०७२ अव

अज्

  • {अवाज्}
  • अज् (अज गतिक्षेपणयोः)।
  • ‘श्रोणामेक उदकं गामवाजति’ (ऋ० १।११६१।१०)। उदकमवगाहेत यथा तथाऽजति क्षिपति प्रणुदतीत्यर्थः । अवशब्दो नीचैरर्थकः।

अत्

  • {अवात्}
  • अत् (अत सातत्यगमने)।
  • ‘अश्मास्यवतम्’ (ऋ० २।२४।४) इत्यृचं व्याचक्षाणो यास्कोऽवतमित्यवातितम् इत्यनेनानुव्याख्याति। तत्र अवाङ अतितं भूमिं गतमिति दुर्गवृत्तिः’ (नि० १०।१३)।

अद्

  • {अवाद्}
  • अद् (अद भक्षणे)।
  • ‘अव रुद्रमदीमहि’ (वा० सं ३।५८)। अवादीमहि=आदयामः। अन्तर्णीतण्यर्थकोऽदिः। अवयुत्य इतराभ्यो देवताभ्यो रुद्रमादयाम इत्युवटः।

अन्

  • {अवान्}
  • अन् (अन प्राणने)।
  • ‘स वै सकृदवान्यात्’ (श० ब्रा० ११।१।६।३२)। अवाम्यात्=निश्वस्यात्।
  • ‘एतां दिशमनवानन्त्सृत्वा कुम्भं प्रक्षीयानपेक्षमाण एहि’ (श० ब्रा० १३।८।३।४)। अनवानन्=अनिश्वसन्।
  • ‘व्याहृतीर्जपित्वाऽनवानम्’ (सत्या० श्रौ० २१।२।२)। अनवानम् अनुच्छ्वासम्।

अय्

  • {अवाय्}
  • अय् (अय गतौ)।
  • ‘अवायन्तां पक्षिणः’ (अथर्व० ११।१२।८)। अवाङ्मुखा निपद्यन्तामित्यर्थः।

अर्ज्

  • {अवार्ज्}
  • अर्ज् (अर्ज षर्ज अर्जने)।
  • ‘तामवार्जन्ति’ (श० ब्रा० ४।५।८।११)। उत्सृजन्तीत्यर्थः।

अस्

  • {अवास्}
  • अस् (असु क्षेपे)।
  • ‘प्रथमपातिनं शकलमवास्य’ (आप० श्रौ० ७।३।२०)। अवास्य=नीचैः क्षिप्त्वा।
  • ‘यूपशकलमवास्यति’ (तै० सं० ६।३।४।२०)। अवास्यति गर्ते क्षिपति। अवशब्दोऽधोर्थे।

आप्

  • {अवाप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘विदुस्ते वीर कर्माणि नानवाप्तानि कानि चित्’ (भा० सभा० ५।३४)। अनारब्धानीत्यर्थः।
  • ‘पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात्’ (मनु० ९।२०९)। अनवाप्तम् पित्राऽसामर्थ्येनोपेक्षितत्वादप्राप्तम्।
  • ‘हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम्’ (भा० शां० १८१।५)। हस्तौ अवाप्येते प्रवेश्येते यस्मिन्निति हस्तावापो हस्तनिगड इति नीलकण्ठः।

