०२

गाङ्कुटादिभ्योऽञ्णिन् ङित् ॥ १.२.१॥

अतिदेशोऽयम्। गाङिति इङादेशो गृह्यते, न ‘गाङ् गतौ’ इति,ङकारस्यानन्यार्थत्वात्। कुटादयोऽपि ‘कुट कौटिल्ये’ इत्येतदारभ्य यावत् ‘कुङ् शब्दे’ इति। एभ्यो गाङ्कुटादिभ्यः परेऽञ्णितः प्रत्यया ङितो भवन्ति, ङिद्वद् भवन्तीत्यर्थः। गाङ ः- अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। कुटादिभ्यः-उत्कुटिता। उत्कुटितुम्। उत्कुटितव्यम्। उत्पुटिता। उत्पुटितुम्। उत्पुटितव्यम्। अञ्णिदिति किम्? उत्कोटयति। उच्चुकोट। उत्कोटकः। उत्कोटो वर्तते॥ व्यचेः कुटादित्वमनसीति वक्तव्यम्॥ विचिता। विचितुम्। विचितव्यम्। अनसीति किम्? उरुव्यचाः॥

विज इट् ॥ १.२.२॥

‘ओविजी भयचलनयोः’ अस्मात् पर इडादिः प्रत्ययो ङिद्वद् भवति। उद्विजिता। उद्विजितुम्। उद्विजितव्यम्। इडिति किम्? उद्वेजनम्। उद्वेजनीयम्॥

विभाषोर्णोः ॥ १.२.३॥

इडिति वर्तते। ‘ऊर्णुञ् आच्छादने’ अस्मात् पर इडादिः प्रत्ययो विभाषा ङिद्वद् भवति। प्रोर्णुविता, प्रोर्णविता। इडित्येव-प्रोर्णवनम्। प्रोर्णवनीयम्॥

सार्वधातुकमपित् ॥ १.२.४॥

सार्वधातुकं यदपित् तद् ङिद्वद् भवति। कुरुतः, कुर्वन्ति। चिनुतः, चिन्वन्ति। सार्वधातुकमिति किम्? कर्ता। कर्तुम्। कर्तव्यम्। अपिदिति किम्? करोति। करोषि। करोमि॥

असंयोगाल्लिट् कित् ॥ १.२.५॥

अपिदिति वर्तते। असंयोगान्ताद् धातोः परो लिट् प्रत्ययोऽपित् किद् भवति। बिभिदतुः, बिभिदुः। चिच्छिदतुः, चिच्छिदुः। ईजतुः, ईजुः। असंयोगादिति किम्? सस्रंसे। दध्वंसे। अपिदित्येव-बिभेदिथ॥

इन्धिभवतिभ्यां च ॥ १.२.६॥

इन्धिभवतीत्येताभ्यां परो लिट् प्रत्ययः किद् भवति। समी॑धे दस्यु॒हन्त॑मम् (ऋ० ६.१६.१५)। पु॒त्र इ᐀्॑धे॒ अथ॑र्वणः (ऋ० ६.१६.१४)। भवतेः खल्वपि-बभूव। बभूविथ। इन्धेः संयोगार्थं ग्रहणम्। भवतेः पिदर्थम्। अत्रेष्टिः॥ श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम्॥ श्रेथतुः, श्रेथुः। ग्रेथतुः। ग्रेथुः। देभतुः, देभुः। परिषस्वजे, परिषस्वजाते॥

मृडमृदगुधकुषक्लिशवदवसः क्त्वा ॥ १.२.७॥

मृड मृद गुध कुष क्लिश वद वस् इत्येतेभ्यः परः क्त्वा प्रत्ययः किद् भवति। ‘न क्त्वा सेट्’ (१.२.१८) इति कित्त्वप्रतिषेधं वक्ष्यति, तस्यायं पुरस्तादपकर्षः। गुधकुषक्लिशीनां तु ‘रलो व्युपधाद्०’ (१.२.२६) इति विकल्पे प्राप्ते नित्यार्थं वचनम्। मृडित्वा। मृदित्वा। गुधित्वा। कुषित्वा। क्लिशित्वा। उदित्वा। उषित्वा॥

रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ॥ १.२.८॥

रुद विद मुष ग्रहि स्वपि प्रच्छ् इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः। रुदविदमुषीणां ‘रलो व्युपधाद्०’ (१.२.२६) इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्। ग्रहेर्विध्यर्थमेव। स्वपिप्रच्छ्योः सन्नर्थं ग्रहणम्। किदेव हि क्त्वा। रुदित्वा, रुरुदिषति। विदित्वा, विविदिषति। मुषित्वा, मुमुषिषति। गृहीत्वा, जिघृक्षति। सुप्त्वा, सुषुप्सति। पृष्ट्वा, पिपृच्छिषति। ग्रहादीनां कित्त्वात् संप्रसारणं भवति। ‘किरश्च पञ्चभ्यः’ (७.२.७५) इति प्रच्छेरिडागमः॥

इको झल् ॥ १.२.९॥

सन्नित्यनुवर्तते। क्त्वेति निवृत्तम्। इगन्ताद् धातोः परो झलादिः सन् किद् भवति। चिचीषति। तुष्टूषति। चिकीर्षति। इक इति किम्? पिपासति। तिष्ठासति। झलिति किम्? शिशयिषते। किमर्थमिदमुच्यते? गुणो मा भूदिति। ‘अज्झनगमां सनि’ (६.४.१६) इति दीर्घत्वं गुणस्य बाधकं भविष्यति। यथैव तर्हि दीर्घत्वं गुणं बाधते तथा णिलोपमपि बाधेत। तस्माद् दीर्घत्वस्यावकाशदानाय कित्त्वमिदमारभ्यते। चिचीषतीत्यादिषु सावकाशं दीर्घत्वं परत्वाद् णिलोपेन बाध्यते। ज्ञीप्सति॥

इकः कित्त्वं गुणो मा भूद् दीर्घारम्भात्कृते भवेत्।

अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते॥ १॥

सामर्थ्याद्धि पुनर्भाव्यमृृदित्त्वं दीर्घसंश्रयम्।

दीर्घाणां नाकृते दीर्घे णिलोपस्तु प्रयोजनम्॥ २॥

हलन्ताच्च ॥ १.२.१०॥

इकः सन् झल् किदिति वर्तते। समीपवचनोऽन्तशब्दः। हल् चासावन्तश्च हलन्तः। इगन्ताद् इक्समीपाद् हलः परः सन् झलादिः किद् भवति। बिभित्सति। बुभुत्सते। इक इत्येव-यियक्षते। झलित्येव-विवर्तिषते। दम्भेर्हल्ग्रहणस्य जातिवाचकत्वाद् सिद्धम्। धीप्सति। धिप्सति॥

लिङ्सिचावात्मनेपदेषु ॥ १.२.११॥

हलन्ताद् इको झल् किदिति वर्तते। सन् इति निवृत्तम्। इगन्ताद् इक्समीपाद् हलः परौ झलादी लिङ्सिचावात्मनेपदेषु परतः कितौ भवतः। भित्सीष्ट। भुत्सीष्ट। सिचि खल्वपि-अभित्त। अबुद्ध। इक इत्येव-यक्षीष्ट। अयष्ट। संप्रसारणं हि स्यात्। आत्मनेपदेष्विति किम्? अस्राक्षीत्। अद्राक्षीत्। ‘सृजिदृशोर्झल्यमकिति’ (६.१.५८) इत्यमागमो न स्यात्। हलन्तादित्येव-चेषीष्ट। अचेष्ट। गुणो न स्यात्। झल् इत्येव-वर्तिषीष्ट। अवर्तिष्ट। गुणो न स्यात्। लिङ्सिचाविति किम्? द्वेष्टा। द्वेक्ष्यते॥

