०७४ अवनि

धा

  • {अवनिधा}
  • (डुधाञ् धारणपोषणयोः)।
  • ‘यो महत्यर्थसमुदये स्थितः कदर्यः…अवनिधत्ते पौरजानपदेषु’ (कौ० अ० २।९।२५)। अवनिधत्ते प्रच्छन्नं न्यस्यति। केवले न्यासेऽर्थे तु अवोऽनर्थकः स्यात्।

ष्ठिव्

  • {अवनिष्ठिव्}
  • ष्ठिव् (ष्ठिवु निरसने)।
  • ‘अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः’ (मनु० ८।२८२)। अवमानार्थ निष्ठीवत इत्यर्थः।