अपराधः

निरपराधः

अनपराधः = न विद्यते अपराधः यस्य सः — इति बहुव्रीहि समासः । यः अपराधं न कृतवान् सः अनपराधः ।

निरपराधः = निर्गतः अपराधः यस्मात् सः — इति बहुव्रीहि समासः । अथ वा, निष्क्रान्तः अपराधात् — इति प्रादिसमासः (२.२.१८ कुगतिप्रादयः इत्यत्र विद्यमानं निरादयः क्रान्ताद्यर्थे पञ्चम्या इति वार्त्तिकम्) । “अपराधः अनेन कृतः वा” इति संशये जाते, ततः “अनेन अपराधः न कृतः” इति निर्णयः यस्य विषये क्रियते सः निरपराधः ।

निरपराधी

निरपराधः इत्यस्यैव अर्थे प्रयुक्तस्य निरपराधी इति शब्दस्य समर्थनम् —

प्रथमः सोपानः — निर्गतः अपराधः सः निरपराधः । प्रादितत्पुरुषसमासः — “२.२.१८ कुगतिप्रादयः” इत्यत्र विद्यमानं “प्रादयो गताद्यर्थे प्रथमया” इति वार्त्तिकम् । अत्र समासवृत्तिः आश्रिता । अत्र पूर्वपद-उत्तरपदयोः सामानाधिकरण्यम् अपि अस्ति, अतः अत्र “१.२.४२ तत्पुरुषः समानाधिकरणः कर्मधारयः” इत्यनेन अस्य समासस्य कर्मधारयसंज्ञा अपि भवति ।

द्वितीयः सोपानः —निरपराधः अस्य अस्ति सः निरपराधी । “तद् अस्य अस्ति” अस्मिन् अर्थे ५.२.११५ अत इनिठनौ इति सूत्रेण इन्-प्रत्ययः । निरपराधिन् इति प्रातिपदिकम् । अत्र तद्धितवृत्तिः आश्रिता ।

अनेन प्रकारेण अत्र वृत्तिद्वयम् (आदौ समासवृत्तिम्, ततः तद्धितवृत्तिम्) आश्रित्य निरपराधी इति शब्दः सिद्ध्यति ।