उश्च ॥ १.२.१२॥

ऋवर्णान्ताद् धातोः परौ लिङ्सिचावात्मनेपदेषु झलादी कितौ भवतः। कृषीष्ट। हृषीष्ट। सिचः खल्वपि-अकृत। अहृत। झल् इत्येव-वरिषीष्ट। अवरिष्ट। ‘वृृतो वा’ (७.२.३८)-अवरीष्ट॥

वा गमः ॥ १.२.१३॥

लिङ्सिचावात्मनेपदेष्विति वर्तते। गमेर्धातोः परौ लिङ्सिचावात्मनेपदेषु झलादी वा कितौ भवतः। संगंसीष्ट, संगसीष्ट। सिचः खल्वपि-समगंस्त, समगत। कित्त्वपक्षेऽनुनासिकलोपो भवति- ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्०’ (६.४.३७) इति॥

हनः सिच् ॥ १.२.१४॥

हन्तेर्धातोः परः सिच् किद् भवति। आहत, आहसाताम्, आहसत। सिचः कित्त्वाद् अनुनासिकलोपः। सिज्ग्रहणं लिङ्निवृत्त्यर्थम्, उत्तरत्रानुवृत्तिर्मा भूत्। आत्मनेपदग्रहणमुत्तरार्थमनुवर्तते। इह तु परस्मैपदे हन्तेर्वधभावस्य नित्यत्वात् कित्त्वस्य प्रयोजनं नास्ति॥

यमो गन्धने ॥ १.२.१५॥

सिच् आत्मनेपदेष्विति वर्तते। यमेर्धातोर्गन्धने वर्तमानात् परः सिच् प्रत्ययः किद् भवत्यात्मनेपदेषु परतः। गन्धनं सूचनम्, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम्। अनेकार्थत्वाद् धातूनां यमिस्तत्र वर्तते। उदायत उदायसाताम्, उदायसत। सूचितवान् इत्यर्थः। सिचः कित्त्वादनुनासिकलोपः। ‘आङो यमहनः’ (१.३.२८) इत्यात्मनेपदम्। गन्धन इति किम्? उदायंस्त पादम्। उदायंस्त कूपाद् उदकम्४। उद्धृतवान् इत्यर्थः। सकर्मकत्वेऽपि ‘समुदाङ्भ्यो यमोऽग्रन्थे’ (१.३.७५) इत्यात्मनेपदम्॥

विभाषोपयमने ॥ १.२.१६॥

यमः सिजात्मनेपदेष्विति वर्तते। यमेर्धातोरुपयमने वर्तमानात् परः सिच् प्रत्ययो विभाषा किद् भवत्यात्मनेपदेषु परतः। उपायत कन्याम्, उपायंस्त कन्याम्। उपायत भार्याम्, उपायंस्त भार्याम्। उपयमनं स्वीकरणम्, विवाहः, दारकर्म, पाणिग्रहणमित्यर्थः। ‘उपाद् यमः स्वकरणे’ (१.३.५६) इत्यात्मनेपदम्॥

स्थाघ्वोरिच्च ॥ १.२.१७॥

सिजात्मनेपदेष्विति वर्तते। तिष्ठतेर्धातोर्घुसंज्ञकानां च इकारश्चान्तादेशः सिच्च किद् भवत्यात्मनेपदेषु परतः। उपास्थित, उपास्थिषाताम्, उपास्थिषत। घुसंज्ञकानाम्-अदित। अधित॥

इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृतेऽपि सः।

अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः॥

न क्त्वा सेट् ॥ १.२.१८॥

क्त्वाप्रत्ययः सेण् न किद् भवति। देवित्वा। वर्तित्वा। सेडिति किम्? कृत्वा। हृत्वा। क्त्वाग्रहणं किम्? निगृहीतिः। उपस्निहितिः। निकुचितिः॥

न सेड् इति कृतेऽकित्त्वे निष्ठायामवधारणात्।

ज्ञापकान् न परोक्षायां सनि झल्ग्रहणं विदुः॥ १॥

इत्त्वं कित्संनियोगेन रेण तुल्यं सुधीवनि।

वस्वर्थं किदतीदेशान् निगृहीतिः प्रयोजनम् ॥ २॥

निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ॥ १.२.१९॥

न सेडिति वर्तते। शीङ् स्विदि मिदि क्ष्विदि धृष् इत्येतेभ्यः परो निष्ठाप्रत्ययः सेण् न किद् भवति। शयितः, शयितवान्। प्रस्वेदितः, प्रस्वेदितवान्। प्रमेदितः, प्रमेदितवान्। प्रक्ष्वेदितः, प्रक्ष्वेदितवान्। प्रधर्षितः, प्रधर्षितवान्। सेड् इत्येव-स्विन्नः, स्विन्नवान्। स्विदादीनाम् ‘आदितश्च’ (७.२.१६) इति निष्ठायामिट् प्रतिषिध्यते। ‘विभाषा भावादिकर्मणोः’ (७.२.१७) इति पक्षेऽभ्यनुज्ञायते, स विषयः कित्त्वप्रतिषेधस्य॥

मृषस्तितिक्षायाम् ॥ १.२.२०॥

मृषेर्धातोः तितिक्षायामर्थे निष्ठा सेण् न किद् भवति। तितिक्षा क्षमा। मर्षितः, मर्षितवान्। तितिक्षायामिति किम्? अपमृषितं वाक्यमाह॥

उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ॥ १.२.२१॥

निष्ठा सेण् न किद् इति वर्तते। उदुपधाद् धातोः परो भाव आदिकर्मणि च वर्तमानो निष्ठाप्रत्ययः सेड् अन्यतरस्यां न किद् भवति। द्युतितमनेन, द्योतितमनेन। प्रद्युतितः, प्रद्योतितः। मुदितमनेन, मोदितमनेन। प्रमुदितः, प्रमोदितः। उदुपधाद् इति किम्? लिखितम् अनेन। भावादिकर्मणोरिति किम्? रुचितं कार्षापणं ददाति। सेड् इत्येव-प्रभुक्त ओदनः। व्यवस्थितविभाषा चेयम्। तेन शब्विकरणानामेव भवति। ‘गुध परिवेष्टने’- गुधितम् इत्यत्र न भवति॥

पूङः क्त्वा च ॥ १.२.२२॥

अन्यतरस्याम् इति न स्वर्यते, उत्तरसूत्रे पुनर्वावचनात्। न सेड् इति वर्तते। पूङश्चेड् विहितः ‘क्लिशः क्त्वानिष्ठयोः’ (७.२.५०) ‘पूङश्च’ (७.२.५१) इति। पूङः परो निष्ठाप्रत्ययः क्त्वा च सेण् न किद् भवति। पवितः, पवितवान्। क्त्वाप्रत्ययस्य ‘न क्त्वा सेट् (१.२.१८) इति सिद्ध एव प्रतिषेधः। तस्य ग्रहणमुत्तरार्थम् । तथा चोक्तम्-‘नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणमुत्तरार्थम्’ (महाभाष्य १.२०१) इति॥

नोपधात् थफान्ताद् वा ॥ १.२.२३॥

निष्ठेति निवृत्तम्। नकारोपधाद् धातोस्थकारान्तात् फकारान्ताच्च परः क्त्वाप्रत्ययः सेड् वा न किद् भवति। ग्रथित्वा, ग्रन्थित्वा। श्रथित्वा, श्रन्थित्वा। गुफित्वा, गुम्फित्वा। नोपधाद् इति किम्? रेफित्वा। गोफित्वा। थफान्ताद् इति किम्? स्रंसित्वा। ध्वंसित्वा॥

