१२४ अधि

अञ्ज्

  • {अध्यञ्ज्}
  • अञ्ज् (अञ्जु व्यक्तिम्रक्षणकान्तिगतिषु)।
  • ‘प्रतिचीन आङ्गिरसोऽध्यक्तो नः पुरोहितः’ (अथर्व० १०।१।६)। अध्यक्तः सज्जः सन्नद्धः। अध्यक्ष इति पाठान्तरम्।

अश्

  • {अध्यश्}
  • अश् (अश भोजने)।
  • ‘विरुद्वाध्यशनाजीर्णैस्तथैषात्यशनादपि’ (का० सं० खिल० अन्तर्वत्नी० श्लो० ६७)। प्राग्भुक्तमन्नं यावन्न जीर्यति तावदशनमध्यशनम्। साजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते (सुश्रुते)।

अस्

  • {अध्यस्}
  • अस् (असु क्षेपे)।
  • ‘तयोश्छदिरध्यस्यति’ (का० श्रौ० ८।३।२३)। उपरिष्टान्न्यस्यति। छदिः क्लीबम्। पाणिनीये लिङ्गानुशासने तु छदिः स्त्रियाम् इति सूत्रम्। अन्यत्रापि वैदिके साहित्ये च्छदिः क्लीबं दृष्टम्।
  • ‘सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति। बाह्यधर्मानात्मन्यध्यस्यति’ (शङ्करः)। अध्यस्यति मिथ्याऽऽरोपयति।
  • ‘शुक्तौ रजतमध्यस्तम्। ब्रह्मणि जगदध्यस्तम्।’ उक्तोऽर्थः।
  • ‘अतस्मिंस्तद्बुद्धिरध्यासो मिथ्याज्ञानम्। स्मृतिरूपः परत्र पूर्वदृष्टावभासोऽध्यास इति च शङ्करः’ (ब्र० सू० शां० भा० १।१)।
  • ‘प्रतिषिद्धांस्तथाऽऽचारान् अध्यस्यापि पुनः पुनः’ (बौ० ध० ४।२।२।९)। अध्यवसाय, निश्चित्य।

आस्

  • {अध्यास्}
  • आस् (आस उपवेशने)।
  • ‘सप्तमे मन्त्रमध्यासीत’ (कौ० अ० १।१९।१६)। मन्त्रार्थं (विविक्ते) आसीतेत्यर्थः।
  • ‘अये सिंहासनमध्यास्ते वृषलः’ (मुद्रा० ३)। सिंहासनमधितिष्ठतीत्यर्थः।
  • ‘अध्यास्स्व चिररात्राय पितृपैतामहं पदम्’ (भा० वन०)। अध्यास्स्व=अधितिष्ठ।
  • ‘एवमाकुलतां यातः श्रुत्वाध्यास्यामहे वयम्’ (भा० शल्य० ४३।१०)। अध्यास्यामहे निश्चेष्यामहे।
  • ‘यस्मादसाविमान् विप्रानध्यास्ते प्रतिलोमजः’ (भा० पु० १०।७८।२४)। विप्रापेक्षयोच्चैस्तरमासनमध्यास्ते इतीममर्थं विवक्षति पुराणकारः।
  • ‘वेदा ये अध्यासते’ (ऋ० १।२५।९)। अध्यासते प्रशासति तान् वरुणो वेदेत्याह। वेदा इत्यत्र सांहितिको दीर्घः।
  • ‘यदध्यासितमर्हंद्भिस्तद्धि तीर्थं प्रचक्षते’ (कु० ६।५६)। अध्यासितमध्युषितं सेवितम्।
  • ‘धेन्वा तदध्यासितकातराक्ष्या’ (रघु० २।५२)। तदध्यासिता तेन सिंहेनाध्यासिताऽऽक्रान्ताऽऽरूढा।
  • ‘श्रूयते हि पुराणेपि जटिला नाम गौतमी। ऋषीनध्यासितवती सप्त धर्मभृतां वरा’ (भा० आदि १९६।१४)॥ अध्यासितवती विवाहसम्बन्धेन तैः सहोषितवतीत्यर्थः।
  • ‘पर्णशालामध्यास्य’ (रघु० १।९५)। अध्यास्य अध्युष्येत्यर्थः।
  • ‘पादुके अध्यास्य’ (कथा० ३।५२)। तयोश्चरणन्यासं कृत्वा।
  • ‘भगवत्या प्राश्निकपदमध्यासितव्यम्’ (माल० १)। प्राश्निकासन आसितव्यम्, प्राश्निकाधिकारो ग्रहीतव्य इत्यर्थः।
  • ‘द्वितीयमाश्रममध्यासितुं समयः’ (विक्रम० ५) अध्यासितुं प्रवेष्टुम्।

  • {अधी}
  • इ (इक् स्मरणे)।
  • ‘यदि सुतस्य मरुतोऽधीथ’ (ऋ० ७।५६।१५)। सुतस्याभिषुतस्य सोमस्य स्मरथेत्याह।
  • ‘कियत् स्विदिन्द्रो अध्येति मातुः कियत् पितुः’ (ऋ० ४।१७।१२)। अध्येति स्मरति।
  • ‘अथ यद्यध्वर्योरन्तेवासी वा ब्रह्मचारी वैतद् यजुरधीयात्’ (श० ब्रा० ५।१।५।१७)। अधीयात् विद्यात्, कण्ठगतं विजानीयात्।
  • ‘स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्’ (कठ० उ० १।१३)। अध्येषि वेत्सि।
  • ‘येषामध्येति प्रवसन्’ (अथर्व० ७।६२।३)। अध्येति स्मरति। येषां गृहाणाम्।
  • ‘अधीतीरध्यगादयम्’ (अथर्व० २।९।३)। प्रागधीतान्वेदान् स्मर्तव्यान्पदार्थान्वाऽस्मार्षीत्।
  • ‘अधीयन्त्युपकाराणाम्’ (भट्टि० )। उक्तोऽर्थः
  • ‘यस्याश्वो मेधाय प्रोक्षितोऽध्येति’ (तै० ब्रा० ३।९।१७।४)। अध्येति स्मरति।
  • ‘यं वा नाध्येति’ (तै० सं० २।३।१२।२) उक्तोऽर्थः।

  • {अधी}
  • इ (इण् गतौ)।
  • ‘सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम्। चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम्’ (भा० वन० ६२।१६)॥ अध्यगाद् अवाधारयत्, अवास्यत्, निरचिनोत्।
  • ‘विश्वामित्रोऽध्यगाद्यत्र ब्राह्मणत्वम्’ (भा० ३।८३०९)। अध्यगात् प्रापत्।
  • ‘शिशुरेवाध्यगात् सर्वं परं ब्रह्म सनातनम्’ (भा० अनु० १२१)। अध्यगात् अवेदीत्। अज्ञासीत्, अध्यगीष्ट।
  • ‘अध्यगा नैष्ठिकीं बुद्धिम् (भा० शां० २६२।३)। प्राप्तवानसीत्यर्थः।

