१३६ प्रत्यभि

चर्

  • {प्रत्यभिचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘प्रति तमभि चर योऽस्मान्द्वेष्टि यं वयं द्विष्मः’ (अथर्व० २।१।३)। परकृतां कृत्यां निवर्त्य तमपि नाशयेत्यर्थः।

ज्ञा

  • {प्रत्यभिज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘यतस्त्वं भिन्नजात्यन्वयसंस्कारं शरीरं जात्यन्वयवर्जितस्यात्मनः प्रत्यभिज्ञासीः’ (उप० सा० १।१५)। प्रत्यभिज्ञासीः=प्रत्यभ्यज्ञासीः=अज्ञासीः। स्मरणं तु नार्थः।

धा

  • {प्रत्यभिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘विश्वं…प्रत्यभिधास्यति’ (भा० पु० ३।७।४)। प्रतिसंहरिष्यतीत्यर्थः। प्रत्यपिधास्यतीति पाठान्तरम्।
  • ‘मया प्रत्यभिहिता’ (शा० )। प्रतिवचनमुक्ता, प्रत्युक्ता।
  • ‘यथा च प्रत्यभिहितम्’ (भा० उ० १९१।४)। तदनुमतमित्यर्थः।

मृश्

  • {प्रत्यभिमृश्}
  • मृश् (मृश आमर्शने, आमर्शनं स्पर्शः)।
  • ‘यद्यु नीची स्रुक् स्यादपि वा भिद्येत किं तत्र कर्म का वा प्रायश्चित्तिरिति। तस्योक्तः प्रत्यभिमर्शः’ (जै० ब्रा० १।५४)। प्रत्यभिमर्शः शोधनम्।
  • ‘इत्यात्मनः प्रत्यभिमर्शः’ (ऐ० ब्रा० ७।३३)। हस्तेन सम्पूर्णः स्पर्शः प्रत्यभिमर्शः।

युज्

  • {प्रत्यभियुज्}
  • युज् (युजिर् योगे)।
  • ‘चित्राङ्गदोऽथ तं क्रोधाद् धावन् प्रत्यभियुक्तवान्’ (कथा० १०७।९९)। तं प्रत्यभियुक्तवान् तं प्रत्यवास्कन्दत्।
  • ‘अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत्’ (याज्ञ० २।९)। न प्रत्यभियोजयेत्, अभियुज्यत इत्यभियोगोऽपराधः, तेन न प्रतीपं योजयेदित्यर्थः।

नन्द्

  • {प्रत्यभिनन्द्}
  • नन्द् (टुनदि समृद्धौ)।
  • ‘अभिवाद्य…विप्रांश्च तैश्च प्रत्यभिनन्दितः’ (भा० अनु० १६७।१६)। प्रत्यभिनन्दितः स्वागतव्याहारेणाऽऽसनादिदानेन च सभाजितः।

वद्

  • {प्रत्यभिवद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘प्रत्यभिवादेऽशूद्रे’ (पा० ८।२।८३)। अभिवादितेन गुरुणा प्रयुक्ताऽऽशीः प्रत्यभिवाद आयुष्मानेधि देवदत्त३ इत्यादिलक्षणः।

सृ

  • {प्रत्यभिसृ}
  • सृ (सृ गतौ)।
  • ‘सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा’ (भा० आदि० ९५।१४)। अत्यभिसृताः=अतिक्रान्तवन्तः।