वञ्चिलुञ्च्यृतश्च ॥ १.२.२४॥

वञ्चि लुञ्चि ऋत् इत्येतेभ्यः परः क्त्वाप्रत्ययः सेड् वा न किद् भवति। वचित्वा, वञ्चित्वा। लुचित्वा, लुञ्चित्वा। ऋतित्वा, अर्तित्वा। ‘ऋतेरीयङ्’ (३.१.२९) आर्धधातुके विकल्पितः। स यत्र पक्षे नास्ति तत्रेदम् उदाहरणम्। सेड् इत्येव-वक्त्वा॥

तृषिमृषिकृशेः काश्यपस्य ॥ १.२.२५॥

न क्त्वा सेट् (१.२.१८) इति प्रतिषेधे प्राप्ते कित्त्वं विकल्प्यते। तृषि मृषि कृशि इत्येतेभ्यः परः क्त्वाप्रत्ययः सेट् काश्यपस्याचार्यस्य मते वा न किद् भवति। तृषित्वा, तर्षित्वा। मृषित्वा, मर्षित्वा। कृशित्वा, कर्शित्वा। काश्यपग्रहणं पूजार्थम्, वेत्येव हि वर्तते॥

रलो व्युपधाद्धलादेः संश्च ॥ १.२.२६॥

वेति वर्तते, सेड् इति च। उश्च इश्च वी। वी उपधे यस्य स व्युपधः। उकारोपधाद् इकारोपधाच् च धातो रलन्ताद् धलादेः परः संश्च क्त्वा च सेटौ वा कितौ भवतः। द्युतित्वा, द्योतित्वा। दिद्युतिषते, दिद्योतिषते। लिखित्वा, लेखित्वा। लिलिखिषति, लिलेखिषति। रल इति किम्? देवित्वा। दिदेविषति। व्युपधाद् इति किम्? वर्तित्वा। विवर्तिषते। हलादेरिति किम्। एषित्वा। एषिषिषति। सेड् इत्येव-भुक्त्वा। बुभुक्षते॥

**ऊकालोऽज्झ्रस्वदीर्घप्लुतः ॥ १.२.२७॥ **

ऊ इति त्रयाणामयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः। ह्रस्वदीर्घप्लुत इति द्वन्द्वैकवद्भावे पुँल्लिङ्गनिर्देशः। उ ऊ ऊ3 इत्येवंकालोऽज् यथाक्रमं ह्रस्वदीर्घप्लुत इत्येवंसंज्ञो भवति। उकालो ह्रस्वः-दधि। मधु। ऊकालो दीर्घः-कुमारी गौरी। ऊ३कालः प्लुतः-देवदत्त३ अत्र न्वसि। कालग्रहणं परिमाणार्थम्। दीर्घप्लुतयोर्ह्रस्वसंज्ञा मा भूत्-आलूय। प्रलूय। ह्रस्वस्य पिति कृति तुक् (६.१.७१) इति तुङ् न भवति। अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्। प्रतक्ष्य। प्ररक्ष्य। ह्रस्वाश्रयस्तुङ् मा भूत्। तित-उच्छत्रम्। ‘दीर्घात्’ (६.१.७५) ‘पदान्ताद् वा’ (६.१.७६) इति विभाषा तुङ् मा भूत्। ह्रस्वदीर्घप्लुतप्रदेशाः- ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ (१.२.४७)। ‘अकृत्सार्वधातुकयोर्दीर्घः’ (७.४.२५)। ‘वाक्यस्य टेःप्लुत उदात्तः’ (८.२.८२)॥

अचश्च ॥ १.२.२८॥

परिभाषेयं स्थानिनियमार्था। ह्रस्वदीर्घप्लुताः स्वसंज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः। वक्ष्यति-‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ (१.२.४७)-रै-अतिरि। नौ-अतिनु। गो-उपगु। अच इति किम्? सुवाग् ब्राह्मणकुलम्। ‘अकृत्सार्वधातुकयोर्दीर्घः’ (७.४.२५)- चीयते। श्रूयते। अच इति किम्? भिद्यते। छिद्यते। ‘वाक्यस्य टेः प्लुत उदात्तः’ (८.२.८२)-देवदत्त ३। यज्ञदत्त३। अच इति किम्? अग्निचि३त्। सोमसु३त्। तकारस्य मा भूत्। स्वसंज्ञया विधाने नियमः। अज् इति वर्तते। इह मा भूत्-द्यौः। पन्थाः। सः। द्युभ्याम्। द्युभिः। अत्र नियमो नास्ति॥

उच्चैरुदात्तः॥ १.२.२९॥

अज् इति वर्तते। उदात्तादिशब्दाः स्वरे वर्णधर्मे लोकवेदयोः प्रसिद्धा एव। त इह तद्गुणेऽचि परिभाष्यन्ते। उच्चैरुपलभ्यमानो योऽच् स उदात्तसंज्ञो भवति। उच्चैरिति च श्रुतिप्रकर्षो न गृह्यते। उच्चैर्भाषते। उच्चैः पठतीति। किं तर्हि? स्थानकृतम् उच्चैस्त्वं संज्ञिनो विशेषणम्। ताल्वादिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते। तत्र यः समाने स्थान ऊर्ध्वभागनिष्पन्नोऽच् स उदात्तसंज्ञो भवति। यस्मिन्नुच्चार्यमाणे गात्राणामायामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता कण्ठविवरस्य। ये । ते। के। उदात्तप्रदेशाः-‘आद्युदात्तश्च’ (३.१.३) इत्येवमादयः॥

**नीचैरनुदात्तः ॥ १.२.३०॥ **

अज् इति वर्तते। नीचैरुपलभ्यमानो योऽच् सोऽनुदात्तसंज्ञो भवति। समाने स्थाने नीचभागे निष्पन्नोऽज् अनुदात्तः। यस्मिन्नुच्चार्यमाणे गात्राणामन्ववसर्गो मार्दवं भवति, स्वरस्य मृदुता स्निग्धता, कण्ठविवरस्योरुता महत्ता। ‘त्वसमसिमनेमेत्यनुच्चानि (फिट्०४.१०)। नम॑स्ते रुद्र नीलकण्ठ सहस्राक्ष। अनुदात्तप्रदेशाः- ‘अनुदात्तौ सुप्पितौ’ (३.१.४) इत्येवमादयः॥

समाहारः स्वरितः ॥ १.२.३१॥

अज् इति वर्तते। उदात्तानुदात्तसमाहारो योऽच् स स्वरितसंज्ञो भवति। सामर्थ्याच् चात्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, नाचौ। तौ समाह्रियेते यस्मिन्नचि तस्य स्वरित इत्येषा संज्ञा विधीयते। शि॒क्य॑म्। क॒न्या॑। सा॒म॒न्यः॑। क्व॑। स्वरितप्रदेशाः-‘तित् स्वरितम्’ (६.१.१८५) इत्येवमादयः॥

तस्यादित उदात्तमर्धह्रस्वम् ॥ १.२.३२॥

उदात्तानुदात्तसमाहारः स्वरित इत्युक्तम्। तत्र न ज्ञायते कस्मिन्नंश उदात्तः कस्मिन्ननुदात्तः, कियान् वोदात्तः, कियान् वानुदात्त इति। तदुभयमनेनाख्यायते। तस्य स्वरितस्यादा-वर्धह्रस्वम् उदात्तम्, परिशिष्टम् अनुदात्तम्। अर्धह्रस्वम् इति चार्धमात्रोपलक्ष्यते। ह्रस्वग्रहणमतन्त्रम्। सर्वेषामेव ह्रस्वदीर्घप्लुतानां स्वरितानामेष स्वरविभागः। शि॒क्य॑म् इत्यत्रार्ध-मात्रादित उदात्ता, अपरार्धमात्रानुदात्ता, एकश्रुतिर्वा। क॒न्या॑ इत्यत्रार्धमात्रादित उदात्ता, अध्यर्धमात्रानुदात्ता। माणवक॑३ माणवक इत्यत्रार्धमात्रादित उदात्ता, अर्धतृतीयमात्रानुदात्ता॥

