२९० परि (परि)

आस्

  • {पर्यास्}
  • आस् (आस उपवेशने)।
  • ‘पवित्रवन्तः परि वाचमासते’ (ऋ० ९।७३।३)। पर्यासते परित आसते।
  • ‘परि त्वासते निधिभिः सखायः’ (ऋ० १०।१७९।२)।
  • ‘इन्दवो मदिन्तमासः परि कोशमासते’ (ऋ० ९।८६।१)। कोशं द्रोणकलशम्। उक्तोऽर्थः।
  • ‘प्रप्रान्ये यन्ति पर्यन्य आसते’ (ऋ० ३।९।३)। पर्यासतेऽलसा अव्यापारा अनुद्युक्तास्तिष्ठन्ति।
  • ‘युवो ररावा परि सख्यमासते’ (ऋ० १०।४०।७)। पर्यासते प्रार्थयन्ते कामयन्तेऽभीच्छन्ति। आत्मनं सख्यात्परिहरन्ति व्यावर्तयन्तीति तु संस्कृतशार्मण्यकोषः।
  • ‘किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना’ (ऋ० ८।८।८)। पर्यासते पर्यवस्थाय आसते तिष्ठन्ति। प्रतिरुन्धन्ति, वारयन्तीत्यर्थः।
  • ‘कण्डूं चोपजनयन्तो गदमुखं पर्यासते’ (चरक० विमान० ७।१३)। पर्यासते परिवार्यासते।

  • {परिसमि}
  • इ (इण् गतौ)।
  • ‘कस्मात्सत्याद् गायत्री कनिष्ठा छन्दसां सती यज्ञमुखं परीयाय’ (तै० सं० ६।१।६।४२)। परीयाय प्राप।
  • ‘आसामहं राज्यं परीयाम्’ (तै० सं० ७।५।८।३)। परीयाम् प्राप्नुयाम् अधिगच्छेयम्।
  • ‘अग्रं देवतानां परीयाय’ (तै० ब्रा० ३।१।५।८)। श्रैष्ठ्यम् प्रापेत्यर्थः।
  • ‘एतस्याग्नेरन्तं न पर्यैत्’ (श० ब्रा० ६।२।१७)। उक्तोऽर्थः।
  • ‘यद्वा एतैरत्र सर्वैः प्रजापतिरयक्ष्यत् तदेवाग्नेरन्तं पर्यैष्यत्’ (श० ब्रा० ६।२।१।१३)। उदितचर एवार्थः।
  • ‘सर्वेषां भूतानां श्रैष्ठ्यं… पर्येति’ (शां० ब्रा० २६।३)। पर्येति प्राप्नोति।
  • ‘न स पुनरग्रं पर्येति’ (पञ्च० ब्रा० १९।१२।९)। **वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता’ (छां० उ० ३।६।४)। लुटि रूपम्। अर्थस्तु निर्विशेषः।
  • ‘तत् परीयाच्चिकीर्षितम्’ (का० नी० सा० १२।३९)। परीयाद् गच्छेत्। कर्तुमिति शेषः।
  • ‘परि द्यावा पृथिवी सद्य आयम्’ (अथर्व० २।१।४)। परितः प्राप्तवानस्मि, परिक्रम्यायम्, पर्यक्राम्यम्।
  • ‘त्वं तृतं त्वं पर्येष्युत्सम्’ (अथर्व० १७।१।१५)।
  • ‘जरा वली च मां तात पलितानि च पर्यगुः’ (भा० आदि० ८४।२७)। पर्यगुः अभिव्यापन्।
  • ‘अन्तर्बहिश्च लोकांस्त्रीन् पर्यम्यस्कन्दितव्रतः’ (भा० पु० १।६।३२)। पर्येमि व्यश्नुवे व्याप्नोमि।
  • ‘ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः’ (अथर्व० १।१।१)। प्रतिकल्पं प्रतिवत्सरं प्रतिदिनं प्रतिशरीरं पर्यावर्तन्त इत्यर्थ इति सायणः।
  • ‘दन्द्रम्यमाणाः परियन्ति मूढाः’ (कठोप० १।२।५)। परियन्ति परिभ्रमन्ति।
  • ‘स (मेध्योऽश्वः) पर्येतु (पृथिवीं सागराम्बराम्) यशो दीप्तं तव पार्थिव दर्शयन्’ (भा० आश्व० ७२।६)। पर्येतु विचरतु।
  • ‘क्षीण पुण्येव वसुधां पर्येमि विमलानन’ (हरि० २।४१।१८)। पर्येमि पर्यटामि।
  • ‘परि वां सप्त स्रवतो रथो गात्’ (ऋ० ७।६७।८)। परिगात् पर्यगात् पर्यक्रामत्।
  • ‘स तेनाभिद्रुतः काकस्त्रींल्लोकान्पर्यगात्ततः’ (रा० २।९६।४५)। पर्यगात् पर्याटीत्।
  • ‘सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते। सुख पर्येति लोकांश्च…’ (भा० शां० १६०।१२)। पर्येति विचरति पर्यटति।
  • ‘यम् (रथम्) आरूढः स भगवान् पर्येति सकलं जगत्’ (मात्स्य पु० १७४।७)। उक्तोऽर्थः।
  • ‘अहमुत्तरतः पर्येष्यामि’ (श० ब्रा० १।२।४।११)। पर्येष्यामि परिक्षेप्स्यामि परिवेष्टयिष्यामि।
  • ‘यथा यथा च पर्येति लोकतन्त्रमसारवत्’ (भा० शां० १७४।४)। पर्येति पर्यालोचयति।
  • ‘मनसा सप्त पर्येति क्रमशो विषयानिमान्’ (भा० वन० १०१।२०)। पर्येति परिचिन्तयति सम्यग् जानाति।
  • ‘अनर्थं सानुबन्धं यो विदित्वा सर्वकर्मसु। अर्थमर्थानुबन्धं च पर्येष्यति स पण्डितः’ (रा० ५।८१।४)॥ पर्येष्यति विज्ञास्यति।
  • ‘अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम्’ (कि० १।४४)। पर्येषि=अवगच्छसि।
  • ‘परि त्वेषस्य दुर्मतिर्महीगात्’ (ऋ० २।३३।१४)। परिगात् अपक्रामेत्, निवर्तताम्, अस्मानतिहाय गच्छेत्।
  • ‘यत् किंच वदामि तन्मे मा परिगात’ (ऐ० ब्रा० ६।३३)। मा परिगात निन्दां मा स्म कुरुतेति सायणः। सोऽयमर्थः शब्दमयदिया दुर्लभः। नात्र गायतिर्धातुः। परिपूर्व एतिरिह परिवर्जनेऽ नाकर्णनलक्षणे वर्तत इति संस्कृतशार्मण्यकोषः।
  • ‘जिष्णुं त्रैगर्तकाः परीताः पर्यवारयन्।’ (भा० १४।२१६७)। परीता इत्यत्र कर्तरि क्तः। परितो गता इत्यर्थः।
  • ‘ते परीताः कुरुश्रेष्ठ नश्यन्तः स्म ह्युपेक्षिताः’ (भा० आश्व० ५३।२२)। इहापि पूर्ववत् कर्तरि निष्ठा। परितः प्राप्ता इत्यर्थः।
  • ‘परीतं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम्।’ (रा० २।५५।६)। परीतं परिक्षिप्तम्। कर्मणि क्तः।
  • ‘धूमेनापि परीताङ्गीं दीप्तामग्निशिखामिव’ (रा० १।४९।१६)।
  • ‘धृतिपरीतमिवात्मानं दर्शितवान्’ (पञ्चत०)।
  • ‘परीतकालः पुरुषो यत् कर्म प्रतिपद्यते’ (रा० ३।५७।१८)। परीतकालो तीतकालः क्षीणायुः।
  • ‘परीतसत्त्वाः सहसा निपेतुः’ (भा० भी० ५९।१२१)। परीतसत्त्वाः गतप्राणाः। परासवो व्यसवः।
  • ‘अपि वोद्बन्धनादीनि परीतानि व्यवस्यति’ (भा० आश्व० १७।१३)। परीतानि विपरीतानि।
  • ‘परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः’ (भा० उ० ८८।१९)। परीतः, विपरीतः, प्रतीपः।
  • ‘परीत्य लोकान्…प्रदिशो दिशश्च’ (वा० सं० ३२।११)। मनसा परिक्रम्य।
  • ‘परीत्येशानं त्रिः’ (कि० १८।४५)। परीत्य प्रदक्षिणीकृत्य।
  • ‘प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि’ (मनु० २।४८)। परीत्य परिक्रम्य।
  • ‘ततः श्रेष्ठी समं तेन त्रिः परीत्य जितालयम्’ (बृ० क० को० ७०।७८)। उक्तोऽर्थः।
  • ‘परीत्य कृत्स्नं मनसा नृलोकम्’ (अवदा० जा० २।४)। परीत्य पर्यट्य विचर्य।
  • ‘यस्यामितानि वीर्या न राधः पर्येतवे’ (ऋ० ८।२४।२१)। पर्येतवे परिमातुं शक्यम्।
  • ‘तान् (असुरान् देवाः) समन्तं पर्यायं प्राणुदन्त’ (पञ्च० ब्रा० ९।१।३) पर्यायं परीत्य। णमुलन्तम्।
  • ‘मा भूत् कालस्य पर्ययः’ (रा० १।७३।३)। पर्ययोऽत्ययः।
  • ‘यथर्तुंलिङ्गान्यृतवः स्वयमेवर्तुपर्यये’ (मनु० १।३०)। ऋतुपर्यये स्वकायविसरे।
  • ‘पश्य कालस्य पर्ययम्’ (भा० वि० १९।४२, आश्रम० ११।१२)। पर्ययो विपर्ययः, वैपरीत्यम्, प्रातिकूल्यम्।
  • ‘कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः’ (भा० भीष्म० २।५)।
  • ‘वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः। ततः प्रत्यागते काले भिन्द्याद् घटमिवाश्मनि’ (भा० आदि० १४०।२१-२२)॥ उक्तोऽर्थः।
  • ‘नोत्सीदेम (वयं मृगाः) महाराज क्रियतां वासपर्ययः’ (भा० वन० २५८।५)। पर्ययः परिवर्तः। वासान्तरं नः कल्प्यतामित्याह।
  • ‘पक्षिणोपि निपातेन येषां स्यात्स्कन्धपर्ययः’ (भा० शां० १५।२६)। पर्ययो विगमो विनाशः।
  • ‘ऋतुपर्यायशिथिलैर्वृत्तनृत्यसमुज्झितैः’ (हरि० २।१६।२५)। पर्यायोऽपगमो व्यपायः।
  • ‘आङ्गरिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम्’ (भा० शां० १२३।१२)। समयपर्ययो मर्यादाभङ्गः।
  • ‘अदृश्यन्तोष्णपर्याये मेधानामिव वागुराः’ (भा० द्रोण० ९८।३२)। पर्यायः पर्ययोत्ययः।
  • ‘कालपर्याययोगेण राजा मित्रसहोऽभवत्’ (रा० ७।६५।१७)। उक्तोऽर्थः।
  • ‘पर्यायकाले धर्मस्य प्राप्ते कलिरजायत’ (भा० उ० ७४।१२)। पर्यायोऽन्तः।
  • ‘पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः’ ( रघु० ५।१६)। पर्यायः क्रमः परिपाटी। पर्यायेण क्रियायामेवं दोषः।
  • ‘तन्त्रेण तु क्रियायां भवति क्वचित्संभवः’ (मी० ६।२।२ सूत्रे शा० भा०)।
  • ‘पर्यायेण हि दृश्यन्ते स्वप्नाः कामं शुभाशुभाः’ (वेणी० २।१४)। पर्यायेण कादाचित्कतया।
  • ‘मत्सदृशं किमपि रूपं मां च पर्यायेण निर्वर्णयन्ती’ (दशकु० ५)।
  • ‘लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः’ (भा० शां० १७४।३०)। लोकपर्यायो लोकनिर्माणम् इति नीलकण्ठः। कोषं च प्रमाणमुद्धरति–पर्यायस्तु प्रकारे स्यान्निर्माणेऽवसरे क्रमे इति विश्वः।
  • ‘न पर्यायोऽस्ति मत्साम्यं त्वयि कुर्युर्विशाम्पते’ (भा० उ० ७३।७)। पर्याय उपायः।
  • ‘पर्यायो निधनस्यायं निर्धनत्वं शरीरिणाम्’ (पञ्चत० २।९९)। पर्यायो नामान्तरम्।
  • ‘न पर्यायोऽस्ति यद्राजन् श्रियं निष्केवलामहम्। तैः सहेमामुपाश्नीयाम्…’ (भा० उ० ८८।१२)॥ पर्यायः प्रकारान्तरम् इति नीलकण्ठः।
  • ‘अम्लानमालान्वितसुन्दरीणां पर्याय एषोऽस्ति च हर्षितानाम्’ (मात्स्यपु० १३९।४०)। पर्यायः प्रकारः, विधिः, आचारः।
  • ‘अस्त्राणामपि पर्यायं कर्तुमिच्छन्ति मानवाः’ (भा० शल्य० ३२।३०)। पर्यायः परिवर्तनमस्त्रान्तरग्रहणम्।
  • ‘पर्याये तात कस्मिंश्चित् ब्राह्मण्यमिह विन्दति’ (भा० अनु० २९।१२)। पर्याये कालपर्यये सति।
  • ‘यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव…’ (वि० पु० १।५।६५)॥ पर्यये पुनः पुनरागमे।
  • ‘चतुर्युगान्तपर्याये लोकानां यद् भयं भवेत्’ (हरि० १।४२।६, मात्स्य पु० १।७२।१७)। अन्तपर्याये चरमेऽवान्तरप्रलये।
  • ‘पर्यायार्थे ददुश्चापि रत्नानि सुबहून्यथ’ (हरि० २।९३।४)। पर्यायार्थे वेषधारणार्थमिति नीलकण्ठः।
  • ‘पर्यायं नाध्यवस्यन्ति देवमानुषयोजनाः’ (भा० उ० ७७।४)। पर्यायं बलाबलनिर्णयम्।
  • ‘नैनं घ्नन्ति पर्यायिणः’ (अथर्व० ६।७६।४)। पर्यायिणः परित आगन्तारः।

इष्

  • {परीष्}
  • इष् (इष गतौ, इष इच्छायाम्)।
  • ‘स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषम्’ (छां० उ० १।११।२)। पर्यैषिषममार्गयम्।
  • ‘दोषं ह्येषां नाध्यगच्छं परीच्छन्’ (भा० उ० २२।४)। परीच्छन् अन्विष्यन्, परीक्षमाणः।
  • ‘श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः’ (भा० वन० २८२।१७)। पर्येषणमन्वेषणं विचयः।
  • ‘ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत्’ (भा० वन० २६।१८)। बुद्धिपर्येषणं बुद्धेः साकल्येन सङ्ग्रहणम्।
  • ‘बाधनाऽनिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः’ (व्याय० ४।१।५७)। पर्येषणं प्रार्थना, विषयार्जनतृष्णा। परेरिच्छार्थस्य इषेर्ल्युटि रूपम्।
  • ‘हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा’ (भा० शल्य० ४।४३)। पर्येष्टव्य एष्टव्यः।

ईक्ष्

  • {परीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘अथ सर्वाणि भूतानि पर्यैक्षत’ (श० ब्रा० १०।४।२।२१)। इतस्ततोऽवालोकयदित्यर्थः।
  • ‘अर्थनित्यः परीक्षेत केनचिद् वृत्तिसामान्येन’ (नि० २।१) परीक्षेत परिच्छिन्द्यात्, विविञ्चीत।
  • ‘दूरादेव परीक्षेत ब्राह्मणं वेदपारगम्’ (मनु० ३।१३०)। परीक्षेत लक्षयेत् विभावयेत्। दुरात् पितृपितामहाद्यभिजनशुद्धिनिरूपणेनेति कुल्लूकः।
  • ‘ततो वासं परीक्षेत धर्मनित्येषु साधुषु’ (भा० शां० २८७।३६)। परीक्षेत इच्छेत्।
  • ‘परीक्षमाणस्तत्राथ मार्गमाणश्च जानकीम्’ (रा० ५।१७।१)। परीक्षमाण इतस्ततो विलोकमानः।
  • ‘तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम्। षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत्’ (मनु० ८।४०३)॥ परीक्षां कारयेत्।
  • ‘अदेवमातृकान् ग्रामान् परीक्ष्य विविधाः क्षितीः। संविभेजे विभक्तेन नादेयेन वारिणा’ (रघु० ५।१०९)॥ परीक्ष्य सम्यग् विभाव्य।

ईश्

  • {परीश्}
  • ईश् (ईश ऐश्वर्ये)।
  • ‘स्रष्टापि नापमार्ष्टुं तत् परीष्टे स्वकृतां कृतिम्’ (स्कन्द पु० का० ४।१९।५०)। परीष्टे ईष्टे प्रभवति। नार्थः परिणा।

उक्ष्

  • {पर्युक्ष्}
  • उक्ष् (उक्ष सेचने)।
  • ‘त्रिः (अग्नीन्) पर्युक्षति’ (गो० ब्रा० पू० १।१४)। पर्युक्षति परित उक्षति अभिषिञ्चति।
  • ‘तद्रुधिरपर्युक्षितं निजाश्रमाङ्गनं दृष्ट्वा’ (महावीर०)। पर्युक्षितमभिषिक्तम्। शोणिताप्लुतम्।
  • ‘आहवनीयं पर्युक्ष्य’ (का० श्रौ० ४।१३।१६)। उक्तोऽर्थः।

ऊह्

  • {पर्यूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘त्वा…पर्युहामि शतशारदाय’ (तै० सं०)। परिवहामि, प्रतिगृह्णामीत्यर्थः।
  • ‘(यूपं) पुरीषेण पर्यूहति’ (भा० श्रौ० ७।८।१३)। मृच्चयेन परिष्टभ्नाति।
  • ‘हनू हैवास्यैतेऽअथ पर्यूहति’ (श० ब्रा० ३।५।४।२२)। मृदा प्रच्छादयतीत्यर्थः।
  • ‘विशैवैनं पशुभिर्ब्रह्मवर्चसेन पर्यूहति’ (तै० आ० ५-३)। पर्यूहति परिक्षिपति। वेष्टयति।
  • ‘देवपुरा एवैतास्तनुपानीः पर्यूहते’ (तै० सं० ५।७।३।१०)। पर्यूहते प्रतिष्ठापयति।
  • ‘दक्षिणतो वज्रं पर्यौहत्’ (तै० सं० ५।३।९।२९)। पर्यौहत् अधारयत्।
  • ‘ते देवाः प्रतिबुध्य मित्रावरुणौ दक्षिणतः पर्यौहन्’ (ऐ० ब्रा० ६।४)। रक्षकत्वेनावस्थापितवन्त इति सायणः।
  • ‘ते वायुमवस्तात् पर्यौहन्’ (जै० ब्रा० २।६)। अधारयन्नित्यर्थः।
  • ‘अस्मै यजमानाय पर्यूह’ (तै० सं० १।१।७)। परितः सेवमानान् कुर्वित्यर्थः।
  • ‘कुम्भी… साम्ना पर्यूढा’ (अथर्व० ११।३।१५)। पर्यूढा परिवेष्टिता।
  • ‘प्रदक्षिणं पांसुभिः पर्यूह्य’ (आप० श्रौ० ७।३।१०।१२)। पर्यूह्य वेष्टयित्वा। पर्युह्येति तु पाणिनीया इच्छन्ति।

  • {पर्यृ}
  • ॠ (ॠ गतौ)।
  • ‘प्रत्येव तिष्ठति पर्यारिणी भवति’ (तै० सं० २।१।४।७)। पर्यारिणी प्रसवकालमतीत्य कृतप्रसवेति भट्टभास्करः।
  • ‘पर्यारिणीति परिहासूर्भवति’ (सत्या० श्रौ० २२।१।८)। या गौर्गभिणी सती प्राप्तं प्रसवकालं परित्यज्य चिरं गर्भं धृत्वा पश्चात्प्रसूयते सा पर्यारिणी।

ऋष्

  • {पर्यृष्}
  • ऋष् (ऋष गतौ)।
  • ‘अथ पर्यृषति।…समम्भूमिपर्यृषणं करोति’ (श० ब्रा० ३।६।१।१८)। मृदं निपीडयतीत्यर्थः।
  • ‘परि यत्काव्या कविर्नृम्णा बसानो अर्षति’ (ऋ० ९।७।४)। पर्यर्षति परिगच्छति परिक्रामन्नधिगच्छति।
  • ‘तान्सर्वैः स्तोमैरवस्तात् पर्यार्षन्’ (ऐ० ब्रा० ४।१९)। पर्यार्षन् परितो गताः, रक्षणार्थं परितो वेष्टनं कृतवन्त इत्यर्थ इति सायणः।

एष्

  • {पर्येष्}
  • एष् (एषृ गतौ)।
  • ‘जग्मुः सिद्धसंकल्पाः पर्येषन्तो विभावसुम्’ (भा० अनु० ८५।१९)। पर्येषन्तो विचिन्वन्तः।

कथ्

  • {परिकथ्}
  • कथ् (कथ वाक्यप्रबन्धे)।
  • ‘यतः काव्यस्य प्रभेदा मुक्तकं…पर्यायबन्धः परिकथा… इत्येवमादयः’ (ध्वन्या० ३।७ व्याख्यायाम्)। धर्मादिपुरुषार्थान्यतमाधिकरणकः कथासङ्ग्रहः परिकथा।

कल्

  • {परिकल्}
  • कल् (कल गतौ संख्याने च)।
  • ‘स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यङ्कैर्विगलितहारचारुभिः स्वैः’ (शिशु० ८।९)। परिकलयाञ्चकार मेने जग्राह।

काङ्क्ष्

  • {परिकाङ्क्ष्}
  • काङ्क्ष् (काक्षि काङ्क्षायाम्)।
  • परिकाङ्क्षितः परित्यक्तैषणो यतिर्भवति।

कास्

  • {परिकास्}
  • कास् (कासृ शब्दकुत्सायाम्)।
  • परिकासनं पुनः पुनः कासनं भवति। तथा चापस्तम्बगृह्ये (३।३।२) प्रयोगः–‘अर्थप्राध्बस्य परिक्षवे परिकासने चाप उपस्पृश्य।’

कुप्

  • {परिकुप्}
  • कुप् (कुप क्रोधे)।
  • ‘सुदर्शनं परिकुपितं निशम्य ते’ (भा० आदि० १९।२९)। परिकुपितम् अतिकुपितम्।

कूज्

  • {परिकूज्}
  • कूज् (कूज अव्यक्ते शब्दे)।
  • ‘पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण’ (सा० द०)। पर्यकूजि परितो गुञ्जितम्, सर्वतो विरुतम्।

कृ

  • {परिकृ}
  • कृ (डुकृञ् करणे)।
  • ‘वासो यथा परिकृतं मदिरामदान्धः’ (भा० पु० ११।१३।३६)। परिकृतं परिहितं परिकीर्णं परिक्षिप्तम्।
  • ‘नालीढया परिकृतं भक्षयीत कदाचन’ (भा० अनु० १०४।९०)। परिकृतं संस्कृतं सम्पादितम्। आलीढा रजस्वला। नालीढं नापरिहितमिति पाठान्तरम्। तत्रालीढं गवाद्याघ्रातम्। अपरिहितं परिषेचनहीनम्।
  • ‘वैसर्पदाहज्वरयोरेवं चोक्ता परिक्रिया’ (का० सं० चिकित्सा० मदात्यय० श्लो० ५१)। परिक्रिया शोधनम्।
  • ‘कुटीकञ्चुकनेपथ्यमण्डपादेः परिक्रियाम्’ (शुक्र० २।१५५)। उक्तोऽर्थः।
  • ‘तद्वशीकारात् परिपूर्णयोगिनश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षते’ (यो० सू० १।३९ सूत्रभाष्ये)। परिकर्म संस्कारः, शोधनम्।
  • ‘प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते। भजस्व माम्…’ (भा० वन० २८१।८)॥ परिकर्म प्रसाधनम्। परिकर्माङ्गसंस्कार इत्यमरः।
  • ‘मैत्र्यादिचित्तपरिकर्मवित्’ (शिशु० ४।५५)। चित्तपरिकर्म चित्तपरिशुद्धिः।
  • ‘अनग्निकाः सोदकाश्च खले स्युः परिकर्म्मिणः’ ( )। परिकर्म्मिणः अङ्गपरिमार्जाः, शोधकाः, अलङ्कारकाश्च।
  • ‘ममाप्येष स्तोत्रे हर निरपवादः परिकरः’ (महिम्न: स्तोत्रे १)। परिकरः कटिः, परिकरबन्धः।
  • ‘…यत्कृत परिकरो मया। तत् साधय त्वमपि…’ (कथा० २६।२०२)। उक्तोऽर्थः। परिकर्ता स याजको भवति यः परिवेत्तृविवाहविधिं निर्वर्तयति स च पतितो भवतीति हारीतः।

कृत्

  • {परिकृत्}
  • कृत् (कृती छेदने)।
  • ‘ऋश्यस्येव परिशासं परिकृत्य परि त्वचः’ (अथर्व० ५।१४।३)। परिकृत्य परितः कर्तित्वा, परिच्छिद्य।
  • ‘गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति’ (मनु० ४।२१९)। परिकृन्तति पृथक्करोति। व्यावर्तयतीत्यर्थः।
  • ‘अङ्गानि मा परिकर्तीः’ (शां० ब्रा० १०।४)। अङ्गभङ्गं मा कार्षीः, विशसनं मा स्म करोः।
  • ‘आटोपशूलौ परिकर्तिका च’ (सुश्रुत० उत्तर० अ० ५५)। परिकर्तिका कर्तनवत् पीडा।

कृत्

  • {परिकृत्}
  • कृत् (कृती वेष्टने)।
  • ‘आस्तां जाल्म उदरं श्रंसयित्वा कोश इवाबन्धः परिकृत्यमानः’ (अथर्व० ४।१६।७)। परिकृत्यमानो वेष्ट्यमानः।

कृष्

  • {परिकृष्}
  • कृष् (कृष विलेखने)।
  • ‘श्वापदाः परिकर्षन्तु नरांश्च निहतान्मया’ (रा० २।९६।३०)। परिकर्षन्तु परितः कर्षन्तु।
  • ‘इतश्चेतश्चैनं कृतान्तः परिकर्षति’ (रा०)।
  • ‘रागाभिभूतः पुरुषः कामेन परिकृष्यते’ (भा० वन० )। उक्तोऽर्थः।
  • ‘योऽसौ शतसहस्राणि सहस्रं परिकर्षति’ (रा० ६।२।२८)। परिकर्षति नयति, सेनानीर्भवति।
  • ‘स्थाने स्मिन् (स्वर्गे) वस राजेन्द्र कर्मभिर्निजितैः शुभैः। किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि’ (भा० महाप्रस्था० ३।३३)। परिकर्षसि वहसि, सततं चिन्तयसि इति भावः।
  • ‘अनावृष्ट्या तथा राजा स तदा परिकर्षितः’ (रा० १।८।१३)। परिकर्षितः कदर्थितः परिक्लिष्टः।
  • ‘नाविन्दतार्ति परिकर्षितापि’ (भा० पु० ४।२३।२०)। कृच्छगताऽपीत्यर्थः।

कॄ

  • {परिकॄ}
  • कॄ (कॄ विक्षेपे)।
  • ‘सोमक्रयण्याः पदं जघनेन गार्हपत्यं परिकिरति’ (श० ब्रा० ३।६।३।४)। परिकिरति विकिरति।
  • ‘यदा परिकरिष्यन्ति ऐणेयानि तन्तुना’ (भा० उ० ६३।७)। परिकरिष्यन्ति वेष्टयिष्यन्ति।
  • ‘प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः’ (भा० वि० १९।२९, रा० ५।१४।२८)। परिकीर्णमाकीर्णं परिगतम् परिक्षिप्तम्।
  • ‘दिवसं परिकीर्णानामाहारार्थं पतत्त्रिणाम्’ (रा० २।११९।४)। परिकीर्णानां परितः संचरितवताम्।
  • ‘भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः’ (रघु० ८।३५)। उक्तोऽर्थः।
  • ‘महीं महेच्छः परिकीर्य सूनौ’ (रघु० १८।३३)। परिकीर्य परिदाय समर्प्य।
  • ‘धष्टिभ्यां भस्मना परिकीर्याङ्गारैश्च’ (का० श्रौ० २६।३।९)। परिकीर्य आकीर्य।

कृत्

  • {परिकृत्}
  • कृत् (कृत संशब्दने)।
  • ‘न दत्त्वा परिकीर्तयेत्’ (मनु० ४।२३६)। न परिकीर्तयेत् न परस्य कथयेत्, नोच्चैर्घोषयेत्।

क्लृप्

  • {परिक्लृप्}
  • क्लृप् (कृपू सामर्थ्ये)।
  • ‘श्रेयसे शाश्वतो देवो वराहः परिकल्पताम्’ (उत्तर० ५।२७)। परिकल्पतां परिकल्पयताम् प्रदिशतु वितरतु।
  • ‘गौर्मूल्यं परिकल्प्यताम्’ (भा० अनु० ५१।२२)। गौः क्रयसाधनं द्रव्यमुत्तमं विज्ञायताम् इत्यर्थः।
  • ‘उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते’ (रा० २।७५।४४)। परिकल्प्यते (शास्त्रेण) विधीयते।
  • ‘दशावरा वा परिषद् यं धर्मं परिकल्पयेत्’ (मनु० १२।११०)। परिकल्पयेत् विनिगमयेत्, व्यवस्येद्, व्यवस्थापयेत्।
  • ‘सर्वागमानामाचारः प्रथमः परिकल्प्यते’ (भा० अनु० १४९।३७)। परिकल्प्यते परिगण्यते।
  • ‘सन्धिं च विग्रहं यानमासनं संश्रयं तथा। द्वैधीभावं गुणानेतान्यथावत् परिकल्पयेत्’ (याज्ञ० १।३४७)॥ यथावत् परिकल्पयेत् सम्यक् प्रयञ्जीत।
  • ‘आर्यपुत्रायमेकाकी नूपुरो न विराजते। अनुरूपस्तदेवास्य द्वितीयः परिकल्प्यताम्’ (कथा० २५।१७३)॥ परिकल्प्यतां निर्माप्यताम्।
  • ‘अन्यत्र वासं परिकल्पयन्तु’ (व० बृ० सं० ५९।११)। वासं गृहं निर्मान्त्वित्यर्थः।
  • ‘न त्वेनं वणिजं तात श्राद्धे च परिकल्पयेत्’ (भा० अनु० २३।२५)। परिकल्पयेत् केतयेत्, निमन्त्रयेत।
  • ‘श्यामान् वारणपुष्पांश्च तथाष्टपदिका लताः। तत्र तत्र परिक्लृप्ता ददर्श स महीपतिः’ (भा० अनु० ५४।६)॥ परिक्लृप्ता विद्यमानाः।
  • ‘परिकल्पितसान्निध्या काले काले च वन्दिषु’ (रघु० ४।६)। परिकल्पितं कृतं साधितम्।
  • ‘चित्रे निवेश्य परिकल्पितसत्त्वयोगा’ (शा० २।१०)। उक्तोऽर्थः।
  • ‘मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ’ (रघु० ८।६१)। परिकल्पितं प्रणीतं रचितं योजितम्।
  • ‘निश्चिते गमनेऽन्येद्युर्लग्ने च परिकल्पिते’ (कथा० १५।१२७)। परिकल्पिते नियते।
  • ‘यं सर्वशैलाः परिकल्प्य वत्सम्’ (कु० १।२)। परिकल्प्य, विधाय, वत्सत्वमारोप्य।

