०१३ अपोद् (अप+उद्)

  • {अपोदि}
  • इ (इण्-गतौ)।
  • ‘इमान् यवानहिंसन्तो अपोदित’ (अथर्व॰६.५०.२)। अपोदित=अपक्रामत=अपेत।
  • ‘तामब्रूतामपोदिहि’ (ऐ० ब्रा० ४।८)। उत्कर्षेणापेहि, दूरेऽपसर, अपध्वंस।

कृष्

  • {अपोत्कृष्}
  • कृष् (कृष-विलेखने)।
  • ‘मूलानि च प्रान्तानि चापोत्कृष्य’ (को॰सू॰१०)। अपोत्कृष्य=व्याकृत्य=पृथक्कृत्वा।
  • ‘यदनो वाह्यं स्यात्पूर्वं तं प्रवहेयुरपवोद्धरेयुः’ (आप॰श्रौ॰६.८.२८.४)। अपोद्धरेयुः=अन्यत्र स्थापयेयुः।
  • ‘तदस्मा इदं सर्वमाद्यं करोति ब्राह्मणमेवापोद्धरति, तस्माद् ब्राह्मणोऽनाद्यः’ (श॰ब्रा॰५.४.२.३)। अपोद्धरति=पृथक्करोति=व्यावर्तयति।
  • ‘अनपोद्धार्या आहुतयो भवन्ति। स यद्धैतासामपोद्धरेत्’ (श॰ब्रा॰११.१.६.३४)। हविषामनिर्वापोऽपोद्धारः, हविर्दाने प्रमाद इत्यर्थः।
  • ‘द्विधा कैश्चित्पदं भिन्नं चतुर्धा पञ्चधाऽपि वा। अोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत्’ (वा॰प॰३.१.१)। अपोद्धृत्य=प्रविभज्य।

क्रम्

  • {अपोत्क्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘यन्मेध्यं यज्ञियं सदेवमासीत्तदपोदक्रामत्’ (तै० सं० ६।१।१।७)। अपोदक्रामत् अपहायोर्ध्वमगच्छत्।