  • {अवे}
  • इ (इण् गतौ)।
  • ‘मा नो द्यूतेऽवगान्मा समित्याम्’ (अथर्व० १२।३।४६)। माऽवगात्=मा प्रणशत्=माऽपहारि।
  • ‘अवैतु पृश्नि शेबलम्’ (अथर्व० १।११।४)। अवैतु=अर्वाक् पततु।
  • ‘यथा वातो यथा वनम्… एवा त्वं दशमास्य सहावेहि जरायुणा’ (ऋ० ५।७८।८)। अवेहि=अवाङ् इहि, नीचैर्याहि, निष्क्राम।
  • ‘समानमेतदुदकमुच्चैत्यव चाहभिः’ (ऋ० १।१६४।५१)। उदेति चावैति च। उच्चैरेति अर्वाङ् चैतीत्यर्थः।
  • ‘अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे’ (ऋ० १।२४।१४)। अवेमहे=अपनयामः=अपाकुर्मः प्रायश्चित्तेन। हेडः क्रोधः। सान्तं चेदम्।
  • ‘अव तदेन ईमहे तुराणाम्’। (ऋ० ७।५८।५)।
  • ‘गोत्रचरणाच्छलाघात्याकारतदवेतेषु’ (पा० ५।१।१३४)। इह तदवेतः=तत्प्राप्तः। तदवगतवान् वा। गार्गिकामवेतः।
  • ‘एको मासः संवत्सरस्यानवेतः स्यात्’ (तै० सं० २।६।३।५)। अनवेतः=अनतीतः।
  • ‘अव त्वानेना नमसा तुर इयाम्’ (ऋ० ७।८६।४)। अवेयाम्=प्राप्नुयाम्।
  • ‘अव देवैर्देवकृतमेनोऽयासिषम्’ (वा० सं० ३।४८)। देवैरिन्द्रियैः कृतम्। अवायासिषम्=(जले) अवनीतवानस्मि।
  • ‘नव नव दक्षिणा भवन्ति नावयन्त्येवैनम्’ (षड्विंश० ३।८)।
  • ‘अवैत्वभ्वं कृणुता वरीयः’ (ऋ० ८।४९।५)। अवैतु=अपैतु।
  • ‘हितं तेषामहितं मामकानाम्। एतत् सर्वं मम नावैति चेतः’ (भा० वन० ४।१८)॥ नावैति नाङ्गी करोति।
  • ‘अवैन्नाशं दशास्यस्य निर्वृत्तमिव राघवः’ (भट्टि० ७।३३)। अवैत्=प्रत्यैत्, अजानात्।
  • ‘अवैमि ते सारमतः प्रियं त्वाम्’ (कु० ३।१३)।
  • ‘भवानपीदं परवानवैति’ (रघु० २।५६)।
  • ‘अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम्… सुखसङ्गिनमवैमि’ (शा० ५)। अवैमि=मन्ये, पश्यामि।
  • ‘नमः सखिभ्यः सन्नान्माऽवगात’ (तै० ब्रा० २।४।७।११)। माऽवगात=माऽपगात=मा स्मापेत।
  • ‘लोकं माऽर्वागवगाः’ (पञ्च० ब्रा० १।५।५)। (हे सोम) नाभेरधो मा स्म गच्छः। माऽर्वाग् अवगाः-माऽस्मादधो गम इत्यक्षरार्थः।