क्रम्

  • {परिक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘परि वाजपतिः कविरग्नि र्हव्यान्यक्रमीत्’ (ऋ० ४।१६।३)। पर्यक्रमीत् परितो गतवान्, पर्यरभतेत्यर्थः।
  • ‘तामन्वेष्टुं स नृपतिः परिचक्राम सर्वतः’ (भा० आदि० १७१।४३)। परिचक्राम परिबभ्राम पर्याट।
  • ‘अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्’ (रा० १।५१।२१)। उक्तोऽर्थः।
  • ‘मृत्युमेव तत् पर्यक्रामत्’ (ऐ० ब्रा० ३।१४)। पर्यक्रामत्=अत्यक्रामत्, उदलङ्घत।
  • ‘यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः’ (रा० १।१४।३)। शास्त्रोक्तस्वस्वक्रियाक्रममविस्मृत्य प्रवर्तन्त इत्याहेति कतकः।
  • ‘पर्यक्रामंश्च विधिवत् स्वे स्वे कर्मणि याजकाः’ (रा० १।१४।३)। इति पाठान्तरम्।
  • ‘प्राकारं परितः शरासनधरैः क्षिप्रं परिक्रम्यताम्’ (मुद्रा० २।१३)। धानुष्काश्चङ्क्रम्यन्तामित्याह।
  • ‘परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः’ (रा० १।४०।७)। परिक्रान्ता भ्रान्ता।
  • ‘परिक्रान्तेषु लघुषु अध्वर्युपुरुषेषु च’ (मात्स्य० पु० १४३।८)।
  • ‘छायामिव प्रतान्त्सूर्यः परिक्रामन्ननीनशत्’ (अथर्व० ८।६।८)। उक्तोऽर्थः।
  • ‘परिक्रामति संसारे चक्रवत्’ (भा० वन०)। परिवर्तमाने।
  • ‘इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्। शैलपार्श्वे परिक्रान्तम्…’ (रा० २।१००।१०)॥ परिक्रान्तं परिक्रमणस्थानम्। अधिकरणे क्तः।
  • ‘स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च’ (रा० ३।६४।३९)। परिक्रान्तं परिक्रमम्। पादन्यासमिति यावत्। नपुंसके भावे क्तः।
  • ‘ऊरुवेगेन महता भीमेन परिकर्षिणा। उत्सहेऽहं परिक्रान्तुं (=परिक्रमितुम्) सर्वानाकाशगोचरान्’ (रा० ५।३।४२)। परिक्रमितुमासादयितुमत्यासादयितुमिति वा।
  • ‘सेयं सर्वज्ञस्य ज्ञेया व्यवस्थाऽनुपदं न शक्या परिक्रमितुम्’ (३।१।३ न्यायसूत्रे भा०)। परिक्रमितुं परावर्तयितुम्, प्रत्याख्यातुम्।
  • ‘परिक्रम्यावलोक्य च’ (नाटकेषु कविवाक्यम्)। परिक्रम्य चङ्क्रमणं कृत्वा।

क्री

  • {परिक्री}
  • क्री (डुक्रीञ् द्रव्यविनिमये)।
  • ‘य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति’ (श० ब्रा० ११।३।३।५)। क्रीणातीत्येवार्थः।
  • ‘पवस्तैस्त्वा (हे ओषधे) पर्यक्रीणन्’ (अथर्व० ४।७।६) पर्यक्रीणन् विन्यमयन्त। विनिमयेनागृह्णन्नित्यर्थः।
  • ‘ब्राह्मणं सुरापं परिक्रीणीयात्’ (शां० श्रौ० १५।१५।१४)। परिक्रीणीयात् परिक्रीणीत अवक्रीणीत भाटकेन गृह्णीयात्।
  • ‘कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्’ (मैनाकमद्रिम्) (भट्टि० ८।८)। कृतेन प्रत्युपकारेण कृतमुपकारं प्रतिददानम्।
  • ‘संभोगाय परिक्रीतः कर्तास्मि तव नाप्रियम्’ (भट्टि० ८।७८)। परिक्रीतः क्रीतः।
  • ‘शतेन शताय वा परिक्रीतः’ (दासः) (सि० कौ०)। नियतकालभृत्यतया स्वीकृत इत्यर्थः।
  • ‘अन्तेबासी बा जुहुयाद् ब्रह्मणा स परिक्रीतः। क्षीरहोता वा जुहुयाद् धनेन स परिक्रीतः’ (न्या० भा० ४।१।६०)।
  • ‘ऋत्विजः शवद्रव्यं दक्षिण्यं प्रतिष्ठाप्य तत्परिक्रीतास्त्यागं कुर्वन्ति’ (मी० शा० भा० १०।२।१७।४७)।
  • ‘भक्त्यै मुक्तिः परिक्रीता सद्भिर्विष्णोरुषादिभिः’ (बोप० ५।१८)। भक्त्यै भक्त्या। करणेऽर्थे सम्प्रदानं वा। अत्र क्रयणम् एवार्थः, न तु परिक्रयणम्। भक्तिरत्र भृतिरित्युपचर्यते।
  • ‘नियतकाला मुक्तिः स्वीक्रियत इति भक्तिपरा न सहन्ते।**
  • ‘परिक्रयणे सम्प्रदानमत्यतरस्याम्’ (पा० १।४।४४)। परिशब्दः सामीप्यं द्योतयति। क्रयो नामात्यन्तिकं स्वीकरणम्। नियतकालं तु तत्समीपमेवेति परिशब्दस्यार्थ इति पदमञ्जरी। परितः क्रयणं परिक्रयणमिति व्युत्पत्तिस्तु न साध्वी। विपरीतार्थाख्यानप्रसक्तेः। दीक्षितोपि शब्दकौस्तुभे हरदत्तमेवानुविधत्ते।
  • ‘कोशांशेनाथ कुप्येन सर्वकोशेन वा पुनः। शेषप्रकृतिरक्षार्थं परिक्रय उदाहृतः’ (का० नी० सा० ९।१८)॥ परिक्रयः सन्धिविशेष एतल्लक्षणः।

क्रीड्

  • {परिक्रीड्}
  • कीड् (कीडृ विहारे)।
  • ‘यैः परिक्रीडसे सीते विश्वस्तैर्मृगपोतकैः’ (रा० ३।६१।५)। परिक्रीडसे परितः क्रीडसि।
  • ‘मरुतस्तमभितः परिचिक्रीडुः’ (श० ब्रा० २।५।२।२०)।
  • ‘परिक्रीडस्व सानुषु’ (भट्टि० ८।१०)।

क्रुश्

  • {परिक्रुश्}
  • क्रुश् (क्रुश आह्वाने रोदने च)।
  • ‘भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः’ (भा० आदि० ११९।४२)। परिचुक्रुशुः परितश्चक्रन्दुः।
  • ‘परिक्रुष्टं च’ (आप० ध० १।१८।१७)। भोक्तुकामा आगच्छत इत्येवं परिक्रुश्य सर्वत आहूय यद् दीयते तत् परिक्रुष्टमुच्यते।

क्लम्

  • {परिक्लम्}
  • क्लम् (क्लमु ग्लानौ)।
  • ‘सन्तप्तवक्षाः सोऽत्यर्थं… परिक्लाम्यति’ (सुश्रुत० २।४४७।७)। परिक्लाम्यति अत्यन्तं ग्लायति।

क्लिद्

  • {परिक्लिद्}
  • क्लिद् (क्लिदू आर्द्रीभावे)।
  • ‘तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम्’ (मुनिम्) (रा० १।४८।२४)। परिक्लिन्नम् अभिषिक्तम्।

क्लिश्

  • {परिक्लिश्}
  • क्लिश् (क्लिशू विबाधने)।
  • ‘परिक्लिश्यमाने च’ (पा० ३।४।५५)। परिक्लेशः सर्वतो बाधनम् इति काशिका। उरः प्रतिपेषं युध्यन्त इत्युदाहरणम्। कृत्स्नमुरः पीडयन्तो युध्यन्त इति तदर्थः।

क्षर्

  • {परिक्षर्}
  • क्षर् (क्षर संचलने)।
  • ‘ऊर्मिर्यः पवित्रे पर्यक्षरत्’ (ऋ० ९।६४।११)। पर्यक्षरत् परितोऽस्यन्दत।
  • ‘परि णः क्षरा सहस्रिणीरिषः’ (ऋ० ९।६१।३)। परिक्षर प्रवाहय।

क्षि

  • {परिक्षि}
  • क्षि (क्षि क्षये)।
  • ‘अनादेयं नाददीत परिक्षीणोपि पार्थिवः’ (मनु० ८।१७०)। परिक्षीणः कृशकोषः।
  • ‘परिक्षयोऽप्यधिकं रमणीयः’ (मृच्छ० १)। परिक्षयो विभवापकर्षः।
  • ‘व्रजद्भिरार्द्रेन्धनवत् परिक्षयम्’ (कि० १६।५७)।

क्षि

  • {परिक्षि}
  • क्षि (क्षि निवासगत्योः)।
  • ‘अग्निं हीमाः प्रजाः परिक्षियन्ति’ (ऐ० ब्रा० ६।३२)। परिक्षियन्ति परिगृह्य वसन्ति। उपसर्गवशात् सकर्मकत्वम्।

क्षिप्

  • {परिक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘…ततः सर्वान् परिचिक्षेप पार्थिवान्’ (भा० द्रोण० २६।४६)।
  • ‘गवां सहस्रमप्येकं न च विश्राणितं मया। परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसे’ (रा० २।३२।३६)। परिक्षिपसि उपरिक्षिपसि इति संस्कृतशार्मण्यकोषः। तन्न विचारसहम्। परिशब्दो न क्वचिदुपर्यर्थमाह। दण्डक्षेपेण यावद् वेष्टयसीत्येवार्थोऽक्लेशेन लभ्यः। दण्डेन परिक्षेपः परिग्रहः पदार्थजातस्य विवक्षितः।
  • ‘पित्तजे रक्तजे वापि सकृदेव परिक्षिपेत्’ (सुश्रुत० सूत्र० १८।२७)। परिक्षिपेत् व्रणं पट्टेन परिवेष्टयेत्।
  • ‘प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्’ (रा० २।३०।२)। परिचिक्षेप सोपहासवचनमुक्तवतीति टीकाकृद्रामः। विनिनिन्देत्यर्थः। संस्कृतशार्मण्यकोषकारौ तु आशिश्लेष, उपजुगुहे, दोर्भ्यां परिरेभे इत्यर्थ इत्याचक्षाते। स न शक्योऽभ्युपैतुम्। तत्र व्यवहारादर्शनात्। परिपूर्वस्य क्षिपेर्वेष्टनमर्थः प्रसिध्यति। कामं परिरम्भो नाम वेष्टनप्रकारो भवति, तथापि तत्रार्थे परिक्षिपेर्व्यवहारो नास्ति। प्रकरणविरोधाच्च। इहैवानन्तरे श्लोके सीताकृतो रामक्षेपः श्रूयते–किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम इति। अभिमानादिति हेतुवचनाच्च निन्दापरमेव वाक्यमिति व्यवसीयते।
  • ‘समन्ततः परिक्षिप्ता माताऽभून्मे दवाग्निना’ (भा० आश्रम० ३८।१८)। परिक्षिप्ता परीताऽऽलीढा।
  • ‘अन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन’ (भा० उ० १४३)। परिक्षिप्ता वेष्टिता।
  • ‘कालधर्मपरिक्षिप्तः पाशैरिव महागजः’ (रा० २।७२।३७)। परिक्षिप्तः सन्दानितः, बद्धः संयतः।
  • ‘दुःसहा हि परिक्षिप्ताः क्वणद्भिरलिगाथकैः’ (भट्टि० ६।८४)। उक्तोऽर्थः।
  • ‘त्रिलोचनाक्षिविक्षेपपरिक्षिप्तमहैनसि’ (स्कन्द० पु० का० ४।७५।४८)। पराशब्दस्य स्थाने परिशब्दो व्यवहारभेदाय कल्पते। दूरं क्षिप्तानि महान्त्येनांसि यस्य तस्मिन्।
  • ‘कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः’ (भा० शल्य० २३।८७)। परिक्षिप्य, परिवेष्ट्य परीत्य।
  • ‘महार्णवपरिक्षेपं लङ्कायाः’ (रघु० १२।६६)। परिक्षेपः परिवेषः।
  • ‘असतां च परिक्षेपः सतां च परिगूहनम्’ (का० नी० सा० १४।५१)। परिक्षेपो दानमानाभ्यां व्यपरोपणम् इति मङ्गला। परित्याग इत्युपाध्यायनिरपेक्षा।
  • ‘चतुष्पथगदायुद्धे’ (भा० आदि० ६८।१२)। चत्वारः प्रक्षेपविक्षेपपरिक्षेपाभिक्षेपाख्याश्चत्वारः पन्थानोऽस्येति चतुष्पथम्। परिक्षेपो बहुषु समन्तात् परिभ्रमणेन शत्रूणां क्षेप इति नीलकण्ठः।

क्षु

  • {परिक्षु}
  • क्षु (क्षु शब्दे)।
  • ‘अनुहवं परिवादं परिक्षवम्’ (अथर्व० १९।८।४)। परितः क्षवः परिक्षवः क्षुत्। परिरिह वर्जने वा। वर्जिते प्रदेशे क्षवः परिक्षवः।

खन्

  • {परिखन्}
  • खन् (खनु अवदारणे)।
  • परितः खन्यते (खायते) इति परिखा।

ख्या

  • {परिख्या}
  • ख्या (ख्या प्रकथने, चक्षिङ आदेशः ख्याञिति वा)।
  • ‘दिवो धर्तारं उर्विया परिख्यन्’ (ऋ० १०।१०।२)। परितः पश्यन्तीत्यर्थः।
  • ‘अथ योऽयं भावोऽप्सु परिख्यायते यश्चायमादर्शे’ (छां० उ० ८।७।४)। परिख्यायते दृश्यत उपलभ्यते।
  • ‘मा नो…मरुतः परि ख्यन्’ (ऋ० १।१६२।१)। मा परिख्यन् मोपेक्षिषत, माऽवजीगणन्।
  • ‘मेन्द्रो नो विष्णुर्मरुतः परिख्यन्’ (ऋ० ७।९३।८)। उक्तोऽर्थः।
  • ‘अञ्जनेति परिख्याता पत्नी केसरिणः कपेः’ (रा० ५।२।१४)।
  • ‘परिख्याताऽऽख्याता कीर्तिता।’ (५।१२)।
  • ‘सूतपुत्र यथा भार्गवस्य महात्मनः। च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः’ (भा० आदि० ५।१२)। परिख्यातं विज्ञातं मतम्।

खिद्

  • {परिखिद्}
  • खिद् (खिद दैन्ये)।
  • ‘लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः’ (भा० पु० ३।९।२८)। खिद्यतः=खिद्यमानस्य, दुर्मनायमानस्य, उद्विजमानस्य।
  • ‘उत्सङ्गेऽस्य शिरः कृत्वा सुष्वाप परिखिन्नवत्’ (भा० आदि० ४७।१५)। परिखिन्नवत् परिश्रान्तवत्।
  • ‘क्षुधिताश्च परिश्रान्ताः परिखिन्नाः पिपासिताः’ (रा० ४।५१।२)। परिखिन्नाः परिद्यूना दूनमनस्काः।
  • ‘कान्तावियोगपरिखेदितचित्तवृत्तिः’ (ऋतु० ६।२६)। विरहातुरः, वियोगविक्लवः।

गण्

  • {परिगण्}
  • गण् (गण संख्याने)।
  • ‘अपरिगणितगुणगण ईश्वरे’ (भा० पु० ६।९।३५)। परिगणनं कार्त्स्न्येन गणनं कलनं संख्यानम्।
  • ‘इत्यपरिगणयन्गुह्यकस्तं ययाचे’ (मेघ० ५)। अपरिगणयन् अचिन्तयन्, अविमृशन्।

गम्

  • {परिगम्}
  • गम् (गम्लृ गतौ)
  • ‘…चन्द्ररश्मयः। पर्यगच्छञ्छनैः सर्वा दिशः खं च क्षितिं तथा’ (भा० द्रोण० १८४।५१)॥ व्याप्नुवन्नित्यर्थः।
  • ‘इति सीताञ्जलिं कृत्वा पर्यगच्छन्मनस्विनी’ (न्यग्रोधम्) (रा० २।५५।२५)। पर्यगच्छत् पर्यक्रामत्, प्रदक्षिणमकरोत्।
  • ‘ताः ( प्रजाः) अग्निना पर्यगच्छत्’ (ऐ० ब्रा० ३।३६)। पर्यगच्छत् पर्यवेष्टयत्। अग्निं प्राकारमकरोदित्यर्थः।
  • ‘तानि रथो भूत्वा पर्यगच्छत् तानि परिगत्यात्मन्नधत्त’ (श० ब्रा० ९।४।१।२)। पर्यगच्छत् आसादयत्।
  • ‘यथा हि मेरुः सूर्येण नित्यशः परिगम्यते’ (भा० वन० १०४।३)। परिगम्यते परिक्रम्यते प्रदक्षिणीक्रियते।
  • ‘परि द्यामिव सूर्योऽहीनां जनिमागमम्’ (अथर्व० ६।१२।१)। पर्यागमम् पर्याटम्।
  • ‘तावाश्रमनदीश्चैव वनानि च सरांसि च। तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः’ (भा० आदि० ७९१८)। उक्तोऽर्थः।
  • ‘वृषलत्वं परिगता ब्राह्मणानामदर्शनात्’ (भा० अनु० ३३।२१)। परिगताः प्राप्ताः।
  • ‘सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया’ (भा० शां० २२७।१०७)।
  • ‘प्रथमपरिगतार्थस्तं रघुः सन्निवृत्तं विजयिनमभिनन्द्य’ (रघु० ७।८१)। परिगतार्थो विदितवृत्तान्तः।
  • ‘परिगतशरच्चन्द्रकिरणास्त्रियामाः’ (भर्तृ० ३।७६)। परिगताः प्रसृता व्याप्ताः।
  • ‘सर्वे परिगता देशा यज्ञियं न लभे पशुम्’ (रा० १।६१।१४)। परिगता आसादिता विचिताः।
  • ‘सर्वे परिगताः शैलाः’ (रा० ४।३७।३६)। उक्तोऽर्थः।
  • ‘वयं येभ्यो जाताश्चिरपरिगता एव खलु ते’ (भर्तृ० ३।३८)। परिगताः परित्यज्य गताः प्रेताः। परिप्राप्ते परिगतं प्रज्ञाते परिवेष्टिते इति वैजयन्ती।
  • ‘ह्रीपरिगतो बुद्ध्या परित्यज्यते’ (हितोप०)। ह्रियाऽऽविष्ट इत्यर्थः। तेनाष्टौ परिगमिताः समाः कथंचित्। परिगमिताः क्षपिता नीताः।
  • ‘ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः’ (शा० ७।३५) परितो गता शक्तिर्यस्य, व्याप्तसामर्थ्यः।
  • ‘परीक्ष्य तत्त्वं परिगन्तुमर्हसि’ (भा० शां० २२८।९६)।

गर्ह्

  • {परिगर्ह्}
  • गर्ह् (गर्ह कुत्सायाम्)।
  • ‘किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे’ (भा० उ० ४९।३०)। परिगर्हसे भृशं कुत्सयसि बलवन्निन्दसि अवगायसितराम्।
  • ‘धर्माधर्मं च प्राकृतं परिगर्हयन्’ (भा० शा० ३१९।९८)। उक्तोऽर्थः।

गल्

  • {परिगल्}
  • गल् (गल भ्रंशने लौकिकः)।
  • ‘महाद्रयः परिगलिताग्रसानवः’ (भा० आदि० १९।२६)। परिगलिता भ्रष्टा अधःपतिताः।
  • ‘पङ्क-परिगलितचरणभङ्गं कृत्वा’ (पञ्चत०)। परिगलितो निमग्नः।

गुप्

  • {परिगुप्}
  • गुप् (गुपू रक्षणे)।
  • ‘प्रजा औरसबद् धर्मावेक्षमाणः पर्यगोपायत्’ (भा० पु० ५।२।१)। परितोऽरक्षदित्यर्थः।
  • ‘अनार्या ये न जानन्ति समयं मन्दचेतसः। तेभ्यः परिजुगुप्सेथाः’ (भा० शां० ८३।११)। आत्मानं रिरक्षिषेरित्यर्थः। इह निन्दायां सन्न।

गुह्

  • {परिगुह्}
  • गुह् (गुहू संवरणे)।
  • ‘असतां च परिक्षेपः सतां च परिगूहनम्’ (भा० नी० सा० १४।५१)। परिगूहनं पूजया स्वीकरणम् इति मङ्गला। संवरणमित्युपाध्यायनिरपेक्षा।

गै

  • {परिगै}
  • गै (गै शब्दे)।
  • ‘अथैनं सामभिः परिगायति’ (श० ब्रा० ९।१।२।३३)। इममभितः सामानि गायतीत्यर्थः।
  • ‘नृत्यन्ति परिगायन्ति वेदयन्तो महद् भयम्’ (भा० भीष्म० ३।७)। परिगायन्ति चञ्क्रम्यमाणा गायन्तीत्यर्थः।
  • ‘एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते’ (भा० अनु० ८५।७८)। परिगीयते सर्वत्र कीर्त्यते।
  • ‘चितावाहितमुद्गाता त्रिर्यामेन परिगायन्’ (का० श्रौ० २२।६।१५)। उक्तोऽर्थः।
  • ‘यानि नामानि गौणानि विख्यातानि महात्मनः। ऋषिभिः परिगीतानि…’ (भा० अनु० १४९।१३)॥

