१९५ प्रतिपरि (प्रति+परि)

  • {प्रतिपरी}
  • इ (इण् गतौ)।
  • ‘उल्मुकं त्रिः पुनः प्रतिपर्येति’ (भा० श्रौ० ७।१७।७, का० श्रौ० ५।८।३०)। अप्रदक्षिणं सव्यं परिक्रामतीत्यर्थः।
  • ‘उदकुम्भेनाग्निं त्रिः परिषिच्य त्रिः प्रतिपर्येति’ (वाराह श्रौ० २।२।३।११)। उक्तोऽर्थः।

व्ये

  • {प्रतिपरिव्ये}
  • व्ये (व्येञ् संवरणे)।
  • ‘ऊर्गसि इति नाभिं प्रतिपरिव्ययति’ (आप० श्रौ० १०।३।९।१४)। प्रतिपरिव्ययति सन्नह्यति।