  • {अवे}
  • ई (ईङ् गतौ)।
  • ‘अवैषां हेड ईमहे’ (वा० सं० १६।६)। अपनयामः।

ईक्ष्

  • {अवेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘योत्स्यमानानवेक्षेऽहम्’ (गीता० १।२३)। इहावशब्दो नात्यर्थमुपकरोति धात्वर्थस्य।
  • ‘वसुधेयमवेक्ष्यतां त्वया’ (रघु० ८।३)। आवेक्षा प्रतिजागर इत्यमरप्रामाण्याद्वसुधायां प्रतिजाग्रता त्वया भाव्यमिति शब्दार्थः। वसुधा पाल्यतामिति तात्पर्यार्थः।
  • ‘त्वं राजा रक्षसां लङ्कामवेक्षेथा विभीषण’ (भट्टि० १९।२३)।
  • ‘अथाऽऽज्यमवेक्षते’ (श० ब्रा० १।३।१।२६)। आज्ये पात्रस्थेऽन्तर्दृशं पातयतीत्यर्थः।
  • ‘उदशराव आत्मानमवेक्ष्य… तौ होदशरावेऽवेक्षाञ्चक्राते’ (छां० उ० ८1८।१)। उक्तोऽर्थः।
  • ‘प्रतिगृह्य सौम्यं होता पूर्वश्छन्दोगेभ्योऽवेक्षेत’ (ऐ० ब्रा० ३।३२)। घृतपूर्णे सौम्य चरौ छायां पश्यन्ति शुद्धय इत्यत्र षड्गुरुशिष्यः।
  • ‘न कूपमवेक्षेत’ (बौ० ध० २।३।६।२७)। आत्मानं तत्र द्रष्टुमिति शेषः।
  • ‘नोदपानमवेक्षेत’ (गो० गृ० ३।५।१३)।
  • ‘आशीविषो नैनो राजानमवेक्षते’ (तै० सं० ६।६।७।२)। राज्ञि सोमे दृष्टिं न पातयतीत्यर्थः।
  • ‘अपि वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम्। अवेक्षेरन्धार्तराष्ट्राः शमार्थम्…’ (भा० उ० ९३।२०)। अवेक्षेरन्=अवदधीरन्=आद्रियेरन्।
  • ‘श्लाघ्यां दुहितरमवेक्षस्व जानकीम्’ (उत्तर० १।७)। तस्यां प्रतिजागृहि।
  • ‘न कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतङ्गजः’ (माल० ३)। नावेक्षते न गणयति।
  • ‘नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान्’ (मनु० ४।१९)। अवेक्षेत=चिन्तयेत्=विचारयेत्।
  • ‘सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा’ (भा० शां० २१७।२८)। हेलया हेयत्वेन पश्येत्। अवशब्दोऽवक्रोशे वर्तते।
  • ‘न परदुःखातुराः स्वसुखमवेक्षन्ते महाकारुणिकाः’ (अवदा० मैत्री० जा०)। नावेक्षन्ते-नाद्रियन्ते।
  • ‘सोऽवेक्षते जगत्कृत्स्नं न सहायमवेक्षते’ (शि० भा० २६।१९)। जगति प्रतिजागर्तीत्याह।
  • ‘न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे’ (रा० २।७४।२१)। अवेक्षसे=वेत्थ।
  • ‘अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम्’ (भा० पु० १।४।८)। अवेक्षते=प्रतीक्षते। अन्यत्र दुर्लभोऽयमर्थः।
  • ‘अत्रास्त्यवेक्षा त्वयि मे रक्ष्यो हि शरणागत’ (रा० २।९६।५१)। अवेक्षा=आदरः।
  • ‘मम त्ववेक्षया वीर शृणु विज्ञापयामि ते’ (भा० उ० ८।४२)। इहावेक्षाऽऽदरोऽवधानम्।
  • ‘न ते पुत्रेष्ववेक्षाऽस्ति’ (भा० आदि० २३३।८)।
  • ‘यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा’ (रा० २।७३।१८)। अवेक्षा गौरवं संभावना पूज्यबुद्धिः।
  • ‘ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया’ (भा० वन० १०।१४)। अनन्तरोदीरित एवार्थः।
  • ‘वर्णश्रमावेक्षणजागरूकः’ (रघु० १४।८५)। वर्णाश्रमाणामनुसन्धानेऽप्रमत्तः। अनवेक्षणात् कृषिः (विनश्यति)। अनवेक्षणमुपेक्षा प्रमादः।
  • ‘फलप्रचयनोदपानावेक्षण…’ (द्रा० गृ० ३।१।३९)। उदपानं कूपः। तत्रावेक्षणमवाङ्मुखीभूय निरीक्षणम्।
  • ‘अवेक्षमाणस्त्वां मां च न्यस्तास्त्रश्चाहवे हतः’ (भा० द्रोण० १९६। ४८)। अवेक्षमाणः=प्रतिजाग्रत्=अप्रमाद्यत् (आवयोः)।
  • ‘अवेक्षमाणां बहुशो वैदेहीं धरणीतलम्’ (रा० ३।५२।४२)। अधः पश्यन्तीम्। स्थाने वश्यवाचः कवेरवोपसर्गस्य प्रयोगः। शरीरमग्नौ संयोज्यावेक्षमाणा अपोऽभ्युपयन्ति (शातातपः)। अनवेक्षमाणाः पृष्ठतोऽनालोकयन्तः। अनपेक्षमाणा इति पाठ इष्यते।
  • ‘प्रावषीवासितग्रीवो मज्जेत निशि निर्जने। मायूरेण गुणेनैव स्त्रीभिश्चावेक्षितश्चरेत्’ (भा० शां० १२०।१३)। अवेक्षितः कृतावेक्षः।
  • ‘अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम्’ (रा० २।९६।१५)। अवेक्षस्व सम्यगवलोकय।
  • ‘प्रेयसि क्षणमवेक्ष्यतां पुरश्चन्द्रचन्दनसुधासमद्युतिः। दिविषत्तरङ्गिणी…’ (पारिजात० १७।४६)॥ अवेक्ष्यतामुदीक्ष्यतां प्रेक्ष्यताम्।
  • ‘आशीविषो वै नो राजानमवेक्षते’ (ऐ० ब्रा० ६।१)। अवेक्षते=ईक्षते।
  • ‘तातस्य प्रियकामेन यौवराज्यमवेक्षता’ (भरतेन त्वया) (रा० २।५२।३६)। अवेक्षता अवेक्षमाणेन।
  • ‘अनवेक्षितपूर्वसौहृदा रमते ऽन्यत्र गता तथाङ्गना’ (सौग्दर० ८।४१)। अनवेक्षितमगणितम्।
  • ‘तमवेक्ष्य रुरोद सा भृशं स्तनसम्बाधमुरो जघान च’ (कु० ४।२६)। तं मधुं वीक्ष्य।
  • ‘पारिणाह्यस्य वेक्षणे’ (मनु० ९।११)। अवेक्षणे। भागुरिमतेनावशब्दस्याकारलोपः। अवेक्षणमवेक्षा प्रतिजागरः।

उक्ष्

  • {अवोक्ष्}
  • उक्ष् (उक्ष सेचने)।
  • ‘दध्ना मधुमिश्रेणावोक्षति’ (तै० सं० ५।४।५।२)। अवोक्षति=अवाङ्मुखेन हस्तेनोक्षति।
  • ‘अथ सभाया मध्ये अधिदेवनमुद्धत्यावोक्ष्य’ (आप० श्रौ० ५।६।१९।२)। उक्तोऽर्थः।
  • ‘उद्धते वा अवोक्षितेऽग्निमादधति’ (श० ब्रा० ६।४।४।१८)। उक्षतेः प्रयोगेऽभिप्रावानामुपसर्गाणां विषयनैयत्यं पुरातनैरुक्तम्-उत्तानेन हस्तेन प्रोक्षणं परिकीर्तितम्। न्यञ्चताभ्युक्षणं प्रोक्तं तिरश्चावोक्षणं स्मृतम्॥