ग्रह्

  • {परिग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘मय्यहं तं परिगृह्णामि देवम्’ (अग्निम्) (अथर्व० १२।२।३३)। परिगृह्णामि=अन्तर्दधामि, परिवेष्टयामि।
  • ‘द्यावापृथिवीभ्यां वा एतं जातं देवाः पर्यगृह्णन्’ (ऐ० ब्रा० १।१६)। उक्तोऽर्थः।
  • ‘बाहुना परिजग्राह दक्षिणेन शिरोधराम्’ (वृकोदरः) (भा० आदि० १६३।२६)। बाहुना कन्धरां परिजग्राह परितो गृहीतवान्। तं राक्षसमगलहस्तयतेत्यर्थः।
  • ‘भुजाभ्यां परिजग्राह भीमसेनं महाबलम्’ (भा० आदि० १६३।२१। आददे वेष्टयामास।
  • ‘भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ’ (भा० द्रोण० १७८।२९)।
  • ‘ते प्राञ्चं विष्णुं निपाद्य छन्दोभिरभितः पर्यगृह्णन्’ (श० ब्रा० १।२।५।६)।
  • ‘परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति’ (का० श्रौ० १६।५।३)।
  • ‘अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ’ (ऋ० ८।६।१०)। वशेऽकार्षमित्याह।
  • ‘शुष्णस्य चित्परि माया अगृभ्णाः।’ (ऋ० ५।३१।७)। पर्यगृह्णीथाः पर्यवेष्टयः, वशेऽकरोः, आत्मसादकरोः।
  • ‘अथ पशुकामः सायं पशुषु समेतेषु अग्निहोत्रं जुहुयात्। ब्रह्म वा अग्निहोत्रम्। ब्रह्मणैवैतत् पशून्परिगृह्णाति’ (जै० ब्रा० १।५)। परिगृह्णाति अवरुणद्धि।
  • ‘भूयिष्ठानहं पशून्यजमाने पर्यग्रहीषम्’ (ऐ० ब्रा० ६।२४)। पर्यग्रहीषमस्थापयम्।
  • ‘तथैव परिजग्राह वन्येन हविषा तदा’ (भा० आदि० १७५।८)। परिजग्राह निमन्त्रयाञ्चक्रे।
  • ‘पाद्यं परिगृहाणेदमासनं च’ (द्रौप० ४।१३)। परिगृहाण आदत्स्व, प्रतीच्छ, स्वीकुरु।
  • ‘परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि’ (माल० ४।१३)। स्वीकुर्वित्येवार्थः।
  • ‘परिगृह णातु तां कन्याम्’ (पञ्चत ० ५।८४)। दारकर्मणा स्वी कुवित्यर्थः।
  • ‘तं दनुश्च दनायूश्च मातेव पितेव च परिजगृहतुः’ (श० ब्रा० १।६।३।९)। प्रत्युत्थानाभिवादाभ्यां सच्चक्रतुरित्याह।
  • ‘मातापितृभ्यामुत्सृष्टं…यं पुत्रं परिगृह्णीयात्’ (मनु० ९।१७१)। पुत्रकृतकं स्वीकुर्यादित्यर्थः।
  • ‘स्थलयोदकं परिगृह्णन्ति’ (तै० सं० १।६।१०।५)। कूलेन जलं निरुन्धन्तीति वाक्यार्थः।
  • ‘वेदिं च परिगृह्णाति’ (तै० सं० १।६।९)। परितो रेखा आलिखतीत्यर्थः।
  • ‘बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः’ (मनु० ८।७३)। परिगृह्णीयात् प्रमाणत्वेनाङ्गीकुर्यादित्यर्थः। संवादिनो बहून् साक्षिणोऽनुसृत्य विवादं निर्णयेदिति तात्पर्यम्।
  • ‘भ्रातरं भरतं रामः परिजग्राह पाणिना’ (रा० २।१००।२)। इह परिणा नार्थः। पाणौ जग्राहेत्येवार्थः।
  • ’ नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत्’ (वा० सं० ३२।२)। परिच्छिनत्ति परिवृणोति। ग्रहेर्जुहोत्यादित्वमूरीकृत्य शतरि रूपम्।
  • ‘स्वर्गः परिगृहीतश्च स्वधर्मं परिरक्षता’ (रा० ४।२४।१०)। परिगृहीतो वशे स्थापितः।
  • ‘परिगृहीतो वा एतस्य यज्ञः परिगृहीता देवताः’ (ऐ० ब्रा० १।३)। उक्तचर एवार्थः।
  • ‘ब्रह्मणा परिगृहीता’ (कुम्भी) (अथर्व० ११।३।१५)।
  • ‘अथ यत्सुवर्णरजताभ्यां कुशीभ्यां परिगृहीतः’ (चत्वालः) आसीत् (तै० ब्रा० १।५।१०।२)। परिगृहीतः परितोऽवलम्बितः।
  • ‘देवेन च परिगृहीतः’ (माल० १) आत्मीयः कृत इत्यर्थः।
  • ‘राक्षसमतिपरिगृहीतः’ (मुद्रा० १)। अमात्यराक्षसबुद्ध्या कृतसाहाय्यः।
  • ‘अधिगच्छति महिमानं चन्द्रोपि निशापरिगृहीतः’ (माल० १।१३)। निशापरिगहीतः=निशया कृतसाहचर्य्यः, तयाऽवष्टब्धः।
  • ‘येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम्’ (वा० सं० ३४।४)। परिगृहीतं परिगतं वेष्टितम्।
  • ‘अनृतं सत्येन परिगृहीतम्’ (श० ब्रा० १४।८।६।२)।
  • ‘इमामद्भिः परिगृहीताम्’ (छां० उ० ३।११।६)। इमां पृथिवीं समुद्रैः परिवेष्टितां परिहितामित्यर्थः।
  • ‘प्रवृत्तहिंसानामपरिगृहीतानाम्’ (कौ० अ० २।२६।३)। अपरिगृहीतानां (वनानाम्) अकृतवेष्टनानामनिर्मितवृतीनाम्।
  • ‘ते ह्यपरिगृहीतमभिनीय विक्रीणीरन्’ (कौ० अ० ५।२।२५)। अपरिगृहीतमस्वभूतम्, अपरिग्रहम्।
  • ‘अन्यच्चापरिगृहीतम्’ (आप० ध० २।१०।६)। उक्तोऽर्थः।
  • ‘इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान् न वेति व्यवस्यन्’ (शा० ५।१९)। परिगृहीतं परिग्रहः कलत्रमिति स्वीकृतम्। प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगृहीतो भूप्रदेशो विवीत इति मिताक्षरा। परिगृहीतः कृतवेष्टः। वृतियुक्तः।
  • ‘परिश्रिते स्तुवन्ति ब्रह्मणः परिगृहीत्यै’ (पञ्च० ब्रा० ४।९।११)। परिगृहीत्यै परितो ग्रहणाय। बहिर्गमनाभावायेत्यर्थः।
  • ‘जगामैव तदा कुन्ती गान्धारी परिगृह्य ह’ (भा० आश्रम० १६।९)। परिगृह्य सहादाय, तां सहचरीं कृत्वा।
  • ‘देवादिशरीरं परिगृह्य’ (सां० का० ४२ इत्यत्र टीका)। परिगृह्य आस्थाय, आधाय।
  • ‘कार्ष्णायसमलङ्कारं परिगृह्य च नित्यशः’ (भा० अनु० २५९४)। परिगृह्य परिधाय धृत्वा।
  • ‘अक्षान्स कक्षे परिगृह्य वाससा’ (भा० वि० ७।१)। परिगृह्य परिवेष्ट्य, आच्छाद्य।
  • ‘न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम्’ (भा०)। उक्तोऽर्थः। उत्तीर्येति तु कश्चित्। तन्न। अत्रार्थेऽन्यत्र व्यवहारादर्शनात्।
  • ‘स्कन्नमात्रं च तुच्छुकं स्रुवेण परिगृह्य सः’ (भा० अनु० ८५।१०१)। परिगृह्य आदाय, संगृह्य, उद्गृह्य, उच्चित्य।
  • ‘पुत्रका इति होवाच ज्ञानेन परिगृह्य तान्’ (मनु० २।१५१)। ज्ञानेन परिगृह्य शिष्यान् कृत्वेत्यर्थ इति कुल्लूकः। परिगृह्य अतिशय्येति संस्कृतशार्मष्यकोषः। सोऽयमर्थः शब्दमर्यादया न लभ्यः। परिपूर्वो ग्रहिर्नातिशायने दृष्ट:।
  • ‘हस्तेन हस्तं परिगृह्य वध्वाः’ (रघु० ७।२१)। गृहीत्वेत्येवार्थः।
  • ‘कुशान् सव्येन परिगृह्य’ (याज्ञ० १।२८३)। परिगृह्य आदाय।
  • ‘परिगृह्य च वैदेहीं वामेनाङ्गेन रावणः’ (रा० ३।५१।३७)। परिगृह्य परितो गृहीत्वा।
  • ‘शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः। अभिचिक्षेप वेगेन’ (भा० द्रोण० २६।४३)॥ परिगृह्य रुद्ध्वाऽऽस्कद्य वा। संपरिष्वज्य वैदेहीं वामेनाङ्केन रावण इति पाठान्तरम्।
  • ‘इति देवी (कैकेयी) महेष्वासं परिगृह्याभिशस्य च’ (रा० २।११।१७)। परिगृह्य नियम्य। परिवर्तनान्निवर्त्येत्यर्थः।
  • ‘कुञ्जरस्येव सङ्ग्रामे परिगृह्याङ्कुशग्रहम्। ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम्’ (भा० वन० २६।१५)॥ परिगृह्य वर्जयित्वा। परिर्वर्जने इति नीलकण्ठः। अङ्कुशेन गृह्णाति निगृह्णातीति अङ्कुशग्रहः। संस्कृतशार्मण्यकोषे त्वन्यथा व्याख्यातम्।
  • ‘ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्’ (रा० ३।५४।३०)। परिग्रहत्वेन (पत्नीत्वेन) विभाव्येति कतकः।
  • ‘परिगृह्य देवा यज्ञमायन्’ (वा० सं० १७।५६)। परिगृह्य परिशासाभ्यां परितो गृहीत्वा।
  • ‘स्नुषा इव स धर्मात्मा भगिनीरिव चानुजाः। यथा दुहितरश्चैव परिगृह्य ययौ कुरून्’ (भा० आदि० १०२।५६-५७)॥ परिगृह्य मत्वा विभाव्य।
  • ‘ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम्। प्रेषयामास सहसा युयुधानरथं प्रति’ (भा० द्रोण० २६।४२।४३)॥ परिगृह्योपच्छन्द्येत्यर्थमभ्यूहतः संस्कृतशार्मण्यकोषकारौ।
  • ‘आसनरज्जुपरिग्रहे’ (रघु० ९।४६)। परिग्रहो ग्रहणमवलम्बनम्।
  • ‘मानपरिग्रहः’ (अमरु० ९७)। मानाश्रयणम्।
  • ‘सीमिति परिग्रहार्थीयो वा पदपूरणो वा’ (नि० १।७)। परिः सर्वतोभावे वर्तते। परिग्रहोन्तर्भावः समावेशः।
  • ‘बहुवचनमनुक्ततद्धितपरिग्रहार्थम्’ (पा० ४।१।७६ सूत्रे वृत्तिः)। परिग्रहः सङ्ग्रहः।
  • ‘परिग्रहेण तानि चतुर्विंशतिः’ (शां० श्रौ० १५।५)। सम्पिण्डीकरणेन, सङ्कलनेनेत्यर्थः।
  • ‘आसनपरिग्रहं करोतु देवः’ (उत्तर० ३)। आसनग्रहणमित्येवार्थः।
  • ‘अर्घ्यपरिग्रहान्ते’ (रघु० १३।७०)। परिग्रहः स्वीकारः।
  • ‘नवे दारपरिग्रहे’ (उत्तर० १।१९)। दारपरिग्रहो दारकर्म, परिणयो विवाहः।
  • ‘प्रयतपरिग्रहद्वितीयः’ (रघु० १।९५)। परिग्रहः पत्नी।
  • ‘असंशयं क्षत्रपरिग्रहक्षमा’ (शा० १।२२)। उक्तोऽर्थः।
  • ‘प्रमदानां सहस्राणि तव राजन् परिग्रहः’ (रा० ३।३८।३०)। परिग्रहः पत्न्यः कलत्राणि। जात्यभिप्रायेणैकवचनम्। क्वचिद् राजन्यपरिग्रहे इति सप्तम्यन्तः पाठः। तत्र परिग्रहस्थानमन्तःपुरमुच्यते।
  • ‘बह्वीनामुत्तमस्त्रीणां मम योऽसौ परिग्रहः’ (रा० ३।५५।१७)। परिग्रहः पत्नीसङ्घातोऽवरोधः।
  • ‘उत्पपात महाभागा मार्गमाणा परिग्रहम्’ (रा० १।४५।२३)। परिग्रहं पतिम्। परिग्रहीत्रर्थे परिग्रहशब्दः। अयं च कतकानुसारी पाठः।
  • ‘त्यक्तसर्वपरिग्रहः’ (गीता ४।२१)। परिग्रहः स्वम्, ऋक्थम्।
  • ‘मया निसृष्टं पापं हि परिग्रहमभीप्सता’ (भा० शां० ७।४१)। परिग्रहोऽर्थसङ्ग्रहः।
  • ‘त्रिदिवे मम यः स्यात्परिग्रहः’ (हरि० ७२६४)। परिग्रहोऽधिकारः।
  • ‘न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः’ (मनु० ११।१३)। परिग्रहः सम्बन्धः संसर्ग इति कुल्लूकः।
  • ‘अटवी पर्वताश्चैव नद्यस्तीर्थानि यानि च। सर्वाण्यस्वामिकान्याहु र्नहि तत्र परिग्रहः’ (भा० अनु० ६६।३५-३६)॥ परिग्रहः स्वामित्वम्।
  • ‘किमर्थं च त्वया विद्धो वराहो मत्परिग्रहः’ (भा० वन० ३९।१९)। परिग्रहः स्वम्।
  • ‘मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः’ (भा० वन० ३१२।१२)। परिग्रहो नियम इति नीलकण्ठः। यो मत्प्रश्नान्वदेत् स एव पयः पिबेदित्येवंरूपः। अत्रार्थे पूर्वशब्दो गडुभूतो भवन् न समर्थयते निरुक्तमर्थम्। नियमेऽर्थेऽ प्रसिद्धश्च परिग्रहः। स्वमित्यर्थस्तु मम भाति। अहमस्य सरसः स्वायत्तीकरणे पूर्व इत्यभिप्रायोऽनुमीयते। अयमेवार्थोऽन्यत्रापि भारते श्रितोऽसंशयम्। तद्यथा–स तु मामब्रवीद् राजन् मम पूर्वपरिग्रहः (वन० १६७।२३)।
  • ‘(द्विजातयः) यज्ञाध्ययननित्याश्च विरताश्च परिग्रहात्’ (रा० १।६।६४)। परिग्रहः प्रतिग्रहः।
  • ‘राज्ञः परिग्रहोऽयम्’ (शा० १)। परिग्रह उपायनम् प्राभृतकम्।
  • ‘अतिमात्रभासुरत्वं पुष्यति भानुः परिग्रहादह्नः’ (माल० १।१३)। परिग्रहः साहाय्यम्।
  • ‘निर्गुणेनापि चापेन शक्रस्य गगने पदम्। अवाप्यताविवेकस्य नृपस्येव परिग्रहे’ (वि० पु० ५।६)॥ परिग्रहोऽनुग्रहः, पक्षपातः।
  • ‘धन्याः स्मो वः परिग्रहात्’ (उत्तर० ७।११)। उक्तोऽर्थः।
  • ‘पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे’ (दुर्गा० ५।५१)। परिग्रहः परिजनः। परिजनविषये वर्तत इत्यर्थः।
  • ‘भद्र, किमयमागन्तुक आहोस्विदिहैव कस्य चित्परिग्रहः’ (मुद्रा० ५)। परिग्रहो भृतकः परिचारकः। पठति चामरः परिजनेर्थे परिग्रहम्– पत्नीपरिजनादानमूलशापाः परिग्रहा इति।
  • ‘परिग्रहेण सर्वेण कोषेण च महीयसा’ (शि० भा० ८।४०)। परिग्रहः परिजनः परिवारः।
  • ‘परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा। अतीव पुण्यभागास्ते…’ (भा० अनु० १०८।१८)॥ परिग्रह आतिथ्यम्, सत्कारः।
  • ‘भगवन् परमनुगृहीतोस्म्यनेन शिष्यजनसामान्येन निदेशेन कृतपरिग्रहमिवात्मानमवैमि’ (हर्षचरिते भैरवाचार्यं प्रति राज्ञ उक्तिः)। कृतपरिग्रहः सत्कृतः।
  • ‘धनक्षयं नाप्स्यसि मत्परिग्रहात्’ (अवदा० जातके ५, ३३)। परिग्रहात् सत्कारकरणात्।
  • ‘परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान्’ (भा० सभा० ३५।५)। परिग्रह आतिथ्यम्।
  • ‘परिग्रहेण ब्राह्मणे परिगृह्य महाद्युतिः’ (भा० आदि० १९५।१)। उक्तोऽर्थः।
  • ‘सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थ-परिग्रहः (भा० द्रोण० ३३।२९)। अर्थपरिग्रहोऽर्थमूलकः। अर्थाभावे यज्ञादेरसम्पत्तेः। नीलकण्ठस्त्वर्थार्थमेवालम्बनीय इति तात्पर्यमित्याह। तन्नातिरुच्यम्। एवकारोक्तमवधारणं च प्रकर्षत्यरुचिम्।
  • ‘बन्धून् प्रियानश्रुमुखान् विहाय परिग्रहान्सौख्यपरिग्रहांश्च’ (अवदा० जा० ७।९)। सौख्यपरिग्रहान् परिग्रहान् सौख्यमूलानि धनानि।
  • ‘स्ववीर्यविजये युक्ता नैते परपरिग्रहाः’ (भा० द्रोण० १४४।२२)। परिग्रहाः परायत्ताः परवन्तः।
  • ‘कुम्भयोनिरलङ्कारं तस्मै दिव्यपरिग्रहम्’ (रघु० १५।५५)। परिग्रहः परिधानीयम्।
  • ‘आलस्यात्संचयः संचयात्परिग्रहः’ (चरक० विमान० ३।२८)। परिग्रहो ममत्वम् आसङ्गः, अभिष्वङ्गः।
  • ‘प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्व परिग्रहवचनं प्रतिज्ञा’ (न्याय भा० १।१।३३)। परिग्रहवचनं परिग्राहकं वचनमिति वाचस्पतिमिश्राः।
  • ‘एतेन शिष्टाः परिग्रहा अपि व्याख्याताः’ (ब्र० सू० २।१।१२)। परिग्रहा अभ्युपगमाः।
  • ‘शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम्’ (मनु० १०।१२४)। भृत्यानां परिग्रहम् पुत्रदारादिभर्तव्यपरिमाणमिति कुल्लूकः।
  • ‘(असुरान्) निनाय निशितैर्बाणैः प्रेताधिपपरिग्रहम्’ (हरि० २।९७।२०)। प्रेतपतिवासमित्यर्थः।
  • ‘मुक्तोऽयं स्यान्नवेति स्याद् धर्षितो मत्परिग्रहः’ (भा० शां० ३२०।५५)। परिग्रहः पराभवः।
  • ‘आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम्’ (भा० शां० ३२०।५७)। परिग्रहः शरीरम्।
  • ‘तस्माद् धर्मार्थकामेषु तथा राज्यपरिग्रहे’ (भा० शां० ३२०।५१)। राज्यपरिग्रहे राष्ट्ररक्षणे राजकार्यनिर्वहणे।
  • ‘पूर्वं परिग्राहं परिगृह्णाति दक्षिणतः’ (का० श्रौ० २।६।१८)। वेदेरियत्तां निश्चेतुं दक्षिणादिदिक्त्रये स्प्येन रेखाकरणं पूर्वः परिग्राहः।
  • ‘ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामि’ (आप० श्रौ० २।१।३।६)। उक्तोऽर्थः।
  • ‘परिग्राह इत्यत्र परौ यज्ञे’ (पा० ३।३।४७) इत्यनेन घञ्।
  • ‘परिभूः परिग्रहीता व्यापक इति’ (अथर्व० ४।३३।६) इत्यत्र सायणः।
  • ‘तामद्य सम्प्रेष्य परिग्रहीतुः’ (शा० ४।२२)। परिग्रहीता पतिः।

ग्लै

  • {परिग्लै}
  • ग्लै (ग्लै हर्षक्षये)।
  • ‘पर्यादयो ग्लानाद्यर्थे चतुर्थ्या’ इति वार्तिके परिग्लानोऽध्ययनाय पर्यध्ययन इत्युदाहरणं स्थितम्। अध्ययनेऽनभिरुचिरनुत्सुकोऽसमर्थ इत्यर्थः।

घट्

  • {परिघट्}
  • घट् (घट चेष्टायाम्)।
  • ‘विटजनपरिघाटितेव वीणा’ (मृच्छ० ) परिघाटिता स्पृष्टा, आमृष्टा, आहता। विटजननखघट्टितेति पाठान्तरम्।

घट्ट्

  • {परिघट्ट्}
  • घट्ट् (घट्ट चलने)।
  • ‘तव सा कथासु परिघट्टयति श्रवणं यदङ्ग लिमुखेन मुहुः’ (शिशु० ९।६४)। परिघट्टयति स्फालयति।

घूर्ण्

  • {परिघूर्ण्}
  • घूर्ण (घुण घूर्ण भ्रमणे)
  • ‘परिघूर्णामि …हृदयं मे विदीर्यते’ (भा० आदि० ५३।२१-२२। परिघूर्णाभि परिभ्रमामि। घूर्णतीव च मे मनः… हृदयं दीर्यतीव चेति पाठान्तरम्।

चक्ष्

  • {परिचक्ष्}
  • चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
  • ‘श्रद्धाविरहितं यज्ञं तामसं परिचक्षते’ (गीता १७।१३)। परिचक्षते प्रचक्षते व्याहरन्ति निर्दिशन्ति।
  • ‘वेदप्रदानादाचार्यं पितरं परिचक्षते’ (मनु० २।१७१)। परिचक्षते अभिदधति, अभिलपन्ति, व्यपदिशन्ति।
  • ‘इतिहासमिमं विप्राः पुराणाः परिचक्षते’ (भा० आदि० १३।६)। परिचक्षते कथयन्ति वाचयन्ति वर्णयन्ति वर्तयन्ति।
  • ‘अप्रजस्य महाभागा द्वारं न परिचक्षते। स्वर्गे…’ (भा० आदि० १२०।१५।१६)॥ न परिचक्षते न कथयन्ति, न ब्रुवते।
  • ‘यो न्वेवं मानुषं ब्राह्मणं हन्ति त न्वेव परिचक्षतेऽथ किं य एतम्’ (श० ब्रा० ३।९।४।१७)। परिचक्षतेऽपराद्धं घोषयन्ति।
  • ‘तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते’ (भा० शां० १०।१८)। संन्यासं न प्रशंसन्तीत्यर्थः।
  • ‘अन्नं न परिचक्षीत तद्व्रतम्’ (तै० उ० ३।८।११)। न परिचक्षीत न निराकुर्यात्। अन्नं पात्रे समुपनतमवरमपि न प्रत्यादिशेदित्यर्थः।
  • ‘तदु पुनः परिचक्षते’ (ऐ० ब्रा० ८।७)। पूर्वोक्तं मतं नाद्रियन्तेऽन्येऽभिज्ञा इत्यर्थः।
  • ‘को वैनं परिचक्षीत’ (भा० पु० ४।१४।३३)। परिचक्षीत अवगणयेत्, अवधीरयेत्।
  • ‘विद्युति चाभ्यग्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते’ (आप० ध० १।११।२१)। परिचक्षते वर्जयन्ति।
  • ‘श्वभिरपपात्रैश्च श्राद्धस्य दर्शनं परिचक्षते’ (आप० ध० २।७।१७।२०)।
  • ‘श्वभिरपपात्रैश्च श्राद्धस्पर्शनं परिचक्षते’ (सत्या० श्रौ० २७।५।४८)। परिचक्षते प्रतिषेधन्ति गर्हन्ते।
  • ‘यच्चान्यत् परिचक्षते’ (आप० १।१७।२७)।
  • ‘नैताः (अपः) परिचक्षीत वहन्त्योऽथवा स्थिताः’ (कृत्य० तरु० द्वितीये खण्डे ३५२ पृष्ठे)। परिचक्षीत परिवदेत्।
  • ‘विश्वन्तरो ह सौषद्मनः श्यापर्णान् परिचक्षाणो विश्यापर्णं यज्ञमाजह्ने’ (ऐ० ब्रा० ७।२७)। परिचक्षाणः परिहरन्, निराकुर्वन्।
  • ‘प्रद्विषन्ति परिख्यातं राजानमतिखादिनम्’ (भा० शां० ८७।१९)।
  • ‘किमित्ते विष्णो परिचक्ष्यं भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि’ (ऋ० ७।१००।६)।
  • ‘परिचक्ष्यं प्रख्यापनीयमप्राख्यापनीयमिति वा’ (नि० ५।८।१)।
  • ‘मा वो वचांसि परिचक्ष्याणि वोचम्’ (ऋ० ६।५२।१४)। परिचक्ष्याणि वर्जनीयानि।
  • ‘न वाऽवसाने हास्योभयतोरात्रं हुतं भवति नो काञ्चन परिचक्षां कुरुते’ (जै० ब्रा० १।६१)। परिचक्षाऽनादरः।
  • ‘एवमेवानु विवक्षेत् तस्यैतस्य परिचक्षेति’ (श० ब्रा० १।३।५।१४)। उक्तोऽर्थः।

चर्

  • {परिचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘भूम्या अन्तं पर्येके चरन्ति’ (ऋ० १०।११४।१०)। परिचरन्ति परिभ्रमन्ति।
  • ‘पर्येका चरति वर्तनिं गौः’ (ऋ० ३।७।२)।
  • ‘त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान्’ (ऋ० ५।४७।४)। दिवोऽन्तान्परिचरन्तीत्यन्वयः।
  • ‘ययातिरपि रूपेण पूरोः पर्यचरन्महीम्’ (हरि० १।३०।३४)। पर्यचरत् पर्याटत्, व्यचरत्।
  • ‘आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः। रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत्’ (भा० द्रोण० १९४।४३)॥ उक्तोऽर्थः।
  • ‘विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा’ (भा० वन० ६२।१७)। पर्यचरत् पर्यक्रमीत्।
  • ‘आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु कः’ (रा० २।३५।१६)। परिचरेत् सेवेत, पुष्येत्, संवर्धयेत्।
  • ‘कथो नु ते परि चराणि विद्वान् वीर्या मघवन्या चकर्थ’ (ऋ० ५।२९।१३)। परिचराणि परिचर्यां (ते) करवाणीत्यर्थः।
  • ‘गुणोदारान्दारान् परिचरामः सविनयम्’ (भर्तृ० ३।४०)। परिचरामः सेवामहे, उपास्महे, अन्वास्महे, उपतिष्ठामः।
  • ‘अनुत्पन्नं ज्ञानं यदि यदि वा सन्देहविधुरं विपर्यस्तं वा स्यात् परिचर वसिष्ठस्य चरणौ’ (महावीर० ३।३६)। परिचर सेवस्व भजस्व, अर्चय।
  • ‘आभिर्मत्प्रत्ताभिः परिचारयस्व’ (कठोप० १।१।२५)। परिचारयस्व सेवयस्व। आत्मानमिति शेषः। इत्थम्भूते परिचारयतेः प्रयोगे कर्मभूत आत्मशब्दस्त्यज्यत इति व्यवहारः।
  • ‘तेऽभितः परिचरन्त ऐत् (आयन्) पशुमेव निरान्त्रं शयानम्’ (ऐ० ब्रा० २।१३)। परिचरन्तः पर्यटन्तः।
  • ‘स आजगाम जैवलिं प्रवाहणं परिचारयमाणम्’ (श० ब्रा० १४।९।१।१)। परिजनेनात्मानं सेवयमानम्।
  • ‘अनुगुप्ता अप आहरेत् परिचरणीयाः’ (गो० गृ० १।१।२४)। परिचरणीयाः सेव्याः। परिचर्यन्ते निर्वाह्यन्त आचमनादीनि याभिरिति। बाहुलकात्करणेऽनीयर् इति कश्चित्।
  • ‘एष तस्यापि ते मार्गः परिचार्यस्य मालव’ (भा० उ० १०९।२१)। परिचार्यः सेव्यः।
  • ‘कौसल्या तं हयं तत्र परिचर्य समन्ततः’ (रा० १।१४।३३)। परिचर्य परिक्रम्य, प्रदक्षिणीकृत्य।
  • ‘परिचर्यां स्वकां तस्मै यथावत् प्रत्यवेदयत्’ (भा० वन० ७७।५)। परिचर्या=अटाट्या।
  • ‘आचचक्षे यथान्यायं परिचर्यां च भारत’ (भा० शां० १२६।७)। उक्तोऽर्थः।
  • ‘परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया। परीक्षेत कुलं राजन्…’ (भा० उ० ३९।४४)॥ परिचर्यया आचारेण।
  • ‘यस्या मापः परिचराः समानीरहोरात्रे अप्रमदं क्षरन्ति’ (अथर्व० १२।१।९)। परिचराः स्रवन्त्यः, अस्थावराः। परिधिस्थः परिचरः (अमरः)। परिधौ सेनान्ते तिष्ठति परिधिस्थः। परि समान्तात् चरति रक्षितुमिति परिचरः। आरक्षः।
  • ‘परिचारेषु तीर्थेषु विविधेष्वाकरेषु च।’ (भा० वि० २६।१०)। परि आगत्य चरन्त्येषु परिचारा राजपुराणि इति नीलकण्ठः सर्वज्ञनारायणश्च।
  • ‘प्रीतो स्मि परमं भद्रे परीचारेण ते शुभे’ (भा० वन० ३०५।१३)। परीचारः परिचर्या सेवा।
  • ‘परीचारेण महता गुरु तं पर्यतोषयत्’ (भा० आश्व० १६।२६)। उक्तोऽर्थः।
  • ‘सत्यमग्निपरीचारो विविक्तानां च सेवनम्’ (भा० शां० १९६।१०)। अग्निपरीचारःअग्निपरिचर्या=अग्निपरिक्रिया=अग्निहोत्रम्।
  • ‘एतत्परिचरणावितरौ वेदौ’ (शां० ब्रा० ६।११)। परिचरणौ परिचारकौ उपकारकौ परिपूरकौ, अनुबन्धभूतौ। अत्र कर्तरि ल्युर्द्रष्टव्यः।

चि

  • {परिचि}
  • चि (चिञ् चयने)।
  • ‘यानेवाध्वर्युः शकलान् परिचिनोति’ (शां० ब्रा० ८।४)। परिचिनोतिः परितः समूहति।
  • ‘परि स्वयं चिनुषे अन्नमास्ये’ (ऋ० १०।९१।५)। परिचिनुषे परिक्षिपसि।
  • ‘विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत’ (रघु० ३।२४)। पर्यचीयत अवर्धत।
  • ‘एता भुवः परिचिनोषि’ (महावीर० ७।११)। परिचिनोषि जानासि।
  • ‘परिचितविविक्तेन मनसा’ (शा० ५।१०)। परिचितं विदितम्।
  • ‘नामैवैतत् परिचितमपि ते विस्मृतं कस्य हेतोः’ (मुद्रा० १।१)। उक्तोऽर्थः।
  • ‘चिरं परिचिताः कस्य वेश्या इव विभूतयः’ (रा० च०)। परिचिताः संसृष्टाः सम्बद्धाः।
  • ‘हेतुः परिचयस्थैर्य वक्तुर्गुणनिकैव सा’ (शिशु० २।७५)। परिचयस्थैर्यमम्यासदार्ढ्यम्।
  • ‘जाने तत्र भवती हंसपदिका वर्णपरिचयं करोति’ (शा० ५)। उक्तोऽर्थः।
  • ‘त्रिवृति गोमय-परिचये शृतमश्नाति’ (कौ० सू० २२।१०-१२)।
  • ‘परिचिदसि’ (वा० सं० १२।५३)। परि सर्वतश्चितासीत्याह।

छद्

  • {परिच्छद्}
  • छद् (छद अपवारणे)।
  • ‘परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः’ (भा० सभा० ५९।२०)। परिच्छन्नः सपरिच्छदः।
  • ‘सेना परिच्छदस्तस्य’ (रघु० १।१९)। परिच्छदश्छत्रचामराद्यलङ्करणोपकरणम्।
  • ‘प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः’ (भा० शां० ८३।६)। परिच्छदाः सेनान्यादयः (नील०)।
  • ‘शाखावसक्तकमनीय-परिच्छदानाम्’ (कि० ७।४०)। परिच्छदः परिधानीयम् आकल्पः, नेपथ्यम्।
  • ‘साधुशय्यापरिच्छदाः’ (वि० पु० ४।२।९७)। परिच्छदाः प्रावरणानि।
  • ‘नरपतिरतिवाहयाम्बभूव क्वचिदसमेतपरिच्छदस्त्रियामाम्’ (रघु० ९।७०)। परिच्छदः परिजनः।
  • ‘मन्त्री दानमानाभ्यां वशीकृतपरिच्छदः’ (राज० ३।४९९)। उक्तोऽर्थः।
  • ‘विवास्यो वा भवेद्राज्यात्सद्रव्यः सपरिच्छदः’ (मनु० ९।२४१)। परिच्छदो गृहोपकरणम्।
  • ‘विद्यालयं सितगृहं सपरिच्छदं तत्’ (बुद्ध० )। परिच्छदो वितानमुल्लोचः, चन्द्रोदयः।
  • ‘दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः’ (भा० द्रोण० २३।७)। शुकपत्राभरोमाण इति नील०। पत्रं पक्षः।

छिद्

  • {परिच्छिद्}
  • छिद् (छिदिर् द्वैधीकरणे)
  • ‘तस्मादमूलमुभयतः परिच्छिन्नं भवति’ (कुशम्) (श० ब्रा० ३।८।२।१५)। परिच्छिन्नं परितश्छिन्नम्, विकृत्तं परिलूनम्।
  • ‘परिच्छिन्ना भरता अर्भकासः’ (ऋ० ७।३३।६)।
  • ‘उभयतः परिच्छिन्ना मध्यमं पदं संश्लिष्यामह इति वदन्तः’ (बौ० ध० २।६।११।२८)। परिच्छिन्ना विच्छिन्ना म्रष्टाः।
  • ‘परिच्छिन्नप्रभावर्द्धि र्न मया न च विष्णुना’ (कु० २।५८ )। न परिच्छिन्नप्रभावर्द्धिरनवगाढमहिमातिशय इति मल्लिः। परिच्छिन्नो विदितपर्यन्त इति शब्दार्थः।
  • ‘कथं नामात्मानं परं चैवापरिच्छिद्य’ (तन्त्रा० ३।३)। अपरिच्छिद्य सम्यगविदित्वा, परमार्थतोऽनवसाय। तत्त्वतोऽज्ञात्वा।
  • ‘शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे’ (रघु० १५।५१)। परिच्छिद्य निश्चित्य।
  • ‘परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्। मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे’ (भा० शां० १८०।२८)॥ परिच्छिद्य निरुध्य।
  • ‘भगवती नौ गुणदोषतः परिच्छेत्तुमर्हति’ (माल० १) (भगवती) नौ तारतम्यं विज्ञातुम्, नौ प्रकर्षापकर्षौ यथातथं विज्ञातुम्।
  • ‘ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयाऽलम्’ (रघु० ६।७७)। इयदिति न शक्यं वेदितुम् इत्यर्थः।
  • ‘परिच्छेदातीतः सकलवचनानामविषयः’ (मालती० १।३०)। इदमित्थमिति ज्ञानं परिच्छेदः।
  • ‘परिच्छेदो हि पाण्डित्यम्’ (हितोप० १।१४७)। परिच्छेदो विवेकः।
  • ‘इत्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः’ (शा० ५।९)। परिच्छेदोऽध्यवसायः, निश्चयः, सन्देहान्तगमनम्।
  • ‘परिच्छेदव्यक्तिर्भवति न पुरःस्थेपि विषये’ (मालती० १।३१)। परिच्छेदोऽसङ्कीर्णं वस्तुस्वरूपम्।
  • ‘शक्याशक्यपरिच्छेदं कुर्याद् बुद्ध्या प्रसन्नया’ (का० नी० सा० ११।३३)। परिच्छेदो विविच्य ज्ञानम्, भेदेनानुभूतिः।
  • ‘किं वातादीनां ज्वरादीनां च नित्यः संश्लेषः परिच्छेदो वा’ (सुश्रुत० सूत्र० २४।११)। परिच्छेदः पृथग्भावः।

जन्

  • {परिजन्}
  • जन् (जनी प्रादुर्भावे)।
  • ‘यदेको विश्वं परि भूम जायसे’ (अथर्व० १३।२।३)।
  • ‘सस्येन परिजातः सस्यको मणिः।’ पा० ५।२।६८ इत्यत्र वृत्तावुदाहरणम्। परितो जातः परिजातः।
  • ‘विद्मा ते सर्वाः परिजाः पुरस्तात्’ (अथर्व० १९।५६।६)।

जप्

  • {परिजप्}
  • जप् (जप जल्प व्यक्तायां वाचि, जप मानसे च)।
  • ‘हविष्यमन्नं प्रथमं परिजपितं भुञ्जीत’ (गो० गृ० २।३।१८) परिजपितमभिमन्त्रितम्।

जि

  • {परिजि}
  • जि (जि जये, अभिभवे च)।
  • ‘तेन परिजय्यलभ्यकार्यसुकरम्’ (पा० ५।१।९३)। परिजय्यं सर्वतो जेयम्। परिः सर्वतो भाव इति न्यासः।

जॄ

  • {परिजॄ}
  • जॄ (जॄष् वयोहानौ, जॄ वयोहानौ)।
  • ‘वासांसि परिजीर्णानि’ (भा० वि० १३।८)। परिजीर्णानि नूतनानीति विषमपदविवरणम्। श्लिष्यति नामायमर्थः प्रकृते।

ज्ञा

  • {परिज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘पर्यपृच्छत्सुहृद्वर्गं पर्यजानन् न चैव ते’ (भा० वन० १२२।१९)। पर्यजानन् प्रत्यभ्यजानन्।
  • ‘सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः’ (रा० ३।५६।२)। परिज्ञातः सर्वत्र विदितः।
  • ‘तपस्विभिः कैश्चित् परिज्ञातोस्मि’ (शा० १ )। परिज्ञातः प्रत्यभिज्ञातः।
  • ‘नीता पौरैः परिज्ञाता पितुरेव निवेशनम्’ (बृ० क० म० वे० ३।२१४)। उक्तोऽर्थः।

