१०४ व्यप (वि+अप)

  • {व्यपे}
  • इ (इण् गतौ)।
  • ‘यथा काष्ठं च काष्ठं च समेयातां महोदधौ। समेत्य च व्यपेयातां तद्वद् भूतसमागमः’ (भा० शां० १७४।१५)॥
  • ‘समेत्य तु व्यपेयातां कालमासाद्य कंचन’ (रा० २।१०५।२६)। व्यपेयाताम्=वियुज्येयाताम्, विश्लेषमाप्नुयाताम्।
  • ‘न खलु तदुपश्लेषादस्य व्यपैति रुचिर्मनाक्’ (प्र० च०)। व्यपैति अपयाति। अपचीयते।
  • ‘स्मृत्याचारव्यपेतेन मार्गेण’ (याज्ञ० २।५)। अपेतो व्यपेत इत्यनर्थान्तरम्। विश्लिष्टः, पृथग् भूतः। विरुद्ध इति त्वार्थिकोऽर्थः।
  • ‘वृथान्नाचमनोत्थानव्यपेतानि’ (गौ० ध० २।८।१९)। अपेतादन्यद् व्यपेतं संहितमिति हरदत्तः।
  • ‘स्वस्थोऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ’ (भा० शां० २२२।२९)। अव्यपेतः=देहाद्यभिमानेन स्वरूपादप्रच्युत इति नीलकण्ठः।
  • ‘शुचिव्यपाये वनराजिपल्वलम्’ (रघु० ३।३)। शुचिव्यपायो निदाघविगमः, वर्षोपक्रमः।

ईक्ष्

  • {व्यपेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘न व्यपैक्षत समुत्सुकाः प्रजाः’ (रघु० १९।६)। न व्यपैक्षत नावैक्षत। नादृतवानित्यर्थः। समुत्सुका दर्शनकाङ्क्षिणीः।
  • ‘व्यपेक्षा नैव कर्तव्या गतोऽस्तमिति भास्करः’ (भा० द्रोण० १४६।६६)। व्यपेक्षाऽऽदरः।
  • ‘धर्मं समाचर कुरु स्वजनव्यपेक्षाम्’ (दूतघट० १।५२)। उक्तपूर्व एवार्थः।
  • ‘वरेषुधी चापधरौ परन्तपौ व्यपेक्षमाणौ सह सीतया गतौ’ (रा० २।८६।२५)। व्यपेक्षमाणौ सावेक्षौ सावधानौ। अवेक्षा प्रतिजागरः।

ऊह्

  • {व्यपोह्}
  • ऊह् (ऊह वितर्के)।
  • ‘तदेतन्मे मनोदुःखं व्यपोह त्वं पितामह’ (भा० अनु० १३७।१)। व्यपोह=अपाकुरु।
  • ‘क्षुधा निर्णुदति प्रज्ञां धर्मबुद्धिं व्यपोहति’ (भा० आश्व० ९०।९०)। अपाकरोति, अपनयति, अपहरतीत्याह।
  • ‘पूर्वां सन्ध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति’ (मनु० २।१०२)। उक्तोऽर्थः।
  • ‘व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च। अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति’ (मनु० ११।१९७)॥ पापमिति शेषः।
  • ‘दुर्योधनो मदेनैव क्षमं राष्ट्रं व्यपोहति’ (भा० सभा० ६३।३)। व्यपोहति विनाशयति।
  • ‘एवं मनोधारणया क्रमेण व्यपोह्य किञ्चित्समुपोह्य किंचित्’ (सौन्दर० १६।१)। व्यपोह्य दूरीकृत्य, व्यपवर्त्य।

कृष्

  • {व्यपकृष्}
  • कृष् (कृष विलेखने)।
  • ‘यैरभ्युपायैरेनांसि मानवो व्यपकर्षति’ (मनु० ११।२१०)। व्यपकर्षति निर्णुदति निरस्यति।
  • ‘नास्ति लज्जा हि ते सीतां चौरवद् व्यपकर्षतः’ (रा० ६।८८।२२)। व्यपकर्षतोऽपहरतः।
  • ‘अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्’ (भा० सभा० ३७।२४)। व्यपकृष्टा दूरं गता।
  • ‘व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः’ (भा० आदि० १३०।३६)। व्यपकृष्टाम्बरां त्रस्तवस्त्राम्।

क्रम्

  • {व्यपक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘प्रक्षाल्य च तयोः पादौ व्यपाक्रामत्’ (रा० २।८७।२१)। व्यपाक्रामत्=अपाक्रामत्, अपासरत्।