एकश्रुति दूरात् संबुद्धौ ॥ १.२.३३॥

त्रैस्वर्ये पदानां प्राप्ते दूरात् संबुद्धावैकश्रुत्यं विधीयते। एका श्रुतिर्यस्य तदिदमेकश्रुति। एकश्रुति वाक्यं भवति। दूरात् संबोधयति येन वाक्येन तत् संबोधनं संबुद्घिः,न ‘एकवचनं संबुद्धिः’ (२.३.४९)। स्वराणामुदात्तादीनामविभागो भेदतिरोधानमेकश्रुतिः। आगच्छ भो माणवक देवदत्त३। दूराद् इति किम्? आग॑च्छ॒ भो मा॑णवक देवद॒त्त३॥

**यज्ञकर्मण्यजपन्यूङ्खसामसु ॥ १.२.३४॥ **

त्रैस्वर्येण वेदे मन्त्राःपठ्यन्ते। तेषां यज्ञक्रियायामपि तथैव प्रयोगे प्राप्त एकश्रुतिर्विधीयते। जपन्यूङ्खसामानि वर्जयित्वा यज्ञकर्मणि मन्त्राणामैकश्रुत्यं भवति। अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम्। अपां रेतांसि जिन्वतो३म् (ऋ० ८.४४.१६)। यज्ञकर्मणीति किम्? संपाठे मा भूत्। अजपेष्विति किम्? ममा॑ग्ने॒ वचो᐀्॑ विह॒वेष्व॑स्तु (ऋ० १०.१२८.१)। जपोऽनुकरणमन्त्रः, उपांशुप्रयोगः। अन्यूङ्खेष्विति किम्? न्यूङ्खा ओकाराः। षोडश (द्र०-आश्व०श्रौ०उत्तरार्द्घ १.११)। तेषु केचिदुदात्ताः केचिदनुदात्ताः। असामस्विति किम्? ए ३ विश्वं॒ सम॒त्रिणं॑ दह (जै०सं० ४.८.६)। सामानि वाक्यविशेषस्था गीतय उच्यन्ते। तत्रैकश्रुतिर्न भवति॥

**उच्चैस्तरां वा वषट्कारः ॥ १.२.३५॥ **

यज्ञकर्मणीति वर्तते। यज्ञकर्मणि वषट्कार उच्चैस्तरां वा भवति एकश्रुतिर्वा। वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते। वौषड् इत्यस्यैवेदं स्वरविधानम्। यद्येवं वौषड्ग्रहणमेव कस्माद् न कृतम्? वैचित्र्यार्थम्। विचित्रा हि सूत्रस्य कृतिः पाणिनेः। सोमस्याग्ने वीही३ वौ३षट्। सोमस्याग्ने वीही३ वौ३षट् (तु०-ऐ०ब्रा० ३.५,६)॥

**विभाषा छन्दसि ॥ १.२.३६॥ **

छन्दसि विषये विभाषैकश्रुतिर्भवति, पक्षान्तरे त्रैस्वर्यमेव भवति। वेति प्रकृते विभाषाग्रहणं यज्ञकर्मणीत्यस्य निवृत्त्यर्थम्। तेनायं स्वाध्यायकालेऽपि पाक्षिक ऐकश्रुत्य-विधिर्भवति। इ॒षे त्वो॒र्जे त्वा॑, इषे त्वोर्जे त्वा (मा०सं० १.१)। अग्न आ याहि वीतये, अग्न आ याहि वीतये (कौ०सं० १.१.१) । अ॒ग्निमी॑ळे पु॒रोहि॑तम्, अग्निमीळे पुरोहितम् (ऋ० १.१.१)। शन्नो॑ दे॒वीर॒भिष्टये॑, शन्नो देवीरभिष्टये (शौ०सं०१.६.१)॥

**न सुब्रह्मण्यायां स्वरितस्य तूदात्तः॥ १.२.३७॥ **

सुब्रह्मण्या नाम निगदस्तत्र ‘यज्ञकर्मण्य०’ (१.२.३४) इति ‘विभाषा छन्दसि’ (१.२.३६) इति चैकश्रुतिः प्राप्ता प्रतिषिध्यते। सुब्रह्मण्यायामेकश्रुतिर्न भवति। यस्तु लक्षणप्राप्तः स्वरितस्तस्योदात्त आदेशो भवति। सुब्रह्मण्यो॒३म् इन्द्रा॒गच्छ, ह॒रिव आ॒गच्छ, मे॒धातिथेर्मेष, वृ॒षणश्वस्य मेने, गौ॒रावस्कन्दिन्न॒हल्यायै जार, कौ॒शिकब्राह्मण गौ॒तमब्रुवाण, श्वः॒ सु॒त्यामा॒गच्छ म॒घवन् (श०ब्रा० ३.३.४.१७-१९)। अत्र सुब्रह्मण्योमित्योकारस्तित्स्वरेण स्वरितस्तस्योदात्तो विधीयते। इन्द्र आगच्छेत्यामन्त्रितमाद्युदात्तं द्वितीयो वर्णोऽनुदात्तः। ‘उदात्तादनुदात्तस्य स्वरितः (८.४.६६) इति स्वरितः प्रसक्तस्तस्यानेनोदात्तः क्रियते । तेन द्वावप्युदात्तौ संपन्नौ। आगच्छेत्याकार उदात्तः। ततः परोऽनुदात्तः स्वरितस्तस्यानेनोदात्तः क्रियते । तदेवमिन्द्र आगच्छेति चत्वार उदात्ताः। पश्चिम एकोऽनुदात्तः। हरिव आगच्छेत्यनयैव प्रक्रियया चत्वार उदात्ता द्वावनुदात्तौ। मेधातिथेरिति षष्ठ्यन्तं परमामन्त्रितमनुप्रविशति। ‘सुबामन्त्रिते पराङ्गवत् स्वरे’ (२.१.२)इति। ततः सकलस्यामन्त्रिताद्युदात्तत्वे कृते द्वितीयमक्षरमनुदात्तम्, तस्य ‘उदात्तादनुदात्तस्य स्वरितः’ (८.४.६६) इति स्वरितत्वे प्राप्त इदमुदात्तत्वं विधीयते। तेन द्वावप्युदात्तौ भवतः, श्ोषमनुदात्तम्। वृषणश्वस्य मेने इति समानं पूर्वेण। गौरावस्कन्दिन्निति तथैव द्वे आद्ये अक्षरे उदात्ते, शेषमनुदात्तम्। अहल्यायै जारेति सुबन्तस्यामन्त्रितानुप्रवेशात् तद्वदेव स्वरः। द्वावुदात्तौ, शेषमनुदात्तम्। कौशिकब्राह्मणेति समस्तमामन्त्रितमाद्युदात्तं तत्र पूर्ववद् द्वावुदात्तौ, शेषमनुदात्तम्। एवं गौतमब्रुवाणेति द्वावुदात्तौ, शेषमनुदात्तम्। श्वः सुत्यामागच्छ मघवन्निति श्वःशब्द उदात्तः सुत्यामित्यन्तोदात्तः। ‘संज्ञायां समजनिषद०’(३.३.९९) इति क्यपो विधान उदात्त इति वर्तते। आगच्छेति द्वावुदात्तौ। अन्त्योऽनुदात्तः। मघवन्निति पदात् परमामन्त्रितं निहन्यते॥

देवब्रह्मणोरनुदात्तः ॥ १.२.३८॥

सुब्रह्मण्यायामेव देवा ब्रह्माण इति पठ्यते, तत्र पूर्वेण स्वरितस्योदात्ते प्राप्तेऽनेनानुदात्तो विधीयते। देवब्रह्मणोः स्वरितस्यानुदात्त आदेशो भवति। दे॒वा ब्र॒ह्माण आ॒गच्छत (श०ब्रा० ३.३.४.२०)। द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे शेषनिघाते चोदात्तादनुदात्तस्य स्वरितः कृतस्तस्यानुदात्तो भवति॥