ज्या

  • {परिज्या}
  • ज्या (ज्या वयोहानौ)।
  • ‘तं ब्रह्म प्रपन्नं क्षत्रं (कर्तृ) न परिजिनाति’ (ऐ० ब्रा० ७।२२)। परिजिनाति हिनस्ति। वेदे ज्या नित्यं सकर्मकः। हिंसावृत्तिश्च।

डी

  • {परिडी}
  • डी (डीङ् विहायसा गतौ)।
  • ‘परिडीनं तु सर्वतः’ (भा० कर्ण० ४१।२७)।

तन्

  • {परितन्}
  • तन् (तनु विस्तारे)।
  • ‘इमं तं लोकमद्भिः परितनोति’ (श० ब्रा० ७।१।१।१३)।
  • ‘अपसलवि सृष्टया रज्ज्वा परितत्य’ (का० श्रौ० २१।३।२२)। परितत्य परिवेष्ट्य।

तप्

  • {परितप्}
  • तप् (तप सन्तापे)।
  • ‘तं शापमनुसंस्मृत्य पर्यतप्यत भृशं तदा’ (भा० आदि० १८२।२६)। पर्यतप्यत दुःखितोऽभवत्, दुर्मना अभूत्।
  • ‘के स्वीकृता न विषयाः परितापयन्ति’ (हितोप० ३।११६)। परितापयन्ति भृशं दुःखयन्ति।
  • ‘शमयति परितापं छायया संश्रितानाम्’ (शा० ५।७)। परितापमौष्ण्यानुभूतिम्।
  • ‘गुरुपरितापानि गात्राणि’ (शा० ३।१६)। सर्वतस्तापः परितापः, आतपकृतस्तापो दाहः।
  • ‘प्रसक्ते निर्वाणे हृदय परितापं वहसि किम्’ (माल० ३।१)। परितापो व्यथा वेदना।
  • ‘विरचितविविधविलापं सा परितापं चकारोच्चैः’ (गीत० ७)।

तर्क्

  • {परितर्क्}
  • तर्क् (तर्क भाषार्थः)।
  • ‘मनोरथैश्चैव तु चिन्तयामि तथैव बुद्ध्या परितर्कयामि’ (रा० ५।३०।१८)। दाक्षिणात्यास्तु मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्यापि वितर्कयामि इत्येवं ५।३२।१३ इत्यत्र पठन्ति।
  • ‘न ह्यहं तं कपिं मन्ये कर्मणा परितर्कयन्’ (रा० ५।४६।६)। रावणस्योक्तिरेषा। परितर्कयन् अनुमिमानः। ऊहमानः। जुष परितर्कणे इति धातुपाठः। परितर्कणमूहो हिंसा वेति दीक्षितः।
  • ‘कच्चिन्न तर्कयुक्ता वा ये चाप्यपरितर्किताः। त्वया वा तव वाऽमात्यै र्बाध्यन्ते तात मानवाः’ (रा० गोरे० २।१०९।१६)॥ अपरितर्किता न्यायतोऽपरीक्षिताः।

तुद्

  • {परितुद्}
  • तुद् (तुद व्यथने)।
  • ‘आरुह्य वृक्षान्निर्मूलान् गजः परितुदन्निव’ (भा० उ० ७५।८)। पादैर्मर्दयन्निव। परिरुजन्निति पाठान्तरम्।

तुष्

  • {परितुष्}
  • तुष् (तुष प्रीतौ)
  • ‘दूर्वाङ्कुरैरपि संभृतया सपर्यया किल परं परितुष्यसि’ (भा० पु० ५।३।६)। परितुष्यसि अतिमात्रं प्रसीदसि।
  • ‘व्यसनेषु च सर्वेषु पितेव भवति दुःखितः। उत्सवेषु च सर्वेषु पितेव परितुष्यति’ (रा० २।२।३३)॥ परितुष्यति हृष्यति नन्दति।
  • ‘वयमिह परितुष्टा वल्कलैस्त्वं दूकूलैः’ (भर्तृ० ३।५४)। परितुष्टाः सन्तुष्टाः तृप्ताः।
  • ‘आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम्’ (शा० १।२)। परितोषः प्रसत्तिः।

तृद्

  • {परितृद्}
  • तृद् (उ तृदिर् हिंसानादरयोः)।
  • ‘परि तृन्धि पणीनामारया हृदया कवे’ (ऋ० ६।५३।५)। परितृन्धि अतिविध्य।

तॄ

  • {परितॄ}
  • तॄ (तॄ प्लवनतरणयोः)।
  • ‘यं शम्बरं पर्यतरत्’ (अथर्व० २०।३४।१२)। पर्यतरत् पर्यभवत्।

त्यज्

  • {परित्यज्}
  • त्यज् (त्यज हानौ)।
  • ‘प्रारब्धमुत्तमगुणा न परित्यजन्ति’ (भर्तृ०, मुद्रा० २।१७)। न परित्यजन्ति न विजहति न विरमयन्ति।
  • ‘या पत्या वा परित्यक्ता’ (मनु० ९।१७५)। परित्यक्ता निराकृता प्रत्यादिष्टा।
  • ‘दिवं देवाः परित्यज्य’ (भा० पु० ५।२।१६)। परित्यज्य विहाय।
  • ‘यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते’ (हितोप०)। परित्यज्य परिहृत्य, उपेक्ष्य।

त्रस्

  • {परित्रस्}
  • त्रस् (त्रसी उद्वेगे)।
  • ‘विद्रवन्ति परित्रस्ताः’ (रा० ३।५४।७)। परित्रस्ताः कम्पिताः, भीता उद्विग्नाः।

त्रै

  • {परित्रै}
  • त्रै (त्रैङ् पालने)।
  • ‘आत्मनश्च परित्राणे…। …घ्नन् धर्मेण न दुष्यति’ (मनु० ८।३४९)। परिः सर्वतो भावे। शरीरभार्याधनपुत्ररक्षार्थमिति मेधातिथिः।

त्वर्

  • {परित्वर्}
  • त्वर् (ञि त्वरा संभ्रमे)।
  • ‘परि त्वरमाण आयातु मित्रः’ (कौ० सू० ५५)। परित्वरमाण इतस्त्वरितं क्रामन्।

दा

  • {परिदा}
  • दा (डुदाञ् दाने)।
  • ‘तामु ते परिदद्मसि’ (अथर्व० १।१४।३)। रक्षणार्थं समर्पयामः। रक्षणार्थं दानं परिदानमिति सायणः।
  • ‘अस्मिन्नर्थे परिददातिः शौनकीयायां संहितायामन्यत्रापि’ १।३०।२, ३।११।७, ८।२।२०, १९।५०।७ इत्यादिषु प्रदेशेषु प्रयुक्तः।
  • ‘प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून्। ब्राह्मणाय राज्ञे च सर्वाः परिददे प्रजाः’ (मनु० ९।३२७, भा० शां० ६०।२३)॥ उक्तोऽर्थः।
  • ‘परिदद्या हि धर्मज्ञे भरते मम मातरम्’ (रा० २।५३।१८)। परिदानं रक्ष्यतया प्रदानमिति भूषणकारः।
  • ‘यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ। ताभ्यामेनं परिदेहि राजन्’ (ऋ० १०।१४।११)। अत्र रक्षणमात्रमर्थो न तु रक्षार्थं दानम्।
  • ‘त्रि ते दुष्ष्वप्न्यं सर्वमाप्त्ये परिदद्मसि’ (ऋ० ८।४७।१५)। परिदद्मसि परिदद्मः परादद्मः परित्यजामः। श्रन्यत्र स्थापयाम इति वेति सायणः।
  • ‘ब्रह्मणे वै तद्यजमानस्य पशून् परिददाति गुप्त्यै’ (श० ब्रा० १।७।१।८)। इह दानमात्रमर्थः, रक्षाया गुप्त्यै इत्यनेनोक्तत्वात्।
  • ‘छद्मना परिददामि मृत्यवे’ (उत्तर० १।४५)। इहापि दानमात्रमर्थः।
  • ‘अग्निमेव तत् सर्वतो गोप्तारं परिदत्ते’ (ऐ० ब्रा० १।२८)। परिदत्ते प्रार्थयत इति षड्गुरुशिष्यः। स्वीकरोतीति च सायणः।
  • ‘यास्वेव देवतासु परीत्तो भवति तास्वेवैनं पृच्छति’ (शां० गृ० २।१२।२)। परीत्तः परिदत्तः समर्पितः।
  • ‘आत्मन एवैषा परीत्तिः’ (तै० ब्रा० २।३।५।५)। परीत्तिः परिदानं रक्षा।
  • ‘ब्राह्मणाय गृहेवासिने परिदाय गृहानेति’ (तै० ब्रा० १।१।१०।६)। त्वमेवैतान् रक्षेति तस्मै समर्प्येत्याह।
  • ‘स तत्र सीतां परिदाय मैथिलीम्’ (रा० ३।१४।३६)। रक्षार्थमर्पयित्वेत्यर्थः।
  • ‘मुहुर्मुहुश्च वैदेहीं परिदाय महायशाः’ (रा० ७।४९।१९)। तपस्विनीभ्यो रक्षार्थं प्रदायेत्यर्थः। यः परिवेत्त्रे कन्यां ददाति स परिदायी। हारीतवचनं च विज्ञानेश्वरो याज्ञवल्क्ये मिताक्षरायां (३।२६५) उद्धरति– ज्येष्ठेऽनिविष्टे कनीयान्निविशमानः परिवेत्ता भवति परिवित्तिर्ज्येष्ठः परिवेदनी कन्या परिदायी दातेति।
  • ‘स यदेतामत्रात्मनः परिदां न वदेत’ (श० ब्रा० ९।२।१।१७)। परिदाऽऽत्मसमर्पणवाक्।

दिव्

  • {परिदिव्}
  • दिव् (दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवु परिकूजने)।
  • ‘परिदेवन्ति करुणं सर्वे मानुषबुद्धयः’ (हरि० २।१२।३१)। परि देवन्ति देवयन्ते परिदेवयन्ते विलपन्ति।
  • ‘खरदूषणयोर्भ्रात्रोः पर्यदेविष्ट सा पुरः’ (भट्टि० ४।३४)। पर्यदेविष्ट पर्यदेवीत् पर्यदीदिवत् व्यलपीत्।
  • ‘मां पश्य मद्रि मा पुत्रौ परिदेवीश्च देवि मा’ (अवदा० जा० ९।८६)। मा परिदेवीः=माऽनुशोचीः।
  • ‘आशङ्कमाना तत्पापमात्मानं पर्यदेवयत्’ (भा० वन० ६५।३०)। उक्तोऽर्थः।
  • ‘परिदेवति तान् वीरान् धृतराष्ट्रो महीपतिः’ (भा० वन० २३८।३)।
  • ‘करुणं परिदेवतीम्’ (भा० उ० १७८।१)। परिदेवतीं परिदेवयमानाम्, विलपन्तीम्। चोदयन्तीं पुनः पुनर् इति पाठान्तरम्।
  • ‘अथ हायं परिद्यून उवाच’ (श० ब्रा० ११।४।१।८)। परिद्यूनः खिन्नः।
  • ‘दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वत मामकाः’ (भा० द्रोण० ८५।४)। पुत्र परिद्यूनं पुत्रवधसन्तप्तम्।
  • ‘शोकजाश्रुपरिद्यूना’ (रा० २।४७।२)। परिग्लाना।
  • ‘एतद्योनीनि भूतानि तत्र का परिदेवना’ (भा० शां० २२४।१७)।
  • ‘पञ्चभिः संभृतः कायो यदि पञ्चत्वमागतः। कर्मभिः स्वशरीरस्थैस्तत्र का परिदेवना’ (याज्ञ० ३।९)॥ किमर्थको विलाप इत्यर्थः।

दिश्

  • {परिदिश्}
  • दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यम्)।
  • ‘यतिथीं तत्समां परिदिदेश’ (श० ब्रा० १।८।१।५)।
  • ‘तिस्रो वै गतयो राजन् परिदिष्टाः स्वकर्मभिः। मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च’ (भा० वन० १२४९७)। परिदिष्टा निश्चिताः, मताः, अभ्युपगताः।

दिह्

  • {परिदिह्}
  • दिह् (दिह उपचये)।
  • ‘यद्विजामन् परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत्’ (ऋ० ७।५०।२)। परिदेहत् सर्वत उपलिम्पेत्।

दी

  • {परिदी}
  • दी (दी गतिकर्मा छान्दसः)।
  • ‘रथो यद् वां पर्यर्णांसि दीयत्’ (ऋ० १।१८०।१)। परिदीयत् परिगच्छति। परितो गच्छति।
  • ‘आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परिदीयन्ति यह्वीः’ (ऋ० २।३५।१४)।
  • ‘पर्यन्या नाहुषा युगा मह्ना रजांसि दीयथः’ (ऋ० ५।७३।३)।
  • ‘उदन्वता परिदीया रथेन’ (ऋ० ५।८३।७)। उभयत्र पूर्वोक्त एवार्थः। परिदीया इत्यत्र सांहितिको दीर्घः।

दू

  • {परिदू}
  • दू (दूङ् परितापे)।
  • ‘दह्यतीव शरीरं मे संवृतस्य तवेषुभिः। मर्माणि परिदूयन्ते मुखं च परिशुष्यति’ (भा० भीष्म०)। परिदूयते परितप्यते।

दृश्

  • {परिदृश्}
  • दृश् (दृशिर् प्रेक्षणे)।
  • ‘यश्चिदापो महिना पर्यपश्यत्’ (ऋ० १०।१२१।८)। परितः पश्यतीत्यर्थः।
  • ‘यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके। यथाप्सु परीब ददृशे तथा गन्धर्वलोके’ (कठोप० २।३।५)। परिददृशे दृष्टेर्गोचरो भवति।
  • ‘उपायः परिदृश्यताम्’ (भा० वन० )। परि दृश्यतां विचीयतामनुसन्धीयताम्।
  • ‘त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम्’ (अथर्व० १२।३।३३)। ददृश्यामिति पाठान्तरम्। परितः पश्येयम्।
  • ‘विद्वद्भिः परिदृष्टोयं शिष्टो विधिविपर्ययः’ (भा० आश्व० ३।१७)।
  • ‘के देशाः परिदृष्टास्ते’ (भा० आश्रम० ३७।४)। परितो दृष्टाः। गमिकर्मीकृताः।
  • ‘परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप’ (भा० आश्रम० ३७।५)। उक्तोऽर्थः।
  • ‘अन्यथा परिदृष्टानि मुनिभिस्तत्त्वदर्शिभिः। अन्यथा परिवर्तन्ते वेगा इव नभस्वतः’ (भा० वन० ३०।३३)॥
  • ‘बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घः सूक्ष्मः’ (यो० स० २।५०)। परिच्छिन्नो दृष्टः परिदृष्टः।
  • ‘कस्तमिच्छेत्परिद्रष्टुम्’ (भा० शां० ६५७६)। तत्र दृशं पातयितुं कामयेतेत्याह।

दॄ

  • {परिदॄ}
  • दॄ (दॄ विदारणे)।
  • ‘प्रजापति र्वरुणायाश्वमनयत् स स्वां देवतामार्च्छत् स पर्यदीर्यत’ (तै० सं० २।३।१२।१)। पर्यदीर्यत परितः सर्वतोऽदीर्यत विपन्नोऽभवदिति भट्टभास्करः। जलोदरनाम्ना रोगेणोच्छूनोऽभवदिति संस्कृतशार्मण्यकोषः।
  • ‘ता वरुणगृहीताः परिदीर्णाः’ (श० ब्रा० २।५।२।२)। उदश्वयन्, उच्छूना अभवन्नित्यर्थः।

धा

  • {परिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘उत्तरवेदिमभितः पैतुद्रवान्परिधीन् परिदधाति’ (भा० श्रौ० ७।५।१)। परितो दधाति रचयति प्रणयति।
  • ‘परिधीन्परिदधात्यार्द्रानेकवृक्षीयान् बाहुमात्रान्’ (का० श्रौ० २।८।१)।
  • ‘परीदं वासो अधिथाः स्वस्तये’ (अथर्व० २।१३।३)। परिपूर्वो दधातिराच्छादने वर्तते।
  • ‘परि धत्त धत्त वाससैनम्’ (आप० मं० २।२।६)। वासः परिधत्ते कश्चित्, कश्चिच्च वाससा परिधीयत इत्युभयथा प्रयोगाः प्रथन्ते।
  • ‘प्रिययैवैनं तनुवा परिदधाति’ (तै० ब्रा० ५।१।५।२३)। परिदधाति संव्ययते।
  • ‘विवासा व्रीडिता भृशम… नीवीमाश्वथ पर्यधात्’ (भा० पु० ९।१।३०)।
  • ‘कृष्णाजिनानि परिधित्समानान्’ (भा० उ० २९।४५)।
  • ‘तार्प्यं यजमानं परिधापयति’ (तै० ब्रा० १।३।२।१)। वाससाऽऽच्छादयतीत्यर्थः।
  • ‘इन्द्रस्य त्वा वर्मणा परिधापयामः’ (अथर्व० १९।४६।४)। उक्तोऽर्थः।
  • ‘एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति’ (छां० उ० ५।२।२)। परिदधति उपस्तृण्वन्ति।
  • ‘परि त्वाग्ने पुरं वयं सहस्य धीमहि’ (ऋ० १०।८७।२२, तै० सं० १।५।६।४)। परितो धारयामः, परिधिं कुर्मः।
  • ‘परीममिन्द्रं महे क्षत्राय धत्तन’ (अथर्व० १९।२४।२)। उक्तोऽर्थः।
  • ‘परि त्वाधात्सविता देवो वर्चसा’ (अथर्व० १३।१।२०)। पर्यधात् पर्यवेष्टयत्।
  • ‘नाभिं पैतुदारवैः परिदधाति’ (का० श्रौ० ५।४।१६)। उक्तोऽर्थः।
  • ‘द्रुहे रीषन्तं परि धेहि राजन्’ (ऋ० २।३०।९)। परिधेहि परितो धारय, प्रक्षिपेत्यर्थः। रिषन्तं हिंसन्तं वज्रमिति शेषः।
  • ‘परि पूषा परस्ताद्धस्तं दधातु दक्षिणम्’ (ऋ० ६।५४।१०)। परिदधातु परिधानं (परिधायकं) निवारकं करोत्विति सायणः।
  • ‘स्तीर्णं बर्हिः स्वर्णरे श्रवांसि दधिरे परि’ (ऋ० ५।१८।४)। परिदधिरे परितो निधीयन्ते। श्रवांस्यन्नानि हविर्लक्षणानि।
  • ‘अग्निभ्य एवैतदात्मानं परिदधाति’ (शां० ब्रा० २।५)। परिदधाति परिददाति समर्पयति स्वस्य रक्षणाय।
  • ‘मित्रावरुणौ त्वोत्तरतः परिधत्ताम्’ (तै० सं० १।१।११)। सर्वतो रक्षतामित्यर्थः।
  • ‘यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा। ताभ्यां राजन्परिधेह्येनम्’ (अथर्व० १८।२।१२)॥ उक्तोऽर्थः।
  • ‘दृष्टिं परिदधे कृष्णे रौहिणेये च दारुणाम्’ (हरि० २।१४।१६)। परितः पातयामासेत्यर्थः।
  • ‘न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात्सूर्येण’ (ऋ० १।३३।८)। पर्यदधात् परिहितवान्। व्यवहितानकरोदित्यर्थः।
  • ‘उत्तमया परिदधाति’ (ऐ० ब्रा० १।१६)। अनुवचनं समापयतीत्यर्थः।
  • ‘स यावन्मन्येत तावदधीत्यैतया परिदधीत’ (आश्व० गृ० ३।२।९)। उक्तोऽर्थः।
  • ‘विभाव्य लोभानृतजिह्महिंसनाद्यधर्मचक्रं गमनाय पर्यधात्’ (भा० पु० १।१५।३७)। गमनाय महाप्रस्थानाय मतिं चकार, मनो दधे, धृतोऽभूत्। अस्थाने परिः। तत्रार्थे केवल एव दधातिः प्रयोगमवतरन्दृष्टो न परिपूर्वः।
  • ‘तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवासुरम्। गाढं परिदधुः सर्वे…’ (रा० ४।४८।१८)॥ तं परिचिक्षिपृरित्यर्थः।
  • ‘सुपरिहितं परिधिभिः’ (स्थण्डिलम्) (चरक० विमान० ८।११)। सुपरिहितं सुवेष्टितम्।
  • ‘वप्रैः श्वेतचयाकारैः परिखाभिश्च सर्वतः। अधः परिहितामिव’ (लङ्काम्) (रा० ५।९।१५)॥ परिहितां वेष्टितां परिकरिताम्, मेखलिताम्।
  • ‘स्वधया परिहिता’ (ब्रह्मगवी) (अथर्व० १२।५।३)। परिहिता वेष्टिता।
  • ‘गाढं परिहितः’ (रा० ४।१२।१५)। वाससा दृढं संवीत इत्यर्थः।
  • ‘एकशाटीपरिहितः’ (व० धर्म० १०।९)। परिहितो वेष्टितः।
  • ‘स्थिराघातमेकवर्णमशुष्कमनूषरममरुपरिहितमक्लिन्नम्’ (गो० गृ० ४।७।६)। अमरुपरिहितं धन्वनाऽपरिवेष्टितम्।
  • ‘अथास्य स्थानं व्रजपरिहितं प्रपाद्य’ (लौ० गृ० ३।४)। परिहितमधिष्ठितम्।
  • ‘सर्वे त्रयः क्रतवः परिहिता भवन्ति’ (ऐ० ब्रा० ७।८)। परिहिताः कृतपरिधयः।
  • ‘ततः सम्प्रेष्यति परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु’ (आप० श्रौ० १।४।१४।१२)। उक्तोऽर्थः।
  • ‘परिहिते प्रातरनुवाके’ (आश्व० श्रौ० ६।९)। समाप्त इत्यर्थः।
  • ‘तत्रोपविष्टः… समिद्भिरग्निमुपसमाधाय परिधिभिश्च परिधाय’ (चरक० शारीर० ८।२०)। परिधिभिः चतुर्भिः पालाशै र्बृहद्भिर्दण्डैर्वेष्टयित्वेत्यर्थः।
  • ‘तृणैः परिधाय’ (गो० गृ० २।६।८)। वेष्टयित्वेत्यर्थः।
  • ‘अश्विनो रूपं परिधाय मायाम्’ (अथर्व० २।२९।६)। परिधाय आधाय धृत्वा।
  • ‘स्रग्वी सुकेशः परिधाय चान्यथा’ (भा० वि० ११।६)। अन्यथा वेषं कृत्वेत्यर्थः।
  • ‘विकृष्य चापं परिधाय सायकम्’ (रा० ३।५९।२६)। परिधाय सन्धाय, आरोप्य।
  • ‘मृदुचीनैः समीचीनैः सिचयैः परिधापितम्’ (शि० भा० २।१५) परिधापितं परिवेष्टितम्।
  • ‘अथातः परिधानीया एव (ऐ० ब्रा० ६।७)। ऋचो वक्ष्यन्त इति शेषः। परिधानं समापनमिति सायणः। याभिरनुवचनं समाप्यते ताः।
  • ‘सप्तास्थासन् परिधयः त्रिः सप्त समिधः कृताः’ (ऋ० १०।९०।१५)। उक्तोऽर्थः पुरस्तात्।
  • ‘यत्रेदं ब्रह्म क्रियते परिधिर्जीवनायकम्’ (अथर्व० ८।२।२५)। परिधिः परितो धीयत इति रक्षः पिशाचादिनिवारकः प्राकार इति सायणः।
  • ‘बर्बरान् परिधीभूतान् परिभूय स्वतेजसा’ (शि० भा० २८।२७)। परिधिः प्राकार इत्युक्तोऽर्थः।
  • ‘परिधेर्मुक्त इवोष्णदीधितिः’ (रघु० ८।३०)। परिधिः परिवेषः। परिवेषस्तु परिधिरुपसूर्यकमण्डले इत्यमरः।
  • ‘मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युत्’ (भा० पु० ८।७।१७)। परिधिः परिधानम्। कनकं हिरण्यं तद्वत् परिधानमस्य। पीताम्बर इत्यर्थ इति श्रीधरः।
  • ‘श्यामं हिरण्यपरिधिं नवमाल्यबर्ह-धातुप्रवालनटवेषम्’ (भा० पु० १०।२३।२२)। उक्तोऽर्थः।
  • ‘पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव’ (भा० पु० ८।१५।१०)। परिधयो दिशः।
  • ‘वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः’ (कि० ९।१)। परिधानं वासः।
  • ‘आत्मपरिधानार्थं सीता कौशेयवासिनी। सम्प्रेक्ष्य चीरं सन्त्रस्ता पृषती वागुरामिव’ (रा० २।३७।९)॥ आत्मपरिधानार्थं शरीरावरणार्थम्।
  • ‘ततस्तान् परिधानेन वाससा स समावृणोत्’ (भा० वन० ६१।१४)। परिधानेन परिधायकेन प्रावारभूतेन।
  • ‘तारणश्चरणो धाता परिधा परिपूजितः’ (लिङ्गपु० पू० ६५।४१)। परितो दधाति परिधा पृथिवी, तद्रूप इत्यर्थः।

धाव्

  • {परिधाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि’ (ऋ० ९।२४।५)। परिधावसि परिस्रवसि।
  • ‘ऽव्यो वारे परि धाव मधु प्रियम्’ (ऋ० ९।८६।४८)। परिधाव पवस्व परिस्रावय।
  • ‘आरुह्य यानं परिधावतां भवान्’ (भा० वि० ११।६)। इतस्ततः संचरत्वित्यर्थः।
  • ‘रुरुश्चापि वनं सर्वं पर्यधावत् समन्ततः’ ( )। परिरत्रानर्थकः, तदर्थस्य समन्तत इत्यनेनैव गतेः।
  • ‘कुपितानां दोषाणां शरीरं परिधावताम्’ (सुश्रुत० १।९१।५)। शरीरे संचरतामित्यर्थः।
  • ‘परिधावन् महीं कृत्स्नां कापिलेयो महामुनिः’ (भा० शां० २१८।६)। परिधावन् विचरन्, पर्यटन्।
  • ‘असीनादाय शक्तीश्च भार्गवं पर्यधावयन्’ (भा० आश्व० २९।१२)। स्वार्थे णिच्। सकर्मकोऽत्र धातुरुपसर्गवशात्।

धी

  • {परिधी}
  • धी (धीङ् आधारे)।
  • ‘परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि’ (ऋ० १०।८७।२२)। परिधीमहि परिधिं कुर्मः।

धृ

  • {परिधृ}
  • धृ (धृञ् धारणे)।
  • ‘(नद्याः) एतस्याः सलिलं मूर्ध्ना वृषाङ्कः पर्यधारयत्’ (भा० वन० १०९०७)।
  • ‘दश मासान् परिधृता जायन्ते’ (भा० शां० १२।५२९)। परिधृता धृता ऊढाः।

धृष्

  • {परिधृष्}
  • धृष् (धृष प्रसहने)।
  • ‘निक्षिप्तमेतद् भुवि पन्नगास्तु रत्नं समासाद्य परामृशेयुः। यक्षास्तथोच्छिष्टधृतं सुराश्च निद्रावशाद्वा परिधर्षयेयु’ (भा० आश्व० ५७।२३)॥ धर्षयेयुरास्कन्देयुः।

ध्वंस्

  • {परिध्वंस्}
  • ध्वंस् (ध्वंसु अवस्रंसने गतौ च)।
  • ‘समुद्धतनिधानानि परिध्वस्ताजिराणि च’ (वेश्मानि) (रा० २।३३।१८)। परिध्वस्तानि मार्जनादिरहितान्यजिराणि चत्वराणि येषु तानि। संस्कृतशार्मण्यकोषस्तु परिध्वस्तान्युत्सन्नानीत्याह।
  • ‘अथ रेणुपरिध्वस्तं समुत्थाप्य नराधिपम्’ (रा० २।८२।१०)। पांसुभिरावृतम्, रजोमलिनम्, धूलिधूसरितम्। समुद्ध्वस्तमिति पाठान्तरम्।
  • ‘भिन्नमुष्टिपरिध्वस्तकार्मुक०’ (रा० )।

नक्ष्

  • {परिणक्ष्}
  • नक्ष् (णक्ष गतौ)।
  • ‘उरु वां रथः परिनक्षति द्याम्’ (ऋ० ४।४३।५)। परिणक्षति व्यश्नुतेतिक्रामति।

नन्द्

  • {परिनन्द्}
  • नन्द् (टुनदि समृद्धौ)।
  • ‘स तैः परिवृतो राजा कथाभिः परिनन्द्य ताम्’ (भा० आश्रम० १९।३)। परिनन्द्य रञ्जयित्वा, विनोद्य।