  • {अधी}
  • इ (इङ् अध्ययने)।
  • ‘श्लोकं सोऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत्’ (हरि० १।२४।१५)।
  • ‘आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि’ (ऋ० ८।९१।३)। न अधीमसि=नाधीमहे। नावदध्महे, न विजानीमः, न विद्मः।

इष्

  • {अधीष्}
  • इष् (इष इच्छायाम्)।
  • ‘अतस्त्वं समर्थो धर्मान्वक्तुमतोऽधिकृतः सन् अधीष्यसे ब्रूहीति’ (मनु० १।२ इत्यत्र मेधातिथिः)। अधीष्यसे प्रार्थ्यसे, सत्कारपूर्वं व्यापार्यसे इत्यर्थः।
  • ‘अघीच्छामो भवन्तं भवान्माणवकमुपनयेत’ (पा० ३।३।१६१ सूत्रे वृत्तिः)। अधीच्छामः प्रार्थयामहे।
  • ‘धीरधिषणावधूताध्येषणाः’ (हर्ष० १)। अध्येषणा याच्ञा।
  • ‘मासमधीष्टो मासिकोऽध्यापकः’ (पा० ५।१।८० सूत्रे वृत्तिः)। मासं यावत्सत्कारपूर्वकं व्यापारित इत्यर्थः॥
  • ‘अधीष्टं सत्कारपूर्वको व्यापारः’ (काशिका)। अधीष्ट इति पुंसि पाठो वृत्तौ च कौमुद्यां च। पुंस्त्वं चानुपपन्नम् इति पश्यामः। उपनयतां भवान् इमं माणवकमधीष्ट इत्यादिषूपपन्नं नाम पुंस्त्वम्।

ईक्ष्

  • {अधीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘कुहकचकितो लोकः सत्येप्यायमधीक्षते’ (हितोप० ४।१०१)। उत्प्रेक्षत इत्यर्थः। एकाक्षरमधिकं वृत्ते।

ऊह्

  • {अध्यूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘अथोत्तरां जुहूमध्यूहति। यजमानमेवैतद् द्विषति भ्रातृव्येऽध्यूहति’ (श० ब्रा० १।५।३।२०)। अध्यूहति उपरि धत्ते।
  • ‘अथाङ्गारमध्यूहति’ (श० ब्रा० १।२।१।९)। अङ्गारस्योपरि निदधाति।
  • ‘अत्र पत्नीशिरसि कुम्बकुरीरमध्यूहते’ (आप० श्रौ० १०।३।९।२१)। उपरि क्षिपतीत्यर्थः।
  • ‘सं ब्रह्मणा पृच्यस्वेति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति’ (आप० शौ० १।८।२५।१२)। अधिवासयतीत्यर्थ इति धूर्तस्वामी।
  • ‘मेधां को अस्मिन्नध्यौहत्’ (अथर्व० १०।१।१७)। अध्यौहत् आवपत्, अध्यारोपयत्।
  • ‘क्षत्रभेवैतद् विश्यध्यूहति’ (श० ब्रा० ३।९।३।३)। तथोपरि निधत्ते यथा विश आधारतामापद्यन्ते। तासामुपर्युच्छ्रयति।
  • ‘यथा धुरमध्यूहेत्। अध्युह्य हि धुर्यं युञ्जन्ति’ (श० ब्रा० १।४।४।१३)। अध्यूहेत् संवस्त्रयेत्।
  • ‘तत्सलोकतायां यजमानमध्यूहति’ (शां० ब्रा० ११।६)। अध्यूहति निवेशयति स्थापयति।
  • ‘इदमहममुं यजमानं पशुष्वध्यूहामि’ (पञ्च० ब्रा० १।२।६)। उपरि स्थापयामि।
  • ‘क्षत्रमेव तद् विश्यध्यूहति। तस्मात् क्षत्रियो विश्यध्यूढः’ (जै० ब्रा० २।१४०) उक्तोऽर्थः।
  • ‘स ह दीक्षमाण एव ब्राह्मणतामभ्युपैति यत्कृष्णाजिनमध्यूहति’ (ऐ० ब्रा० ७।२३)। अध्यूहति आच्छादयति।
  • ‘यदुपर्युपरि बर्हिः प्रस्तरं हरन्ति यजमानमेव तत् प्रजास्वध्यूहन्ति’ (जै० ब्रा० १।८६) अध्यूहन्ति ऊर्ध्वं कुर्वन्ति उन्नमयन्ति।
  • ‘ग्राव्णः संसाद्य द्रोणकलशमध्यूहन्ति’ (पञ्च० ब्रा० ६।६।१)। अध्यूहन्ति स्थापयन्ति।