स्वरितात् संहितायामनुदात्तानाम् ॥ १.२.३९॥

एकश्रुतिरिति वर्तते। संहितायां विषये स्वरितात् परेषामनुदात्तानामेकश्रुतिर्भवति। इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि (ऋ० १०.७५.५)। माण॑वक जटिलकाध्यापक॒ क्व॑ गमिष्यसि। इममित्यन्तोदात्तम्, मे इत्यनुदात्तम्, विधिकाल एव निघातविधानात्। तत्पुनर् ‘उदात्तादनुदात्तस्य स्वरितः’ (८.४.६६) इति स्वरितं संपद्यते। तस्मात् स्वरितात् परेषामनुदात्तानां गङ्गेप्रभृतीनामेकश्रुतिर्भवति। सर्व एत आमन्त्रितनिघातेनानुदात्ताः। माणवक जटिलकेति प्रथममामन्त्रितमाद्युदात्तं तस्य द्वितीयमक्षरं स्वरितम्, ततः परेषामनुदात्तानामेकश्रुतिर्भवति। संहिताग्रहणं किम्? अवग्रहे मा भूत्-इ॒मं। मे॒। ग॒ङ्गे॒। य॒मु॒ने॒। स॒र॒स्व॒ति॒ (ऋ० १०.७५.५)।

उदात्तस्वरितपरस्य सन्नतरः ॥ १.२.४०॥

अनुदात्तग्रहणमनुवर्तते। उदात्तः परो यस्मात् स उदात्तपरः, स्वरितःपरो यस्मात् स स्वरितपरः। उदात्तपरस्य स्वरितपरस्य चानुदात्तस्य सन्नतर आदेशो भवति। अनुदात्ततर इत्यर्थः। देवा मरुतः पृश्निमातरोे॒ऽपः (पै०सं०३.३१.१)। मातर इत्यनुदात्तः। अप इत्यन्तोदात्तः, ‘ऊडिदंपदाद्यप्पुम्रैद्युभ्यः’(६.१.१७१) इति। तत्रानुदात्तयोरेकादेश ओकारोऽनुदात्तः। तस्योदात्ते परभूते सन्नतर आदेशो भवति। इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि (ऋ० १०.७५.५)। इकारोऽनुदात्तः। शुतुद्रि इत्येतदामन्त्रितं पादादौ, तस्माद् न निहन्यते, ‘अनुदात्तं सर्वमपादादौ’ (८.१.१८) इति, तस्य प्रथममक्षरमुदात्तं तस्मिन् परभूते पूर्वस्य सरस्वतीतीकारस्य सन्नतर आदेशो भवति। माण॑वक जटिलकाध्यापक॒ क्व॑ गमिष्यसि। क्व इति स्वरितस्तस्मिन् परभूते क इत्यनुदात्तस्तस्य सन्नतर आदेशो भवति॥

अपृक्त एकाल्प्रत्ययः ॥ १.२.४१॥

अपृक्त इतीयं संज्ञा भवति एकाल् यः प्रत्ययस्तस्य । असहायवाची एकशब्दः। ‘स्पृशोऽनुदके क्विन्’ (३.२.५८)-घृतस्पृक्। ‘भजो ण्विः’ (३.२.६२)- अर्धभाक्। पादभाक्। एकालिति किम्? दर्विः। जागृविः। प्रत्यय इति किम्? सुराः। अपृक्त-प्रदेशाः-‘वेरपृक्तस्य’ (६.१.६७) इत्येवमादयः॥

तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ १.२.४२॥

‘तत्पुरुषः’ (२.१.२२) इति समासविशेषस्य संज्ञां वक्ष्यति। स तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति। अधिकरणशब्दोऽभिधेयवाची। समानाधिकरणः समानाभिधेयः। प॒र॒म॒रा॒ज्यम्। उ॒त्त॒म॒रा॒ज्यम्। ‘अकर्मधारये राज्यम्’ (६.२.१३०) इत्युत्तरपदाद्युदात्तं न भवति। पाचकवृन्दारिका। तत्पुरुष इति किम्? पाचिकाभार्यः। समानाधिकरण इति किम्? ब्रा॒ह्म॒ण॒राज्य॑म्। कर्मधारयप्रदेशाः-‘कर्मधारयेऽनिष्ठा’ (६.२.४६) इत्येवमादयः॥

प्रथमानिर्दिष्टं समास उपसर्जनम् ॥ १.२.४३॥

प्रथमया विभक्त्या यद् निर्दिश्यते समासशास्त्रे तदुपसर्जनसंज्ञं भवति। समास इति समासविधायि शास्त्रं गृह्यते। वक्ष्यति-‘द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः’ (२.१.२४) इति द्वितीयासमासे द्वितीयेत्येतत् प्रथमानिर्दिष्टम्, तृतीयासमासे तृतीयेति, चतुर्थीसमासे चतुर्थीति, पञ्चमीसमासे पञ्चमीति, षष्ठीसमासे षष्ठीति, सप्तमीसमासे सप्तमीति। कष्टश्रितः। शङ्कुलाखण्डः। यूपदारु। वृकभयम्। राजपुरुषः। अक्षशौण्डः। उपसर्जनप्रदेशाः-‘उपसर्जनं पूर्वम्’ (२.२.३०) इत्येवमादयः॥

एकविभक्ति चापूर्वनिपाते ॥ १.२.४४॥

एका विभक्तिर्यस्य तदिदमेकविभक्ति। समासे विधीयमाने यद् नियतविभक्तिकं द्वितीये संबन्धिनि बहुभिर्विभक्तिभिर्युज्यमानेऽप्येकयैव विभक्त्या युज्यते तदुपसर्जनसंज्ञं भवत्यपूर्वनिपाते, पूर्वनिपातं पूर्वनिपाताख्यमुपसर्जनकार्यं वर्जयित्वा। ‘निरादयः क्रान्ताद्यर्थे पञ्चम्या’ (२.२.१८ वा०)। पूर्वपदे नानाविभक्तिकेऽप्युत्तरपदं तु पञ्चम्यन्तमेव भवति। निष्क्रान्तःकौशाम्ब्या निष्कौशाम्बिः। निष्क्रान्तं कौशाम्ब्या निष्कौशाम्बिम्। निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना। निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये। निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ। एवं निर्वाराणसिः। एकविभक्तीति किम्? राजकुमारी। अपूर्वनिपात इति किम्? न हि भवति कौशाम्बीनिरिति॥

अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ १.२.४५॥

अभिधेयवचनोऽर्थशब्दः। अर्थवच्छब्दरूपं प्रातिपदिकसंज्ञं भवति धातुप्रत्ययौ वर्जयित्वा। डित्थः। कपित्थः। कुण्डम्। पीठम्। अर्थवदिति किम्? वनम्, धनमिति नान्तस्यावधेर्मा भूत्। नलोपो हि स्यात्। अधातुरिति किम्? हन्तेर्लङ्-अहन्। नलोपः स्यात्। अप्रत्यय इति किम्? काण्डे। कुड्ये। ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ (१.२.४७) इति ह्रस्वःस्यात्। अनर्थकस्यापि निपातस्य प्रातिपदिकसंज्ञेष्यते। अध्यागच्छति। प्रलम्बते। प्रातिपदिकप्रदेशाः-‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ (१.२.४७) इत्येवमादयः॥