नम्

  • {परिणम्}
  • नम् (णम प्रह्वत्वे शब्दे च)।
  • ‘ज्याके परि णो नम’ (अथर्व० १।२।२)। अस्मान् परिहृत्य नमेत्यर्थः।
  • ‘ममाहारः सुष्ठु न परिणमति’ (स्वप्न० २)। परिणमति जीर्यति पच्यते।
  • ‘यच्छक्यं ग्रसितुं ग्रस्यं परिणमेच्च यत्।’ (भा० उ० ३४।२४)। उक्तोऽर्थः।
  • ‘सर्वं विपरीतं परिणमति’ (मृच्छ० १)। परिणमति सम्पद्यते निष्पद्यते।
  • ‘शाखाभृतां परिणमन्ति न पल्लवानि’ (कि० ५।३७)। न जीर्यन्ति, जीर्णानि न भवन्ति।
  • ‘एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे। सत्त्वोच्छृते मृगपतौ राजेति गिरः परिणमन्ति’ (पञ्चत० १।५)। परिणमन्ति परिपाकवत्यो भवन्ति। अन्वर्था भवन्तीति तात्पर्यार्थः।
  • ‘तमांसि ध्वंसन्ते परिणमति भूयानुपशमः’ (महावीर० १।१२)। प्रवृद्धो भवतीत्यर्थः।
  • ‘पाच्यांश्च सर्वान्परिणामयेद्यः’ (विश्वयोनिः) (श्वेता० उ० ५।५)। पृथिव्यादीन् परिणामयोग्यान्परिणामं कारयेत्।
  • ‘तत्र काकसहस्राणि तां निशां पर्यणामयन्’ (भा० सौ० १।३६)। पर्यवसाययन्, व्यगमयन्, अक्षपयन्, अनयन्।
  • ‘उदासीनश्चेन्मध्यमं लिप्सेत। यतः शत्रुमतिसन्दध्यात्, मित्रस्योपकुर्यादुदासीनं वा दण्डोपकारिणं लभेत, ततः परिणमेत’ (कौ० अ० ७।१८।२७)। ततः परिणमेत तस्याभिमुखो भवेत्, तं पक्षं समाश्रयेत्।
  • ‘न सुमेरुवप्रप्रणयप्रगल्भा वा दिक्करिणः परिणमन्त्यणीयसि वल्मीके’ (हर्ष० पृ० १८५)। तिर्यग्दन्तप्रहारं कर्तुं नमनं परिणमनमुच्यते।
  • ‘विष्के नागः पर्यणंसीत् स्व एव’ (शिशु० १८।२७)। उक्तोऽर्थः।
  • ‘परिणमन्…भीतवन्न्यवर्तिष्ट’ (दशकु० पृ० १६८)। पूर्वोक्त एवार्थः।
  • ‘गजो हि निर्मलशिलातलेषु स्वबिम्बं दृष्ट्वा प्रतिगजोऽयमिति मन्यमानो मोहात्तस्मिन्परिणतो दन्तभङ्गमवाप्नोति’ (का० नी० सा० १२।१७।११ जयमङ्गलायाम्)। उक्तोऽर्थः।
  • ‘योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः’ (कि० १३।४४)। परिणमन् सम्पद्यमानः।
  • ‘ता एवौषधयः कालपरिणामात् परिणतवीर्या’ (भवन्ति) (सुश्रुत० १।२०।११)। कालात्ययेन परिवर्ततेऽन्यथा भवत्यासां वीर्यमित्याह।
  • ‘परिणतो बुद्ध्या वयसाच’ (रा० २।४३।१५)। परिणतो वृद्धः।
  • ‘शब्दब्रह्मविदः कवेः परिणतप्रज्ञस्य वाणीमिमाम्’ (उत्तर० ७।२१)। परिणता परिपाकं गता, परिपक्वा प्रवृद्धा।
  • ‘परिणतशरच्चन्द्रकिरणैः’ (भर्तृ० ३।४९)। परिणतः पूर्णः।
  • ‘सम्प्रति परिणतमहः’ (नागा० ३)। परिणतमवसितम्।
  • ‘पतति परिणतारुणप्रकाशः’ (रेणुः) (शा० १।२९)। परिणतारुणोऽस्तमितोऽर्कः।
  • ‘लताभावेन परिणतमस्या रूपम्’ (विक्रम० ४)। परिणतं परिवृत्तम्।
  • ‘स्रोतोमूर्त्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्’ (मेघ० ४७)। उक्तोऽर्थः।
  • ‘किंस्वित् भित्त्वार्णवार्णांस्युपरि परिणतः सर्वतोऽप्यौर्ववह्निः’ (बालरा० ७।३०)। परिणतः प्रवृद्धः।
  • ‘सूर्ये परिणते सति’ (भा० वि० ३२।१)। पञ्चधा विभक्तस्याह्नश्चतुर्थभागं प्राप्ते सति। उपास्तमयमित्यर्थः।
  • ‘अनेन समयेन परिणतो दिवसः’ (काद०)। अवसानं गतः।
  • ‘लज्जापरिणतैः’ (वदनकमलैः) (भर्तृ० १।४)। परावृत्तैः, अन्यतः कृतैः।
  • ‘वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श’ (मेघ० १।२)। तिर्यग्दन्तप्रहारस्तु गजः परिणतो मत इति कोषः।
  • ‘विषाणभङ्गमुन्मत्ता मदहानिं च दिग्गजाः। यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः’ (वि० पु० १।१५।१५१)॥ परिणमनाय तिर्यग्दन्तप्रहाराय नामिता इत्यर्थः।
  • ‘परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत’ (रा० ३।८।१)। परिणाम्य परिणमय्य नीत्वा विगमय्य, क्षपयित्वा समाप्य समापय्य।
  • ‘परिणाम्य निशां तु सुखं प्राप्ता जनेश्वराः’ (भा० भीष्म० ८७।१)। उक्तोऽर्थः।
  • ‘निमित्तं मन्यमानास्तु परिणाम्य महागजाः। जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च’ (भा० कर्ण० २८।२५)॥ परिणाम्य नमयित्वा। महान्तो गजा येषां ते महागजा गजारोहाः। हस्तिनमिति शेषः। संस्कृतशार्मण्यकोषकारौ त्वन्यथा व्याचक्षाते। महागजा इति कर्मधारय इति मन्येते। एवं सति परिणाम्येत्यत्र णिच आनर्थक्यं च नेक्षेते। निमित्तं मन्यमाना इत्युक्तेरसङ्गतिं चापि नावबुध्येते।
  • ‘परिणामस्वभावास्त्रिगुणा नापरिणम्य क्षणमवतिष्ठन्ते’ (सां० का० ६४ व्याख्यायाम्)। अपरिणम्यावस्थान्तरमगत्वेत्यर्थः।
  • ‘अपरिणामोपशमो दारुणो लक्ष्मीज्वरः’ (काद० शुकनासोपदेशे)। परिणामः परिपाकः।
  • ‘परिणामतापसस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः’ (यो० सू० २।१५)।
  • ‘कालस्य परिणामेन’ (हरि० १।१९।१९)। कालक्रमेणेत्यर्थः।
  • ‘इयं च वर्तते सन्ध्या परिणाममहर्गतम्’ (वि० पु० १।१५।२९)। परिणामोऽवसानम्।
  • ‘दिवसाः परिणामरमणीयाः’ (शा० १।३ )। उक्तोऽर्थः।
  • ‘अन्नं न सम्यक् परिणाममेति’ (सुश्रुत० १।२४५।१०)। परिणामो जरा जीर्णता।

नश्

  • {परिणश्}
  • नश् (णश व्याप्तौ छान्दसः)।
  • ‘न हि ते अन्तः परीणशे’ (ऋ० १।५४।१)।

नह्

  • {परिणह्}
  • नह् (णह बन्धने)।
  • ‘आचार्योऽहतेन वसनेन परिणह्येत्’ (गो० गृ० ३।२।३५)। अक्षिणी बध्नीयात्।
  • ‘न तां वध्री परिणहेच्छतचर्मा महातनुम्’ (भा० आदि० ३०।२३ )। परिणहेत् परिणह्येत् वेष्टयेत्। वध्री एकतन्तुका चर्मरज्जुः।
  • ‘स जयति परिणद्धः शक्तिभिः शक्तिनाथः’ (मालती० ५।१)। परिणद्धः परिगतः।
  • ‘तूणीरपट्टपरिणद्धभुजान्तरालम्’ (माल० ५।१०)। परिणद्धं परिक्षिप्तं वेष्टितम्।
  • ‘कपाटवक्षाः परिणद्ध-कन्धरः’ (रघु० ३।३४)। परिणद्धकन्धरो विशालग्रीवः। परिणाहवती कन्धरा यस्य सः। परिणाहो विशालतेत्यमरः।
  • ‘परीणाहः’ (याज्ञ० २।१६७)। परीहार इत्यर्थः। धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेदिति तत्र पाठः।
  • ‘सर्वतोदिशमनुप्तसस्यं सर्वग्रामीणसाधारणं क्षेत्रम्। उरु वातायेति परीणाहमपच्छाद्य’ (आप० श्रौ० १।५।१७।८)। परितो नीडे नद्धः कटः परीणाह इति रुद्रदत्तः।
  • ‘पत्नी पारीणह्यस्येशे’ (तै० सं० ६।२।१।१)। परीणद् गेहं भवति। परिपूर्वान्नहेः क्विप्। नहिवृतिवृषीति दीर्घः। परीणहि भवं परीणह्यं गृहोपकरणम्।

नी

  • {परिणी}
  • नी (णीञ् प्रापणे)।
  • ‘स सद्म परि णीयते होता मन्द्रो दिविष्टिषु। उत पोता निषीदति’ (ऋ० ४।९।३)। परिणीयते नीयते प्राप्यते। सद्म बर्हिः सदः। परिरत्र नान्तरमर्थे करोति।
  • ‘विरोचमानं परि षीं नयन्ति’ (ऋ० १।९५।२)।
  • ‘ताभिर्हाग्निं परिणिन्युः’ (शां० ब्रा० २८।२)।
  • ‘बुध्नादेवैनमग्रं देवतानां पर्यणयत्’ (तै० सं० २।३।४।३)।
  • ‘अग्रमेवैनं परिणयति’ (पञ्च० ब्रा० ६।९।११)। अत्राप्युपसर्गो नार्थं विशिनष्टि।
  • ‘पञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि। पर्याणयत भद्रं वः सा स्यात्परमदक्षिणा’ (भा० आदि० १३८।३)॥ परिणयत नयत उपनयत वा। उपस्यार्थे परिः।
  • ‘अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम्’ (अथर्व० १८।३।३)॥ अत्रापि परेरल्प एवार्थः। इदं च व्यक्तं प्रथमचरणे नीयमानामित्यनुपसृष्टस्य नयतेः प्रयोगात्। अथवाऽर्थवान्परिः। शवं परितः प्रसव्यं नीयमानां गामनुस्तरण्याख्याम् इत्याह।
  • ‘परीमे गामनेषत’ (ऋ०।१५५।५, वा० सं० ३५।१०, अथर्व० ६।२८।८)। पर्यणेषत परितः सर्वतो नयन्ति। गृहमिति शेषः।
  • ‘वाजिनमिव ह्येनं सन्तं परिणयन्ति’ (ऐ० ब्रा० २।५)। एनं पशुम्। उदितचर एव वाक्यार्थः।
  • ‘इषं मदन्तः परि गां नयामः’ (अथर्व० ६।२८।१)। परिणयामः सर्वतः सं चारयामः। आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम्।
  • ‘लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्’ (रा० ५।५३।५)॥ परिणीयतां परितो नीयतां भ्रमणं कार्यताम्। यथा नयतिः केवलो द्विकर्मकस्तथा परिणयतिरपि।
  • ‘वरः कन्यामग्निं त्रिः परिणयति’ (अ० १४।१।३९) परिणयति परितो नयति।
  • ‘अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्’ (रा० २।४२।८)। प्रदक्षिणमनयमित्यर्थः। त्वामिति शेषः।
  • ‘परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः’ (कु० ४।४२)। परिणेष्यति वक्ष्यति विवक्ष्यति उद्वक्ष्यति, स्वीकरिष्यति, उपयंस्यते।
  • ‘चतुः परिणयति। समितं संकल्पेथामिति पर्याये पर्याये ब्रह्मा ब्रह्मणयं जपेत्’ (मा० गृ० १।१०।१८-१९)। अग्निं पर्येतीत्यर्थः। एतच्च परिणयनं लाजाहोमेषु चतुर्षु पुरा समाचारादित्यष्टावक्रः।
  • ‘तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः’ (मनु० ७।१२२)। परिणयेत् परिचिनुयात्।
  • ‘प्रदक्षिणं तौ प्रगृहीतपाणी परिणाययामास स वेदपारगः’ (भा० आदि० १९८।१२)। परिणाययामास विवाहं कारयामास।
  • ‘परिणीतोस्मि हरिभिर्बलमध्ये अमर्षणैः’ (रा० ६।३०।९)। परिणीतो भ्रमितः। रावणं प्रति तच्चरस्य शार्दूलस्योक्तिः।
  • ‘अथ स राजा किमारम्भः सम्प्रति। तेन राज्ञा ऋतुरश्वमेधः प्रक्रान्तः। वासन्ती–हा धिक् परिणीतमपि’ (उ० रा० च०)। परिणीतं कृतं दारकर्म, दारपरिग्रहोपि कृतः किमित्याह।
  • ‘ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः। सर्वान् सुपरिणीतेन कर्मणा तोषयाम्यहम्’ (भा० वन० १३७३९)॥ सुपरिणीतेन सुविहितेन।
  • ‘परिणीय च सर्वत्र नीतोऽहं रामसंसदि’ (रा० ६।३०।९)। परिणीय भ्रमयित्वा।
  • ‘तौ दम्पती त्रिः परिणीय वह्निम्’ (कु० ७।८०)। परिणीय परितो नीत्वा प्रादक्षिण्येन नीत्वा, परिक्रमय्य। पुरोधाः कर्ता।
  • ‘वरयित्वा यथा-न्यायं मन्त्रवत् परिणीय च’ (भा० आदि० १५७।३२)। परिणीय उदुह्य।
  • ‘तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ’ (रा २।६४।४)। अपरिणायकौ संचारयित्तृपुरुषरहितौ।
  • ‘परिणेता मतीनाम्’ (ऋ० ९।१०३।४)। परिणेता परितो नेता (सोमः)।

नु

  • {परिणु}
  • नु (णु स्तवने)।
  • ‘पृथयेत्थं कलपदैः परिणुताखिलोदयः। मन्दं जहास वैकुण्ठः…’ (भा० पु० १।८।४४)। परिणुतोऽभिष्टुतः।

नृत्

  • {परिनृत्}
  • नृत् (नृती गात्रविक्षेपे)।
  • ‘ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः’ (अथर्व० ८।६।१०)। परिनृत्यन्ति परितो नृत्यन्ति। उपसर्गवशान्नृतिरिह सकर्मकः।

पच्

  • {परिपच्}
  • पच् (डुपचष् पाके)।
  • ‘पूर्वजन्मकृतं कर्म कालेन परिपच्यते’ (हरि० २।३२।३५)। परिपच्यते फलति, फलं प्रसूयते।
  • ‘परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता’ (शिशु० ४।४८)। कार्त्स्न्येन पाकः परिपाकः।
  • ‘प्रपन्नानां मूर्त्तः सुकृतपरिपाको जनिमताम्’ (महावीर० ४।३१)। परिपाको विपाकः फलम्।
  • ‘वीक्ष्य तस्य विनये परिपाकं पाकशासनपदं स्पृशतोपि’ (नै० ५।२०)। परिपाकः पर्याप्तिः प्रकर्षपर्यन्तः।

पठ्

  • {परिपठ्}
  • पठ् (पठ व्यक्तायां वाचि)।
  • ‘समामनन्ति परिपठन्ति’ (आप० श्रौ० १।१।२।६ इत्यत्र धूर्तस्वामिभाष्यम्)।
  • ‘सर्पसत्रमिति ख्यातं पुराणे परिपठ्यते’ (भा० आदि० ५१।६)। परिपठ्यते सत्रेषु मध्ये पठ्यतेऽनुक्रम्यते।
  • ‘अस्य लोकस्य सर्वस्य यः प्रभुः परिपठ्यते’ (भा० वन० १४१९२)। परिपठ्यते सर्वत्र कीर्त्यते।
  • ‘न धर्मः परिपाठेन शक्यो भारत वेदितुम्’ (भा० शां० २६०।३)। परिपाठ आम्नायः।

पण्

  • {परिपण्}
  • पण् (पण व्यवहारे)।
  • ‘नीवी परिपणो मूलधनम्’ (अमरः)। परिपणन्तेऽनेनेति व्युत्पत्तेः।

पत्

  • {परिपत्}
  • पत् (पत्लृ गतौ)।
  • ‘बिन्दूत्क्षेपान् पिपासुः परिपतति शिखी भ्रान्तिमद् वारियन्त्रम्’ (माल० २।१२)। परिपतति परित उद्भ्राम्यति।
  • ‘श्रुत्वा च कस्यचिदातुर्यमभितः परिपतन्ति’ (चरक० सूत्र० २९।९)। अभितः परिपतन्ति पार्श्वं यान्ति।
  • ‘परिपेतुः पतन्तं तं पुरुषाः परिचारकाः’ (रा० गो० २।८४।९)। उक्तोऽर्थः।
  • ‘हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः’ (भा० शल्य० २३।७३)। परितो दिक्षु विदिक्षु पतन्तीत्यर्थः।
  • ‘इति राष्ट्रे परिपतन् बहुभि; पुरुषैः सह’ (भा० शां० ८२।९)। परिपतन् परिभ्राम्यन्।
  • ‘स कदाचित् परिपतन् श्वपचानां निवेशनम्। …आससाद वने क्वचित्।’ (भा० शां० १४१।२८)॥
  • ‘क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः’ (वेणी० ६।१२)। उक्तोऽर्थः।
  • ‘परिपतये त्वा गृह्णामि’ (तै० सं० १।२।१०)। परितः सर्वतः पततीति परिपतिर्मनः।
  • मनो वै परिपतिः (तै० सं० ६।२।२।३)।

पद्

  • {परिपद्}
  • पद् (पद गतौ)।
  • ‘बेत्था हि निर्ऋतीनां वज्रहस्त परि वृजम्। अहरहः शुन्ध्युः परिपदामिव’ (ऋ० ८।२४।२४)।
  • ‘रेफोष्मणोरुभयोर्मकारोऽनुस्वारं तु तत् परिपन्नमाहुः’ (ऋक् प्राति० ४।५,७)।
  • ‘कालक्रमादुपादानं परिपाद्य’ (ऋक्० प्रा० २।१ इत्यत्रोवटः)। प्रतिपाद्येत्यर्थः।

पा

  • {परिपा}
  • पा (पा पाने)।
  • ‘तान्वै त्वमुभयतः परि पिबेति तान् प्रजापतिरुभयतः पर्यपिबत्’ (ऐ० ब्रा० ३।३०)। ऋभूणामुभयोः पार्श्वयोः स्थित्वा पूर्वं पश्चाच्च पिबेत्यर्थः।
  • ‘रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि’ (रा० ३।६३।१०)। साकल्येन पीतवन्तीत्यर्थः।
  • ‘मत्तद्विरेफपरिपीतमधुप्रसेकम्’ (कोविदारम्) (ऋतु० ३।६)। उक्तोऽर्थः।

पा

  • {परिपा}
  • पा (पा रक्षणे)।
  • ‘सा मा सत्योक्तिः परि पातु विश्वतः’ (ऋ० १०।३७।२)। परिपातु त्रायताम्। परिशब्दार्थो विश्वत इत्यनेनैवोक्त इति परिर्नातीवोपकरोति धात्वर्थम्।
  • ‘नदस्य नादे परि पातु मे मनः’ (ऋ० १०।११।२)।
  • ‘उभे रोदसी परि पासतो नः’ (ऋ० ७।३४।२३)। पासत इति लेटि प्रथमपुरुषद्विवचने रूपम्।
  • ‘स नो ऽयं दर्भः परि पातु विश्वतः’ (अथर्व० १९।३२।१०)। आसूदाहृतिषु परिशब्दो नार्थान्तरमाह।
  • ‘परिपाणं पुरुषाणाम्’ (अथर्व० ४।९।२)। परिपाणं परिरक्षणसाधनम्।
  • ‘पथस्पथः परिपतिं वचस्या’ (ऋ० ६।४९।८)। परिपतिमधिपतिम्।

पाल्

  • {परिपाल्}
  • पाल् (पा+लुगागमः)।
  • ‘अब्राह्मणस्य प्रनष्टस्वामिकं रिक्थं संवत्सरं परिपाल्य राजा हरेत्’ (बौ० ध० १।१०।१८।१६)। परिपाल्य रक्षित्वा निधाप्य।

पिष्

  • {परिपिष्}
  • पिष् (पिष्लृ संचूर्णने)।
  • ‘(हयाः) अन्योन्यपरिपिष्टाश्च समासाद्य परस्परम्’ (भा० शल्य० २३।४९)। निगदव्याख्यातम्।

पीड्

  • {परिपीड्}
  • पीड् (पीड अवगाहने)।
  • ‘अकामां कामयानस्य शरीरं परिपीड्यते’ (रा० ५।२४।३७)। सातिशयं पीड्यते परितप्यते।
  • ‘बाहुभ्यां परिपीडितः।’ (हितोप०)। दृढं परिश्लिष्टः।

पुष्

  • {परिपुष्}
  • पुष् (पुष पुष्टौ)।
  • ‘बीजाङ्कुरैः सूक्ष्मः परिपुष्टोऽभिरक्षितः।’ परिपुष्टः संवर्धितः।

पू

  • {परिपू}
  • पू (पूङ् पवने, पूञ् पवने)।
  • ‘तुभ्यायं सोमः परिपूतो अद्रिभिः’ (ऋ० १।१३५।२)। परिपूतः सुतरां पूतः।

पूर्

  • {परिपूर्}
  • पूर् (पूरी आप्यायने)।
  • ‘सर्वमलज्जाकरमिह यद्यत् कुर्वन्ति परिपूर्णाः’ (पञ्चत० ५।१०)। परिपूर्णा अत्यन्तं समर्थाः।

पॄ

  • {परिपॄ}
  • पॄ (पॄ पालनपूरणयोः)।
  • ‘ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये’ (ऋ० १०।६३।८)। परिपिपृत परितो रक्षत। सांहितिको दीर्घः।

प्रच्छ्

  • {परिप्रच्छ्}
  • प्रच्छ् (प्रच्छ ज्ञीप्सायाम्)।
  • ‘व्यासमेकाग्रमासीनं पर्यपृच्छन्मुनीश्वराः’ (बृ० परा० सं० १।२)। पर्यपृच्छन् पर्यायेणापृच्छन्।
  • ‘यदा हि बहवो वृद्धा गुणवन्तो बहुश्रुताः। परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा’ (रा० २।१२।६६)॥ उक्तोऽर्थः।
  • ‘कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्’ (रा० ३।६२।१४)। परिपृच्छन्तं पर्यायेण पृच्छन्तम् (जनकम् )। रामस्योक्तिरेषा सीतापहारे सति।
  • ‘मार्कण्डेयेन कथितं भीष्माय परिपृच्छते’ (हरि० १।१६।६)।
  • ‘तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया’ (गीता ४।३४)।

प्री

  • {परिप्री}
  • प्री (प्रीङ् प्रीतौ)।
  • ‘ताभ्यः सर्वाः कलाः प्रादात् परिप्रीता सरस्वती’ (स्कन्द पु० का० ४।६७।४२)। परिप्रीताऽत्यन्तं प्रसन्ना।

प्लु

  • {परिप्लु}
  • प्लु (प्लुङ् तरणप्लवनयोः)।
  • ‘यदि स्नायाद् दण्ड इवाप्सु परिप्लवेत्’ (लौ० गृ० सू० १।२४)। परिप्लवेत् परिप्लवेत तरेत्। परिर्द्योतकः।
  • ‘देवचक्रे यजमानस्य पाप्मानं तृंहती परिप्लवेते’ (श० ब्रा० १२।२।२।२)। परिप्लवेते प्रवर्तेते।
  • ‘संवत्सरस्याहोरात्राणि सन्ततान्यप्यवच्छिन्नानि परिप्लवन्ते’ (श० ब्रा० १।३।५।१६)। परिप्लवन्तेऽतियान्ति, अनुक्रामन्ति।
  • ‘यद्युक्तयोरयोगक्षेमः प्रजा विन्देत् ताः प्रजाः परिप्लवेरन्’ (ऐ० ब्रा० १।१४)। युक्तोरनडुहोः।
  • ‘मासः परिप्लवमानः संवत्सरं करोति’ (शा० ब्रा० ११।२।५।४)। परिप्लवमानः सङ्क्रामन् चक्रवत् परिवर्तमानः।
  • ‘अहोरात्रे परिप्लवमाने संवत्सरं कुरुतः’ (श० ब्रा० ३।२।२।४)। उक्तोऽर्थः।
  • ‘राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्त्वा मुसलैर्घातयन्ति’ (भा० सभा० ६४।१२)। परिप्लुतानि चञ्चलानि।
  • ‘बाष्पशोकपरिप्लुतः’ (रा० ३।२।२२)। बाष्पशोकाभ्यां परिप्लुतो व्याप्तः।
  • ‘पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता’ (नदी) (रा० ४।२७।२३)। पारिप्लवा जलपक्षिणः। केवलस्तु प्लवः कारण्डवो भवति।
  • ‘पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः’ (रा० १।४३।१९)। पारिप्लवगताः सम्भ्रमं गताः, शिबिकादियानस्था वा। गोविन्दराजस्तु पारिप्लवं गता इति व्यस्तं पठति।
  • ‘परिप्लवांश्च विविधान्’ (सुश्रुत० उ० ७।४)। परिप्लवा नक्षत्रादीनां गतयः।
  • ‘देवचक्रं वा एतत् परिप्लवं यत्संवत्सरः’ (शां० ब्रा० २०।१)। परिप्लवं भ्राम्यत्।
  • ‘शीलमेतदसाधूनामनम्रं पारिप्लवं यथा’ (भा० उ० ३६।४१)। पारिप्लवं चञ्चलम्।
  • ‘परिप्लवेभ्यः स्वाहा’ (तै० सं० १।८।१३)। परिप्लवाः परितः प्लवनशीलाः।
  • ‘आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः’ (भा० वि० ६७।१९)। आप्लाव्य स्नपयित्वा।

बन्ध्

  • {परिबन्ध्}
  • बन्ध् (बन्ध बन्धने)।
  • ‘तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत’ (पर्यबध्नात्) (भा० वि० ५।३०)। परितोऽबध्नादित्यर्थः। पाशबहुत्वात्परिः सार्थकः।
  • ‘विषयो रक्षोभिः पर्यबध्यत’ (भा० अनु० १००।१४)। पर्यबध्यत पर्यक्षिप्यत, परिगतोऽभूत्।

बाध्

  • {परिबाध्}
  • बाध् (बाधृ लोडने, लोडनं प्रतिघातः)।
  • ‘परि माग्ने दुश्चरिताद् बाधस्वा मा सूचरिते भज’ (वा० सं० ४।२८) परिबाधस्व परिहर, परिरक्ष। परिणा धात्वर्थबाधः।
  • ‘ओषधयो वा एतं प्रजायै परिबाधन्ते’ (तै० सं० २।१।५।३)। परिबाधन्ते प्रतिबध्नन्ति।

बृंह्

  • {परिबृंह्}
  • बृंह् (बृहि वृद्धौ)।
  • ‘विशो वै मरुतो विशेवैतत् क्षत्रं परिबृंहति’ (श० ब्रा० १४।१।३।२७)। परिबृंहति वर्धते।
  • ‘प्रभौ परिवृढः’ (पा० ७।२।२१)। निगदव्याख्यातम्।
  • ‘ब्रह्मदेयाग्रहारांश्च परिबर्हांश्च पार्थिवः। …पालयत्येव पाण्डवः’ (भा० आश्रम० १०।४१)। परिबर्ह औद्वाहिकमुपायनम्।
  • ‘निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम्’ (रा० २।८३।२६)। परिबर्हो यात्रोपयुक्तपटवेश्माद्युपकरणजातम्। परिच्छदे नृपार्हेर्थे परिबर्ह इत्यमरः। नृपोपकरणं प्रोक्तं परिबर्हः परिच्छद इति हलायुधः।

ब्रू

  • {परिब्रू}
  • ब्रू (ब्रूञ् व्यक्तायां वाचि)।
  • ‘ऋत्विजः पर्याहुः’ (तै० सं० २।३।११।४)। परित आसीना आहुरित्यर्थः।
  • ‘यं कामयेतामयाविनं जीवेदित्यग्नेरन्ते ब्राह्यणाय प्रोच्यापः परिब्रूयाद् एतद्वै भेषजम्’ (काठक० २७।४)। परिब्रूयात् अधिकृत्य ब्रूयात्।
  • ‘यस्मै परिब्रवीमि त्वा’ (अथर्व० १९।३९।२)। मन्त्रत्वेन तव नामान्युच्चारयामीत्यर्थः।
  • ‘एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्य्याहुः… तेभ्य एतेन सर्वं सदः परिब्रूयात्’ (गो० ब्रा० उ० २।१९)। परिब्रूयात् सम्बोधयेत्।
  • ‘ब्रह्मण इतर ऋत्विजो हस्तमन्वारभ्य यजमानं पर्याहुः पवमानेन त्वा स्तोमेनेति’ (सत्या० श्रौ० २२।५।६)। पर्याहुः=अभिमन्त्रयन्ते।
  • ‘परि च वक्षि शं च वक्षि’ (काण्व सं० ९।४॥४)।
  • ‘ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन’ (अथर्व० ४।१९।२)। परितो विनियुक्तासीत्यर्थः। इदमोषधिमुद्दिश्योच्यते।

भाष्

  • {परिभाष्}
  • भाष् (भाष व्यक्तायां वाचि)।
  • ‘असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत’ (भा० शल्य० २९।४९)। अवोचतेत्येवार्थः। परिर्विशेषकृन्न।
  • ‘कथमिव परिभाषे भर्तुरर्थे विपन्नम्’ (प्रतिज्ञा० ४।१३)। परिभाषे गर्हे निन्दामि।
  • ‘सर्वोपायैर्यदा नास्ति मृत्योरन्या प्रतिक्रिया। धृतिमालम्ब्य यत्नेन स्वचित्तं परिभाष्यताम्’ (तन्त्रा० २।१४)॥ परिभाष्यतामुपसान्त्व्यताम्, तोष्यताम् इत्यर्थो भाति।
  • ‘तर्जनीतर्जितः पित्रा… तातेन परिभाषितः। मा स्म तात पुनर् भ्रातॄन् कोपये…’ (बृ० श्लो० सं० ६।२१-२२)॥ परिभाषित आदिष्टः, उपदिष्टः।
  • ‘भार्या पुत्रश्च शिष्याश्च परिभाष्य त्याज्याः’ (व० धर्म० १२।४९)। सनिन्दमुपालभ्येत्यर्थः।
  • ‘मृषावादो मृषादानं विकल्पः परिभाषणम्’ (भा० आश्व० ३७।६)। परिभाषणं सधिक्कारं भाषणम्। यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणमित्यमरः।
  • ‘न खलु महाराज परिभाषामात्रसाध्योऽस्मिन्नर्थे विश्वन्तरः’ (अवदा० जा० ९)। परिभाषा धिक्कारवचनम्।
  • ‘परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम्’ (भा० अनु० १५९।१७)। परिभाषाऽभिसन्धिः।
  • ‘यत्र तु वृद्ध्यर्थ एवाध्युपयोग इति परिभाषा’ (याज्ञ० २।६४ मिताक्षरायाम्)। परिभाषा परस्परमतं, संवित्।
  • ‘ग्राम्यवैदग्ध्यया परिभाषया सभाजयामास’ (भा० पु० ५।२।१७)। इह परिभाषा वागित्यनर्थान्तरम्। अनियमे नियमकारिणी परिभाषेति वैयाकरणाः। सर्वतो व्यापृतां भाषां परिभाषां प्रचक्षत इति च तल्लक्षणं ब्रुवते।
  • ‘परितः प्रमिताक्षरापि सर्वं विषयं प्राप्तवती गता प्रतिष्ठाम्। न खलु प्रतिहन्यते कदाचित् परिभाषेव गरीयसी यदाज्ञा’ (शिशु० १६।८०)॥
  • ‘इहान्ये वैयाकरणाः कालोपसर्जनयोः परिभाषां कुर्वन्ति’ (कालोपसर्जन च तुल्यम् १।२।५७ इत्यत्र काशिका)। परिभाषा लक्षणम।
  • ‘भक्त तैल च लप्स्यामहे परिभाषाश्च न नो भविष्यन्ति’ (हेतुमति चेति सूत्रे भाष्ये)। परिभाषा निन्दा।
  • ‘आपद्गतोऽथवा वृद्धा गर्भिणी बाल एव वा। परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः’ (मनु० ९।२८३, विष्णुधर्मोत्तरे (२।७२।१६१) चापि)॥ सनिन्द उपालम्भः परिभाषणमिति पुरस्तादुक्तम्। तच्छब्देन पूर्वश्लोकगतममेध्यं परामृश्यते।