कृ

  • {अधिकृ}
  • कृ (डुकृञ् करणे)।
  • ‘तेषां प्रायश्चित्तानि वक्ष्यन्नादित आत्मज्ञानं तदुपयोगिनश्च योगानधिकुरुते’ (आप० ध० १।२२।१)। अधिकुरुते प्रस्तौति।
  • ‘नैवाध्यकारिष्महि वेदवृत्ते’ (भट्टि० २।३४)। वेदवृत्ते नोऽधिकारो न, अनर्हा वयं वेदवृत्तमित्याह। अस्माकं तत्रार्हन्त्यं नास्ति। अर्थी समर्थः शास्त्रेणापर्युदस्तो धिक्रियते। अधिकारवान्भवति। एतानि ब्राह्मणोऽधिकुरुते। स च वृत्तिं दर्शयतीतरेषामिति शङ्ख इति याज्ञ० १।३ मिताक्षरायाम्। एषु ब्राह्मणस्याधिकारोस्तीत्याह।
  • ‘अधेः प्रसहने’ (पा० १।३।३३)। तमधिचक्रे। तमभिबभूव, तेन न पराजित इति वेति वृत्तिः।
  • ‘अधिचक्रे न यं हरिः’ (भट्टि० ८।२०)। न प्रसेहे। महानसे तथाऽधिकुर्याः। महानसमधीक्षस्व।
  • ‘अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते’ (भा० वन० ३३।८२)। श्वदृतौ क्षीरम् (८१) इत्यादिश्लोकं स्त्रियो नित्यं वेदवचनवत् पठन्तीति नीलकण्ठः।
  • ‘भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विता’ (कि० १।४३)। अधिकुर्वते स्वीकुर्वते।
  • ‘अभिज्ञानशाकुन्तलं नाम नाटकं प्रयोगेणाधिक्रियताम्’ (श० १)। प्रयोग विषयतां नीयतामित्यर्थः।
  • ‘अव्यक्तोऽहः सङ्घातो दशरात्रमधिकुर्वीत’ (शां० श्रौ० १६।२०।३)।
  • ‘पत्रभङ्गशोषणाधिकृतश्रवणपल्लवानिलम्’ (दशकु० पृ० २१०)। अधिकृतो व्यापृतः।
  • ‘दृप्तविनयाधिकृतः’ (रघु० ९।६२)। अधिकृतो नियुक्तः।
  • ‘पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा’ (भा० वि० ३।६)। अधिष्ठातृत्वेन नियुक्तः।
  • ‘संभावना ह्यधिकृतस्य तनोति तेजः’ (कि० ६।४६)। अधिकृतस्य नियुक्तस्य कार्यनिरूढौ। तत्त्वजिज्ञासायां सम्यक् श्रद्धयाऽधिकृताधिकाराः। अधिकृतः स्वीकृतः।
  • ‘प्रज्ञा तु मन्त्रेऽधिकृता न शौर्यम्’ (भट्टौ १२।२२)। अधिकृता समर्था, प्रियङ्करत्वार्हा।
  • ‘गुणाः प्रियत्वेऽधिकृता न संस्तवः’ (कि० ४।२५)। उक्तोऽर्थः।
  • ‘अहं तेऽधिकृता पत्नी’ (भा० पु० १०।५५।१२)। अधिकृता स्वीकृता विधिवदूढा।
  • ‘अधिकृत्य कृते ग्रन्थे’ (पा० ४।३।८७)। अधिकृत्य विषयीकृत्य।
  • ‘ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम्’ (रा० ३।१९।१८)। अधिकृत्य निमित्तीकृत्य। अथशब्दस्याधिकारोऽर्थः।
  • ‘अधिकारश्चाधिक्येन प्राधान्येनारम्भणम्’ (सां० सूत्रे० १।३। विज्ञानभिक्षुः)। अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते (भाष्यम्)। अधिकारः प्रस्तावः।
  • ‘यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः’ (शा० १)। धर्माधिकारे धर्मावेक्षणे।
  • ‘निर्णयाधिकारे ब्रवीमि’ (माल० १)। निर्णायकपदे स्थितेत्यर्थः।
  • ‘स्वाधिकारभूमौ वर्तिष्यते’ (शा० ७)। अधिकारः प्रशासनम्।
  • ‘स्वाधिकारात्प्रमत्तः’ (मेघ० १)। अधिकारो नियोगः।
  • ‘वत्सेऽधिकारः स्थितः’ (महावीर० ४।३८)। अधिकारः स्वाम्यम्।
  • ‘अधिकारः फले स्वाम्यमधिकारी च तत्प्रभुः’ (सा० द०)।
  • ‘महत्खलु पुरुषाधिकारं ज्योतिः’ (माल० १)। पुरुषाधिकरणमित्याह।
  • ‘अविरतोऽयं लोकतन्त्राधिकारः’ (शा० ५)। अधिकारो नियोगः कृत्यम्।
  • ‘महत्यधिकारे मम पुत्रको नियुक्तः’ (माल० १)। महत्यधिकारे गुरुणि कार्ये।
  • ‘निषेकादिः श्मशानान्तो मन्त्रैर्यस्योदितो विधिः। तस्य शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्यचित्’ (मनु० २।१६)॥ अधिकारस्तदर्हता।
  • ‘राघवस्तत्र तदा प्रलापाञ्शुश्राव लोकस्य समागतस्य। आत्माधिकारा विविधाश्च वाचः…’ (रा० २।१७।४३)॥ आत्माधिकारा आत्मानमधिकृत्य प्रवृत्ताः।
  • ‘कथा विचित्राः पृतनाधिकाराः’ (भा०)। उक्तोऽर्थः। व्याकरणशास्त्रेऽधिकारो नाम विधिविशेषो यस्य विधेयार्थो वक्ष्यमाणानि विध्यन्तराणि व्याप्नोति। स च त्रेधा स्मर्यते–सिंहावलोकितं चैव मण्डूकप्लुतमेव च। गङ्गाप्रवाहवच्चापि अधिकारस्त्रिधा मतः॥ रामाधिकरणाः कथाः (रा०)। रामविषयिण्यः।
  • ‘स्वान् दोषान्कथयन्ति नाधिकरणे’ (मृच्छ० ९।३)। अधिकरणमक्षदर्शकस्याऽऽस्थानम्। शास्त्रविभागविशेषश्चाप्यधिकरणं भवति। तच्च षडवयवात्मकम्। विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्। निर्णयश्चेति सिद्धान्तः शास्त्रेधिकरणं स्मृतम्॥
  • ‘आधारोऽधिकरणम्’ (पा १।४।४५)।
  • ‘विप्रतिषिद्धं चानधिकरणवाचि’ (पा० २।४।१३)। अधिकरणं द्रव्यम्।
  • ‘तत्पुरुषः समानाधिकरणः कर्मधारयः’ (१।२।४२)। अधिकरणं कारकम्, अभिधेयं च।
  • ‘प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ। वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम्’ (भा० शां० ५९।६८)॥ अधिकरणेषु जनोपवेशनस्थानेषु चत्वरादिषु।
  • ‘सम्प्रति निपातोदाहरणप्रसङ्गं नोपमालक्षणं वक्तुमधिकरोति’ (नि० १३।१) इत्यत्र स्कन्दस्वामी। अधिकरोति प्रस्तौति, प्रारभते।
  • ‘किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु’ (काव्यादर्शे १।८)। अधिकारः सामर्थ्यम्।

क्रम्

  • {अधिक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘सहस्राक्षनियोगात्स पार्थः शक्रासनं गतः। अध्यक्रामदमेयात्मा द्वितीय इव वासवः’ (भा० वन० ४३।२२)। अध्यक्रामत् आरोहत्।
  • ‘यो वा अग्निं चितं प्रथमः पशुरधिक्रामति’ (तै० सं० ५।४।४।१६)। अधिक्रामति आरोहति।

क्षि

  • {अधिक्षि}
  • क्षि (क्षि निवासगत्योः)।
  • ‘यस्य विक्रमणेष्वधिक्षियन्ति भुवनानि’ (ऋ० १।१५४।२)। अधिक्षियन्ति अन्तर् वसन्ति।
  • ‘अन्धसी अधिक्षियन्ति पूरवः’ (ऋ० ७।९६।२)। अधिक्षियन्ति अधिगच्छन्ति।

क्षिप्

  • {अधिक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘किं मां संभृतदोषैरधिक्षिपथ (शा० ५)। निन्दथेत्यर्थः।
  • ‘न भे पादरजसा तुल्य इत्यधिक्षिप्तः’ (माल० १) अधिक्षिप्तोऽवमानितः।
  • ‘श्रीनिकेतम्… अधिक्षिपत्’ (वदनारविन्दम्) (भा० पु० ३।२८।३०)। अधिक्षिपत् उपहसत्, न्यक्कुर्वत्, अधरयत्।
  • ‘दोषमधिक्षिपेत्’ (सुश्रुत० २।३३७।८)। अधिक्षिपेत्, अपनयेत् पराकुर्यात्।
  • ‘तस्मादेतैरधिक्षिप्तः सहेतासंज्वरः सदा’ (मनु० ४।१८५)। अधिक्षिप्त आक्रुष्ट उपक्रुष्टोऽवज्ञातोऽवमानितः। अधिक्षिप्तः प्रणिहित इति मेदिनी।
  • ‘अधिक्षिप्तः कृष्णशकुनिना’ (कौ० सू० ४४)। अधिक्षिप्तोऽधः क्षिप्तः।
  • ‘भवत्यधिक्षेप इवानुशासनम्’ (कि० १।२८)। अधिक्षेपोऽवज्ञा तिरस्कारः।
  • ‘तीक्ष्णैरुभयतो भागैस्ततो दोषमधिक्षिपेत्’ (सुश्रुत० उत्तर० १५।१२)। अधिक्षिपेत् निर्हरेत्।
  • ‘परस्परकक्षीकृतपक्षाधिक्षेपदक्षो वादो वचनोपन्यासो विवादः’ (स्याद्वाद० १०, हैमः)। अधिक्षेपो दूषणं निराक्रिया।

