संहिताधिकाराः

त्रयः संहिताधिकाराः

११. संहितायाम् (६.१.७१)

अधिकारोऽयम् ‘अनुदात्तं पदमेकवर्जम्’ (६.१.१५५) इति यावत्। प्रागे-तस्मात् सूत्रादित उत्तरं यद् वक्ष्यामः, संहितायामित्येवं तद् वेदितव्यम्। अस्मिन् संहिता-धिकारे अज्वर्णयोः सन्धिर्वर्तते।

संहितायामिति विषयसप्तमीयम्, तेन कार्यिनिमित्तयोः संहितायां विषयभूतायां वक्ष्यमाणं कार्यं भवतीत्यर्थः पर्यवस्यति। संहिता चात्र स्वारसिकार्धमात्राकालव्यवायेनो-च्चारणम्। यथा-दधि+अत्र, मधु+अत्र, इत्यवस्थायां संहितायां विषये ‘इको यणचि’ इति सूत्रेण यणादेशो भवति।

भाष्यकारेण तु संहितायामिति सूत्रे सामीपिकात्मकौपश्लेषिकाधिकरणे अचि इति सप्तमी तस्मिन्नित्यनेनाश्रित्यायं संहिताधिकारः प्रत्याख्यातः।

इत्थं हि तत्र भाष्यम् - अयं योगः शक्योऽवक्तुम्। कथम् ? अधिकरणं नाम त्रिप्रकारकम्। अभिव्यापकमौपश्लेषिकं वैषयिकं चेति। शब्दस्य हि शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हति, अन्यदत उपश्लेषात्। इको यणचि - अच्युपश्लिष्टस्येति। तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यति इति। उप समीपे श्लेषः सम्बन्धः उपश्लेषः, तत्कृतमधिकरणमौपश्लेषिकम्। सामीपिकमिति यावत्। एवं च ‘इको यणचि’ इत्यस्यार्थः अच्समीपवर्तिन इक, इत्येव फलति। सामीप्यं च कालतो वर्णतश्च व्यवधानाभावः। एवं चासंहितायामुक्तसामीप्याभावादेव यणभाव-सिद्धेः संहिताधिकारो न कर्तव्य इति भाष्यतात्पर्यम्।

एवं च तुल्यन्यायात् तस्मिन्निति निर्दिष्टे पूर्वस्येत्यत्राप्यौपश्लेषिकाधिकरणे सप्तमी। ततश्च अचीत्यादि सप्तम्यन्तार्थे अकारादावुच्चारिते सामीप्यसम्बन्धेन विद्यमानस्य पूर्वस्य कार्यं स्यादित्यर्थः फलति,न त्वव्यवहितोच्चारणे। सामीप्यञ्च तत्र कालतो वर्णतश्च व्यवधाना-भावात्मकत्वात्।

स्वारसिकार्धमात्राकालव्यवायेनाच्चारणे संहिता भवति। स्वारसिकार्धमात्राकालाधिककालव्यवायेनोच्चारणे तु न साधुत्वम्, नावबोध इष्यते इति वृद्धा इति तेषां शास्त्रविषयतैव नास्तीति सूत्रसत्त्वपक्षे नागेशः। अतः संहिताधिकारमध्ये यानि कार्याण्युच्यन्ते, तानि कार्याण्यर्धमात्राधिककालव्यवाये, वर्णव्यवाये च न भवन्ति।