भुज्

  • {परिभुज्}
  • भुज् (भुज पालनाभ्यवहारयोः)।
  • ‘अपि स्वित्पर्यभुङ्क्थास्त्वं संभोज्यान् वृद्धबालकान्’ (भा० पु० १।१४।४३)। पर्यभुङ्क्थाः परित्यज्याभुङ्क्थाः पर्याशीरित्यर्थः। बालवृद्धेष्वनशितवत्सु इति तात्पर्यम्।
  • ‘परोच्छिष्टं च यद् भुक्तं परिभुक्तं च यद्भवेत्’ (भा० अनु० २३।८)। परिभुक्तं देवतातिथिपितृबालादीन् परिवर्ज्य यद् भुक्तं तत्परिभुक्तमुच्यते। जीर्णं च परिभुक्तं च यातयाममिदं द्वयमित्यमरः। परिभुक्तं भुक्तोच्छिष्टम्। परिर्वर्जने।
  • ‘नहि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्। परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः’ (रा० ६।१२५।३४-३५)॥ परिभोक्तुं परित्यज्य भोक्तुम्। राजपुत्रात्पूर्वमिति तात्पर्यार्थः।
  • ‘परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी’ (मनु० २।२०१)। परिभोक्ताऽनुचितेन गुरुधनेनोपजीवक इति कुल्लूकः। केन प्रसिद्धार्थं परिवर्जनपूर्वमशनं पर्यहासीन्मन्वर्थमुक्तावलीकार इति न जानीमः।
  • ‘इन्द्रो वृत्राय वज्रमुदयच्छत्तं षोडशिभिर्भोगैः पर्यभुजत्’ (पञ्च० ब्रा० १३।५।२२)।

भू

  • {परिभू}
  • भू (भू सत्तायाम् )।
  • ‘परि त्वा गिर्वणो गिर इमा भवन्तु’ (तै० सं० १।३।१)। परिभवन्तु व्याप्नुवन्तु।
  • ‘प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव’ (ऋ० १०।१२१।१०)। परिबभूव परिगृह्य भवति, व्याप्नोति, व्यश्नुते।
  • ‘केनेमां भूमिमौर्णोत् केन पर्यभवद् दिवम्’ (अथर्व० १०।२।१८)। पर्यगृह्णात् पर्यवेष्टयत्।
  • ‘अरान्नो नेमिः परि ता बभूव’ (ऋ० १।३२।१५)। ताश्चर्षणीः। उक्तोऽर्थः।
  • ‘इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः’ (अथर्व० ८।४।६)। परिगृह्णातु, विषयी करोतु।
  • ‘परि द्यां सद्यो अपसो बभूवुः’ (ऋ० ४।३३।१) वातजूता ऋभवः कर्तारः। परिबभूवुः पर्युत्पेतुः, परिजगृहुः परिभ्रेमुः।
  • ‘तं त्वा मरुत्वती परि भुवद् वाणी सयावरी’ (ऋ० ७।३१।८)। परिभुवत् सहचरी भवतु। परिरिह सामीप्ये।
  • ‘यो जात एव प्रथभो मनस्वान् देवो देवान् ऋतुना पर्यभूषत्’ (ऋ० २।१२।१)। पर्यभूषत् लेटि रूपम् पर्यभवत् पर्यगृह्णात्, मुख्यत्वेनात्यक्रामदित्यर्थः।
  • ‘परि प्रजातः क्रत्वा बभूथ’ (ऋ० १।६९।२)। परिबभूथ अत्यक्रमीः, अत्यशयिष्ठाः।
  • ‘अन्यत्र दाशतेये’ (३।५१।८) जातं यत्त्वा परि देवा अभूषन्नित्युक्तम्।
  • ‘पर्यहं सजातान् भूयासम्’ (काठ० सं० १२।२)। उक्तोऽर्थः।
  • ‘यासां सोमः परि राज्यं बभूव’ (अथर्व० १२।३।३१)। शशास, अधिचक्रे, ईशाञ्चक्रे।
  • ‘अकीर्तिरतुला लोके ध्रुवं परिभविष्यति’ (रा० २।१३।१४)। परिभविष्यति सर्वतो भविष्यति, सर्वत्र प्रचरिष्यतीत्यर्थः। रामष्टीकाकृत्तु–अकीर्तिः स्त्रीजित इत्यकीर्तिर्जन्मसम्पादितां कीर्तिं परिभविष्यतीत्यर्थ इत्याह।
  • ‘नित्यं परिभवेच्छ्वश्रूम्’ (भा० अनु० ९३।३३)। परिभवेद् अवजानीयात् अधिक्षिपेत्।
  • ‘मृदुर्हि परिभूयते’ (रा० २।२१।११)। परिभूयतेऽवज्ञायतेऽवमन्यते तिरस्क्रियते।
  • ‘यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत्’ (भा० आदि० १४०।७४)। परिभवेत् (शोकेन) नश्येत्।
  • ‘विधर्मकाणि कुर्वन्ति तथा परिभवन्ति च’ (भा० द्रोण० १९५।११)। उक्तोऽर्थः।
  • ‘कुरून् परिभवेत् सर्वान् पञ्चालानपि भारत। पाण्डवेयांश्च सम्प्राप्तो मम क्लेशो हरिन्दम’ (भा० वि० २०।१२)॥ परिभवेत् नाशयेत्।
  • ‘तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः’ (महाभाष्ये १।१।१)। परावभूवुर्नेशुः।
  • ‘स होता विश्वं परि भूत्वध्वरम्’ (ऋ० २।२।५)। परिभूतु परिभवतु परिभावयेत् चिन्तयेत् अवेक्षेत, प्रणयेत्,।
  • ‘न त्वां परिभवन्ब्रह्मन् प्रहसामि गुरुर्भवान्’ (भा० अनु० १०।५९)। परिभवन् अवजानन्।
  • ‘तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः’ (उत्तर० ७।२०)। परिभावयन्तु चिन्तयन्तु।
  • ‘सानन्दं श्रुतमर्थं परिभावयति’ (प्र० च०)। उक्तोर्थः।
  • ‘तेभ्यः परान्नः परिभावयस्व’ (नै० १०।४७)। परिभावयस्व जानीहि।
  • ‘येनेदं विश्वं परिभूतं यदस्ति’ (तै० ब्रा० ३।१२।३।१)। परिभूतं व्याप्तम्।
  • ‘स लोकपरिभूतेन वेषेणास्ते धनञ्जयः’ (भा० वि० १९।१६)। लोकपरिभूतो लोकगर्हितः, लोकोपहसितः।
  • ‘परिभूताभिरद्भिस्तु कार्यं कुर्वीत नित्यशः’ (मनु० ६।४५ इत्यतोऽनन्तरं क्षेपकः)। परैरसेविताभिरित्यर्थः प्रतिभाति।
  • ‘भावयोगपरिभावितहृत्सरोजम्’ (भा० पु० ३।९।११)। परिभावितं पावितं पूतम्। अत्र भुवोऽवकल्कन इति चुरादिर्धातुः।
  • ‘संकर्षणस्य मत्तोक्तां भारतीं परिभूय’ (हरि० २।४६।३१)। परिभूय अवज्ञाय अगणयित्वा।
  • ‘लग्नद्विरेकं परिभूय पद्मं समेघलेखं शशिनश्च बिम्बम्। तदाननश्रीरलकैः प्रसिद्धेश् चिच्छेद सादृश्यकथाप्रसङ्गम्’ (कु० ७।१६)। परिभूय तिरस्कृत्य, अभिभूय अतिशय्य।
  • ‘मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च’ (कौमुद्यां दीक्षितः)। परिभाव्य चिन्तयित्वा, विमृश्य।
  • ‘परिभाव्याद्भुतं तत्’ (राज० ४।२५२)। उक्तोऽर्थः।
  • ‘रसेन तेषां परिभाव्य मुद्गान्’ (सुश्रुत० १।१५९।७)। परिभाव्य अभिषिच्य। अत्रापि भुवोऽवकल्कन इति चुरादिर्धातुः। अवकल्कनं मिश्रीकरणम्।
  • ‘पांसुभस्मकरीषाणां यथा वै राशयश्चिताः। सहसा वारिणा सिक्ता न यान्ति परिभावनम्’ (भा० शां० १६५।१७-१८)॥ परिभावनं मूर्त्त्याद्याकारेण कल्पनम्।
  • ‘विश्वा रूपाणि परिभूर्जजान’ (अथर्व० ७।८४।४)। परिभूः परिग्राहको व्यापकः।
  • ‘कविर्मनीषी परिभू स्वयम्भूः’ (वा० सं० ४०।८)। उक्तोर्थः।

मन्

  • {परिमन्}
  • मन् (मन ज्ञाने, मनु अवबोधने)।
  • ‘न हि वश्चरमं चन वसिष्ठः परिमंसते’ (ऋ० ७।५९।३)। न हि परिमंसते वर्जयित्वा न स्तौति।

मा

  • {परिमा}
  • मा (मा माने माङ् माने)।
  • ‘परिमाति मुष्टिना। उपसर्गवशात्सकर्मकः। परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः’ (ऋ० ८।२५।१८)। परिमाणं चकार।

मार्ग्

  • {परिमार्ग्}
  • मार्ग् (मार्ग अन्वेषणे)।
  • ‘न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम्’ (रा० ५।११।४४)। परिमार्गितुम् इतस्ततो विचेतुम्।

मुच्

  • {परिमुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘मुञ्च नः पर्यंहसः’ (अथर्व० १९।४४।८)। परिमुञ्च निर्मुञ्च विमुञ्च। परिः सर्वतोभावे।

मुष्

  • {परिमुष्}
  • मुष् (मुष स्तेये)।
  • ‘सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्’ (तै० सं० ६।१।६।४३)। प्रतिरोधको भूत्वाऽऽनयनविघ्नमाचरदित्यर्थ इति भट्टभास्करः।

मृ

  • {परिमृ}
  • मृ (मृङ् प्राणपरित्यागे)।
  • ‘तं ह पञ्च राजानः परिमम्रुः’ (ऐ० ब्रा० ८।२८)। परितः सर्वदिक्षु वर्तमाना द्विषन्तो राजानो मम्रुरित्यर्थः।
  • ‘चिरात् क्षत्रस्यास्तु प्रलय इव घोरः परिमरः’ (महावीर० ३।४१) परिमरो व्यापी विनाशः, अभिव्यापकं कदनम्।
  • ‘तद् ब्रह्मणः परिमर इत्युपासीत’ (तै० उ० ३।१०।४)। परितो म्रियन्तेऽनेनेति परिमरो वायुः।

मृज्

  • {परिमृज्}
  • मृज् (मृजू शुद्धौ, मजू शौचालङ्कारयोः)।
  • ‘कृपणानाथवृद्धानां यदाश्रु परिमार्जति’ (भा० शां० ९१।३८)। परिमार्जति परिमार्ष्टि प्रोञ्छति।
  • ‘कथमेकपदे सर्वमौचित्यं परिमार्जतु’ (राज० ३।३१३)। परिमार्जतु परिलुम्पतु। चुरादिराधृषीयोऽत्र धातुः।
  • ‘जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च’ (भा० शां० ८१।१९)। परिमृज्य परिशोध्य दोषानपनीय।
  • ‘(वाच्यं) त्यागेन पत्न्याः परिमार्ष्टुमैच्छत्’ (रघु० १४।३५)। परिमार्ष्टुं परिमार्जितुमपनेतम्।
  • ‘प्रियकरपरिमार्गात्’ (शिशु० ७।७५)। परिमार्गः स्पर्शः।
  • ‘तुन्दशोकयोः परिमृजापनुदोः’ (पा० ३।२।५)। तुन्दपरिमृजोऽलसः। तुन्दं जठरं परिमार्ष्टि स्पृशति इति तद्व्युत्पत्तिः।

मृद्

  • {परिमृद्}
  • मृद् (मृद क्षोदे)।
  • ‘अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीन-भाषिणौ’ (रा० २।७७।२६)। परिमृद्नन्तौ प्रमार्जन्तौ प्रमृजन्तौ।

मृश्

  • {परिमृश्}
  • मृश् (मृश आमर्शने आमर्शनं स्पर्शः)।
  • ‘अन्ये जायां परिमृशन्त्यस्य’ (ऋ० १०।३४।४)। वस्त्रकेशाद्याकर्षणेन संस्पृशन्तीति सायणः।
  • ‘सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा’ (अथर्व० १२।५।२४)। परामृष्टा ऽऽ क्रान्ताऽवस्कन्ना।
  • ‘शिखरशतैः परिमृष्ट देवलोकम्’ (भट्टि० १०।४५)। परिमृष्ट उल्लिखितः।
  • ‘उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ’ (कि० ६।२३)। परिमृष्टमूर्धनि व्याप्तशिरसि।
  • ‘आत्मनः परामर्शेन बुद्धिं बुद्ध्या विचारयेत्’ (भा० शां० १२०।१९)। स्वस्यातीतानागतविचारेणेत्यर्थ इति नीलकण्ठः।

मृष्

  • {परिमृष्}
  • मृष् (मृष तितिक्षायाम्)।
  • ‘मघोने परिमृष्यन्तमारमन्तं परं स्मर’ (भट्टि० ८।५२)। परिमृष्यन्तमसूयन्तम्।

यज्

  • {परियज्}
  • यज् (यज देवपूजासङ्गतिकरणदानेषु )।
  • ‘यथा पूर्वेभ्यः… सहस्रसाः पर्यया वाजमिन्दो’ (ऋ० ९।५२।५)। पर्ययाः=पर्ययजथाः। यागेनार्जितमदिथाः।
  • ‘तद्धैक आहुर्धातारमेव सर्वासां पुरस्तादाज्येन परियजेत’ (ऐ० ब्रा० ३।४७)। परियजेत परितो यजेत्।
  • ‘राज्ञा (=सोमेन) वपां परियजति’ (श० ब्रा० १३।२।११।३)। अमुख्यामाहुतिं जुहोतीत्यर्थः।
  • ‘परिवेदनी कन्या परिदायी दाता परियष्टा याजकः’ (याज्ञ० ३।२६५ मिताक्षरायां हारीतवचनम् )। ज्येष्ठं परित्यज्य कनिष्ठस्य याजकः परियष्टा भवति।
  • ‘पर्याहित-परीष्ट-परिवित्ति-परिविन्न-परिविविदानेषु’ (आप० ध० २।५।१२।२२)। ज्येष्ठेऽकृतसोमयागे कृतसोमयागः कनिष्ठः परियष्टा ज्येष्ठः परीष्टः।

यत्

  • {परियत्}
  • यत् (यती प्रयत्ने)।
  • ‘तदस्य प्रासहादित्सन्त, तं पर्ययतन्त’ (पञ्च० ब्रा० ७।२।६)। तं पर्ययतन्त परितोऽयुध्यन्तेति सायणः। प्रासहा प्रसहेन बलात्कारेणेति च सः।
  • ‘दाशराज्ञे परियत्ताय (सुदासे) विश्वतः’ (ऋ० ७।८३।८)। परियत्ताय शत्रुभिः परिगताय परिक्षिप्ताय।
  • ‘बद्धो वा परियत्तो वेन्द्रं त्रातारमुपधावति’ (तै० सं० २।२।७।५)। परियत्तः शृङ्खलामन्तरेण परितो भटैरवरुद्ध इति भट्टभास्करः।
  • ‘तान् समन्तमेवोदारान् परियत्तानुदपश्यन्’ (ऐ० ब्रा० २।३१)। परियत्तान् अतिसन्नद्धान् इति षड्गुरुशिष्यः। अत्यन्तसन्निधानान् इति तु सायणः।

यम्

  • {परियम्}
  • यम् (यम उपरमे)।
  • ‘अस्येदु त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीमयच्छत्’ (ऋ० १।१६१।११, अथर्व० २०।३५।११)। पर्ययच्छत् लक्ष्यं चकार, विव्याधेति संस्कृत-शार्मण्य-कोषः। सिन्धवो रन्त रमन्त इत्युक्तेरयमेवार्थः सङ्गतो भाति। परितो नियमितवानिति तु सायणः। वज्रेण नियमनमिति नातीवार्थवद्वचः। हिंसनं दारणं वा वज्रकर्म प्रसिद्धं न नियमनम्।

या

  • {परिया}
  • या (या प्रापणे, प्रापणमिह गतिः)।
  • ‘याभिः (ऊतिभिः) सूर्यं परियाथः परावति’ (ऋ० १।११२।१३)। परियाथः परिक्रामथः।
  • ‘परि ह त्यद् वर्तिर्याथो रिषो यत् परो नान्तरस्तुतुर्यात्’ (ऋ० ६।६३।२)। परियाथः परितो याथः, अवेक्षेथे, पालयेथे।
  • ‘यया वज्रिवः परियास्यंहः’ (ऋ० ६।३७।४)। परियासि परिवर्जयसि, परिहरसि।
  • ‘परि णो याह्यस्मयु र्विश्वा वसून्योजसा’ (ऋ० ९।६४।१८)। परियाहि प्रापय।
  • ‘धृतं वसानः परियासि निर्णिजम्’ (ऋ० ९।८२।२)। परियासि प्राप्नोषि। निर्णिजं शुभ्रं वासः प्रसाधनं वा।
  • ‘पुरोहित्तं परियाप्य सर्वे’ (भा० आदि० १९४।३)। परियाप्य प्रस्थाप्य।
  • ‘यथा महापथः पर्याण एवं पृष्ठयः षळ्हः स्वर्गस्य लोकस्य’ (ऐ० ब्रा० ४।१७)। पर्याणः परितोऽयनस्य गमनस्य साधनभूत इति सायणः।

यु

  • {परियु}
  • यु (यु मिश्रणामिश्रणयोः)।
  • ‘अयमपीतरो योनिरेतस्मादेव, परियुतो भवति’ (नि० १।२।८)। परियुतः परिवेष्टितः। परीतो जरायुणेति भावः।

युज्

  • {परियुज्}
  • युज् (युजिर् योगे)।
  • ‘योगे चेति वाच्यम्’ (पा० ८।२।२२ इत्यत्र वार्तिकम् )। तत्र वृत्तौ परियोगः पलियोग इत्युदाहरणे स्थिते। चोद्यमित्यर्थ इति प्रक्रियासर्वस्वम्।

रक्ष्

  • {परिरक्ष्}
  • रक्ष् (रक्ष पालने)।
  • ‘जिघत्सुभ्य इमं मे परिरक्षत’ (अथर्व० ८।२।२०)। परिरक्षत परितो रक्षत।
  • ‘शक्यस्तेनानुमानेन परोपि परिरक्षितुम्’ (भा० वि०)। परिरक्षितुमहिंसितुम्।
  • ‘न ह्येष राघवस्यार्थे जीवितं परिरक्षति’ (रा० ६।४।२७)। न जीवितं परिरक्षति प्राणव्ययं न गणयति। जीवितशेषं नाद्रियते।
  • ‘शिष्टं मांसं… काकेभ्यः पर्यरक्षत’ (रा० २।९६।३८)। स्पष्टोऽर्थः।

रभ्

  • {परिरभ्}
  • रभ् (रभ राभस्ये)।
  • ‘बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता’ (भा० वि० १७।१३)। परिरभ्य उपगुह्य, परिश्लिष्य।
  • ‘इत्युक्तवन्तं परिरभ्य दोर्भ्याम्’ (कि० ११।८०)।
  • ‘परिरभ्य वक्षसा’ (कु० ५।३) उक्तोऽर्थः।
  • ‘नागभोगेन महता परिरभ्य महीमिमाम्’ (भा० वन०)।
  • ‘ग्रामो ग्रामस्य सामन्तः…। गृहं गृहस्थं निर्दिष्टं समन्तात् परिरभ्य हि’ (याज्ञ० २।१५०-५१ मिताक्षरायां कात्यायनवचनम्)। परिरभ्य परिवेष्ट्य।

राज्

  • {परिराज्}
  • राज् (राजृ दीप्तौ)।
  • ‘वृताः सुहृद्भिः परिरेजुरोजसा। यथा सदस्यै र्ऋषिभिस्त्रयोऽग्नयः’ (रा० २।११२।३३)॥ परिरेजुः परिरराजुः शुशुभिरे चकासामासुः।
  • ‘प्रभया परिराजन्तम्’ (मृगम्) (रा० ३।४९।३)। परिराजन्तं दीप्यमानम्।

रुज्

  • {परिरुज्}
  • रुज् (रुजो भङ्गे)।
  • ‘रुजन्परि रुजन्’ (अथर्व० १६।१।२)। स्पष्टोर्थः।

रुध्

  • {परिरुध्}
  • रुध् (रुधिर् आवरणे)।
  • ‘अस्मत्पोतं पर्यरुत्सत’ (दशकु० षष्ठ उच्छ्वासे)। पर्यरुत्सत परितोऽरुन्धन्।

लम्ब्

  • {परिलम्ब्}
  • लम्ब् (अबि रबि लबि शब्दे, लबि अवस्रंसने च)।
  • ‘सप्तेमे वसवः प्राप्ताः स एकः परिलम्बते’ (हरि० )।
  • ‘सकृत् कृतापराधस्य तत्रैव परिलम्बतः’ (भा० शां० १३९।२५)। परिलम्बतोऽवतिष्ठमानस्य। विश्वासं कुर्वत इति नीलकण्ठः।

लिख्

  • {परिलिख्}
  • लिख् (लिख अक्षरविन्यासे)।
  • ‘स्फ्येन पदं त्रिः परिलिखति’ (का० श्रौ० ७।६।१७)। परितो रेखां करोतीत्यर्थः।
  • ‘परिलिखितं रक्षः परिलिखिता अरातयः’ (तै० सं० १।२।५।१)। परिलिखितं रेखाचक्रेण परिवेष्टितम्। नाशितमितित्वार्थिकोऽर्थः।

लुड्

  • {परिलुड्}
  • लुड् (लुड अवगाहने, अवगाहनं प्रतिघातः)।
  • ‘मन्दाराणामुदाराणां वनानि परिलोडयन्’ (भा० सभा० १०।७)। परिलोडयन् क्षुभ्नन्, आकुलानि कुर्वन्।

लुप्

  • {परिलुप्}
  • लुप् (लुप्लृ छेदने)।
  • ‘दीपिकालोकपरिलुप्यमानतिमिरभार-’ (दशकु०)। परिलुप्यमानः संह्रियमाणः।

वञ्च्

  • {परिवञ्च्}
  • वञ्च् (वञ्चु गतौ)।
  • ‘नमो वञ्चते परिवञ्चते’ (वा० सं० १६।२१)। परिवञ्चते सर्वतोगन्त्रे त्सरते च्छद्मना गच्छते।

वद्

  • {परिवद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘गां वाव तौ तत् पर्यवदतां या यज्ञे दीयते’ (तै० सं० १।७।२।२) इडां गोरूपेणावर्णयताम्, तत्र स्वाभिप्रायं प्राकाशयताम्।
  • ‘आदित्यमेव ते परिवदन्ति’ (अथर्व० १०।८।१७)। आदित्यमेवोद्दिश्य भाषन्ते इत्यर्थः।
  • ‘देवा वशां पर्यवदन्न नोऽदादिति हीडिताः’ (अथर्व० १२।४।४९)।
  • ‘यो ब्राह्मणान् परिवदेद् विनाशं चापि रोचयेत्’ (भा० शां० १३५।१८)। परिवदेत् निन्देत्, परुषं ब्रूयात्।
  • ‘तदस्ति पर्युदितमिव’ (श० ब्रा० ३।१।३।२) पर्युदितमभ्युक्तम् आम्नातम्।
  • ‘अनुहवं परिहवं परिवादं परिक्षवम्’ (अथर्व० १९।८।४)। परुषभाषणं परिवादः। अथवा परिर्वर्जने। वर्जिते प्रदेशे भाषणमिति सायणः।
  • ‘माभूत् परीवादनवावतारः’ (रघु० ५।२४)। परिवादः प्रसृता प्रथिता वा लोकनिन्दा।
  • ‘परिवादोऽपवादो वा राघवे नोपपद्यते’ (रा० )। परिवादोऽकार्यकरणनिमित्तं समूलमयशः। अपवादोऽसूयाकल्पितममूलमयशः।
  • ‘गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते’ (मनु० २।२००)। विद्यमानदोषस्याभिधानं परीवाद इति कुल्लूकः।
  • ‘परीवादं त्यजेद्विप्रोऽसवर्णेषु च सूचनम्’ (कृत्यकल्पतरौ द्वितीये सम्पुटे पृ० ३५ समुद्धृतं हारीतवचनम्)। उक्तोऽर्थः।
  • ‘देव, अयमेव मयि प्रथमं परिवादकरः’ (माल० १)। परिवादोऽधिक्षेपोऽपभाषितम्।
  • ‘तं प्रागसावविनयं परिवादमेत्य लोकेऽधुनापि विदिता परिवादिनीति’ (नै० ११।१२७)। परिवादो वीणावादनसाधनविशेषः।
  • ‘अतिहर्षपरीतत्वाद् वितन्त्रीः परिवादिनी’ (बृ० श्लो० सं० ५।८०)। परिवादिनी वीणा। सा तु तन्त्रीभिः सप्तभिः परिवादिनीत्यमरः।

वन्द्

  • {परिवन्द्}
  • वन्द् (वदि अभिवादनस्तुत्योः)।
  • ‘परिवन्दे ऋग्भिः’ (ऋ० २।३५।१२)। परितः स्तौमीत्यर्थः।

वप्

  • {परिवप्}
  • वप् (डुवप बीजसन्ताने)।
  • ‘पांसुभिः पर्युप्य’ (लाट्या० श्रौ० १०।१५।१६)। पर्युप्य अवकीर्य।
  • ‘धानाः करम्भः परिवापः पुरोडाशः पयस्या’ (तै० सं० ६।५।११।४२)। परिवापो व्रीहिप्रभवा लाजाः।
  • ‘भारती परिवापेण’ (तै० ब्रा० १।५।११।२)। उक्तोऽर्थः। परिच्छदे परीवापः पर्युप्तौ सलिलस्थितावित्यमरः। परिच्छदः परिवारः। पर्युप्तिः परित उप्तिः परितो बीजत्यागः।
  • ‘सुप्रतिविहितयान-वाहन-पुरुषपरिवापो प्रतिष्ठेत’ (कौ० अ० १।१६।५)। पुरुषपरिवापो भृत्यवर्गः, परिचारकव्रजः।
  • ‘गृहपरिवापः’ (कौ० अ० ३।६।६)। गृहोपकरणादि।
  • ‘कुमारं पर्युप्तिनं स्नातमभ्यक्तशिरसम्…’ (वा० गृ० ५।६)। पर्युप्तिः परिवापो मुण्डनम्। साऽस्यास्तीति पर्युप्ती। व्रीह्यादित्वादिनिः।

वस्

  • {परिवस्}
  • वस् (वस निवासे, वस स्नेहच्छेदापहरणेषु चुरादिः)।
  • ‘द्वादशरात्रं परिवसत्युखावदभ्रिं बिभ्रत्’ (का श्रौ० २२।१।२१)। परिवसति तिष्ठति कालं क्षपयति।
  • ‘जापिनां होमिनां चैव ध्यायिनां तीर्थवासिनाम्। न परिवसन्ति पापानि…’ (व० धर्म० २६।१२)॥ न परिवसन्ति न चिरं तिष्ठन्ति।
  • ‘पूर्वेद्युरग्निं प्रणयेदित्येकं परोक्षान्तां परिवसेदित्यपरम्’ (भा० श्रौ० ७।४।५)। परिवसेत् परि समापयेत्।
  • ‘अस्तमितेऽपां पूर्णं (कर्त) परिवासयेत्’ (आश्व० गृ० २।८।६)। परिवासयेत् ओदयात्तत्र वसेत् तिष्ठेत्।
  • ‘अच्छिन्नो रायः सुवीर इत्यग्रं परिवासयति’ (आप० श्रौ० ७।१।२।१०)। परिवासयति छिनत्ति।
  • ‘तं परिवासयति’ (श० ब्रा० ३।६।४।१७)। उक्तोऽर्थः।
  • ‘भर्ता राजकुले कार्यवशात्पर्यु षितः’ (पञ्चत०)। तत्र निशां स्थितः।
  • ‘यातयामं गतरसं पूति पर्युषितं च यत्’ ( गीता० १७।१०)। पर्युषितं रात्र्यन्तरितम्। कृतरात्रिपरिवासम्।
  • ‘आर्यः पर्युषितं तु नाभ्यवहरत्यन्धः क्षुधान्धोप्यसौ’ (वि० गुणा० १०१)। उक्तोऽर्थः।
  • ‘न च पर्युषितं वाक्यं स्वैरेष्वपि कदाचन’ (नैषधो वक्ति) (भा० वन० ७३।१३)। पर्युषितं प्रतिज्ञातकालातिलङ्घि।
  • ‘अपर्युषितप्रतिज्ञेच मारुतौ प्रनष्टे कौरवराजे’ (वेणी० ६)। पर्युषिता रात्र्यन्तरिता। अहः-परिवासविधुर-प्रतिश्रवे इत्यर्थः।
  • ‘अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये’ (भा० आदि० १७०।२१)। अपर्युषितपापा निःशेषितपापाः।
  • ‘तयोरन्यतरः परिवासितः’ (सत्या० श्रौ० २४।२।६)। परिवासितः छिन्नाग्रः।
  • ‘शुल्वात्प्रादेशे परिवास्य वेदपरिवासनानि निदधाति’ (आप० श्रौ० १।२।६।५)। परिवास्य छित्त्वा। परिवासनानि वेदाग्राणि। वेदो दर्भमुष्टिः।
  • ‘इह तया सह पर्युषितम्’ (स्वप्न० १)। पर्युषितमुषितम्। अनर्थकः परिः।
  • ‘लिङ्गं वा सवृषणं परिवास्याञ्जलावाधाय’ (बौ० ध० २।१।१।१४)। परिवास्य छित्त्वा।
  • ‘न नागलोके न स्वर्गे न विमाने त्रिविष्टपे। परिवासः सुखस्तादृक रसातलतले यथा’ (भा० उ० १०२।१५)। परिवासो निवासः।
  • ‘गवां च परिवासेन भूमिः शुध्यति…’ (मनु० ५।१२४)। परिवासोऽहोरात्रनिवासः। कालपरिवासः कालात्ययः।
  • ‘अथवा तदङ्गपरिवासशीतलं मयि किञ्चिदर्पय’ (मालती० ९।४२)। परिवासः सौरभम्।