गम्

  • {व्यपगम्}
  • गम् (गम्लृ गतौ)।
  • ‘क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम्’ (भा० वन०)। व्यपगच्छतां व्यपागच्छताम् अनश्यताम्।
  • ‘धर्माद् व्यपगतः’ (रा० ४।१७।५०)। धर्मात्प्रच्युत इत्याह।
  • ‘अर्कात्सिते द्वितीये बुधेऽथवा युगपदेव स्थितयोः। व्यपगतयोर्वा’ (बृ० सं० ८।३९)। व्यपगतयोर्विप्रकृष्टयोः सान्तरयोः।

तन्

  • {व्यपतन्}
  • तन् (तनु विस्तारे)।
  • ‘स यथा स्पन्दनां रज्जुभि र्व्यपतत्य दुह्युः’ (जै० ब्रा० २।३)। व्यपतत्य परितो बद्ध्वा।

त्रप्

  • {व्यपत्रप्}
  • त्रप् (त्रपूष् लज्जायाम्)।
  • ‘न व्यपत्रपसे नीच कर्मणाऽनेन रावण’ (रा० ३।५३।३)। व्यपत्रपसे अपत्रपसे जिह्रेषि लज्जसे व्रीड्यसि।

दिश्

  • {व्यपदिश्}
  • दिश् (दिश अतिसर्जने)।
  • ‘मित्रं च मां व्यपदिशस्यपरं च यासि’ (चारु० ४।४)। व्यपदिशसि सम्बोधयसि आलपसि। मित्रं च मां व्यपदिशसि विपरीतं च मयि व्यवहरसि। तदसाम्प्रतम् (इति वयम्)।
  • ‘तेन पुरुषो बध्यते पुरुषो मुच्यते पुरुषः संसरतीति व्यपदिश्यते येन संसारित्वं विद्यते’ (गौड० साङ्ख्य० का० ६२ )। व्यपदिश्यते व्यवह्रियते। इति तद्दुहितृत्वेन व्यपदिश्यते। तस्य दुहितेत्यभिलप्यते।
  • ‘यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते’ (यो० सू० १।९ भाष्ये)। व्यपदिश्यते विशेष्यते।
  • ‘भ्रातरं राजराजानं महेश्वरसखं प्रभुम्। धनेश्वरं व्यपदिशन्। धनेश्वरं भ्रातेति कीर्तयन् इत्यर्थः।
  • ‘कुलं व्यपदिशन्वीर समरे कोऽभिधास्यति’ (रा० ३।२९।१९)। कुलं व्यपदिशन् कुलीनत्वं प्रख्यापयन्। अभिधास्यति स्वस्तवमिति शेषः।
  • ‘कथं वैश्रवणं देवं सर्वदेवनमस्कृतम्। हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः॥ कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे’ (रा० ३।१०।२)। उक्तोऽर्थः।
  • ‘भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि’ (रा० ३।४८।२१)। वैश्रवणो मम भ्रातेति कीर्तयित्वेत्यर्थः।
  • ‘श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती’ (रा० ३।१३।७)। व्यपदेश्या महति कुले प्रसूततया कीर्तनीया।
  • ‘नारी सौजन्यचर्चासु व्यपदेश्या भविष्यसि’ (यो० वा० ६ (१) १०९।३१)। व्यपदेश्या विशिष्य कीर्तनीया।
  • ‘अलं ते व्यपदेशेन प्रमाणा यदि ते वयम्’ (भा० आश्व० ५७।१४)। व्यपदेशो व्याजः। प्रमाणाः प्रमाणम्।
  • ‘इत्यनुमानं व्यपदेशादवगम्यते, प्रत्यक्षस्तु वेदवचनेन प्रत्ययः’ (मी० शा० भा० १।१।२)। व्यपदेशोऽपदेशो हेतुः।
  • ‘कापि कुन्तलसंव्यानसंयमव्यपदेशतः। बाहुमूल स्तनौ नाभिपङ्कजं दर्शयेत्स्फुटम्’ (सा० द० ३।१२६)॥ व्यपदेशो व्याजः।
  • ‘व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम्’ (शा० ५।२१)। व्यपदेशः कुलम्।
  • ‘व्यादेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः’ (रा० ४।६४।२१)। विगतोऽपदेशः कलङ्को यस्मात्तादृशे कुले।
  • ‘महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः’ (रा० १।१९।२)। वसिष्ठव्यपदेशिनो वसिष्ठगोत्रजस्य। कतकस्त्वन्यथा त्याचष्टे। व्यपदेशो नियोगोऽस्यास्तीति तस्येति।
  • ‘असौ गौरसावश्व इत्येवमेवैतद् व्यपदिष्टं भवति’ (श० ब्रा० १४।६।५।१)। व्यपदिष्टं व्यवहृतं भवति। गौरित्यादिनामधेयप्रयोगोऽस्य भवति।
  • ‘महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः’ (रा० १।१९।२)। अथन्तिरन्यासाय पुनर्न्यासः। व्यपदेशः कीर्तिरुपदेशो वेति गोविन्दराजः। तीर्थो पि तमनुकरोति यदाह वसिष्ठोपदेशवत इति। अत्रार्थे व्यपदेशशब्दस्य रूढिर्नास्तीत्यवश्यवाच्यम्।