  • {अवर्}
  • ऋ (ऋ गतिप्रापणयोः)।
  • ‘यथाऽक्षोऽनुपाक्तः। अवार्च्छत्येवमवारम्’ (तै० सं० २।६।३।३-४)। अवार्च्छति अधोगच्छति। अवारम् इति लुङ्यङि रूपम्। अनुपाक्तोऽकृतोपाञ्जनः।

ओण्

  • {अवौण्}
  • ओण् (ओणृ अपनयने)।
  • पा० ४।१।७ सूत्रे वृत्तौ अवावा अवावरी इत्युदाहरणे। अवावा चौरः।

कर्ण् ।

  • {अवकर्ण् ।}
  • ‘यात्रापहृतचेतस्त्वात्तद्वाक्यमवकर्णयन्’ (बृ० श्लो० सं० ३।७६)। अवकर्णयन् अनाकर्णयन्निव। अवशब्द इह श्रवणक्रियायां न्यूनतामाह। स्थानेऽस्य प्रयोग इति नन्दति नश्चेतः।

कल्

  • {अवकल्}
  • कल् (कल गतौ संख्याने च)।
  • अवकलितो दृष्ट इति धरणिरिति शब्दकल्पद्रुमः।

काश्

  • {अवकाश्}
  • काश् (काशृ दीप्तौ)।
  • ‘वर्णावकाशमपि मे पश्य पाण्डव यादृशम्’ (भा० वि० २०।१५)। वर्णावकाशो दीप्तिसङ्कोच इति नीलकण्ठः। अवरुद्धः काशोऽवकाशः। प्रादिः। अवशब्दः प्रायशोऽसाकल्यमाचष्ट उत्तरपदार्थस्य।
  • ‘उभयतो मांसैः संछन्नं नावकाशते’ (श० ब्रा० ८७।४।२०)। नावकाशते न दृग्विषयतां याति।
  • ‘इहि तिस्रः परावतः…धेना इन्द्रावचाकशत्’ (ऋ० ८।३२।२२)।
  • ‘जनानां धेना अवचाकशद् वृषा’ (ऋ० १०।४३।६)।
  • ‘अन्तरिक्षेण पतति विश्वा रूपावचाकशत्’ (ऋ० १०।१३६।४)। इहोदाहृतिष्ववकाशतिर्दर्शनार्थे प्रयुक्तः। अवश्च दर्शनस्य निम्नाभिमुखतामाह।
  • ‘यानि तस्याः (शम्याः) वकाशानि दिव्यरूपाण्यमन्यत’ (भा० वि० ५।२०)। वकाशानि अवकाशानि सुषिरस्थानानि कोटराख्यानि।

कील्

  • {अवकील्}
  • कील् (कील बन्धने)।
  • ‘क्षुत्पिपासावकीलनम्’ (भा० आश्व० ४५।३)। अवकीलका अन्तः प्रविष्टाः शङ्कव इति नीलकण्ठः। अवशब्दोऽधोगतिमाहेति शोभनोऽस्येह प्रयोगो ग्राही।

कुत्स्

  • {अवकुत्स्}
  • कुत्स् (कुत्स अवक्षेपणे)।
  • ‘कुल्माषांश्चिदाहरेत्यवकुत्सिते’ (नि० १।४।१४)। अवकुत्सिते भृशं कुत्सितेऽ वक्षिप्ते निन्दिते। अवः प्रायेण न्यूनतामाह।

कृत्

  • {अवकृत्}
  • कृत् (कृती छेदने)।
  • ‘एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम्। अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा॥’ (भा० स्त्री० १६।१)। अवकर्तनं युद्धभूमिः।
  • ‘सन्दर्याग्रे स्वभार्यायाः कर्णनासावकर्तनम्’ (राज० ७।८९२)। अवकर्तनं कर्णनासस्यैकदेशस्य कर्तनम्। अवशब्द उत्तरपदार्थस्य क्रियाया असाकल्यमाचष्टे प्रायेणेत्यसकृदुक्तमधस्तात्।
  • ‘इयं वस्त्रावकर्तेन संवीता चारुहासिनी’ (भा० वन० ६२।२२)। वस्त्रावकर्तो वस्त्रखण्डः।
  • ‘कृष्णाजिनग्रीवा एवावकृत्य प्रत्यानह्यति’ (श ० ब्रा० ३।३।४।८)। अवकृत्य=अपच्छिद्य।
  • ‘निजघ्नुः परमेष्वासाः सर्वांस्तान्निशितैः शरैः। आगर्भादवकृन्तन्तः…’ (भा० आदि० १७८।१९-२०)। अवकृपा कोपो भवति। अवशब्दोऽर्थविपर्यासकृत्। कृपाया अपकर्षमभावं वाऽऽह।

कृश्

  • {अवकृश्}
  • कृश् (कृश तनूकरणे)।
  • ‘न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति’ (ऋ० ६।२४।७)। नावकर्शयन्ति ईषदपि न कृशी कुर्वन्ति। अवोऽल्पार्थे।