वह्

  • {परिवह्}
  • वह् (वह प्रापणे)।
  • ‘तुभ्यमग्ने पर्यवहन्त्सूर्यां वहतुना सह’ (ऋ० १०।८५।३८)। परिणीतां सूर्यां वरस्य गृहं प्रापयन्नित्यर्थः।
  • ‘हतान् परिवहन्तश्च’ (भा० द्रोण० २०।४७)। परिवहन्तो निर्हरन्तः।
  • ‘नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः’ (रा० ३।९।२१)। परिः सर्वतोभावे। सर्वत्र वहन्नित्यर्थः।
  • ‘आपः परिवहन्तीः’ (तै० सं० ७।४।१४।१)। परितः स्यन्दमाना इत्यर्थः।
  • ‘यमस्य माता पर्युह्यमाना ननाश’ (ऋ० १०।१७।१)। पितुर्गृहाद् वोदुर्गृहं प्रत्युह्यमानेत्यर्थः। पर्युह्यमाणा इति तु पाणिनीयाः।
  • ‘शरीरे संस्कारं नृपतिसमदुःखं परिवहन्’ (स्वप्न० १।१४)। अनर्थकः परिः।
  • ‘उदर्के निष्फलामाशां परिवहन्’ (प्रतिमा० ३)। इहापि तथा।
  • ‘साम्ना पर्यूढा’ (कुम्भी) (अथर्व० ११।३।१५)। (अङ्गारैः) वेष्टितेत्यर्थः।
  • ‘स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता’ (अथर्व० १२।५।२)। परिहितपर्यूढौ पर्यायौ। परिहिता कृतपरिधिः। ब्रह्मगवीति विशेष्यम्।
  • ‘प्रथमं (कौतूहलं) सपरिवाहमासीत्’ (शा० २)। उत्सिच्यमानम्। परिवाहोऽभिष्यन्दः सम्प्लवः।
  • ‘पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया’ (उत्तर० ३।२९)। परीवाहः पयः प्रणाल्या जलनिर्गमः।
  • ‘उपार्जितानामर्थानां त्याग एव हि रक्षणम्। तटाकोदरसंस्थानां परिवाह इवाम्भसाम्’ (तन्त्रा० १।३)॥ परिवाहो बहिर्निर्गमनम्।
  • ‘अचिरेण तु कालेन परिवाहान्बहूदकान्। चक्रुर्बहुविधाकारान्…’ (रा० २।८०।११)॥ परिवाहाः कुल्याः।
  • ‘आपः परिवाहिणी स्थ’ (काण्वसं० ११।३)।

विद्

  • {परिविद्}
  • विद् (विद ज्ञाने)।
  • ‘यां त्वा जनो भूमिरिति प्रमन्दते निर्ऋतिं त्वाहं परिवेद विश्वतः’ (वा० सं० १२।६४)। परिवेद सम्यग् वेद्मि। साधु जानामि।
  • ‘विदितार्थस्तु वेदानां परिवेद प्रयोजनम्’ (भा० वन० २००।११३)। परिवेद साकल्येन वेद।

विद्

  • {परिविद्}
  • विद् (विद्लृ लाभे)।
  • ‘नाग्नयः परिविन्दन्ति न वेदा न तपांसि च’ (अत्रिसं० श्लो० ११०)। (कृत्यकल्पतरौ द्वितीये सम्पुरे ११२ पृ० शातातपवचनमित्युद्धृतम्)। न परिविन्दन्ति ज्येष्ठं परित्यज्य कनिष्ठं न प्राप्नुवन्तीत्यर्थः।
  • ‘कुलटोन्मत्तचौरांश्च परिविन्दन्न दुष्यति’ (गोभि० स्मृ० १।७४)। एतेष्वनूढेषु सत्सु भार्यामुपयच्छमानः।
  • ‘यन्म आत्मनो मिन्दाऽभूत् पुनरग्निश्चक्षुरदात् इत्येताभ्यामभिनिर्मुक्ताभ्युदितपर्याहित-परीष्ट-परिवित्त०’ (आप० श्रौ० ९।३।१२।७०)। यस्मिञ्ज्येष्ठे ऽनात्तांशे कनिष्ठोंऽशं गृह्णीयात्स ज्येष्ठः परिवित्तः। मिन्दा शरीरविकृतिः, दुर्भगत्वचिह्नम्।
  • ‘येभिः पाशैः परिवित्तो निबद्धः’ (अथर्व० ६।११२।३)। ज्येष्ठेऽकृतदारपरिग्रहे पूर्वं गृहीतदारः। अग्रेदिधिषुरित्यर्थः। लोके तु स परिवेत्तृपदेनोच्यते।
  • ‘परिवित्तिः परिवेत्ता यया च परिविद्यते’ (मनु० ३।१७२)।
  • ‘दाराग्निहोत्र-संयोगं कुरुते योऽग्रजे स्थिते। परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः’ (मनु० ३।१७१)॥ निगदव्याख्यातम्।
  • ‘जात्यन्धबधिरे मूके न दोषः परिवेदने’ (अत्रिसं० श्लो० १०५)। ज्यायस एतान् परिवर्ज्य दारकर्मणि दोषो नेत्याह।
  • ‘ज्येष्ठे ऽनिविष्टे कनीयान्निविशमानः परिवेत्ता भवति परिवित्तिर्ज्येष्ठः परिवेदनी कन्या’ (याज्ञ० ३।२६५ मिताक्षरायां हारीतवचनम्)। अभिव्यक्तायां चन्द्रिकायां किं दीपिकापौनरुक्त्येन।

विश्

  • {परिविश्}
  • विश् (विश प्रवेशने)।
  • ‘तं (सोमम्) पर्यविशन्’ (तै० सं० ६।३।१।२)। परित आवेष्ट्य सेवका इव समुपासतेति भट्टभास्करः।
  • ‘प्रजापतिरेष यदुद्गाता। तमेतत् प्रजा अस्नकाशिनीरभितः समन्तं परिविशन्ति’ (जै० ब्रा० १।८८)। उक्तोऽर्थः।
  • ‘रक्षांसि समन्तं देवान् पर्यविशन्’ (तै० सं० २।४।१।२)। पर्यविशन् अरुन्धन्। परिवार्यातिष्ठन्नित्यर्थः।
  • ‘निवेश-परिवेशनम्’ (भा० आश्व० ४५।१)। परिवेशनम् परिसरभूः।

विष्

  • {परिविष्}
  • विष् (विष्लृ व्याप्तौ)।
  • ‘इमां देवतां परिवेवेष्मीत्येनं परि वेविष्यात्’ (अथर्व० १५।१३।८)। परिवेवेष्मि भोजनं निवेदयामि।
  • ‘कनीयाञ्ज्यायांसं परिवेवेष्टि’ (काठक० ३६।७)।
  • ‘अदितिं परिवेविषति’ (ऐ० ब्रा० १।१७)।
  • ‘अथ पात्राणि निर्णेनिजति। तैर्निणिज्य परिवेविषति’ (श० ब्रा० १।३।१।२)।
  • ‘माठरकौण्डिन्यौ परिवेविषाताम्’ (भाष्ये)। उक्तोऽर्थः।
  • ‘मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते। त्रिभिर्वर्णैः…’ (भा० अनु० २३।९) भोजनाम निवेद्यते।
  • ‘अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’ (छां० उ० ४।३।५)। परिविष्यमाणौ निवेदितभोजनौ, भोजयिष्यमाणौ।
  • ‘द्वितीययाऽऽदित्ये परिविष्यमाणे ऽक्षततण्डुलाजुहुयात्’ (गो० गृ० ४।५।२९)। परिविष्यमाणे परिवेषवति जाते।
  • ‘वयं परिविष्टाः परिवेष्टारो वो भूयास्म’ (भा० श्रौ० ७।१४।१)। परिविष्टा निवेदितभोजनाः, भोजिताः।
  • ‘दद्भिर्न जिह्वा परिविष्टमादत्’ (अथर्व० २०।१६।६)। परिविष्टं भोजनाय निवेदितम्।
  • ‘चन्द्रं यथा परिविष्टं ससन्ध्यम्’ (भा० अनु० १४।८८)। परिविष्टं कृतपरिवेषम्।
  • ‘वाताद्यैर्मण्डलीभूताः सूर्यचन्द्रमसोः कराः। मालाभा व्योम्नि दृश्यन्ते परिवेषस्तु स स्मृतः॥’ निगदव्याख्यातम्।
  • ‘वेद्या निधापयेच्चैव रत्नानि विविधानि च। सिकतापरिवेषाश्च ततोऽग्निं समिन्धयेत्’ (मात्स्य पु० २३९।८)॥ परिवेषः परिक्षेपः।
  • ‘विप्राणां प्रवराः सर्वे चक्रुश्च परिवेषणम्’ (रा० ७।९१।२८)। परिवेषणं भोजना।
  • ‘श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् (रा० ३।२३।३)। उपसूर्यकम्।
  • ‘सूर्या चन्द्रमसोर्धोरं दृश्यते परिवेषणम्’ (भा० वन० २२४।१७)। परिवेषणं परिवेषः।

वृ

  • {परिवृ}
  • वृ (वृञ् वरणे)।
  • ‘पथि परिवृणुयाद्राजलोकः कुमारम्’ (मुद्रा० ५।११)। परिवृणुयात् परिक्षिपेत्।
  • ‘त्रिषन्धे तमसा त्वममित्रान् परिवारय’ (अथर्व० ११।९।१९)। परिवारय अपरुधान।
  • ‘हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन्’ (रा० २।९२।१५)। पर्यवारयन् पर्यवेष्टयन्।
  • ‘उत्तरतः पुरस्ताद्वाऽऽचार्यकुलस्य परिवृतं भवति’ (गो० गृ० ३।४।८)। परिवृतमावृतं स्नानागारम् इति सत्यव्रतः।
  • ‘अपरिवृतं धान्यम्’ (मनु० ८।२३८)। अदत्तवृतिकम्।
  • ‘प्रणम्य पादौ परिवृत्य देवम्’ (भा० पु० ३।४।२०)। परिवृत्य परिक्रम्य, प्रदक्षिणीकृत्य। अन्यत्रादृष्टः कविकल्पितोऽर्थः।
  • ‘अध्यास्य कन्या परिवारशोभि’ (यानम्) (रघु० ६।१०)। परिवार: परिजनः, परिचारकव्रातः।
  • ‘ग्रहगणपरिवारो राजमार्गप्रदीपः’ (मृच्छ० १।५७)।
  • ‘व्याघ्रचर्मपरिवारा’ (रथाः) (भा० उ० १५५।८)। परिवारः प्रच्छदः।
  • ‘परिवारात्पृथक् चक्रे खड्गश्चात्मा च केनचित्’ (शिशु० १९।४९)। परिवारः खड्गकोशः।
  • ‘सह त्वं परिवारेण सुखमास्स्व रमस्व च’ (रा० २।१६।२०)। परिवारः परिजनः। सखीसमूह इति तु तिलक।
  • ‘सपताका रथा रेजुर्वैयाघ्रपरिवारणाः’ (भा० भीष्म० ७२।१३)। परिवारणं प्रावरणम्, परिच्छदः, समुपच्छादः।
  • ‘अविसंवादको दक्षः कृतज्ञो मतिमानृजुः। अपि संक्षीणकोशोपि लभते परिवारणम्’ (भा० उ० ३८।३७)॥ परिवारणम् परिवारान् मित्रभृत्यादीन् इति नीलकण्ठः।

वृज्

  • {परिवृज्}
  • वृज् (वृजि वृजी वर्जने)।
  • ‘परि श्वभ्रेव दुरितानि वृज्याम्’ (ऋ० २।२७।५)। परिवृज्याम् अपाकुर्याम्, तत आत्मानं परिहरेयम् इत्यर्थः।
  • ‘देवता वा एतं परि वृञ्जन्ति यमनृतमभिशंसन्ति’ (पञ्च० ब्रा० १८।१।११)। उक्तोऽर्थः।
  • ‘यत्रेन्द्रं देवताः पर्यवृञ्जन्’ (ऐ० ब्रा० ७।२८)। यज्ञेषु परितो वर्जितवन्तस्त्यक्तवन्तः। यज्ञान्निरभजन्नित्यर्थः।
  • ‘परि वो रुद्रस्य हेति र्वृणक्तु’ (अथर्व० ७।७५।१)। परि वृणक्तु वृणक्तु वर्जयतु परिहरतु।
  • ‘परि हेतिः पक्षिणी नो वृणक्तु’ (अथर्व० ६।२७।२)। उक्तोऽर्थः।
  • ‘अपरिवर्गमेवास्मिन् तेजो दधाति’ (तै० सं० ५।३।१०।४३) अपरिवर्गम्=किञ्चिदप्यपरिहृत्य। णमुलन्तमेतत्।
  • ‘पुरोडाशमनक्ति स्वक्तमकूर्मपृषन्तमपरिवर्गमणिकाषम्’ (आप० श्रौ० २।३।११।३)। अपरिवर्गं यथा विच्छेदस्त्यागो वा न भवति तथा। अणिकाषमिति णत्वमार्षम्।
  • ‘परिवृक्ता यथासस्यृषभस्य वशेव’ (अथर्व० ७।११३।२)। परिवृक्ता परिवर्जनीया।
  • ‘वेत्था हि निर्ऋतीनां वज्रहस्त परिवृजम्’ (ऋ० ८।२४।२४)। परि बृजम् परिहारम्।

वीज्

  • {परिवीज्}
  • वीज् (वीजिर्लौकिको धूनने)।
  • ‘तालवृन्तान्युपादाय पर्यवीजन्त सर्वशः’ (भा० अनु० १६८।१५)।
  • ‘यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः। तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्’ (भा० आश्रम० ३८।४)॥ उभयत्राधुन्वन्नित्यर्थः।

वृत्

  • {परिवृत्}
  • वृत् (वृतु वर्तने )।
  • ‘तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते’ (रा० १।७७।२७)। परिवर्तते वर्तते। परिरिह धात्वर्थं न विशिनष्टि।
  • ‘मनोरथो महानेष हृदि मे परिवर्तते’ (रा० ३।११।३३)।
  • ‘ममायं पितरो नित्यं यद्यर्थः परिवर्तते’ (भा० आदि० ४६।५)। अर्थः प्रयोजनम्।
  • ‘व्यादितास्यस्य यो मृत्योर्दंष्ट्राग्रे परिवर्तते’ (हरि० १०२८६)।
  • ‘यस्मात्प्रपञ्चः परिवर्ततेऽयम्’ (श्वेताश्व० उ० ६।६)। परिवर्तते प्रवर्तते।
  • ‘चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च’ (मृच्छ०)। परिवर्तन्ते पर्यायेण वर्तन्ते। सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखमित्येवं क्रमेण वर्तन्त इत्यर्थः।
  • ‘तदा च सर्वभूतानां छाया न परिवर्तते’ (हरि० ३।४६।२३)। तदाऽपराह्णगते सूर्ये निष्प्रभत्वात् सूर्यस्य छाया परितो न वर्तते इत्यर्थः।
  • ‘भीष्मं शान्तनवं दृष्ट्वा…। कुरवः पर्यवर्तन्त पाण्डवाश्च विशांपते’ (भा० भीष्म० १२०।११)॥ उक्तोऽर्थः।
  • ‘ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः।’ परिवर्तन्ति परिवर्तन्ते भ्रमन्ति चक्रगतिं गच्छन्ति।
  • ‘अस्वस्थहृदयश्चासीद् दुखाच्च परिवर्तते’ (रा० १।१०।२३)। एकदेशेऽनवस्थितिः परिवर्तनम्। लुठतीत्यर्थः।
  • ‘मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम्। किरतां शरवर्षाणि स नागः पर्यवर्तत’ (भा० द्रोण० २६।४१-४२)॥ पर्यवर्तत भ्रान्तवान्।
  • ‘यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु। जन्तवः परिवर्तन्ते…’ (वि० पु० ३।७।६)॥ परिवर्तन्ते भ्राम्यन्ति।
  • ‘ऋतु व्यतीतः परिवर्तते पुनः’ (सौन्दर० ९।२८)। परिवर्तते आवर्तते, पुनरायाति।
  • ‘पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते’ (शा० ७।१३)। उक्तोऽर्थः।
  • ‘अथ जातिसहस्राणि बहूनि परिवर्तते’ (भा० शां० २९४।२७)। परिवर्तते परिभ्राम्यति, पर्यटति।
  • ‘तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः’ (भा० आदि० ३३।४)। पर्यपतत्, पर्यभ्राम्यत्।
  • ‘तस्याः पुनर्नदीतीरे वसनं पर्यवर्तत। व्यपकृष्टाम्बरां दृष्ट्वा…’ (भा० आदि० १३०।३६)॥ पर्यवर्तत अवातरत्, अवास्रंसत।
  • ‘विधातुर्वामत्वाद् विपदि परिवर्तामह इमे’ (मालती० १०।६)। विप्लवामहेऽवसीदामो विनश्यामः।
  • ‘पर्यवर्तत राजानं पुण्डरीकेक्षणो ऽच्युतः’ (भा० शां० २९।४)। पर्यवर्तत=अभिमुखोऽभवत्।
  • ‘दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते’ (भा० द्रोण० ८०।१६)। परिवर्तते प्रतिभातीति नीलकण्ठः। दुःखद्वारमिह प्रतिज्ञा। तस्या विकाङ्क्षा विसंवादः। परिवर्तत इति कस्मात्प्रतिभातीत्यर्थमाहेति जिज्ञासायां ब्रूमः-परिवर्तत इति परितो वर्तत इत्यक्षरार्थः। यद्धि परितो वर्तते तत् प्रत्यक्षं भवति बुद्धिविषयतां याति। तदेव प्रतिभानम्।
  • ‘क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम्’ (भा० आदि० १८।३२)। भ्रम्यतामित्यर्थः।
  • ‘परिवर्तय वाहिनीम्’ (भा० द्रोण० १९९।७)। इत आवर्तय इत्यर्थः।
  • ‘जगत् सशैलं परिवर्तयाम्यहम्’ (रा० ३।६४।७६)। अधरोत्तरं करोमि, अन्यथा करोमि, विपर्यासयामि नाशयामि।
  • ‘यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्’ (रा० ५।१६।१३)। अधरोत्तरां कुर्यात्।
  • ‘पात्रं तत् पर्यवर्तयत्’ (कथा० ६१।१९१)। पर्यवर्तयत् अधोमुखमकरोत्, आवर्जयत्।
  • ‘ताभिरजाभिरेव गवां शतं परिवर्तयिष्यामि’ (तन्त्रा० ५।१)। परिवर्त्य ग्रहीष्यामि। गवां शतेन (गोशतेन) अजा विनिमास्य इत्यर्थः।
  • ‘शीर्षन्नि च वर्तयते परि च’ (तै० ब्रा० १।४।६।५)। परिवर्तयते पृथक् कृत्वा (विश्लिष्य) केशान् वपतीत्यर्थः।
  • ‘स एतत् सर्वतोमुखो भवति यत्परिवर्तयते’ (श० ब्रा० २।६।३।१६)। उक्तोऽर्थः।
  • ‘स च (कौमुदीमहोत्सवः) चिरकालपरिवर्तमानो ऽभिमतवधूजनसमागम इव सस्नेहं बहुमानितो नगरजनेन’ (मुद्रा० ४)। परिवर्तमानः पुनरावर्तमानः।
  • ‘स गत्वा मथुरां रामो भवने मधुसूदनम्। परिवर्तमानं ददृशे पृथिव्यां सारमव्ययम्’ (हरि० २।४६।५५)॥ परिवर्तमानं परिक्रामन्तं विहरन्तम्।
  • ‘इच्छामि तस्यान्तिकमाशु गन्तुं तं चेह नित्यं परिवर्तमानम्’ (भा० वन० ११२।१७)॥ **उक्तोऽर्थः।
  • ‘अधो विवस्वान् परिवर्तमानः’ (कु० १।१६)। परिवर्तमानो भ्राम्यन्, भ्रमिं कुर्वन्।
  • ‘पञ्चारे चक्रे परिवर्तमाने’ (ऋ० १।१६४।१३)।
  • ‘तथारिमध्ये परिवर्तमानम्’ (भा० द्रोण० १४०।१२०)।
  • ‘श्रमादन्यत्र परिवर्तमानस्तिष्ठन् आसीनो यदि वा स्वपन्नपि’ (श० ब्रा० १२।३।२।७) उक्तोऽर्थः।
  • ‘स चापि भूमौ परिवर्तमानः’ (भा० वन० २३६।१६)। लुठन्नित्यर्थः।
  • ‘पञ्चधा परिवर्तमानो ज्ञानसन्तान एवात्मेति बौद्धाः।’ परिवर्तमानः परिणममानः।
  • ‘सासूयमाननमितः परिवर्तयन्त्या’ (माल० ४।९)। परिवर्तयन्त्याऽन्यतः कुर्वत्या।
  • ‘सर्वहुतमपरिवर्तयन्’ (आप० श्रौ० ६।८।३०।१)। यथा हूयमानो हुतश्च न पर्यावर्तेत तथा स्रुक्पार्श्वेन शनैश्च्यावयेत् इति रुद्रदत्तः। न पर्यावतेत न बहिर्वेद्याः प्रस्कन्देत्।
  • ‘शय्यापालैरपि स्वाम्यादेशात्सुनिपुणमन्विष्यद्भिर् वस्त्रं परिवर्तयद्भिरन्तर्लीना मन्दविसर्पिणी समासादिता’ (तत्रा० १।७)। परिवर्तयद्भिर्विपर्यासयद्भिरन्यथयद्भिः।
  • ‘परिवृतेऽहनि’ (भा० वन० ११३४७, शल्य० ५७।२४)। परिणत इत्यर्थः।
  • ‘इत्युक्तः स तया प्राह परिवृत्तमहः शुभे’ (वि० पु० १।१५।२५)। उक्तोऽर्थः।
  • ‘परिवृत्तो हि भगवान् सहस्रांशुर्दिवाकरः’ (भा० अनु० १६७।२६)। विनिवृत्त इत्यर्थः।
  • ‘परिवृत्तं किरीटं तद्यमयन्नेव पाण्डवः’ (भा० द्रोण० २९।१४)। स्रस्तमित्यर्थः।
  • ‘परिवृत्तं युगम्’ (हरि० ६४७९)। परिवृत्तं वृत्तं गतं समाप्तम्।
  • ‘रथयुजा परिवर्तितवाहनः’ (रघु ९।२५)। निवर्तिताश्व इत्यर्थः।
  • ‘शकटे परिवर्तिते’ (वि० पु० ५।१५।२)। परिवर्तिते पर्याभाविते।
  • ‘भूमाविदं च परिवर्तितम्’ (रा० गोरे० २।९६।३)। लुठनस्थानम् इत्यर्थः।
  • ‘गुहाश्च विविधाकाराः सङ्क्रमाः परिवर्तिताः’ (रा० ४।४७।१३)। परिभ्रान्ताः पर्यटिताः।
  • ‘प्रत्यूहाः परिवर्तिताः’ (मार्क० पु० १६।५५)। व्यपोढाः।
  • ‘गुहाशयानां सिंहानां परिवृत्यावलोकितम्’ (रघु० ४।७२)।
  • ‘आमन्त्र्य नृपतिं तं तु जगाम परिवर्तितुम्’ (भा० आदि० २१५।२७)। परिवर्तितुं पर्यटितुम्।
  • ‘तदीदृशो जीवलोकस्य परिवर्तः’ (उत्तर० ३)। परिवर्तो विपरिणामः।
  • ‘परिवर्तः सहस्राणि कामभोज्यानि गालव’ (भा० पु० १११।१८)। परिवर्तो गतागतम्।
  • ‘अधन्यस्य मम कोकिलानामक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः’ (स्वप्न० ४)।
  • ‘ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः’ (रा० २।१०५।२५)। परिवर्त आवृत्तिः।
  • ‘सर्वर्तुपरिवर्तस्तु स्मृतः संवत्सरो बुधैः’ (अमरोद्धाटने १।३।२० भागुरिवचनम्)। सर्वर्तवः परिवर्तन्ते पर्यायेण वर्तन्ते ऽस्मिन्निति तद्व्युत्पत्तिः।
  • ‘न यत्र भूयः परिवर्त उग्रः’ (भा० पु० १।३।३९)। परिवर्तः संसारः, योनिसङ्क्रमः।
  • ‘कण्डूयनेपि चाशक्तः परिवर्तेऽप्यनीश्वरः’ (वि० पु० ६।५।१८)। परिवर्तः पार्श्वपरिवर्तनम्।
  • ‘परिर्वेत कृते ताभ्यां गर्भाभ्याम्’ (हरि० २।४।२७)। परिवर्तो व्यत्यासः, अन्योन्यं स्थानपरिवृत्तिः।
  • ‘अन्योन्यवस्त्र-परिवर्तमिव व्यधत्ताम्’ (शिशु० ५।३९)। परिवर्तो विनिमयः।
  • ‘युगशतपरिवर्तान्’ (शा० ७।३४)। परिवर्तोन्तरम्।
  • ‘जनैस्तदा युगपरिवर्तवायुभिर्निवर्तितः’ (शिशु० १७।१२)। परिवर्तः समाप्तिः।
  • ‘चरित-महामृताब्धिपरिवर्तपरिभ्रमणाः’ (भा० पु० १८।८७।२१)। परिवर्तः क्षोभः।
  • ‘निवेशं रोचयामास परिवर्ते सुखाश्रये’ (हरि० २।५।३१)। परिवर्तः स्थानं निवासस्थानम्। आवासभूमिः।
  • ‘श्वफल्कपरिवर्ते च ववर्ष हरिवाहन’ ( )।
  • ‘न वा एवमर्थं स्थाल्युपादीयते प्रक्षालनं परिवर्तनं च करिष्यामीति’ (१।४।२३ सूत्रे भाष्ये)। भारते शल्य० ५७।१९ इत्यत्र बहुविध-मार्ग-वर्णने परिवर्तनमित्येकतमो मार्ग उक्तः। स च शत्रौ प्रहर्तु परितः भ्रमणं भवति।
  • ‘धनेन विद्यायाः परिवर्तनं धननियमः’ (गौ० ध० २।१७४ इत्यत्र हरदत्तः)। परिवर्तनं विनिमयः।
  • ‘भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च’ (भा० आश्व० १८।२९)। परिवृतिः सुरनरतिर्यगादिदेहेषु भ्रमणम्।
  • ‘हयेन समयोजयन्। महिष्या परिवृत्त्याथ वावातामपरां तथा’ (रा० १।१४।३५)॥ राज्ञां हि त्रिविधाः स्त्रियः, उत्तममध्यमाधमजातीयाः। तासां मध्ये उत्तमजातेः क्षत्रियाया महिषीति नाम, मध्यमजाते वैश्याया वावातेति, अधमजातेः शूद्रायाः परिवृत्तिरिति टीकाकारो रामः। परिवृत्तिर्नाम राज्ञो भागाद् बहिष्कृता राज्ञी। परिवृक्तिरिति पाठस्तूचितः।
  • ‘अतिक्रम्याटवीस्तास्ता विषमाः परिवर्तिनीः। दुदर्शा इव सम्प्राप श्रीकण्ठविषयं च सः’ (कथा० २०।३९)॥ परिवर्तिनी परिवर्तमनुभवन्ती, अनेकरूपा, अनियतसंस्थाना।
  • ‘तस्याः सुविपुला दीर्घा वेपन्त्याः परमस्त्रियाः। दृश्यते कम्पिता वेणी व्यालीव परिवर्तिनी’ (रा० ५।२५।९)॥ परिसर्पतीति पाठान्तरम्। परिवर्तिनी वेल्लन्ती।

वृध्

  • {परिवृध्}
  • वृध् (वृधु वृद्धौ)।
  • ‘परिवर्धकेनोपस्थापिते पितुरङ्गे चरणाभ्यामेवाजगाम स्वमन्दिरम्’ (हर्ष० पञ्चम उच्छ्वासे)। परिवर्धकोऽश्वपालः।

वृष्

  • {परिवृष्}
  • वृष् (वृषु सेचने)।
  • ‘क्षुराग्रैश्च वानरान् पर्यवर्षत’ (रा० ६।७५।४७)। पर्यवर्षत अभ्यवर्षत, तत्र क्षुराग्रवर्षमकरोत्।

वे

  • {परिवे}
  • वे (वेञ् तन्तुसन्ताने)।
  • ‘तस्माद्रथः पर्युतो दर्शनीयतमो भवति’ (श० ब्रा० १३।२।७।८)। पर्युतो रथगुप्त्या युतः।

वेप्

  • {परिवेप्}
  • वेप् (टुवेपृ कम्पने)।
  • ‘बाहुर्वामः परिवेपते स्म’ ( )। परिवेपते परिस्पन्दते।

वेष्ट्

  • {परिवेष्ट्}
  • वेष्ट् (वेष्ट वेष्टने)। प्रायेण भमिपतयः प्रमदा लताश्च यत्पार्श्वतो भवति तत् परिवेष्टयन्ति। परिवेष्टयन्ति परिक्षिपन्ति, समासजन्ति।
  • ‘य इमां पृथवीं कृत्स्नां चर्मवत् परिवेष्टयेत्’ (भा० द्रोण० १०।६४)। परिवेष्टयेत् संकोचयेत्। समवेष्टयदिति पाठान्तरम्।

व्ये

  • {परिव्ये}
  • व्ये (व्येञ् संवरणे)।
  • ‘हिमस्य त्वा जरायुणा शाले परिव्ययामसि’ (अथर्व० ६।१०६।३)। परिव्ययामहे परिवृण्मः, परिवीतां कुर्मः, परिवेष्टयामः।
  • ‘परि त्वा दैवी र्विशो व्ययन्ताम्’ (वा० सं० ६।६)। परिव्ययन्तां परिवारयन्तु।
  • ‘अथ परिव्ययति। अनग्नतायै न्वेनं परि व्ययति’ (श० ब्रा० ३।७।१।१९)। उक्तोऽर्थः।
  • ‘मातुर्योना परिवीतो अन्तः’ (ऋ० १।१६४।३२)।
  • ‘युवा सुवासाः परिवीत आगात्’ (ऋ० ३।८।४)। परिवीत आवृतः।
  • ‘शुक्लैर्मयूखनिचयैः परिवीतमूर्तिः’ (कि० ५।४२)।