गण्

  • {अधिगण्}
  • गण् (गण संख्याने)।
  • ‘को वीर्याण्याधिगणयेत् सहस्रजिह्नः’ (भा० पु० ५।२५।१२)। अधिगणयेद् अधिकं गणयेत्।

गम्

  • {अधिगम्}
  • गम् (गम्लृ गतौ)।
  • ‘अधि वा अगन्न त्वभिपत्तुं शक्नुमः’ (श० ब्रा० ९।५।१।६)। अध्यगन्=अध्यगमन् प्राप्नुवन्।
  • ‘गुणालयोप्यसन्मन्त्री नृपतिर्नाधिगम्यते’ (पञ्चत० १।४२८)। नाधिगम्यते नाधिगम्यो भवति, अभिगम्यो न भवति, उपसर्पणीयो न भवतीत्यर्थः।
  • ‘कच्चिन्मित्राणि भजते मित्रैर्वाप्यधिगम्यते’ (रा० ५।३३।४३)। मित्रैः सन्निधिस्ते प्राप्यत इत्याह।
  • ‘यथा खनन् खनित्रेण नरो वार्यधिगच्छति। तथा गुरुगतां विद्यां शुश्रुषुरधिगच्छति’ (मनु० २।२१८)॥ अधिगच्छति विन्दति, लभते।
  • ‘यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते’ (अथर्व० २।९।३)। अधिगम्यते प्राप्यते।
  • ‘अपि धन्वन्नपोधिगच्छेत्’ (श० ब्रा० १४।१।१।८)। उक्तोऽर्थः।
  • ‘अथ परा, यया तदक्षरमधिगम्यते’ (मुं० उ०)। अधिगम्यतेऽवगम्यते।
  • ‘विचिन्त्य नाधिगच्छामि गमनाय इतरस्य वा’ (भा० वन० २३८।७)। नाधिगच्छामि न व्यवस्यामि नावधारयामि, न निश्चिनोमि।
  • ‘वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च’ (याज्ञ० १।९९)। अधिगच्छेत्, विद्यात्, विजानीयात्।
  • ‘धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः’ (भ० शां० )। अधिगतोऽधीतः।
  • ‘किमित्येवं पृच्छस्यनधिगतरामायण इव’ (उत्तर० ६।३०)। उक्तोऽर्थः।
  • ‘अधिगतमखिलसखीभिरिदं तव वपुः’ (गी० गो० ११७)। अधिगतं परिगतं परिक्षिप्तं परिवेष्टितम्।
  • ‘तेभ्योऽधिगन्तुं निगमान्तविद्यां वाल्मीकिपार्श्वादिह पर्यटामि’ (उत्तर० २।३)। अधिगन्तुं प्रतिपत्तुम् अवगन्तुं शिक्षितुं ग्रहीतुम्।
  • ‘कार्यं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव’ (माल० १।९)। अधिगन्तुं प्राप्तुम्, निर्वर्तयितुम्।
  • ‘श्रेयांसि सर्वाण्यधिजग्मुषस्ते’ (रघु० ५।३४)। प्राप्तवत इत्यर्थः।
  • ‘न च कश्चिदप्यनधिगमनीयो नामास्त्यापदाम्’ (पञ्चत०)। अनधिगमनीयोऽनुपगन्तव्यः, अनासाद्यः।
  • ‘येनाक्षरसमाम्नायमधिगम्य महेश्वरात्’ (पा० शिक्षा)।
  • ‘काम्यो हि वेदाधिगमः’ (मनु० २।२)। वेदाधिगमो वेदस्वीकरणं वेदाध्यायः।
  • ‘दुरधिगमः परभागः’ (पञ्चत० ५।३४)। दुराप इत्यर्थः। परभागः प्रकर्षः।

गुप्

  • {अधिगुप्}
  • गुप् (गुपू रक्षणे)।
  • ‘ब्रह्माधिगुप्तः’ (आश्व० गृ० २।४)। ब्रह्मणा कृतरक्षः, ब्रह्मणा विहितावेक्षः।

चर्

  • {अधिचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘अधि यदपां स्नुभिश्चराव’ (ऋ० ७।८८।३)। अधिरुपर्यर्थे। उपरिष्टाच्चलेवेत्यर्थः।
  • ‘स्वधिचरणो त इयमस्तु यामुपरिष्टादधिचरसि’ (शा० ब्रा० १।९।१।८)। उक्तोऽर्थः। अनर्थकोऽधिः। तदर्थस्योपरिष्टादित्यनेनोक्तत्वात्।
  • ‘असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाऽधिचरति’ (कौ० अ० ११।१।४५)। बलात्स्वीकृत्योपभुङ्क्त इत्यर्थः।
  • ‘परिगृहीतां दासीमाहितिकां वा संरुद्धिकामधिचरतः पूर्वः साहसदण्डः’ (कौ० अ० ४।९।२३)। अधिचरतो गच्छतः प्रकुर्वाणस्य।

जन्

  • {अधिजन्}
  • जन् (जनी प्रादुर्भावे)।
  • ‘यं दन्तमधिजायते नाडी तं दन्तमुद्धरेत्’ (सुश्रुते)। दन्तमधिजायते दन्तस्योपरि जायते।
  • ‘ब्राह्मणो जायमानो हि पृथिव्यामधिजायते’ (मनु० १।९९)। अधिको जायते, सर्व-लोकस्योपरि भवतीति मेधातिथिः।
  • ‘अङ्गादङ्गात्संभवसि हृदयादधिजायसे’ (पा० गृ०)।
  • ‘आत्मनो वा एतमधिजनयति’ (श० ब्रा० ७।४।१।१)। अधिजनयति समुत्पादयति।
  • ‘मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने’ (मनु० २।१६९)। अधिजननं जननं जनिः।

ज्ञा

  • {अधिज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘आशङ्के नाधिजाने त्वं यतस्तूर्णमुपागतः’ (रा० ३।३१।३८)। नाधिजाने न निश्चिनोमि।

तन्

  • {अधितन्}
  • तन् (तनु विस्तारे)।
  • ‘अथ धनुरधितनोति’ (श० ब्रा० ५।३।५।२७)। सज्यं कृत्वा कर्षतीत्यर्थः।
  • ‘हेमच्छन्नैरधिततान’ (गजान्) (रा० ५।१२।३३)। अधिततान आववार आच्छादयामास।