दृश्

  • {व्यपदृश्}
  • दृश् (दृशिर् प्रेक्षणे)।
  • ‘न वै किञ्चिद् व्यपदृश्यते भूतं तमोभूते सायकैरन्तरिक्षे’ (भा० द्रोण० १७९।२२)। व्यपदृश्यते व्यक्तिपरिच्छेदेन दृष्टेर्विषयो भवतीत्याह। प्रज्ञायत इति वा। प्रापतत्तत्रेति पाठान्तरम्। तदसङ्गतम्।

नश्

  • {व्यपनश्}
  • नश् (णश अदर्शने)।
  • ‘यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत्’ (भा०) व्यपनाशयेत् विनाशयेत्।

नी

  • {व्यपनी}
  • नी (णीञ् प्रापणे)।
  • ‘व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः’ (रा० २।६६।१३)। व्यपनिन्युर व्यपचकृषुः, ततोऽन्यत्र निन्युः।
  • ‘न दैवं व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वम्’ (भा० अनु० ६।४७)। व्यपावपार्थकौ। नयतीत्येव पर्याप्तम्। विप्रकर्षविरोधयोर्विमार्गशब्देनैवोक्तेः। व्यावहारिका व्यवहारे नियुक्ता अमात्यादयः।
  • ‘शरे तु तस्मिन्व्यपनीतमात्रे’ (गोरेसियो सं० रा० २।६५।४६)। व्यपनीतमात्रे समुद्धृत एव।
  • ‘तन्मया त्वत्कृते ह्येतदन्यथा व्यपनायितम्’ (भा० द्रोण० २९।३७)। अस्त्रमित्यनुषङ्गः। अन्यत्र प्रापितं हारितम् इत्यर्थः। व्यपनामितमिति पाठान्तरम्। अर्थस्तु निर्विशेषः।

नुद्

  • {व्यपनुद्}
  • नुद् (णुद प्रेरणे)।
  • ‘अलक्ष्मीं व्यपनोत्स्यथ’ (भा० वन० १०६९५)। व्यपनोत्स्यथ विप्रक्रक्ष्यथ।
  • ‘परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद’ (भा० वि० ४१।८)।
  • ‘ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद’ (भा० शां० ५०।३१)। व्यपानुद व्यपकर्ष। व्यपानुदेत्यत्रापशब्दस्य च्छान्दसो दीर्घ इति केचित्।

या

  • {व्यपया}
  • (या प्रापणे, प्रापणमिह गतिः)।
  • ‘तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा’ (रा० २।४९।२)। व्यपायात् व्यत्यैत्, अत्यक्रामत्।
  • ‘व्यपयाहि रणादितः’ (भा० उ० १८५।१३)। निर्याहि, अपवाहयात्मानम् इति वाक्यार्थः।
  • ‘संस्मरन्तो विमनसो व्यपयाता नराधिप’ (भा० सभा० १४।४८)। व्यपयाता विप्रस्थिताः।
  • ‘व्यपयातेषु वासाय सैन्येषु’ (भा० द्रोण० ७२।२)। सर्वेष्विति पाठान्तरम्। उक्तोऽर्थः।

रुध्

  • {व्यपरुध्}
  • रुध् (रुधिर् आवरणे)।
  • ‘अतिक्रान्तवया राजा मा स्मैनं व्यपरोरुधः। कुमारराज्ये जीवस्व तस्यैवाज्ञाप्रवर्तनात्’ (रा० २।५८।२३)। अयं रामस्य भरताय सन्देशः। वृद्धं राजानं पितरं राज्यान्मा स्म भ्रंशयः, मा स्म तं राज्याद् विना करोरित्याह।

रुह्

  • {व्यपरुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत्’ (भा० आश्व० ७४।२०)। व्यपरोपयत् व्यपारोपयत्=व्ययूयुजत्। अररहत्। अत्याजयत्।
  • ‘अधिरोप्य पादुके व्यपरोप्य च’ (गोरेसियो० रा० २।१२३।२१)। व्यपरोप्य=अवमुच्य।