व्रज्

  • {परिव्रज्}
  • व्रज् (वज व्रज गतौ)।
  • ‘मद्रकेषु चरकाः पर्यव्रजाम’ (श० ब्रा० १४।६।२।१)। पर्यव्रजाम पर्याटाम।
  • ‘अस्याः पटवासगन्धेनोन्मत्ता भ्रमन्तो मधुकरगणाश्चूतशिखराण्यपि त्यक्त्वा परिव्रजन्ति खल्वेनाम्’ (उभया० पृ० ६)। परिव्रजन्ति परिपतन्ति।
  • ‘पुत्रस्यैश्वर्ये पिता वसेत् परि वा व्रजेत्’ (कौषी० उ० २।१५)। परिव्रजेत् संन्यस्येत्, अनिकेतनो भिक्षुः स्यात्।
  • गृही भूत्वा वनी भवेत्, वनी भूत्वा परिव्रजेत्’ (ना० परि० उ० ३।७७ पाठभेदः)।
  • ‘देवता वा एतं परिव्रजन्ति’ (पञ्च० ब्रा० १८।१।११)। परिव्रजन्ति परिवर्जयन्ति। नास्य हविराददत इत्यर्थः।
  • ‘शिवमहं शरणं परिव्रजामि’ (स्कन्द पु० के० ९१।२८)। व्रजामीत्येवार्थः। परिरस्थाने।
  • ‘वासांसि मतचेलानि… परिव्रज्या च नित्यशः’ (मनु० १०।५२)। परिव्रज्या भ्रमणशीलत्वम्। परिव्रज्या संन्यासः चतुर्थाश्रमप्रवेशोपि भवति। परिव्राजकश्च संन्यासी।

शिष्

  • {परिशिष्}
  • शिष् (शिष असर्वोपयोगे)।
  • ‘येषां वाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः। उच्छेषपरिशेषं हि तान् भोजय युधिष्ठिर’ (भा० अनु० २३।४९)। परिशिष्टं स्थाल्यामवशिष्टम्।

शी

  • {परिशी}
  • शी (शीङ् स्वप्ने)।
  • ‘अहन्नहिं परि शयानमर्णः’ (ऋ० ६।३०।४)। अर्णः अपः। परि शयानम् परितः शयानम्। उपसर्गात्कारणाद् धातुः सकर्मकः।
  • ‘एनं ते भ्रातरः परि शेरे’ (तै० सं० ६।२।८।४४)। उक्तोऽर्थः।
  • ‘वपामेकः परि शये’ (तै० सं० ६।३।७।४०)। समीपे शेत इत्यर्थः।
  • ‘विशं विशं मघवा पर्यशायत’ (अथर्व० २०।१७।६)। तं तं यजमानं मघवा परिशेते प्राप्तवान् भवतीत्याह।
  • ‘सर्वतो वा अश्वाभिधानी मुखं परिशेते’ (श० ब्रा० ६।३।१।२७)। अश्वस्य मुखं परितः स्थिता भवतीत्यर्थः।
  • ‘न ह्येता ईलयन्त्या तृतीयसवनात् परि शेरे’ (तै० सं० ६।४।३।११)। परिशेरे ऽविचलिता अवतिष्ठन्ते।
  • ‘अद्भिररिक्तेन पात्रेण याः पूताः’ (आपः) परि शेरते (बौ० श्रौ० १।३)।

शील्

  • {परिशील्}
  • शील् (शील उपधारणे, उपधारणमभ्यासः)।
  • ‘तिसृभिस्ताभिरेकत्र वाग्देवी परिशीलिता’ (स्कन्द पु० का० ४।६७।४२)। परिशीलिता ऽभ्यस्ता, पुनः पुनर्ध्याता।

श्रम्

  • {परिश्रम्}
  • श्रम् (श्रमु तपसि खेदे च)।
  • ‘परिश्रान्ते विदीर्णे वा’ (भा० श्रौ० १।५३)। परिश्रान्तः क्लान्तः, खिन्नः।

श्रि

  • {परिश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘परिश्रयति। अन्तर्हितो हि पितृलोको मनुष्यलोकात्’ (तै० ब्रा० १।६।८)। परिश्रयति परितः कटादिभिश्छादयति।
  • ‘तस्मा एतां पुरं पर्यश्रयन्’ (श० ब्रा० ६।३।३।२४)। तिरस्करिण्या प्रच्छन्नामकुर्वन् इत्यर्थः।
  • ‘उत्तरस्यां वेदिश्रोण्यां पुंश्चल्यै मागधाय च परिश्रयन्ति’ (आप० श्रौ० १५।५।२)। तिरस्करिण्यादिना व्यवदधतीत्यर्थः।
  • ‘तां वा एतां (शालां) परिश्रयन्ति नेदभिवर्षादिति’ (श० ब्रा० ३।१।१।८)। कटादिभिराच्छादयन्तीत्यर्थः।
  • ‘परिश्रिते याजयेत्’ (तै० सं० २।२।२।२)। परिश्रिते परिच्छादिते।
  • ‘तस्मात्परिश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः’ (वि० पु० ३।१३।१४)।
  • ‘तस्मात् परिश्रिते दद्यात्’ ( गौ० ध० २।६।२६)। उक्तोऽर्थः।
  • ‘ततोऽनुरक्तैः पशुपैः परिश्रितः’ (भा० पु० १०।२५।३३)। परिश्रितः परितः श्रितः सेवित उपासितः।
  • ‘परिश्रिता ये परितो मनुष्याः’ (भा० आदि० १९२।५)। अन्योन्योपजीविन इत्यर्थः।
  • ‘ते परिश्रित्य गायत्रेणापहिंकारेण तुष्टुविरे’ (श० ब्रा० २।२।४।११)। परिश्रित्य परिवेष्ट्य व्यवधाय प्रच्छाद्य कटादिभिः।
  • ‘अमावास्यायां निशि परिश्रित्य निर्वपेत्’ (सत्या० श्रौ० २२।२।१०)। उक्तोऽर्थः।
  • ‘अथैनत् परिश्रिद्भिः परिश्रयति’ (श० ब्रा० १३।८।२।२)। परिश्रिद् वृतिर्भवति।
  • ‘व्रजः सपरिश्रयः’ (श० ब्रा० १४।९।४।२२)। उक्तोऽर्थः।

श्रु

  • {परिश्रु}
  • श्रु (श्रु श्रवणे)।
  • ‘क्षतेषु भाग्यैरपरिश्रुतेष्वपि सुहृत्त्वमस्मासु बतेदमीदृशम्’ (अवदा० हस्तिजा० ३७)। अपरिश्रुतेषु अप्रख्यातेषु अविदितेषु।
  • ‘सर्वदेवनिकायानां ये राजानः परिश्रुताः’ (भा० शल्य० ४४।५०)।
  • ‘आदित्यवंशप्रभवस्त्वं हि लोके परिश्रुतः’ (भा० आदि० १८२।१२)।
  • ‘श्रीर्नामाहं परिश्रुता’ (भा० अनु० ८२।६)।
  • ‘अमात्यांश्चातिशूरांश्च ब्राह्मणांश्च परिश्रुतान्’ (भा० शां० ८३।३)। परिश्रुतान् बहुश्रुतान्।
  • ‘अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम्’ (मात्स्य पु० ४४।५७)। परिश्रुतं बहुलं श्रुतम्।
  • ‘अल्पः प्रणीतो विच्छिन्नोऽसमिद्धश्चापरिश्रुतः। त्वरया पुनरानीतो यजमानभयावहः’ (गृह्यासं० १)॥ अग्निरिति विशेष्यम्।
  • ‘श्रोत्रे द्वे परिश्रवणे द्वे’ (जै० ब्रा० २।१०२)।

सञ्ज्

  • {परिषञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘मलये चन्दन-लता-परिषङ्गाधिवासिते’ (सुश्रुत० १।६।२३)। परिषङ्गः परितः सङ्गः।

सद्

  • {परिषद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘य एनं परिषीदन्ति समादधते चक्षसे’ (अथर्व० ६।७६।१)। परिषीदन्ति परितः सीदन्ति। उपसर्गवशात्सकर्मकोऽत्र धातुः।
  • ‘मा त्वा… माप्सवः परि षदाम मादुवः’ (ऋ० ७।४।६)। मा परिषदाम मा त्याक्ष्म।
  • ‘न सोऽर्थः परिषीदति’ (भा० शां० २९७।४४ )। परिषीदति अवसीदति।
  • ‘परिषद्यं ह्यरणस्य रेक्णः’ (ऋ० ७।४।७)।
  • ‘परिषद्यं परिहर्तव्यम्’ (नि० ३।२।१)। सदिरत्र गतौ वर्तते। परिश्च वर्जने।
  • ‘गब्यां परिषदं नो अक्रन्’ (अथर्व० १८।३।२२)। गव्या गोसमूहः। परिषीदतीति परिषद्।
  • ‘अभिरूपभूयिष्ठा परिषदियम्’ (शा० १)। परिषत्समाजः।

सन्

  • {परिसन्}
  • सन् (वन षण संभक्तौ, षणु दाने)।
  • ‘परि व सन्याद् वधात्’ (शां० गृ० ३।९।१)।

सिच्

  • {परिषिच्}
  • सिच् (षिच क्षरणे)।
  • ‘सिञ्चन्ति परिषिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च’ (वा० सं० २०।२८)। (यां सुराम्) परिषिञ्चन्ति पय आदिभिरस्याः परिषेकं कुर्वन्ति।
  • ‘उतो तदद्य विद्याम यतस्तत् परिषिच्यते’ (अथर्व० १०।८।२९)।
  • ‘शीतमालेपनं कार्यं परिषेकश्च शीतलः’ (सुश्रुत० १९।१६।६)। परिषेकः परितः सेचनमुदबिन्दूनां निपातनम्।
  • ‘दारयन्ति शिलां परिषेकैः (व० बृ० सं० ५३।११६)। तस्य (संसारतरोः) अज्ञानमाधारः प्रमादः परिषेचनम्। परिषिच्यते ऽनेनेति परिषेचनं जलम्।

सिध्

  • {परिसिध्}
  • सिध् (षिध गत्याम्)।
  • ‘द्विषो घ्नन् परिसेधतः’ (भट्टि० ९।८८)। परिसेधत आगच्छतः सर्वतो गच्छतः।

सु

  • {परिषु}
  • सु (षु प्रसवैश्वर्ययोः)।
  • ‘देवानां परिषूतमसीति दर्भान् परिषौति’ (आप० श्रौ० १।२।३।६)। परिषवणं सवनाय परिग्रह इति धूर्तस्वामी।

सू

  • {परिषू}
  • सू (षू प्रेरणे)।
  • ‘अथ हैतद् देवानां परिषूतं यद् ब्रह्मचारी’ (गो० ब्रा० पूर्व० २।७)।
  • ‘माकिर्नो अस्य परिषूतिरीशत’ (ऋ० ९।८५।८)। परिषूतिः परिप्रेरकः।

सृ

  • {परिसृ}
  • सृ (सृ गतौ)।
  • ‘परि धामान्यासामाशुर्गाष्ठामिवासरम्’ (अथर्व० २।१४।६)। पर्यसरम्=सर्वत आक्रमिषम्। आशुरश्वः। गाष्ठा काष्ठा।
  • ‘परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः’ (अथर्व० ६।६७।१)। परिसस्रतुः परितो निरुध्यागच्छताम्।
  • ‘परिसरति शिरखी भ्रान्तिमद्वारियन्त्रम्’ (माल० २।१३)। परिपततीत्यर्थः।
  • ‘एनं सरस्वती परिससार’ (ऐ० ब्रा०)। परितः सस्यन्दे।
  • ‘सर्वान्परिसृतो लोकान्पुराऽसौ…’ (रा० ३।७१।३३)। परिसृतः पर्यटितो भ्रान्तः।
  • ‘सर्वे परिसृता देशा यज्ञियं न लभे पशुम्’ (रा० १।६१।१४)। परिसृताः पर्यटिताः। कर्मणि प्रत्ययः।
  • ‘तस्मात्परिसृते दद्यात् तिलांश्चान्ववकीरयेत्’ (भा० अनु० ९०।२१)। परिसृते आवृतदेशे।
  • ‘परिसरणमरुणचरणो रणरणकमकारणं कुरुते’ (रुद्रट का० २।२३)। परिसरणं परिक्रमणम्, चङ्क्रमणम्। परिसरः पर्यन्तभूर्भवति।

सृज्

  • {परिसृज्}
  • सृज् (सृज विसर्गे)।
  • ‘परिसृष्टं धारयतु’ (अथर्व० ८।६।२०)। परिसृष्टं परिशिष्टम्।

सृप्

  • {परिसृप्}
  • सृप् (सृप्लृ गतौ)।
  • ‘ये सूर्यात् परिसर्पन्ति स्नुषेव श्वशुरादधि’ (अथर्व० ८।६।२४)। परिसर्पन्ति दूराद्यान्ति। पराऽर्थे परिः, वर्जने वा।
  • ‘प्रागुदीच्यां दिशि न्यग्रोधशुङ्गामुभयतः फलामस्रामामकृमिपरिसृप्ताम्’ (गो० गृ० २।६।६)। परिसृप्तां व्याप्ताम्।
  • ‘भूयः परिसृप्तमुर्व्याम्’ (बुद्ध० ३।३१)। परिसृप्तं भ्रान्तम्। परिसर्पः परिक्रिया (अमरः)। परिजनादिना परिवेष्टनं परिसर्प इति भानुजिः।

स्कन्द्

  • {परिस्कन्द्}
  • स्कन्द् (स्कन्दिर् गतिशोषणयोः)।
  • ‘मेघनादः परिस्कन्दन् परिष्कन्दन्तमाश्वरिम्’ (भट्टि० ९।७५)। परिस्कन्दन् परितः क्रामन्।
  • ‘भूम्ने परिष्कन्दम्’ (तै० ब्रा० ३।४।७)। परिष्कन्दः परिचारकः।
  • ‘परिस्कन्दः प्राच्यभरतेषु’ (पा० ८।३।७५)। इति प्राच्यभरतेषु प्रयोगविषये पूर्वेण प्राप्तो मूर्धन्यः प्रतिषिध्यते। अन्यत्र यथाप्राप्तं षत्वं भवति। पराचितपरिस्कन्दपरजातपरैधिता इति भृत्यनामस्वमरः।
  • ‘भूतं च भविष्यच्च परिष्कन्दौ’ (अथर्व० १५।२।६)। परिष्कन्दः परिचारकः, यः खलु रथेन समं धावति।
  • ‘परिष्कन्दा रथस्यासन् सर्वतोदिशमुद्यताः’ (भा० कर्ण० ३४।४३ )। परिष्कन्दाः पार्श्वगोपाः।

स्कृ

  • {परिष्कृ}
  • स्कृ (डुकृञ् करणे+सुट्)।
  • ‘साध्वलङ्कृतौ सुवसनौ परिष्कृतौ’ (छां० उ० ८।८।२)। परिष्कृतौ छिन्नलोमनखाविति शङ्करः।
  • ‘सुरामाहारयामास राजार्हां सुपरिष्कृताम्’ (भा० वि० १५।७)। सुपरिष्कृता सुष्ठु संभृता सम्यग् रचिता।

स्तु

  • {परिष्टु}
  • स्तु (ष्टुञ् स्तुतौ)।
  • ‘प्रारब्धवान् महेशानं परिष्टोतुमुदारधीः’ (स्कन्द पु० का० ४।९५।५५)। परिष्टोतुमभिष्टोतुम्।
  • ‘मही देवस्य सवितुः परिष्टुतिः’ (तै० सं० १।२।१३)। परिरिति महीत्यनेन गतार्थः।

स्तॄ

  • {परिस्तॄ}
  • स्तॄ (स्तॄञ् आच्छादने)।
  • ‘परिस्तृणीत परिधत्त। अग्निम्’ (तै० ब्रा० ३।७।६।१)।
  • ‘परिस्तृणीहि परिधेहि वेदिम्’ (अथर्व० ७।९९।१)
  • ‘प्रागग्रैः कुशैः परिस्तृणाति त्रिवृत् पञ्चवृद्वा’ (शां० गृ० १।८।२)। सर्वत्र परित आच्छादनमेवार्थः।

स्था

  • {परिष्ठा}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘रजोरूपो हि सङ्कल्पो लोकसंव्यवहारवान्। परितिष्ठति संसारपुत्रदारानुरञ्जितः’ (यो० वा० ४।५३।३६)॥ परितिष्ठति परितः तिष्ठति।
  • ‘मा नो मर्तस्य दुर्मतिः परि ष्ठात्’ (ऋ० ३।१५।६)। मा परिष्ठात् परितो मा गच्छत्वित्यर्थ इति सायणः। दुर्मति दुष्टबुद्धिप्रयुक्तो ऽभिभवः।
  • ‘आ नो भर मा परि ष्ठा अराते’ (अथर्व० ५।७।१)। हे अराते परितो नो मा स्म स्था इत्याह।
  • ‘तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः’ (तै० सं० २।५।१२।२)। परितः सर्वत उपतस्थुः।
  • ‘आ तू भर माकिरेतत् परि ष्ठात्’ (तै० सं० १।७।१३)। मैव परत्र तिष्ठतु। परिष्ठितं समाप्तं मा भूदिति वार्थ इति भट्टभास्करः।
  • ‘मा वः परि ष्ठात् सरयुः पुरीषिणी’ (ऋ० ५।५३।९)। मा परिष्ठात् मा स्म प्रतिरुधत्, मा प्रत्यूहिष्ट। पुरीषिणी उदकवती।
  • ‘उत सिन्धुं विवाल्यं वितस्थानामधि क्षभि। परि ष्ठा इन्द्र मायया’ (ऋ० ४।३०।१२)। सर्वतः स्थापनं कृतवानसि, वेगमस्या व्यरमय इत्यर्थः।
  • ‘न ते दूरं न परिष्ठास्ति’ (अथर्व० ११।२।२५)। परिष्ठा परिहृत्य स्थिता प्रति सायणः।
  • ‘यद्यत्रावस्थितं सर्वं तत्तत्रैव परिष्ठितम्’ (स्कन्द पु० ४।८८।१०४)। परिष्ठितं पर्यायेण न त्वौत्तराधर्येण स्थितम्।
  • ‘परिष्ठितमसृज ऊर्मिमपाम्’ (ऋ० ६।१७।१२)। परिष्ठितं प्रतिरुद्धमुपरुद्धम्।
  • ‘सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः’ (ऋ० २।११।२)। उक्तोऽर्थः।
  • ‘त्वमिन्द्र स्ववितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः’ (ऋ० ७।२१।३)। पूर्वेण समोऽर्थः।

स्रंस्

  • {परिस्रंस्}
  • स्रंस् (स्रंसु अवस्रंसने)।
  • ‘वैश्वानरस्य रूप पृथिव्यां परिस्रसा’ (आप० श्रौ० ५।१।१७)। परिस्रसा ऽवकरः।

स्रु

  • {परिस्रु}
  • स्रु (स्रु गतौ)।
  • ‘परिस्रवेच्च सततं नौर्विशीर्णेव सागरे’ (भा० शां० ८५।१४)।
  • ‘परिस्रवेन्मन्दं मन्दमन्यत्र गच्छेत् शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव’ (ऋ० ८।९१।३)। परिस्रव पवस्व परितो वह।
  • ‘रसं परिस्रुता न रोहितम्’ (तै० ब्रा० ५।६।४।२)। **धारया स्रवत्सुराद्रव्यं परिस्रुद् इत्युच्यत इति सायणः। लोके तु सुरामात्रे व्यवह्रियते। आह चामरः- सुरा हलिप्रिया हाला परिस्रुद् वरुणात्मजेति। तथा च भारते (वि० १६।५) प्रयोगः-अन्ये भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम्।

स्वञ्ज्

  • {परिष्वञ्ज्}
  • स्वञ्ज् (ष्वञ्ज् परिष्वङ्गे)।
  • ‘तं त्वा परि ष्वजामहे’ (अथर्व० २०।९५।३)।
  • ‘गात्राणि गात्रेषु परिष्वजन्ते’ (मृच्छ० ५।४९)।
  • ‘यथा स्त्रिया संपरिष्वक्तो न किञ्चन वेद’ (बृह० उ० ४।३।२१)।
  • ‘तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ’ (रा० २।३४।२०)। परिरभ्य, उपगुह्येत्यर्थः।
  • ‘अति-स्नेह-परिष्वङ्गाद् वर्तिराद्रापि दह्यते’ (रा० ४।१।११६)। परिष्वङ्गः परित आसङ्गः संश्लेषः।

हन्

  • {परिहन्}
  • हन् (हन हिंसागत्योः)।
  • ‘परिधैरायसैस्तीक्ष्णैः’ (भा० आदि० १९।१७)। परिहन्ति परितो हन्तीति सर्वतः कण्टकितो लोहदण्डः परिधः।
  • ‘कृष्णश्च परिधस्तत्र भानुमावृत्य तिष्ठति’ (भा० उ० १४३।२३)। परिधः परिवेषः।

हा

  • {परिहा}
  • हा (ओहाक् त्यागे)।
  • ‘वयमेवात्रं कालज्ञा न कालः परिहास्यते’ (भा० शां १३८।९४)। विलम्बो न भविष्यतीत्यर्थः।
  • ‘परिहीयते गमनवेला’ (शा० ४)। अतिक्रामतीत्यर्थः।
  • ‘आर्यस्य सुविहितप्रयोगतया न किमपि परिहास्यते’ (शा० १)। न किमपि परिहीणं न्यूनं विकलं भविष्यतीत्यर्थः।
  • ‘ओजस्वितया न परिहीयते शच्याः’ (विक्रम० ३)। न परिहीयते नापकृष्यते।
  • ‘न प्रतिच्छन्दात्परिहीयते मधुरता’ (माल० २)। उक्तोऽर्थः।
  • ‘अनुदिवसं परिहीयतेऽङ्गैः’ (शा० ३)। परिहीयते क्षीयते।
  • ‘लघुशरीराः प्राक् काष्ठामाप्नुवन् पर्यहीयन्त मेदुराः’ (इति वयम्)। पर्यहीयन्त अवहीना अभूवन्, पृष्ठभागेऽधावन्नित्यर्थः।**

हृ

  • {परिहृ}
  • हृ (हृञ् हरणे)।
  • ‘यया पुत्रश्च भार्या च त्यक्तावैश्वर्यकारणात्। कं सा परिहरेदन्यम्…’ (रा० २।४८।२२)॥ कैकेयीं प्रति पौरस्त्रीणां निन्दोक्तिः।
  • ‘परिहरति नभस्वान् प्रोषितानां मनांसि’ (ऋतु० २।२७)। अत्र परिरनर्थकः प्रयुक्तः। परितो हरतीति वाऽर्थः। स च रूढिं विरुन्धे।
  • ‘पूर्वेणाहवनीयं प्रणीताः परिहरन्ति’ (का० श्रौ० ५।८।७)। परिहरन्ति नयन्ति।
  • ‘गुप्त्यै वा एताः (आपः) परिह्रियन्ते’ (श० ब्रा० ३।९।२।१६)। परिह्रियन्त आह्रियन्ते।
  • ‘मत्योरात्मानं परिहराणीति’ (छां० उ० २।२२।५)। परिहरामि रक्षामि। दूरे ऽवस्थापयामीत्यक्षरार्थः।
  • ‘केमण्डलुं परिहरेत्पूर्वावस्थोप्यशौचतः। न चैनं कुत्सयेद् विद्वान्न शङ्केन्न च दूषयेत् (बौधायनः)॥’ परिहरेद् धारयेत्।
  • ‘अथ मेखलां परिहरते’ (श० ब्रा० ३।२।१।१०)। परिधत्ते परिवेष्टयत इत्यर्थः।
  • ‘मेखलां त्रिगुणां प्रसलविसृष्टां प्रदक्षिणं त्रिः परिहरन्ति’ (वीरमित्रोदये पृ० ४३२ उद्धृतं बैजावापवचनम्)।
  • ‘स्रजं परिहरति’ (आग्निवेश्य गृ० १।३)। उक्तोऽर्थः।
  • ‘पत्नीं संनह्यति… मुञ्जयोक्त्रेण त्रिवृता परिहरति’ (का० श्रौ० २।७।१)। वेष्टयतीत्यर्थः।
  • ‘इन्द्रस्तान्पर्यहार्दाम्ना’ (अथर्व० ६।१०३।२)। अबध्नादित्यर्थः।
  • ‘उल्मुकेन परिहरेत्’ (गाम्) (गो० गृ० ३।१०।१८)। प्रदक्षिणी कुर्यादित्यर्थः।
  • ‘आपगायास्तु पूर्णाया वेगं परिहरेच्छरैः’ (रा० ३।३१।२३)। परिहरेत् रुन्ध्यात्, वारयेत्, परावर्तयेत्।
  • ‘दुःस्पर्शं परिषेवितं परिहरेत्सद्योश्मरीं दुस्तराम्’ (वै० जी० ४।३४)। परिहरेत् हरेत् अपहरेत् अपनयेत्।
  • ‘भगायैनद् दक्षिणत आसीनाय परिहरत। तद्भगः प्राशिष्यति’ ( )। परिहरत=उपहरत। उपार्थे परिः।
  • ‘तत्पूष्णे पर्यहरन्। तत्पूषा प्राश्य दतोऽरुणत्’ (तै० सं० २।६।८।५)। पर्यहरन् उपाहरन्, अदाशन्।
  • ‘भागमस्मै परिहरति’ (का० श्रौ० २।४।२५)।
  • ‘चतुर्धाकरणकाले आदित्यं ब्रह्मणे परिहरति’ (आप० श्रौ० ५।७।२२।३)।
  • ‘तदाहुः कस्मादच्छावाकाय पुरोडाशबृगलं परिहरन्ति’ (शां० ब्रा० २८।४)। परिहरन्ति देयमिति रक्षन्ति। बृगलं शकलम्।
  • ‘तद्वा एतदेवैतासां नाम। एतद्यज्ञस्य तस्मादेतत्परिहरेत्साधु पुण्यम्’ (श० ब्रा० २।२।४।१४)। परिहरेt व्याहरेदिति सायणः। आवर्तयेद् अभ्यस्येदित्यन्ये।
  • ‘आचार्योऽप्यनाचार्यो भवति श्रुतात् परिहरमाणः’ (आप० ध० १।२।८।२७)। श्रुताद् दूरे रक्षन्, विद्याया वञ्चयमानः, विद्यामददानः।
  • ‘अथैनं त्रिः प्रदक्षिणं मुञ्जमेखलां परिहरन् वाचयति’ (गो० गृ० २।१०।३७)। (कठिदेशे) परिवेष्टयन्नित्यर्थः। ब्रह्मास्य जगतो निमित्तं कारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः।
  • ‘तर्कनिमित्त इदानीमाक्षेपः परिह्रियते’ (ब्र० सू० शां० भा०)।
  • ‘आशीविष इवाङ्केन बाले परिहृतस्त्वया’ (रा० २।७।२७)। परिहृतः परिधृतः।
  • ‘संस्थिते ऽग्निष्टोमे परिहृतासु वसतीवरीषु’ (श० ब्रा० १३।५।१।४)। परिभ्रम्यमाणासु।
  • ‘व्यूढे दशरात्रे गायत्र्या परिहृतानि (पृष्ठानि बहुदोहनीं स्पन्दनाम्) दुह्रे’ (जै० ब्रा० २।३)। परिहृतानि परिवेष्टितानि बद्धानि।
  • ‘स्त्रीसंनिकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः’ (कु० ३।७४)। स्त्रीसंनिकर्षात्स्त्रीसान्निध्यादात्मानं दूरे रक्षितुं, विनाकर्तुम्।
  • ‘अथ कदाचिदाषाढभूतिनमि परवित्तापहृत् कथमियमर्थमात्राऽस्य मया परिहर्तव्या’ (तन्त्रा० १।३ )। परिहर्तव्याऽपहर्तव्या। आश्चर्यमिवापशब्दस्यार्थे परेः प्रयोगः।
  • ‘स ब्रह्मणे परिहृत्यः’ (ऐ० बा० ७।२६)। स यजमानभाग ऋत्विग्विशेषाय ब्रह्मणे सर्वात्मना समर्पणीय इत्यर्थः।
  • ‘सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते’ (शा० २)। परिहार्यमग्राह्यमनासेव्यम्। आवापकः पारिहार्यः कटको वलयोऽस्त्रियामित्यमरः। परिहार्य एवं पारिहार्यः, परितो वेष्टनीयः।
  • ‘सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्। प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते’ (भा० शां० २८।१६)॥ परिहारो विमोक्षः पृथग्भावो विनाभवः, दूरेऽवस्थानम्।
  • ‘तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम्’ (रा० २।१००।४८)।
  • ‘सर्वतः परिहारमाश्विनम्’ (तै० सं० ६।४।९।४०)। परिहारमिति णमुलन्तमेतत्। शिरः सर्वतो भ्रमयित्वेत्यर्थः।
  • ‘भूयसा परिहारेण सत्कारेण च भूयसा। पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम’ (भा० शा० ८२।५६)॥ परिहारः प्रदेशनम्, धनार्पणम्।
  • ‘धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः’ (मनु० ८।२३७)। परिहारो नाम ग्रामं परितः करमुक्ता सर्वजनीना भूमिः।
  • ‘चतुर्विधः भोजयित्वा देवांश्च मुनिपुङ्गवान्। नृपांश्च बान्धवाश्चैव परीहारं चकार सः’ (बह्मवै० पु० ४।१०९।४७)॥ परीहारो दानम्।
  • ‘प्रदद्यात् परिहारांश्च’ (मनु० ७।२०१)। परिहारा विशिष्टानि दानानि।
  • ‘कृतभस्मरेखापरिहारपरिकरे हरितगोमयोपलिप्त-क्षितितलवितते-व्याघ्रचर्मण्युपविष्टम्’ (हर्ष०)। परिहारो मर्यादा।

ह्वल्

  • {परिह्वल्}
  • ह्वल् (ह्वल चलने)।
  • ‘परि ह्वालं वाचं वदति’ (श ० ब्रा० ३।२।२।२७)। स्खलन्त्या वाचा ब्रवीतीत्यर्थः।

ह्वे

  • {परिह्वे}
  • ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
  • ‘अनुहवं परिहवं परिवादं परिक्षवम्’ (अथर्व० १९।८।४)। परितः पार्श्वद्वये आह्वानं परिहवः।