दिव्

  • {अधिदिव्}
  • दिव् (दिवु क्रीडाविजिगीषाद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)।
  • अधिदेवनम्। अधि उपरि दीव्यते यत्र, चूतफलकम्।

द्रु

  • {अधिद्रु}
  • द्रु (द्रु गतौ)।
  • ‘वृषा योषामधि द्रवति’ (श० ब्रा० १।७।२।१२, ३।८।५।७) आरोहतीत्यर्थः।

धा

  • {अधिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘प्रवाच्यं तद् वृषणा कृतं वां नार्षदाय श्रवो अध्यधत्तम्’ (ऋ० १।११७।८)। अध्यधत्तम् अधिकं दत्तवन्तावित्यर्थः।
  • ‘चरुमधिदधाति’ (कौ० सू० २।७)। अधिश्रयतीत्यर्थः।
  • ‘अधि द्वयोरदधा उक्थ्ये वचः’ (ऋ० १।८३।३)। अध्यदधाः=अददाः। व्यतारीः। प्रादिक्षः।
  • ‘विश्वा अधि श्रियो दधे’ (ऋ० २।८।५)। अधिदधे आत्मनि दधार, स्वतन्वामाविर्भावयामास।
  • ‘दिवे दिवे अधि नामा दधाना’ (ऋ० १।१२३।४)। अधिदधाना अधिकं दधाना परिगृह्णाना।
  • ‘पाप्माऽधिधीयमाना’ (ब्रह्मगवी) (अथर्व० १२।५।३०)। अधिधीयमानाऽऽक्रम्यमाणा।
  • ‘अधि श्रवांसि धेहि नस्तनूषु’ (ऋ० ३।१९।५)। अधिः सप्तम्यर्थानुवादी।

धृ

  • {अधिधृ}
  • धृ (धृञ् धारणे)।
  • ‘इहैवाग्ने अधि धारया रयिम्’ (वा० सं० २७।४)। अधिधारय अधिकं धेहि।
  • ‘अहं सप्त स्रवतो धारयं वृषा द्रविन्त्वः पृथिव्यां सीरा अधि’ (ऋ० १०।४९।९)। अध्यधारयमध्यकरवं स्वायत्ता अकरवम्। सायणस्त्वधिशब्दं सप्तम्यर्थानुवादीति मन्यते। पृथिव्यामधीत्येवं योजयति।

नम्

  • {अधिनम्}
  • नम् (णम प्रह्वत्वे शब्दे च)।
  • ‘भूषन्न योधि बभ्रूषु नम्नते’ (ऋ० १।१४०।६)। अधिनम्नते=अधिनन्नमीति उपरि निर्भरं नमति, नम्रो भवति।

नह्

  • {अधिनह्}
  • नह् (णह बन्धने)।
  • ‘उपानदधिनहन०’ (नि० २।१।११ इत्यत्र दुर्गः)। अधिनहनमुपरिनहनम्।

नी

  • {अधिनी}
  • नी (णीञ् प्रापणे)।
  • ‘मा नः पथः पित्र्यादधि दूरं नैष्ट’ (ऋ० ८।३०।३)। मा दूरमपगमयत, मा स्म दूरमवक्षिपतेत्याह।
  • ‘यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि’ (ऋ० १०।८९।६)। अधिनीयमानो वृद्धिमुपनीयमानः।

नृत्

  • {अधिनृत्}
  • नृत् (नृती गात्रविक्षेपे)।
  • ‘ग्रावा त्वैषोऽधि नृत्यतु’ (अथर्व० १०।९।२)। अन्यामुद्दिश्य वचनम्।

ब्रू

  • {अधिब्रू}
  • ब्रू (ब्रूञ् व्यक्तायां वाचि)।
  • ‘भूमिरधि ब्रवीतु मे’ (अथर्व० १२।१।५९)। अधिब्रवीतु पक्षपातेन ब्रवीतु। अधिवचनं प्रशंसावचनं भवति।
  • ‘रक्षा च नो अधि च ब्रूहि देव’ (ऋ० १।३५।११)।
  • ‘यद् ब्राह्मणायाध्याहाऽऽत्मने तदाह’ (तै० सं० २।५।११।९)।
  • ‘अधिब्रूहि मा’ (अथर्व० ८।२।७)। पक्षपातेन वचनमधिवचनम्। मदीयोऽयमिति वदेति सायणः।
  • ‘ते नोधिब्रूत’ (अथर्व० ३।२६।१)। उक्तोऽर्थः।
  • ‘सोऽस्मभ्यमधिब्रवतु’ (अथर्व० १।१६।१)
  • ‘कस्तोकाय क इभायोत रायेऽधि ब्रवत् तन्वे को जनाय’ (ऋ० १।८४।१७)। उक्तोऽर्थः।
  • ‘यद् ब्राह्मणश्च चाब्राह्मणश्च प्रश्नमेयातां ब्राह्मणायाधि ब्रूयात्’ (तै० सं० २।५११।९)। अनन्तरोदित एवार्थः।
  • ‘धिगस्तु क्षत्तारमधिब्रुवाणः’ (भा० सभा० ६७।१)। अधिकं निर्मर्यादं ब्रुवाणः। इति शब्दोऽध्याहार्यः। इति ब्रुवाण इति पाठान्तरम्।

बाध्

  • {अधिबाध्}
  • बाध् (बाधृ विलोडने)।
  • ‘न चैकः स (विदुरः) समर्थोऽस्मान्पाण्डवार्थेऽधिबाधितुम्’ (भा० आदि० १४२।२२)। अधिबाधितुम् उपपीडयितुं कदर्थयितुं विप्रकर्तुम्।

भू

  • {अधिभू}
  • भू (सत्तायाम्)।
  • ‘स यत्कुमारं जन्मनोऽग्रेऽधिभावयति’ (ऐ० उ० २।१)। अधिरानन्तर्यमाह। भावयति संस्करोति।

भ्रंश्

  • {अधिभ्रंश्}
  • भ्रंश् (भ्रंशु अधःपतने)।
  • ‘विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्’ (अथर्व० ६।८७।१, वा० सं० १२।१)। माऽधिभ्रशत् माऽवपप्तत्, मा नशत्।

मिह्

  • {अधिमिह्}
  • मिह् (मिह सेचने)।
  • ‘स्त्रियं दासीमधिमेहयतां पूर्वः साहसदण्डः’ (कौ० अ० २।३६।४१)। अधिमेहयतामधिचरतामनार्यं व्यवहरताम् मैथुन्यमाचरताम्।

मन्थ्

  • {अधिमन्थ्}
  • मन्थ् (मन्थ विलोडने)।
  • ‘उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा। शिरसोऽर्धं तु तं विद्यादधिमन्थं स्वलक्षणैः’ (सुश्रुते)॥

