशब्दोऽर्थवान् ननु।