कृष्

  • {अवकृष्}
  • कृष् (कृष विलेखने)।
  • ‘कच्चिदर्थेष्वसंमूढान् हितकामाननुप्रियान्। नावकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम्’ (भा० सभा० ५।७३)॥ नावकर्षसि=न निष्कासयसि=न बहिष्करोषि। अपकर्षसीति पाठान्तरम्।
  • ‘प्राकृष्यमाणः कलिना सौहृदेनावकृष्यते’ (भा० वन० ६२।२६)। अवकृष्यते=हीयते।
  • ‘प्रतिकर्तुं प्रकृष्टस्य नावकृष्टेन युज्यते’ (रा० ४।१७।४७)। अवकृष्टः=अपकृष्टः=अधरः=नीचैःपदस्थः। प्रकृष्टः उत्तरः। निष्कासितोवकृष्टः स्यादिति कोषः।
  • ‘अवकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः’ (भा० वन० १२।१४)। अवकृष्टोऽधः कृष्ट उत्तरासङ्ग उत्तरीयं यस्य सः। त्यक्तोत्तरीयवस्त्र इत्यर्थः।
  • ‘पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम्’ (मनु० ७।१२६)। अवकृष्टस्य गेहादिसंमार्जकोदकवाहादेः कर्मकरस्येति कुल्लूकः।
  • ‘मामग्रासनतोऽवकृष्टमवशम्’ (मुद्रा० १।१२)। अवकृष्टमधः पातितम्।
  • ‘नखावकृष्टेऽत्यर्थं पिण्डकाः सदाहपाका भवन्ति’ (सूश्रुत० २।२९१।१)। नखावकृष्टे=नखस्याधोभागे।
  • ‘पादावकर्षणसन्धानैः’ (भा० द्रोण० १४२।४५)। पादावकर्षणम्=पादयोर्नीचैः कर्षणम्।
  • ‘न सन्तु यदुवीराणां दारा हारावकर्षिताः’ (पारिजात० १३।४४)। अवतारितहाराः, अवरोपितमौक्तिकमालाः।
  • ‘ध्रुवां चावकृष्टे ऽनुपूर्वम्’ (का० श्रौ० २।८।१३)। अवकृष्टे ऽधोदेशे।