यत्

  • {अधियत्}
  • यत् (यती प्रयत्ने)।
  • ‘वक्षस्सु रुक्माँ अधि येतरे शुभे’ (ऋ० १।१६४।४)। अधिशब्दः सप्तम्यर्थानुवादी। येतिरे रचयामासुः, न्यासुः।

यम्

  • {अधियम्}
  • यम् (यम उपरमे)।
  • ‘या वः शर्म शशमानाय सन्ति दाशुषे यच्छताधि’ (ऋ० १।८५।१२)। अधियच्छत विस्तारयत।
  • ‘देवेषु मे अधि कामा अयंसत’ (ऋ० १०।६४।२)। अध्ययंसत उद्यताः।

या

  • {अधिया}
  • या (या प्रापणे)।
  • ‘कुतोऽधियास्यसि क्रूर निहतस्तेन पत्त्रिभिः’ (भट्टि० ८।९०)। केन प्रकारेण निःसरिष्यसीत्यर्थः।

युज्

  • {अधियुज्}
  • युज् (युजिर् योगे)।
  • ‘भवतादधि युक्ता त्वम्’ (भट्टि० २०।१३)। अधियोगो ज्योतिषप्रसिद्धो यात्रिकशुभयोगः। योगे क्षेममथाधियोगगमने क्षेमं रिपूणां वध इति मुहूर्त्तचिन्तामणिः।

रक्ष्

  • {अधिरक्ष्}
  • रक्ष् (रक्ष पालने)।
  • ‘त्रैलोक्यं योधिरक्षति’ (हरि० १५८११)। अधिस्ठाता सन्गोपायतीत्यर्थः।

रुह्

  • {अधिरुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘पुत्रो मातरं स्वसारं चाधिरोहति’ (ऐ० ब्रा० ७।१३)। मैथुनायारोहतीत्यर्थः।
  • ‘अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति’ (भा० वन० २३०।५२)।
  • ‘पादाहतं यदुत्थाय मूर्धानमधिरोहति’ (शिशु० २।४६)। अधिरोहति उपरिगच्छति।
  • ‘पुराऽधिरूढः शयनं महाधनम्’ (कि० १।३८)। शयनमधिरूढः अधिशयानः इत्यर्थः।
  • ‘कार्मुकं च बलिनाधिरोपितम्’ (रघु० ११।८१)। अधिरोपितमारोपितज्यम्।
  • ‘उदारक इति प्रीतलोकाधिरोपितापरश्लाघ्यनामनि’ (दशकु० ५०)। अधिरोपितं हितम्, कृतम्।
  • ‘प्रतिज्ञां चाधिरोहस्व’ (भा० शां० ५९।१०६)। समये स्थिरो भवेत्याह।

वच्

  • {अधिवच्}
  • वच् (वच परिभाषणे)।
  • ‘अधि वोचा नु सुन्वते’ (ऋ० १।१३२।१)। पक्षपातेन ब्रूहि।
  • ‘विश्वाहेन्द्रो अधिवक्ता नो अस्तु’ (ऋ० १।१०२।११)।
  • ‘अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक्’ (वा० सं० १६।५) उक्तोऽर्थः।
  • ‘नमस्ते अधिवाकाय परावाकाय ते नमः’ (अथर्व० ६।१३।२)। अधिवाकाय अधिवचनं पक्षपातेन वचनं कुर्वते।
  • ‘तमिद्धनेषु हितेष्वधिवाकाय हवन्ते’ (ऋ० ८।१६।५)। अधिवाकाय पक्षपातेन वचनाय।
  • ‘तस्माच्छवोऽध्युच्यते’ (अथर्व० ११।८।३४)। अधिरर्थे नान्तरं करोति। उच्यत इत्येवार्थः।

वद्

  • {अधिवद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘इमामगृभ्णन् रशनामृतस्येत्यधिवदति’ (तै० ब्रा० ३।८।३।२)।
  • ‘तत्रा न इन्द्रावरुणाधि वोचतम्’ (ऋ० ७।८३।२)। अस्मत्पक्षपातवचनौ भवतमित्याह।

वप्

  • {अधिवप्}
  • वप् (डुवप बीजसन्ताने। बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च)।
  • ‘अथ हविरधिवपति’ (श० ब्रा० १।२।१।१८)। अधिवपति अधिप्रक्षिपति।
  • ‘अग्नये जुष्टमधिवपामि’ (आप० श्रौ० १।६।२१।५)। उक्तोऽर्थः।
  • ‘अधि च वपते’ (दृषदि तण्डुलान्) (तै० सं० १।६।९)। अधिवपते निधत्ते।

वस्

  • {अधिवस्}
  • वस् (वस आच्छादने)।
  • ‘तार्प्ये च कृत्त्यधीवासे चाश्वं संज्ञपयन्ति’ (तै० ब्रा० ३।९।२०।१)। अधीवास उपरितन आच्छादनपटः।

वस्

  • {अधिवस्}
  • वस् (वस निवासे)।
  • ‘गिरिमधिवसेस्तत्र विश्रामहेतोः’ (मेघ० २५)। गिरौ वसेस्तिष्ठेः।
  • ‘बाल्यात्परामिव दशां मदनोऽध्युवास’ (रघु० ५।६३)। परस्यां दशायामुवासेत्यर्थः।
  • ‘उदितेऽनुदिते चैव समयाध्युषिते तथा। सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः’ (मनु० २।५)॥ सूर्यनक्षत्रवर्जितः कालः समयाध्युषितशब्देनोच्यत इति कुल्लूकः।
  • ‘उवाच राजन्सङ्ग्रामेऽध्युषिते पर्युपस्थिते’ (भा० कर्ण० ३६।४)। अध्युषिते प्रातः काले।
  • ‘तस्यापि स एव गिरिरधिवासः’ (काद० १३७)। अधिवासो वसतिः।
  • ‘वसन्ति मन्नियोगेन अधिवासं च राक्षसाः’ (रा० ३।३६।४)। अधिवासः संवसथः। यागारम्भादर्वाङ् पूर्त्तेः संस्कारोऽप्यधिवास उच्यते। अधिवासः प्रायोपवेशनमप्याह। तच्च कस्य चिद् गृहस्य पुरस्तात् तावद्भवति यावत्स प्रार्थितार्थवितरणविरोधं न परिहरति। जन्मभूरप्यधिवास उच्यते। तथा च भारते प्रयोगः–जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः। वर्जयन्ति ये धर्मं तेषां धर्मो न विद्यते (शां० ३६।१९)॥
  • ‘अथैनावधिवासेन सम्प्रोर्णुवन्ति’ (श० ब्रा० १३।५।२।२)। अधिवास उपरिष्टादाच्छादनक्षमं वासः, बृहतिका प्रावरणं वा।
  • ‘अधीवासेन प्रच्छादयति स्वर्गे लोक इति’ (का० श्रौ० २०।६।१४)। उक्तोऽर्थः।
  • ‘स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन्’ (भा० द्रोण० १७६।४)। (वैरं) दीर्घकालाध्युषितं चिरोषितं चिरन्तनम्। यमनुशय इत्याहुः।