कृत्तद्धितसमासाश्च ॥ १.२.४६॥

कृतस्तद्धिताः समासाश्च प्रातिपदिकसंज्ञा भवन्ति। अप्रत्यय इति पूर्वसूत्रे पर्युदासात् कृदन्तस्य तद्धितान्तस्य चानेन प्रातिपदिकसंज्ञा विधीयते। अर्थवत्समुदायानां समासग्रहणं नियमार्थम्। कृत्-कारकः। हारकः। कर्ता। हर्ता। तद्धितः-औपगवः। कापटवः। समासः-राजपुरुषः। ब्राह्मणकम्बलः। समासग्रहणस्य नियमार्थत्वाद् वाक्यस्यार्थवतः संज्ञा न भवति॥

ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ १.२.४७॥

नपुंसकलिङ्गेऽर्थे यत् प्रातिपदिकं वर्तते, तस्य ह्रस्वो भवत्यादेशोऽलोऽन्त्यस्याचः। अतिरि कुलम्। अतिनु कुलम्। नपुंसक इति किम्? ग्रामणीः। सेनानीः। प्रातिपदिकस्येति किम्? काण्डे तिष्ठतः। कुड्ये तिष्ठतः। प्रातिपदिकग्रहणसामर्थ्यादेकादेशः पूर्वस्यान्तवद् न भवति॥

गोस्त्रियोरुपसर्जनस्य ॥ १.२.४८॥

प्रातिपदिकस्येति वर्तते। गो इति स्वरूपग्रहणम्, स्त्रीति प्रत्ययग्रहणं स्वरितत्वात्। उपसर्जनग्रहणं तयोर्विशेषणम्, गोरुपसर्जनस्य स्त्रीप्रत्ययान्तस्योपसर्जनस्येति। ताभ्यां प्रातिपदिकस्य तदन्तविधिः। उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति। चित्रगुः। शबलगुः। स्त्रियाः-निष्कौशाम्बिः। निर्वाराणसिः। अतिखट्वः। अतिमालः। उपसर्जनस्येति किम्? राजकुमारी। स्वरितत्वं किम्? अतितन्त्रीः। अतिलक्ष्मीः। अतिश्रीः॥ ईयसो बहुव्रीहेः प्रतिषेधो वक्तव्यः॥ बहुश्रेयसी। विद्यमानश्रेयसी॥

लुक् तद्धितलुकि ॥ १.२.४९॥

स्त्रीग्रहणमनुवर्तत उपसर्जनस्येति च। पूर्वेण ह्रस्वत्वे प्राप्ते लुग् विधीयते। तद्धितलुकि सति स्त्रीप्रत्ययस्योपसर्जनस्य लुग् भवति। पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः। दशेन्द्रः। पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः। आमलक्याः फलमामलकम्। बदरम्। कुवलम्। तद्धितग्रहणं किम्? गार्ग्याः कुलं गार्गीकुलम्। लुकीति किम्? गार्गीत्वम्। उपसर्जनस्येत्येव-अवन्ती। कुन्ती। कुरूः॥

इद् गोण्याः ॥ १.२.५०॥

पूर्वेण लुकि प्राप्त इकारो विधीयते। गोण्यास्तद्धितलुकि सतीकारादेशो भवति। पञ्चभिर्गोणीभिः क्रीतःपटः पञ्चगोणिः। दशगोणिः। इदिति योगविभागः। पञ्चभिः सूचीभिः क्रीतः पञ्चसूचिः। दशसूचिः। स च एवंविषय एव॥

लुपि युक्तवद् व्यक्तिवचने ॥ १.२.५१॥

लुपीति लुप्संज्ञया लुप्तस्य प्रत्ययस्यार्थ उच्यते। तत्र लुपि युक्तवद् व्यक्तिवचने भवतः। युक्तवदिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते। स हि प्रत्ययार्थमात्मना युनक्ति। तस्य युक्तवतो व्यक्तिवचने लुबर्थे विधीयेते। अथवा युक्तः प्रकृत्यर्थः प्रत्ययार्थेन संबद्धस्तस्मिन्निव व्यक्तिवचने लुबर्थे भवतः। सप्तम्यर्थे वतिः। व्यक्तिवचने इति च लिङ्गसंख्ययोः पूर्वाचार्यनिर्देशः, तदीयमेवेदं सूत्रम्। तथा चास्य प्रत्याख्यानं भविष्यति- ‘तदशिष्यं संज्ञाप्रमाणत्वाद्’ (१.२.५३) इति। व्यक्तिः स्त्रीपुंनपुंसकानि, वचनमेकत्वद्वित्वबहुत्वानि। पञ्चालाः क्षत्रियाः पुँल्लिङ्गाः बहुवचनविषयाः। तेषां निवासो जनपदः, यथा तेषु क्षत्रियेषु व्यक्तिवचने, तद्वज्जनपदे भवतः। पञ्चालाः। कुरवः। मगधाः। मत्स्याः। अङ्गाः। वङ्गाः। सुह्माः। पुण्ड्राः। लुपीति किम्? लुकि मा भूत्-लवणः सूपः। लवणा यवागूः। लवणं शाकम्। व्यक्तिवचने इति किम्? शिरीषाणामदूरभवो ग्रामः शिरीषास्तस्य वनं शिरीषवनम्। ‘विभाषौषधिवनस्पतिभ्यः’ (८.४.६) इति णत्वं न भवति॥ हरीतक्यादिषु व्यक्तिः॥ हरीतक्याःफलानि, हरीतक्यः फलानि॥ खलतिकादिषु वचनम्॥ खलतिकस्य पर्वतस्यादूरभवानि वनानि, खलतिकं वनानि॥

विशेषणानां चाजातेः ॥ १.२.५२॥

लुपीति वर्तते। लुबर्थस्य यानि विशेषणानि तेषामपि च युक्तवद् व्यक्तिवचने भवतो जातिं वर्जयित्वा। पञ्चालाः रमणीयाः बह्वन्नाः बहुक्षीरघृताः बहुमाल्यफलाः। गोदौ रमणीयौ बह्वन्नौ बहुक्षीरघृतौ बहुमाल्यफलौ। अजातेरिति किम्? पञ्चालाः जनपदः। गोदौ ग्रामः। जात्यर्थस्य चायं युक्तवद्भावप्रतिषेधः। तेन जातिद्वारेण यानि विशेषणानि तेषामपि युक्तवद्भावो न भवति। पञ्चालाः जनपदो रमणीयो बह्वन्नः। गोदौ ग्रामो रमणीयो बह्वन्न इति॥ मनुष्यलुपि प्रतिषेधो वक्तव्यः॥ चञ्चाभिरूपः। वर्धिर्का दर्शनीयः॥

तदशिष्यं संज्ञाप्रमाणत्वात् ॥ १.२.५३॥

तदिति प्रकृतं युक्तवद्भावलक्षणं निर्दिश्यते। तदशिष्यम्, न वक्तव्यम्। कस्मात्? संज्ञाप्रमाणत्वात्। संज्ञाशब्दा हि नानालिङ्गसंख्याः प्रमाणम्। पञ्चाला वरणा इति च। नैते योगशब्दाः। किं तर्हि? जनपदादीनां संज्ञा एताः। तत्र लिङ्गं वचनं च स्वभावसिद्धमेव न यत्नप्रतिपाद्यम्। यथा-आपो दाराः गृहाः सिकता वर्षा इति॥

लुब् योगाप्रख्यानात् ॥ १.२.५४॥

लुबप्यशिष्यः योऽयं ‘जनपदे लुप्’ (४.२.८१) ‘वरणादिभ्यश्च’ (४.२.८२) इति लुबुच्यते, अयं न वक्तव्यः। किं कारणम्? योगाप्रख्यानात्। न हि पञ्चाला वरणा इति योगः संबन्धः प्रख्यायते। नैतदुपलभामहे वृक्षयोगाद् नगरे वरणा इति। किं तर्हि? संज्ञा एताः। तस्मादत्र ‘तस्य निवासः’ (४.२.६९) ‘अदूरभवश्च’ (४.२.७०) इति तद्धितो नैवोत्पद्यते, किं लुपो विधानेन॥