कॄ

  • {अवकॄ}
  • कॄ (कॄ विक्षेपे)।
  • ‘पुनः पुनः कुत्सयन्तं तु विगृह्यादितो ग्रन्थेनावकिरेत्’ (का० सं० विमान० शिष्योप०)।
  • ‘अवाकीर्यत कनीयांसौ रतोमावुपाश्नुत, यज्ञावकीर्णा हि’ (पञ्चविंश० ब्रा०)।
  • ‘ततो वायुर्महाराज दिव्यैर्माल्यैः समन्वितः। अभितः पाण्डवं चित्रैरवचक्रे समन्ततः’ (भा० वन० १७५।१६)। आकीर्णवान्, व्याप्तवानित्यर्थः। किरतेश्चेत्प्रयोगोऽवचकर इति युक्तं स्यात्।
  • ‘महावातसमुद्भूतं यन्मामवकरिष्यति। रजो रमण तन्मन्ये परार्घ्यमिव चन्दनम्’ (रा० २।३०।१३)॥ उक्तोऽर्थः।
  • ‘असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः। स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते’ (भा० पु० ७।१।५९)। अवकीर्यते=क्षरति=नश्यति।
  • ‘(तम्) अवाकिरन् बाललताः प्रसूनैः’ (रघु० २।१०)। तस्योपरि निचिक्षिपुरित्यर्थः।
  • ‘अवाकिरन् शरान्’ (भा० वन० २१।३०)। अवाकिरन्=प्रास्यन्।
  • ‘यो ब्रह्मचार्यवकिरेत्’ (तै० आ० २।१८)। रेतः सिञ्चेत् स्त्रियाम्।
  • ‘वाससाऽऽच्छादयामास माल्येनावचकार च’ (रा० ४।१४।२३)। अवचकार=माल्यं तस्योपरि निचिक्षेप।
  • ‘अवकिरते हस्ती स्वयमेव’ (पा० ३।१।८७)। भुव्यात्मानं प्रसारयतीत्यर्थः।
  • ‘सप्तद्वारावकीर्णां च न वाचमनृतां वदेत्’ (मनु० ६।४८)। चक्षुरादीनि पञ्च बहिरिन्द्रियाणि मनो बुद्धिश्चेति सप्त द्वाराणि, तैर्निक्षिप्तां तद्गृहीतार्थविषयां वाचम् इति कुल्लूकः।
  • ‘अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत्’ (भा० शां० २७८।८)। अवकीर्णः (मूढैः) पांसुभिश्छन्नः, धिक्कृत इत्यर्थः।
  • ‘तीर्थान्य् अवकीर्णानि तपस्विभिः’ (भा०)। अत्रावोऽस्थाने। आङ् इति तु स्थाने स्यात्।
  • ‘किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता’ (शिशु० १६।२७)। अत्र कविना भारतप्रयोगोऽनुकृतः। स एव च दोषः।
  • ‘अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः’ (भा० भीष्म० १२२।२४)। अवकीर्णः=प्रास्तः=(जलेऽन्तर्) निक्षिप्तः।
  • ‘पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा’ (भा० शां० १।२२)। उक्तोऽर्थः।
  • ‘वैश्यायामवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत्’ (गौ० ध० ३।४।३५ इत्यत्रोज्ज्वलायामुद्धृतं शङ्खवचनम्)। अवकीर्णः=सिक्तरेताः।
  • ‘अवकीर्णिव्रतं चरेत्’ (लौ० गृ० १।३३)। अवकरणमवकीर्णं कामतो ब्रह्मचारिणो रेतस उत्सर्गः, सोऽस्यास्तीत्यवकीर्णी। (देवपालष्टीकाकृत्)।
  • ‘अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम्’ (याज्ञ० ३।२८०)। चरमधातोर्विसर्गोऽवकीर्णं तद् यस्यास्ति सोऽवकीर्णी (मिताक्षरा)। वस्तुतश्च अवकीर्णमनेनेत्यवकीर्णी। इष्टादिभ्यश्चेति (५।२।८८) इनिः।
  • ‘गृहस्थो ब्रह्मचारी वा योऽनश्नंस्तु तपश्चरेत्। प्राणाग्निहोत्रलोपेन ह्यवकीर्णी भवेत्तु सः’ (बौ० ध० २।७।१०)॥
  • ‘स्वानि वासांसि… अवकीर्योत्तराणि सभायां समुपाविशन्’ (भा० सभा० ६८।३९)। अवकीर्य=अवरोप्य=अवतार्य।
  • ‘सा मां हिमवतः प्रस्थे सुषुवे मेनकाऽप्सराः। अवकीर्य च मां याता परात्मजमिवासती’ (भा० अदि० ७४।७०)। अवकीर्य=प्रास्य=भुवि निक्षिप्य।
  • ‘अवकर इत्येके’ (गौ० ध० ३।५।१३)। सख्यादिगमनेऽवकरो दोष इत्युज्ज्वला।
  • ‘वर्चस्केऽवस्करः’ (रा० ६।१।१४८)। अवस्करोऽन्नमलम् । तत्सम्बन्धाद् देशोपि तथोच्यते। तथा च प्रयोगः-संमार्जितावस्करया व्यये चामुक्तहस्तयेति।
  • ‘अवाकीर्षत’ (पञ्च० ब्रा० १७।४।३)। अवकीर्णिनो ऽभवन्नित्यर्थः।
  • ‘क्रोधं कृत्वा समभ्येत्य मम श्मश्रूण्यवाकिरत्’ (शिवपु० २।४।१५।३१)। अवाकिरत्। अपाहरत् अवाकृन्तत्।
  • ‘अवकीर्यैव भ्रातृव्यान्’ (तै० ब्रा० १।१।२।६)। अवकीर्य विनाश्य।
  • ‘न तत्पदमुपादेयं कविनाऽवकरो हि सः’ (व्यक्ति० २।६७)। अवकरोऽपभ्रंशः, दुष्टः शब्दः।