वह्

  • {अधिवह्}
  • वह् (वह प्रापणे)।
  • ‘अध्युह्य धुरं युञ्जन्ति’ (श० ब्रा० १।४।४।१३)।
  • ‘तस्मादृच्यध्यूढं साम गीयते’ (छा० उ० १।६।१)। अध्यूढमधिगतमुपरिभावेन स्थितम्। कृतसापत्निकाऽध्यूढाधिविन्ना (अमरः)।
  • ‘अध्यूढायाश्च यद् दुःखं साक्षिभिर्विहितस्य च’ (भा० सभा० ६८।८३)। उक्तोऽर्थः। अध्यूढ इति शिवनामस्वन्यतमम्। अनूढाया आपन्नसत्त्वाया यदपत्यं तदप्यध्यूढशब्दवाच्यं भवति। तथा च भारते प्रयोगः–तथा दत्तकृतौ पुत्रावध्यूढस्तथाऽपरः (अनु० ४९।४)।
  • ‘इदमपीतरद् वक्ष एतस्मादेवः ध्यूढं काये’ (नि० ४।१६।१)। अध्यूढमुपश्लेषितमिति दुर्गः।

वास्

  • {अधिवास्}
  • वास् (वास उपसेवायाम्)।
  • ‘तद्वनं सर्वं स्वगन्धेनाध्यवासयत्’ (भा० पु० १०।६५।१९)। सौरभ्ययुक्तमकरोत्।
  • ‘तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम्’ (भा० शां० १७०।८)। उक्तोऽर्थः।
  • ‘मन्दारपुष्पैरधिवासितायाम्’ (विक्रम० ४।६४)।
  • ‘अधिवास्यात्मनात्मानं विधिदृष्टेन कर्मणा’ (हरि० ५९९४)।
  • ‘संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् इत्यमरः।’

विद्

  • {अधिविद्}
  • विद् (विद्लृ लाभे)।
  • ‘कीर्तिं श्रिया प्रणयिनीं लब्धयाधिविवेद सः’ (राज० ५।१३५)। जीवन्त्यामूढपूर्वायां स्त्रियां द्वितीयस्या वेदनमधिवेदनं भवति। अधिवेत्ता पुरुषो भवति, तत्र प्रथमा। द्वितीयायां करणे तृतीया प्रयुज्यते पूर्वस्यां तु द्वितीयेति प्रतिष्ठितो व्यवहारः। कालिदासस्त्व् इमं व्यवहारमन्यथयति। तदस्य निरङ्कुशत्वमात्रं न व्यवहारविकल्पः–अधिविविदुरमात्यैराहृतास्तस्य यूनः।
  • ‘प्रथमपरिगृहीते श्रीभुवौ राजकन्याः’ (रघु० १८। ५२)॥ अत्र द्वितीयपरिग्रहभूतानां राजकन्यानाम् अधिवेदनक्रियायां कर्तृत्वं प्रथमान्तत्वं च व्यवहारं भनक्ति। इत्थम्भूतप्रयोगे धात्वर्थासङ्गतिश्चाभिव्यक्तेति व्यक्तम्। प्रियवादिनीं मधुरभाषिणीं यस्त्यजति अधिविन्दति (याज्ञ० १।७६ मिताक्षरायाम्)।
  • ‘अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात्’ (मनु० ९।८३)। अधिविन्ना कृताधिवेदना।
  • ‘बन्ध्याऽष्टमेऽधिवेत्तव्या’ (मनु० ९।८१)। उक्तोऽर्थः।

वृज्

  • {अधिवृज्}
  • वृज् (वृजी वर्जने)।
  • ‘अधिवृणक्त्येवैष पुरोडाशम्’ (श० ब्रा० १।२।२।४)। अधिवृणक्ति अग्नावधिश्रयति।

वृत्

  • {अधिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘त्रीण्युलूखलान्यधि वर्तयति द्वे दृषदौ’ (भा० श्रौ० ६।१६।८)। अधिवर्तयति निदधाति, रचयति प्रयुनक्ति।

शी

  • {अधिशी}
  • शी (शीङ् स्वप्ने)।
  • ‘लङ्कावनं सिंहसमोऽधिशेते’ (भट्टि० १०।३६)। लङ्कावने शेत इत्यर्थः।
  • ‘अथाधिशिश्ये प्रयतः प्रदोषे रथम्’ (रघु० ५।२८)। उपविवेशेत्यर्थः।
  • ‘या (आहुतयः) हुता अधिशेरते किं ताभिर्जयति’ (श० ब्रा० १४।६।१।१०)। अधिशेरते नीचैस्तिष्ठन्ति।
  • ‘वचसि यमधिशय्य स्यन्दते वाचकश्रीः’ (का० सू० वृ० १।२।२१ इत्यत्रोद्धृतः श्लोकः)।

श्रि

  • {अधिश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘ऋचा कुम्भीमध्यग्नौ श्रयामि’ (अथर्व० ९।४।५)। अधिश्रयामि उपरि स्थापयामि। इहाधिपूर्वःश्रयातेरकर्मको यथाऽन्यत्र।
  • ‘य एवैतेऽङ्गारा निरूढा येष्व धिश्रयिष्यन्भवति’ (श० ब्रा० १२।४।२।३)। उक्तोऽर्थः।
  • ‘विलोचने बिभ्रदधिश्रितश्रिणी’ (शिशु० १।२४)। इहाधिरधिकः, नार्थं पुष्यति।
  • ‘चरुमग्नावधिश्रित्य तण्डुलानावपति’ ( )।
  • ‘अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी’ (भा० शल्य० ४१।४८)।
  • ‘अधिश्रयणावश्रयणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः’ (सा० द० २)।
  • ‘अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका’ (अमरः)। अधिश्रयणीति श्रीञ् पाके इत्यस्मात्करणे ल्युड् इति तु स्वामी।
  • ‘आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः’ (शिशु० १२।५०)। अधिश्रयन्तीर् आरोहन्तीः।
  • ‘पथि व्रजन्त्यः करिणीरधिश्रिताः’ (पारिजात० ९।१४)। अधिश्रिता आरूढाः।
  • ‘तत्रेदं विश्वं भुवनमधिश्रितम्’ (काठक० १८।१)। अधिश्रितमर्पितं स्थितम्।

स्कन्द्

  • {अधिस्कन्द्}
  • स्कन्द् (स्कन्दिर् गतिशोषणयोः)।
  • ‘अधिस्कन्द वीरयस्व गर्भमाधेहि योन्याम्’ (अथर्व० ५।२५।८)। अधिस्कन्द आरोह।
  • ‘गौर्यत्राधिष्कन्ना न्यमेहत्’ (तै० सं० २।२।८)। न्यमेहत् बहुतरं मूत्रयति। अधिष्कन्ना सन्धिनी, वृषभारूढा।
  • ‘पिता यत् स्वां दुहितरमधिष्कन्’ (ऋ० १०।६१।७)।