योगप्रमाणे च तदभावेऽदर्शनं स्यात् ॥ १.२.५५॥

पञ्चालादयः संज्ञाशब्दाः, न योगनिमित्ता इत्युक्तम्, तच्चावश्यमेवाभ्युपगन्तव्यम्। योगप्रमाणे हि तदभावेऽदर्शनं स्यात्। यदि पञ्चालादिशब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात्, ततस्तदभावेऽदर्शनमप्रयोगः स्यात्। दृश्यते च संप्रति विनैव क्षत्रियसंबन्धेन जनपदेषु पञ्चालादिशब्दः, ततोऽवसीयते नायं योगनिमित्तकः। किं तर्हि? रूढिरूपेणैव तत्र प्रवृत्त इति॥

प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्॥ १.२.५६॥

अशिष्यमिति वर्तते। प्रधानं समासे किंचित् पदम्, प्रत्ययस्तव्यदादिः, ताभ्यामर्थवचनमर्थाभिधानमनेन प्रकारेण भवतीति पूर्वाचार्यैः परिभाषितम्- प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः, प्रकृतिप्रत्ययौ सहार्थं ब्रूत इति। तत् पाणिनिराचार्यः प्रत्याचष्टे। अशिष्यमेतत्, अर्थस्यान्यप्रमाणत्वादिति। अन्य इति शास्त्रापेक्षया लोको व्यपदिश्यते। शब्दैरर्थाभिधानं स्वाभाविकं न पारिभाषिकम्, अशक्यत्वात्, लोकत एवार्थावगतेः। यैरपि व्याकरणं न श्रुतं तेऽपि राजपुरुषमानयेत्युक्ते राजविशिष्टं पुरुषमानयन्ति,न राजानं नापि पुरुषमात्रम्। औपगवमानयेत्युक्त उपगुविशिष्टमपत्यमानयन्ति, नोपगुं नाप्यपत्यमात्रं नोभौ। यश्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन॥

कालोपसर्जने च तुल्यम् ॥ १.२.५७॥

अशिष्यमिति वर्तते। कालोपसर्जने चाशिष्ये। कस्मात्? अर्थस्यान्यप्रमाणत्वात्। तुल्यशब्दो हेत्वनुकर्षणार्थः। अशिष्यविशेषणं चैतत्। कालोपसर्जने च तुल्यमशिष्ये भवतः। इहान्ये वैयाकरणाः कालोपसर्जनयोः परिभाषां कुर्वन्ति-आ न्याय्यादुत्थानादा न्याय्याच्च संवेशनात्- एषोऽद्यतनः कालः। अपरे पुनराहुः- अहरुभयतोऽर्धरात्रम्- एषोऽद्यतनःकाल इति। तथोपसर्जनपरिभाषां कुर्वन्ति-अप्रधानमुपसर्जनमिति। तत् पाणिनिराचार्यः प्रत्याचष्टे लोकतोऽर्थावगतेः। यैरपि व्याकरणं न श्रुतम्, तेऽप्याहुः- इदमस्माभिरद्य कर्तव्यमिदं श्वः कर्तव्यमिदं ह्यः कृतमिति। नैवं व्युत्पाद्यन्ते। तथोपसर्जनं वयमत्र गृहे ग्रामे वा। उपसर्जनमप्रधानमिति गम्यते। यश्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन। यद्येवं पूर्वसूत्र एव कालोपसर्जनग्रहणं कस्माद् न क्रियते? किमर्थो योगविभागः? प्रदर्शनार्थः। अन्यदप्येवंजातीयकमशिष्यमिति। तथा च पूर्वाचार्याः परिभाषन्ते-मत्वर्थे बहुव्रीहिः, पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, उभयपदार्थप्रधानो द्वन्द्व इत्येवमादि, तदशिष्यमिति॥

जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् ॥ १.२.५८॥

अशिष्यमिति निवृत्तम्। जातिर्नामायमेकोऽर्थः, तदभिधान एकवचनमेव प्राप्तम्, अत इदमुच्यते। जातेराख्या जात्याख्या जात्याख्यायामेकस्मिन्नर्थे बहुवचनमन्यतरस्यां भवति। जात्यर्थो बहुवद् भवतीति यावत् । तेन तद्विशेषणानामजातिशब्दानामपि संपन्नादीनां बहुवचनमुपपद्यते। संपन्नो यवः। संपन्ना यवाः। संपन्नो व्रीहिः। संपन्ना व्रीहयः। पूर्ववया ब्राह्मणः प्रत्युत्त्थेयः। पूर्ववयसो ब्राह्मणाः प्रत्युत्त्थेयाः। जातिग्रहणं किम्? देवदत्तः। यज्ञदत्तः। आख्यायामिति किम्? काश्यपप्रतिकृतिः काश्यपः। भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते। किं तर्हि? प्रतिकृतिः। एकस्मिन्निति किम्? व्रीहियवौ॥ संख्याप्रयोगे प्रतिषेधो वक्तव्यः॥ एको व्रीहिः संपन्नः सुभिक्षं करोति॥

**अस्मदो द्वयोश्च ॥ १.२.५९॥ **

अस्मदो योऽर्थस्तस्यैकत्वे द्वित्वे च बहुवचनमन्यतरस्यां भवति। अहं ब्रवीमि, वयं ब्रूमः। आवां ब्रूवः, वयं ब्रूमः॥ सविशेषणस्य प्रतिषेधो वक्तव्यः॥ अहं देवदत्तो ब्रवीमि। अहं गार्ग्यो ब्रवीमि। अहं पटुर्ब्रवीमि॥ युष्मदि गुरावेकेषाम्॥ त्वं मे गुरुः। यूयं मे गुरवः॥

फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ १.२.६० ॥

चकारो द्वयोरित्यनुकर्षणार्थः। फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च द्वयोर्नक्षत्रयोर्बहुवचनमन्यतरस्यां भवति। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। नक्षत्र इति किम्? फल्गुन्यौ माणविके॥

छन्दसि पुनर्वस्वोरेकवचनम् ॥ १.२.६१॥

अन्यतरस्यामित्यनुवर्तते। द्वयोर्द्विवचने प्राप्ते पुनर्वस्वोश्छन्दसि विषय एकवचनमन्यतरस्यां भवति। पु॑नर्वसुर्न॑क्षत्रम॑दितिर्देव॑ता (मै०सं० २.१३.२०)। पुन॑र्वसू॒ नक्ष॑त्र॒मदि॑तिर्दे॒वता॑ (तै०सं० ४.४.१०.१)। नक्षत्र इत्येव-पुनर्वसू माणवकौ। छन्दसीति किम्? पुनर्वसू इति॥

विशाखयोश्च ॥ १.२.६२॥

छन्दसीति वर्तते, द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनमन्यतरस्यां भवति। वि॑शाखा न॑क्षत्रमिन्द्राग्नी॑ देव॑ता (मै०सं० २.१३.२०)। विशा॑खे॒ नक्ष॑त्रमिन्द्रा॒ग्नी दे॑वता॑ (तै०सं० ४.४.१०.२)॥

**तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ १.२.६३॥ **

छन्दसीति निवृत्तम्। तिष्य एकः पुनर्वसू द्वौ, तेषां द्वन्द्वो बह्वर्थः। तत्र बहुवचने प्राप्ते द्विवचनं विधीयते। तिष्यपुनर्वस्वोर्नक्षत्रविषये द्वन्द्वे बहुवचनप्रसङ्गे नित्यं द्विवचनं भवति। उदितौ तिष्यपुनर्वसू दृश्येते। तिष्यपुनर्वस्वोरिति किम्? विशाखानुराधाः। नक्षत्र इति किम्? तिष्यश्च माणवकः पुनर्वसू माणवकौ तिष्यपुनर्वसवो माणवकाः। ननु च प्रकृतमेव नक्षत्रग्रहणं किमर्थं पुनरुच्यते? पर्यायाणामपि यथा स्यात्। तिष्यपुनर्वसू। पुष्यपुनर्वसू। सिद्ध्यपुनर्वसू। द्वन्द्व इति किम्? यस्तिष्यस्तौ पुनर्वसू येषां त इमे तिष्यपुनर्वसवः। उन्मुग्धास्तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते। तेन नक्षत्रसमास एवायम्। बहुवचनस्येति किम्? एकवचनस्य मा भूत्, तिष्यपुनर्वसु इदमिति। ‘सर्वो द्वन्द्वो विभाषैकवद् भवति’ इत्यस्यैतदेव ज्ञापकम्। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्॥