क्लृप्

  • {अवक्लृप्}
  • क्लृप् (कृपू सामर्थ्य )।
  • ‘न हि तदवकल्पते यद् ब्रूयादिदमहं सत्यादनृतमुपैमीति’ (श० ब्रा० १।१।१।६)। नावकल्पते न युज्यते।
  • ‘न हि तदवकल्पते यदुत्तरवेदावग्निहोत्रं जुहुयात्’ (श० ब्रा० २।५।२।४८)।
  • ‘तद् यदृक्शो न तदवकल्पते’ (ऐ० ब्रा० ६।२)। न संभवतीत्यर्थः।
  • ‘न वा एतस्यानिष्टक आहुरवकल्पते’ (तै० सं० ५।४।१०।३)। उक्तोऽर्थः।
  • ‘इतश्च न प्रधानस्य प्रवृत्तिरवकल्पते’ (ब्र० सू० शां० भा० २।२।८)। नावकल्पते, न घटते, न युज्यते, न संभवति।
  • ‘तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय। बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतयेऽवकल्पते।’ (भा० पु० ६।१७।२३)॥ अवकल्पते=कल्पते=अलं भवति।
  • ‘नार्थोऽवेन। तां मा यज्ञेऽवकल्पय’ (श० ब्रा० १।८।१।९)। अवकल्पय=उपयुङ्क्ष्व।
  • ‘नाह पुराऽवभृथात् पुनर्दीक्षामवाकल्पयन्’ (देवाः) (श० ब्रा० ३। ४।३।१)। अवाकल्पयन्=प्राकल्पयन्=समपादयन्=निरवर्तयन्।
  • ‘तेभ्यः प्रातः सवनेऽवाचिवाल्पयिषन्’ (ऐ० ब्रा० ३।३०)। अवक्लृप्तिः संभावनेति भट्टभास्करः। समभावयन्नित्यर्थः।
  • ‘जातु तत्रभवान्वृषलं याजयेन्नावकल्पयामि’ (पा० ३।३।१४७)। सूत्रे वृत्तिः। न संभावयामीत्यर्थः।
  • ‘तन्न्वेवानवक्लृप्तं यो मनुष्येष्वनश्नत्सु पूर्वोऽश्नीयादथ किमु यो देवेष्वनश्नत्सु’ (श० ब्रा० २।१।४।२)। अनवक्लृप्तमनुचितम्।
  • ‘अनवक्लृप्ता तस्यैषा भवति’ (अष्टमी सामिधेनी) (श० ब्रा० १।४।१।३७)। अलब्धावकाशा भवतीत्याह।
  • ‘नावकल्प्यमिदं ग्लायेद् यत् कृच्छ्रेषु भवानपि’ (भट्टि० १९।१७)। नावकल्प्यं न संभाव्यम्।
  • ‘ततः कारणभावोपि बीजादेर्नावकल्पते’ (तत्त्वसं० १३)। नावकल्पते नोपपद्यते न संभाव्यते।
  • ‘शूद्रो यज्ञेऽनवक्लृप्तः’ (तै० सं० ७।१।१।६)। अनवक्लृप्तोऽनधिकृतः।

क्रन्द्

  • {अवक्रन्द्}
  • क्रन्द् (क्रदि आह्वाने रोदने च)।
  • ‘अवक्रन्द दक्षिणतो गृहाणाम्’ (ऋ० २।४२।३)। मन्दं वाश्यस्व, अनुच्चै रुवीहि इत्युक्तं भवति।
  • ‘क्रन्दते स्वाहाऽवक्रन्दाय स्वाहा’ (वा० सं० २२।७)। यथाऽन्यत्र तथेह अवशब्दः क्रियाया उत्तरपदोक्ताया असाकल्यमाह।
  • ‘उत्सादेन जिह्वामवक्रन्देन तालुम्’ (तै० सं० ५।७।१२।४३)।

क्रम्

  • {अवक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘न हि परलोकादेत्य सत्त्वं गर्भमवक्रामति’ (चरक० शरीर० ३।९)। अवक्रामति=अवतरति। अवशब्दोऽधोर्थे।
  • ‘जीवस्तु खलु भोः सर्वगतत्वादीश्वरगुणसमन्वितः पूर्वशरीराच्चावक्रामति परशरीरं चोपक्रामति’ (का० सं० शरीर० गर्भाव०)। उक्तपूर्व एवार्थः।
  • ‘वज्रेणैवैनमवक्रामति’ (श० ब्रा० १३।१।२।९)। अभिभवतीत्यर्थः।
  • ‘नमो वरुणायेति वाचयत्यपोऽवक्रमयन्’ (का० श्रौ० १०।८।२३)। यजमानमुदकमध्ये प्रवेशयन्नित्याह।
  • ‘अवक्रामन्तः प्रपदैरमित्रान्’ (ऋ० ६।७५।७)। चरणाग्रैरवताड यन्तः, अधस्पदं कुर्वन्त इत्यर्थः।
  • ‘प्रतूर्वन्नेह्यवक्रामन्नशस्तीः’ (श० ब्रा० ६।३।२७)। अनन्तरोदीरित एवार्थः।
  • ‘तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्। तस्मादियं व्याकृता वागुद्यते’ (तै० सं० ६।४।७।३)।
  • ‘अभिक्रामं सायं जुहोत्यवक्रामं प्रातः’ (आप० श्रौ० ६।३।१०५)। अवक्रम्यावक्रम्य पश्चात् सृत्वेत्यर्थः।
  • ‘वज्रेणैव पाप्मानं भ्रातृव्यमवक्रामति’ (तै० ब्रा० ३।८।४।२)। अवक्रामति अधस्पदं करोति, न्यक् करोति।
  • ‘अग्नाविष्णू मा वामवक्रमिषम्’ (तै० सं० १।१।१२)। अवक्रम्य अधस्पदं कृत्वा मा गामित्याह।
  • ‘मा नो अज्ञाता वृजना दुराध्यो माऽशिवासो अवक्रमुः’ (ऋ० ७।३२।२७)। उक्तोऽर्थः।
  • ‘अथातो गर्भावक्रान्तिशारीरं व्याख्यास्यामः’ (सुश्रुत० शारीर० ३।१)। अवक्रान्तिरुपगमनमवतरणम्।