यदि तु दधि अत्र। मधु अत्र। इत्यादौ अर्धमात्राधिककालेन व्यवधाने समिधम् इत्यादौ च वर्णान्तरेण व्यवधाने उपश्लेष एव नेत्युच्यते, तदा निर्दिष्टपदं, संहिताधिकारश्च विफल एव स्यादित्युच्यते-प्रत्याख्यानपरकभाष्यसामर्थ्यात् संहिताधिकारबहिर्भूतानि कार्याणि वर्णव्यवाये न भवन्ति, अर्धमात्राधिककालव्यवाये भवन्ति। यथा-संहिताधिकारबहिर्भूत उत्तरपदाधिकार उक्त आनङ्ङादेशः स्वारसिकार्धमात्राकालव्यवायेनाच्चारणे संहितायां भवति-अग्नाविष्णू। स्वारसिकार्धमात्राकालाधिककालव्यवायेनोच्चारणेऽसंहितायामपि भवति-अग्नाविष्णू इत्यग्ना विष्णू। संहिताधिकारबहिर्भूत उत्तरपदाधिकार उक्तोऽलुक् स्वारसिकार्धमात्राकालव्यवायेनोच्चारणे संहितायां भवति-आखरेष्ठः। स्वारसिकार्धमात्राकालाधिककालव्यवायेनोच्चारणेऽसंहितायामपि भवति-आखरेष्ठ इत्याखरे स्थः।

**१२. तयोर्य्वावचि संहितायाम् (८.२.१०८) **

‘संहितायाम्’ इत्यध्यायपरिसमाप्तेरधिक्रियते। अस्मिन् संहिताधिकारे हल्वर्णयोः सन्धिर्वर्तते। संहिताधिकारत्वादस्मिन्नधिकार उक्तानि कार्याण्यपि वर्णव्यवाये, कालव्यवाये च न भवन्ति। प्रथमसूत्ररीत्यैवायं द्वितीयः संहिताधिकारोऽपि प्रत्याख्यातो भवति। अस्य सूत्रस्य व्याख्यानं सूत्रप्रसङ्गे यथास्थानं करिष्यते।

१३. संहितायाम् (६.३.११४)

**अयं संहिताधिकारः उत्तरपदाधिकाराधिकारे वर्तते। अतोऽत्र पदयोः सन्धिर्वर्तते, न वर्णयोः। **‘उत्तरपदे’ इत्यधिकृतम्। अतोऽनन्तरैर्योगैरुत्तरपदे कार्यं विधीयते। उत्तरपदं च समासे भवति। तत्र चान्तरेणापि वचनं नित्यमेव संहितया भवितव्यम्। तस्मादुत्तरपदे परतो वक्ष्यमाणानां यत्कार्यं न तदर्थतास्याधिकारस्योपपद्यत, इति यदनुत्तरपदे कार्यं तदर्थमेवायमधिकारः। तेन यैर्योगैरुत्तरपदे कार्यं विधीयते, तानुल्लङ्घ्य, येन योगेनानुत्तरपदे कार्यं विधीयते, तत्रास्योपयोगः। यथास्मिन् द्वितीये संहिताधिकारे ‘द्व्यचोऽतस्तिङः (६.३.१३५)’ इत्येतत्सूत्रं वर्तते। संहिताधिकारत्वादत्रोक्तानि कार्याणि कालव्यवाये न भवन्ति। अतो ‘द्व्यचोऽतस्तिङः (६.३.१३५)’ इत्यनेनोक्तस्तिङन्तस्य दीर्घः स्वारसिकार्धमात्राकाल-व्यवायेनाच्चारणे संहितायां भवति-विद्मा हि त्वा गोपतिं शूर गोनाम् (ऋ॰ १०.४७.१)। ततोऽधिककालव्यवधाने पदपाठेऽसंहितायां न भवति-विद्म, हि, त्वा, गोपतिम्, शूर, गोनाम्॥

उताहो ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (६.३.१३३)’ इत्यस्य छान्दसत्वात्, छन्दसि च दृष्टानुविधित्वात्, इत उत्तरम् ‘ऋचि’ इति पदस्यानुवृत्तेः-विद्मा हि त्वा गोपतिं शूर गोनाम् (ऋ॰ १०.४७.१)। विद्म, हि, त्वा, गोपतिम्, शूर, गोनाम्, इत्युभयोरपि साधुत्वं भवति। अतोऽयं संहिताधिकारोऽपि प्रत्याख्यात एव।