स्था

  • {अधिष्ठा}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘स कस्माद् भीमसेन त्वं राजानमधितिष्ठसि’ (भा० शल्य० ५९।२०) अधितिष्ठसि आक्रामसि, पादमुपरि निधत्से।
  • ‘अर्धासनं गोत्रभिदोऽधितष्ठौ’ (रघु० ६।७३)। आसनार्ध उपविवेशेत्यर्थः।
  • ‘अध्यतिष्ठदङ्गुष्ठेन शतं समाः’ (भा०)। अध्यतिष्ठत् ऊर्ध्वमतिष्ठत्।
  • ‘आश्रमबहिर्वृक्षमूलमधितिष्ठति’ (उत्तर० ४)। अधितिष्ठति उपतिष्ठति, समीपे तिष्ठति।
  • ‘भुजङ्गपिहितद्वारं पातालमधितिष्ठति’ (रघु० २।८०)। अधितिष्ठति उपवसति अधिवसति।
  • ‘माऽधिष्ठा निर्जनं वनम्’ (भट्टि० ८।७९)। वने मा स्था इत्यर्थः।
  • ‘त्वमधिष्ठास्यसि द्विषः’ (भट्टि० १६।४०)। अधिष्ठास्यसि विजेष्यसे, प्रसहिष्यसे।
  • ‘स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति’ (कि० २।३१)। अधितिष्ठति अधिगच्छति, विन्दति।
  • ‘अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः’ (मनु० ४।७८)। अधितिष्ठेत् अधिरोहेत्, केशादिषु पदं न्यस्येत्। मा ते पादः कण्टकमधिष्ठात्। (इति वयम्)। कण्टके मा पप्तदित्यर्थः।
  • ‘दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह’ (भा० शां० २४५।२६)। अधितिष्ठति अतिक्रामति, अतिशेते। मूर्धनि वर्तत इत्यर्थः।
  • ‘दनुकबन्धाधिष्ठितो दण्डकारण्यभागः’ (उत्तर०)। अधिष्ठितोऽधिकारे स्थापितः।
  • ‘लोकेशाधिष्ठितो राजा’ (मनु० ५।९७), लोकपालाधिष्ठातृक इत्यर्थः।
  • ‘दन्तान्तरधिष्ठितम्’ (मनु० ५।१४१)। दन्तावकाशस्थितमन्नावयवादि।
  • ‘वीरलोकमधिष्ठितस्तातः’ (महावीर० ५)। अधिष्ठितो गतः।
  • ‘आर्यारुन्धतीवसिष्ठाधिष्ठितेषु रघुकुलकदम्बेषु’ (उत्तर० १)। अधिष्ठितेषु पर्यवेक्षितेषु।
  • ‘प्रनष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम्’ (मनु० ८।३४)। अधिष्ठितं कृतप्रतिजागरम्, सम्यग्रक्षितम्।
  • ‘स्वामिनाऽधिष्ठितः श्वापि’ (हितोप० ३।१२९)। अधिष्ठितः कृतसाचिव्यः।
  • ‘मूषकाधिष्ठितं तमवलोक्य’ (पञ्चत० २)। मूषकस्योपरिस्थितम्, मूषकारूढम्।
  • ‘अनेनाधिष्ठितानां कामिनीनाम्’ (काद० २३६)। अनेन मन्मथेनाविष्टानामित्यर्थः।
  • ‘कामाधिष्ठितचेतसा’ (हितोप० १)। उक्तोऽर्थः। तेनास्यावासोऽधिष्ठितः। अधिकृतः= स्ववशः कृत इत्यर्थः।
  • ‘केनचिद् यक्षेणाधिष्ठिता’ (दशकु०)। अधिष्ठिताऽऽविष्टा, उपहता।
  • ‘महाराजदशरथस्य दारानधिष्ठाय वसिष्ठः प्राप्तः’ (उत्तर० ४)। अधिष्ठाय तेषामधिष्ठाता भूत्वा, पुरःसरः सन्।
  • ‘प्रकृतिं स्वामधिष्ठाय संभवामि युगे युगे’ (गीता० ४।६)। अधिष्ठाय संनियम्य।
  • ‘हनुमांश्चाप्यधिष्ठाता’ (रा० ५।६३।२२)। अधिष्ठाता पर्यवेक्षकः, अध्यक्षः।
  • ‘सर्वेन्द्रियाधिष्ठाता’ (भाषा० )। वशयिता।
  • ‘इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते’ (गीता० ३।४०)। अधिष्ठानमाश्रयः प्रदेशः।
  • ‘सर्वाविनयाधिष्ठानतां गच्छन्ति’ (काद० १०६)। अधिष्ठानतामास्पदताम्।
  • ‘अधिष्ठानवती लक्ष्मीः परायणवती मतिः’ (भा० आदि० २२२।६)। अधिष्ठानवती दृढास्पदा बद्धमूला। परायणवती परां काष्ठां गता।
  • ‘अधिष्ठानं मनश्चासीत् परिरथ्या सरस्वती’ (भा० कर्ण० ३४।३४)। अधिष्ठानं चक्रम्। कस्मिंश्चिदधिष्ठाने। निवासस्थाने ग्रामनगरादौ।
  • ‘साधिष्ठानानि सर्वशः’ (रा० ६।७५।१९)। अधिष्ठानं शयनीयम्। पर्यङ्कः।
  • ‘निरस्तो मर्को मन्थिनोऽधिष्ठानमसि’ (वा० सं० ७।१८)। अधिष्ठानमधिकरणम्।
  • ‘अमित्राणामधिष्ठानाद् वधाद् दुर्योधनस्य च। भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद् यशः’ (भा० शल्य० ६१।१४)॥ अधिष्ठानात् अभिभवात्, परिभवात्, बाधात्।
  • ‘यथेहाश्वैर्युक्तो रथः सारथिनाऽधिष्ठितः प्रवर्तते तथाऽऽत्माधिष्ठानाच्छरीरम्’ (गौडपादः)। अधिष्ठानं वशीकारः।
  • ‘तस्माद् बाह्यमधिष्ठानं कृत्वा कार्ये चतुर्विधे’ (कौ० अ० १।१०)। अधिष्ठानं प्रलोभनीयोऽर्थः।
  • ‘परे च निरधिष्ठानाः साधिष्ठानाश्च यद् वयम्’ (रा० ५।८२।१२)। निरधिष्ठाना निश्चितदर्शनवर्जिताः।
  • ‘यो मे वितरसि प्राणान् अधिष्ठानं च’ (नै० २६।२७)। अधिष्ठानमुच्चैः पदम्, महदास्पदम्।
  • ‘समर्थस्त्वमिमं जेतुमधिष्ठानपराक्रमैः’ (रा० ४।१४।३०)। अधिष्ठानमधिकाराद् भ्रंशनम्। बलमित्येके।
  • ‘स सर्वभयनिर्मुक्तः सम्भवानधितिष्ठति’ (भा० अनु० ६४।११)।