१२५ अध्यव (अधि+अव)

सो

  • {अध्यवसो}
  • सो (षो अन्तकर्मणि)।
  • ‘किमध्यवस्यन्ति गुरवः’ (वेणी १)। किं कर्तुं निश्चिन्वन्तीत्याह।
  • ‘मा साहसमध्यवस्यः’ (दशकु० १२३)। मा साहसं कर्तुमुद्युक्थाः। साहसं मा व्यवसासीरित्यर्थः।
  • ‘नेदवसितानध्यवस्यानीति’ (श० ब्रा० ७।१।१)। अवस्थितानामुपरि वसानीत्याह।
  • ‘अथारणी पाणौ कृत्वा शालामध्यवस्यति’ (श० ब्रा० ३।१।१।११)। अध्यवस्यति जुषते।
  • ‘कथमिदानीं दुर्जनवचनादेवमध्यवसितमार्येण’ (उत्तर० १)। अध्यवसितमवधारितं निश्चितम्।
  • ‘भर्तुः संनाहसदृशः शूरोऽध्यवसितः सुतः’ (बृ० श्लो० सं० ५।६५)। अध्यवसित उद्युक्तः।
  • ‘ग्रामेणाध्यवसिते (श्मशाने) क्षेत्रेण वा नानध्यायः’ (आप० ध० १।३।९।७)। ग्रामतया स्वीकृत इति हरदत्तः। ग्रामेण निगीर्णे इति तु वयम्।
  • ‘व्रतं दुष्करमध्यवसितम्’ (हितोप० १)। व्यवसितं परिगृहीतम्।
  • ‘अध्यवसायो बुद्धिः’ (सां० त० कौ०)। संभावनं क्रियासु योग्यताध्यवसाय इति बोपदेवः। अध्यवसाय उत्प्रेक्षणम्।
  • ‘न। स्वल्पमप्यध्यवसायभीरोः करोति विज्ञाननिधिर्गुणं हि’ (हितोप० १)। अध्यवसाय उद्योगो यत्नः साहसम्।
  • ‘बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते’ (भा० शां० २८५।१७)। अध्यवसानाय व्यवसायार्थाय, निश्चयाय।
  • ‘संभावनं क्रियासु योग्यताऽध्यवसानं शक्तिश्रद्धानम्’ (३।३।??५४ सूत्रे वृत्तिः)।
  • ‘निगीर्याध्यवसानं तु प्रकृतस्य परेण यत्’ (का० प्र० १०)। अध्यवसानं तादात्म्यापादनम्।
  • ‘अकार्यं कार्यवदध्यवस्य’ (=अध्यवसाय) (दशकु० ८६)। अभिमत्य, चिन्तयित्वा।
  • ‘धर्माश्रमेऽध्यवसिनां ब्राह्मणानां युधिष्ठिरः’ (भा० शां० ६४।६)। अथ्यवसिनां व्रतोपेतानाम्।
  • ‘कर्तुं स्माध्यवस्यति’ (शिवपु० २।४।१३।१४)। निश्चिनोतीत्यर्थः।
  • ‘देवक्षेत्रं वा एषो ऽध्यवस्यति यः सोमस्योद्गायति’ (जै० ब्रा० १।८४)। अध्यवस्यति नियतमाप्नोति, निश्चितं विन्दति।
  • ‘देवेयजनमध्यवसाय’ (ऐ० ब्रा० ७।२०)। अध्यवसाय निश्चित्य। इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स बुद्ध्या तावत् कञ्चिदर्थं सम्पश्यति।
  • ‘सन्दृष्टे प्रार्थना। प्रार्थनायामध्यवसायः’ (पा० १।४।३२ सूत्रे भाष्यम्)। अध्यवसायो दृढः प्राप्तिसंकल्पः।

हन्

  • {अध्यवहन्}
  • हन् (हन हिंसागत्योः)।
  • ‘पूर्वावघातेन वितुषीकरणेपि पुनरवघातोऽध्यवहननम्।’