०४४ सम्परा (सम्+परा)

  • {सम्परे}
  • इ (इण् गतौ)
  • ‘युद्धायत्योः सम्परायः’ (अमरः)।
  • ‘न साम्परायः प्रति भाति बालम्’ (कठ० उ०)। साम्परायः। छान्दसो दीर्घः। सम्परायः परलोकः।
  • ‘स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः। उक्तपूर्वं कुतो राजन् साम्पराये स वक्ष्यति’ (भा० आदि० ४८।२१)। साम्परायः=सम्परायः=सङ्कटम्। सम्परायो मृत्युः प्रयोजनमस्येति साम्परायिकं युद्धम्। मृधमास्कन्दनं सङ्ख्यं समीकं साम्परायिकम् (अमरः)।