०१४ अपनि

अस्

  • {अपन्यस्}
  • अस् (असु-क्षेपे)।
  • ‘अपन्यस्तम्’ (भा॰शल्य॰५७.९९)। परावृत्त्य पृष्ठतः कृतेन हस्तेन शत्रोस्ताडनमपन्यस्तमुच्यत इति नीलकण्ठः।

धा

  • {अपनिधा}
  • धा (डुधाञ्-धारणपोषणयोः)।
  • ‘प्रह्लादो ह वै कायाधवो विरोचनं स्वं पुत्रमपन्यधत्त नेदेनं देवा अहनन्निति’ (तै॰ब्रा॰१.५.९.१)। अ पन्यधत्त=अगोपायत्=प्राच्छादयत्।
  • ‘अथ ते शिरश्छित्त्वाऽन्यत्रापनिधास्यावः’ (श॰ब्रा॰१४.१.१.२३)। गृहिण्याम इत्याह।
  • ‘अप त्वद् यक्ष्मं निदध्मसि’ (अथर्व॰८.१.२१)। अपनिदध्मसि=वारयामः।
  • ‘एवमु कृत्स्नमेवाग्निमपनिहितमाधत्ते’ (श॰ब्रा॰२.२.१.१५)। अपनिहितो विसृष्टः।
  • ‘अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः’ (अथर्व० १९।२०।२१)। अपन्यधुः=निभृतं निश्चितवन्तः।
  • ‘ते अहोरात्रयोर्महिमानमपनिधाय देवानुपावर्तेताम्’ (तै० सं० ६।१।३।१७)। अपनिधाय अपादाय।

ली

  • {अपनिली}
  • ली (लीङ्-श्लेषणे)।
  • ‘तदेवापि देवा अपन्यलयन्त’ (श॰ब्रा॰४.१.३.१)। न्यह्नुवतेत्याह।

ह्नु

  • {अपनिह्नु}
  • ह्नु (ह्नुङ् अपनयने)।
  • ‘को नु माऽनुशिष्याद्भो इतीहापेव निह्नुते’ (छां० उ० ४।१४।२)। अपनिह्नुत इव=अपह्नवमिव करोति।