वह्

  • {व्यपवह्}
  • वह् (वह प्रापणे)।
  • ‘युक्त्या बल्लापुरादौ वो व्यपोढं व्यसनं मया’ (राज० ७।२७०)। व्यपोढं=दूरीकृतम्।
  • ‘तया ते मानुषं कर्म व्यपोढम्’ (भा० ८।१६१०)। व्यपोढमाविर्भावितम्, प्राकाश्यं नीतम्।
  • ‘व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत’ (भा० द्रोण० २००।२२)। व्यपोढेऽपगते प्रशान्ते।
  • ‘व्यपोढपार्श्वैरपवर्तितत्रिकाः’ (कि० ४।१५)। व्यपोढानि विपरीतानि पार्श्वानि येषु तानि विकर्षणानि तैः।

वृज्

  • {व्यपवृज्}
  • वृज् (वृजि वृजी वर्जने)।
  • ‘न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम्’ (रघु० ८।१३)। व्यपवर्जिता परित्यक्ता। त्वङ् निर्मोकः।

वृत्

  • {व्यपवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘चेतः कथं कथमपि व्यपवर्तते मे’ (मालती० १।१८)।
  • ‘दीप्रदीपा निशा जज्ञे व्यपवृत्तदिवाकरा’ (भामह का० ५।५१)। व्यपवृत्तदिवाकरा=विगतार्का, व्यर्का, अस्तमितसूर्या।

व्यध्

  • {व्यपव्यध्}
  • व्यध् (व्यध ताडने)।
  • ‘आश्रमपदं व्यपविद्धबृसीमठम्’ (भा० वन०)। व्यपविद्धं विकीर्णं विशीर्णम्।

श्रि

  • {व्यपश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘भवतु, पुत्र व्यपश्रयिष्ये तावदेनम्’ (मध्यम० १)। प्रार्थयिष्य इत्यर्थः।
  • ‘व्यपश्रयिष्ये तावद् भवन्तम्’ (पञ्च० १)। अनन्तरोदीरित एवार्थः।
  • ‘मित्राणि वा व्यपाश्रयेत्’ (कौ० अ० ४।३)। संश्रयेदित्यर्थः। अत्रापशब्दयोगो नार्थस्योपकरोति, प्रत्युत विरोधमिवाचरति। तथापि रूढ एष व्यवहार इत्यनुवृत्त्योऽकामेनापि।
  • ‘ससादाथ च पाञ्चाल्यो व्यपाश्रयत च ध्वजम्’ (भा० द्रोण० २००।७१)। ध्वजदण्डं प्रतिश्रयमकरोदित्याह।
  • ‘अद्य योत्स्येऽर्जनमहं पौरुषं स्वं व्यपाश्रितः’ (भा० द्रोण० १४५।३१)।
  • ‘मां हि पार्थ व्यपाश्रित्य येपि स्युः पापयोनयः’ (गीता ९।३२)। व्यपाश्रित्य=आश्रित्य।
  • ‘छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः’ (रा० ६।९१।१५)। व्यपाश्रय आश्रयः, अवलम्बः, अवष्टम्भः।
  • ‘त्रिविधमौषधमिति दैवव्यपाश्रयं युक्तिव्यपाश्रयं सत्त्वावजयश्च’ (चरक० सू० ११।५४)। दैवव्यपाश्रयं विधितन्त्रम्।
  • ‘निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम्’ (काव्यादर्शे १।९५)। व्यपाश्रय आश्रयः।
  • ‘यतिष्यन्तेन राज्याय स हि तेषां व्यपाश्रयः’ (भा० आदि० २०१।१२)। व्यपाश्रयः संश्रयः शरणम्।
  • ‘कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः’ (भा० शल्य० १९।२७)। उक्तोऽर्थः।
  • ‘हन्याच्छत्रून् व्यपाश्रयः’ (का० नी० सा० १८।५९।६२)। व्यपाश्रयः परमनाश्रितः, आत्मश्रित इत्यर्थः। आश्रयः पराश्रयः। स व्यपगतोऽस्य। इह व्यपौ स्थाने।
  • ‘महती खल्वस्य व्यपाश्रयणा’ (स्वप्न० १)। प्रार्थनेत्यर्थः।

स्फुर्

  • {व्यपस्फुर्}
  • स्फुर् (स्फुर् स्फुल सञ्चलने)।
  • ‘सोमे वोत्तरे व्यपस्फुरणश्रुतेरसम्भवाच्च’ (का० श्रौ० ५।३।३०)। व्यपस्फुरणं स्पर्धा।
  • ‘व्यपस्फुरेते वा एते वेदिश्चोत्तरवेदिश्च’ (श० ब्रा०)। उक्तोऽर्थः।

हृ

  • {व्यपहृ}
  • हृ (हृञ् हरणे)।
  • ‘व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः’ (भा० सभा० ४५।२५)। व्यपाहरत्=अच्छिनत्।
  • ‘सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः। पुनर्व्यपाहरत्’ (रा० ३।५१।१८)। उक्तपूर्व एवार्थः।