१३९ अत्युप (अति+उप)

पद्

  • {अत्युपपद्}
  • पद् (पद गतौ)।
  • ‘नात्युपपन्नसंस्थानः’ (दशकु०)। नात्यनुगुणाकार इत्यर्थः।

यज्

  • {अत्युपयज्}
  • यज् (यज देवपूजासङ्गतिकरणदानेषु)।
  • ‘अथात्युपयजति। स यन्नात्युपयजेद्यावत्यो हैवाग्रे सृष्टास्तावत्यो हैव स्युर्न प्रजायेरन्’ (श० ब्रा० ३।८।४।१८)। अत्युपयजति उपयाजान्करोति, भूयो यजति।