१०५ व्यपाङ् (वि+अप+आङ्)

कृ

  • {व्यपाकृ}
  • कृ (डुकृञ् करणे)।
  • ‘केऽयुध्यन्के व्यपाकुर्वन् के क्षुद्राः प्राद्रवन्भयात्’ (भा० द्रोण० २४।१७)। व्यपाकुर्वन्=परास्यन्।

कृष्

  • {व्यपाकृष्}
  • कृष् (कृष विलेखने)।
  • ‘ततो दुःशासनो राजन् द्रौपद्या वसनं बलात्। सभामध्ये समाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे’ (भा० सभा० ६८।४०)। व्यपाक्रष्टुं व्यपरोपयितुमवातरयितुम्।

नुद्

  • {व्यपानुद्}
  • नुद् (णुद प्रेरणे)।
  • ‘परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद’ (भा० वि० ४१।८)।
  • ‘ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद’ (भा० शां० ५०।३१)। व्यपानुद व्यपकर्ष।

श्रि

  • {व्यपाश्रि}
  • श्रि (श्रि सेवायाम्)।
  • ‘आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश्च व्यपाश्रितः। अभवद् यो न विमुखः…’ (सौन्दर० २।५)॥ व्यपाश्रितोऽदत्तसंश्रय इत्यर्थो भाति। सोऽयमन्यत्र दुर्लभः।