०६८ अनुव्या (अनु+वि+आङ्)

ख्या

  • {अनुव्याख्या}
  • ख्या (ख्याञ् प्रकथने)।
  • ‘एतमात्मानं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छां० उ० ८।०।३)। वितत्य वर्णयिष्यामीत्याह।
  • ‘ता अनुव्याख्यास्यामः’ (बौ० ध० ३।१।१।४)। क्रमेण विविच्य आख्यास्यामः।

वृत्

  • {अनुव्यावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘पथामनुव्यावर्तने (त्वा जहिमो वयम्)’ (अथर्व० ६।२६।२)। अनुप्राप्ताः परस्परं व्यावर्तन्ते यस्मिन् प्रदेशे सोऽनुव्यावर्तन इति सायणः।

हृ

  • {अनुव्याहृ}
  • हृ (हृञ् हरणे)।
  • ‘य एनं तत्रानुव्याहरेद् द्रप्स्यति वा प्र वा पतिष्यति’ (श० ब्रा० ३।२।१।९)। अनुव्याहरेत्=आक्रोशेत्=शपेत्।
  • ‘स य एनं शस्ते तूष्णींशंस उप वा वदेदनु वा व्याहरेत्’ (ऐ० ब्रा० २।३१)। उदितपूर्व एवार्थः।
  • ‘स यद्येनं प्रथमायां सामिधेन्यामनुव्याहरेत्’ (श० ब्रा० १।४।३।११)। होमधेन्वा वत्समस्य प्रमत्त इषुणाऽहनम्।
  • ‘चरन्त विजने शल्य ततोऽनुव्याजहार ह’ (भा० कर्ण० ४२।४०)॥ शशापेत्यर्थः।
  • ‘पुत्रशोकाभिसन्तप्ता गान्धारी हतबान्धवा। यदनुव्याजहारार्ता तदिदं समुपागमत्’ (भा० मौ० २।२१)॥
  • ‘ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ’ (भा० शां० ३१८।१३)। इहानुव्याहरतिः शापं नाह। अनुरणनं केवलमाचष्टे।
  • ‘सोऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः’ (रा० १।२।४०)। अनुव्याहरणमावृत्त्योच्चारणम्। अनुव्याहारः शान्तिकपौष्टिकमिति कामसूत्रटीका।