सरूपाणामेकशेष एकविभक्तौ ॥ १.२.६४॥

समानं रूपमेषामिति सरूपाः। सरूपाणां शब्दानामेकविभक्तौ परत एकशेषो भवति। एकः शिष्यते, इतरे निवर्तन्ते। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः। प्रत्यर्थं शब्दनिवेशाद् नैकेनानेकस्याभिधानम्। तत्रानेकार्थाभिधानेऽनेकशब्दत्वं प्राप्तम्, तस्मादेकशेषः। सरूपाणामिति किम्? प्लक्षन्यग्रोधाः। रूपग्रहणं किम्? भिन्नेऽप्यर्थे यथा स्यात्-अक्षाः। पादाः। माषाः। एकग्रहणं किम्? द्विबह्वोः शेषो मा भूत्। शेषग्रहणं किम्? आदेशो मा भूत्। एकविभक्ताविति किम्? पयः पयो जरयति। ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि॥

वृद्धो यूना तल्लक्षणश्चेदेव विशेषः॥ १.२.६५॥

शेष इति वर्तते। यूनेति सहयोगे तृतीया। वृद्धो यूना सहवचने शिष्यते युवा निवर्तते। वृद्धशब्दः पूर्वाचार्यसंज्ञा गोत्रस्य-अपत्यमन्तर्हितं वृद्धमिति। वृद्धयूनोः सहवचने वृद्धःशिष्यते तल्लक्षणश्चेदेव विशेषः। तदिति वृद्धयूनोर्निर्दशः। लक्षणशब्दो निमित्तपर्यायः। चेच्छब्दो यद्यर्थे। एवकारोऽवधारणे। विशेषो वैरूप्यम्। वृद्धयुवनिमित्तकमेव यदि वैरूप्यं भवति, ततो वृद्धः शिष्यते युवा निवर्तते। समानायामाकृतौ वृद्धयुवप्रत्ययौ भिद्येते। गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ। वात्स्यश्च वात्स्यायनश्च वात्स्यौ। वृद्ध इति किम्? गर्गश्च गार्ग्यायणश्च गर्गगार्ग्यायणौ। यूनेति किम्? गार्ग्यश्च गर्गश्च गार्ग्यगर्गौ। तल्लक्षण इति किम्? गार्ग्यवात्स्यायनौ। एवकारः किमर्थः? भागवित्तिश्च भागवित्तिकश्च भागवित्तिभागवित्तिकौ। कुत्सा सौवीरत्वं च भागवित्तिकस्यापरो विशेषो विद्यते॥

स्त्री पुंवच्च ॥ १.२.६६॥

शेष इति वर्तते, वृद्धो यूनेति च सर्वम्। स्त्री वृद्धा यूना सहवचने शिष्यते, तल्लक्षणश्चेदेव विशेषो भवति। पुंस इवास्याः कार्यं भवति। स्त्र्यर्थः पुमर्थवद् भवति। गार्गी च गार्ग्यायणश्च गार्ग्यौ। वात्सी च वात्स्यायनश्च वात्स्यौ। दाक्षी च दाक्षायणश्च दाक्षी॥

**पुमान् स्त्रिया ॥ १.२.६७॥ **

तल्लक्षणश्चेदेव विशेष इति वर्तते। वृद्धो यूनेति निवृत्तम्। स्त्रिया सहवचने पुमान् शिष्यते स्त्री निवर्तते, स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति। ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ। कुक्कुटश्च कुक्कुटी च कुक्कुटौ। तल्लक्षणश्चेदेव विशेष इत्येव-कुक्कुटश्च मयूरी च कुक्कुटमयूर्यौ। एवकारः किमर्थः? इन्द्रश्चेन्द्राणी चेन्द्रेन्द्राण्यौ। ‘पुंयोगादाख्यायाम्’ (४.१.४८) इत्यपरो विशेषः। पुमानिति किम्? प्राक् च प्राची च प्राक्प्राच्यौ। प्रागित्यव्ययमलिङ्गम्॥

**भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ॥ १.२.६८॥ **

यथासंख्यं भ्रातृपुत्रशब्दौ शिष्येते सहवचने स्वसृदुहितृभ्याम्। स्वस्रा सहवचने भ्रातृशब्दः शिष्यते। भ्राता च स्वसा च भ्रातरौ। दुहित्रा सहवचने पुत्रशब्दः शिष्यते। पुत्रश्च दुहिता च पुत्रौ॥

**नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ॥ १.२.६९॥ **

तल्लक्षणश्चेदेव विशेष इति वर्तते। नपुंसकानपुंसकमात्रकृते विशेषेऽनपुंसकेन सहवचने नपुंसकं शिष्यते, एकवच्चास्य कार्यं भवत्यन्यतरस्याम्। शुक्लश्च कम्बलः शुक्ला च बृहतिका शुक्लं च वस्त्रं तदिदं शुक्लम्। तानीमानि शुक्लानि। अनपुंसकेनेति किम्? शुक्लं च शुक्लं च शुक्लं च शुक्लानि। एकवच्चेति न भवति॥

**पिता मात्रा॥ १.२.७०॥ **

अन्यतरस्यामिति वर्तते नैकवदिति। मात्रा सहवचने पितृशब्दः शिष्यतेऽन्यतरस्याम्। माता च पिता च पितरौ, मातापितराविति वा॥

श्वशुरः श्वश्र्वा॥ १.२.७१॥

अन्यतरस्यामिति वर्तते। श्वश्र्वा सहवचने श्वशुरशब्दः शिष्यतेऽन्यतरस्याम्। श्वशुरश्च श्वश्रूश्च श्वशुरौ, श्वश्रूश्वशुराविति वा॥

**त्यदादीनि सर्वैर्नित्यम् ॥ १.२.७२॥ **

त्यदादीनि शब्दरूपाणि सर्वैःसहवचने नित्यं शिष्यन्ते, त्यदादिभिरन्यैश्च। सर्वग्रहणं साकल्यार्थम्। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। स च देवदत्तश्च तौ। यश्च देवदत्तश्च यौ॥ त्यदादीनां मिथो यद् यत् परं तत् तच्छिष्यते॥ स च यश्च यौ। यश्च कश्च कौ॥

ग्राम्यपशुसंघेष्वतरुणेषु स्त्री ॥ १.२.७३॥

ग्राम्याणां पशूनां सङ्घा ग्राम्यपशुसङ्घाः। एतेषु सह विवक्षायां स्त्री शिष्यते। ‘पुमान् स्त्रिया’ (१.२.६७) इति पुंसः शेषे प्राप्ते स्त्रीशेषो विधीयते। अतरुणग्रहणं सामर्थ्यात् पशुविशेषणम् । गाव इमाः। अजा इमाः। ग्राम्यग्रहणं किम्? रुरव इमे। पृषता इमे। पशुष्विति किम्? ब्राह्मणाः। क्षत्रियाः। सङ्घेष्विति किम्? एतौ गावौ चरतः। अतरुणेष्विति किम्? वत्सा इमे। बर्करा इमे॥ अनेकशफेष्विति वक्तव्यम्॥ इह मा भूत्-अश्वा इमे॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य द्वितीयः पादः॥