क्री

  • {अवक्री}
  • क्री (डुक्रीञ् द्रव्यविनिमये)।
  • ‘ब्राह्मणं क्षत्रियं वा सहस्रेण शताश्वेनावक्रीय’ (शां० श्रौ० १६।१०।१०)। उपभोगार्थं भाटकेनादायेत्यर्थः।
  • ‘विक्रयावक्रयाधानयाचितेषु पणान्दश’ (याज्ञ० २।२३८)। अवक्रीणीतेऽनेनेत्यवक्रयः पिण्डक उच्यते (काशिका)।
  • ‘अवक्रयो भाटकम्। अवक्रयः’ (पा० ४।४।५०)। पिण्डको राजग्राह्यं द्रव्यम्।
  • ‘प्रदीप्तमनभिधावतो गृहस्वामिनो द्वादशपणो दण्डः, षट्पणोऽवक्रयिणः’ (कौ० अ० २।३६।२३)। अवक्रयिणो भाटकेन गृहीतगृहस्य।

क्रुश्

  • {अवक्रुश्}
  • क्रुश् (क्रुश आह्वाने रोदने च)।
  • ‘अवक्रुष्टः कोकिलयाऽवकोकिलः।’ (स्वरेण) अधिक्षिप्तो न्यक्कृतः।

क्वथ्

  • {अवक्वथ्}
  • क्वथ् (क्वथे निष्पाके)।
  • अवक्वाथो न्यूनः क्वाथः।

क्षर्

  • {अवक्षर्}
  • क्षर् (क्षर संचलने)
  • ‘अपामञ्जली पूरयित्वा तत्सवितुर्वृणीमह इति पूर्णेनास्य पूर्णमवक्षारयित्वाऽऽसिच्य’ (पाणिं गृह्णीयात्) (आश्व० गृ० १।२०)। निगदव्याख्यातम्।

क्षल्

  • {अवक्षल्}
  • क्षल् (क्षल शौचकर्मणि)।
  • शिरोवक्षालनम्=शिरसोम्भसि निमज्जनम्।

क्षि

  • {अवक्षि}
  • क्षि (क्षि हिंसायाम्)।
  • ‘तां तेन वाऽवक्षिणुयात्’ (लाट्या० श्रौ० ४।३।१६)। अपाकुर्यादित्यर्थः।

क्षिप्

  • {अवक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘अव क्षिपो दिवो अश्मानमुच्चा’ (ऋ० २।३०।५)। अवक्षिप=अधस्तात् प्रेरय=अधः पातय।
  • ‘अव क्षिपन्ति स्रुग्भाण्डान्’ (रा० २।११६।१७)। अवस्कन्दयन्तीत्यर्थः।
  • ‘सात्वताऽभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन्’ (भा० द्रोण० ९७।३६)। अपनीतवन्त इत्यर्थः।
  • ‘अयाज्ययाजनाध्यापने नियुक्तममृष्यमाणं राजाऽवक्षिपेत्’ (कौ० अ० १।१०)। धिक्कुर्यादित्यर्थः।
  • ‘अवाक्षिपद् वासुदेवम्’ (भा० सभा० २६।३२)। अवामानयद् अध्यक्षिपदित्यर्थः।
  • ‘शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्’ (भा० आदि० १८।१५)। अधोऽक्षिपदित्यर्थः।
  • ‘शृतं कृण्वन्त इह मावचिक्षिपन्’ (अथर्व० १८।४।१२)। अवक्षिप्तमवकीर्णं मा स्म कुर्वन्नित्यर्थः।
  • ‘अवक्षिपन्नर्क उल्कामिव द्योः’ (ऋ० १०।६८।४)। अवक्षिपन् भ्रंशयन्, अधःपातयन् इत्यर्थः।
  • ‘अवक्षेपणे कन्’ (पा० ५।३।९५)। अवक्षेपणं कुत्सनम्। गन्धनावक्षेपणादिसूत्रे (१।३।३२) ऽवक्षेपणं भर्त्सनम् इति वृत्तिः।
  • ‘को ह्यक्षयप्रसादानां सुहृदामल्पतोषिणाम्। वृत्तिमर्हत्यवक्षेप्तुं त्वदन्यः कुरुसत्तम’ (भा० अनु० ५९।२८)। अवक्षेप्तुं कल्पयितुं विधातुं स्थिरीकर्तुमित्यनर्थान्तरम्।
  • ‘अवक्षिप्तावधूतानामसीनां वीरबाहुभिः’ (भा० भीष्म० ४६।१७)। अवक्षिप्तानामधोमुखं पातितानाम्।
  • ‘सम्भग्नस्फुटितगात्रमवक्षिप्तं विद्यात्’ (कौ० अ० ४।६)। अवक्षिप्तम् अधः पातितम्।
  • ‘सूक्ष्मवस्त्राण्यवक्षिप्य मुनिवस्त्राण्यवस्त ह’ (रा० २३७।७)। अवक्षिप्य=अवतार्य।
  • ‘को ह्यक्षयप्रसादानां सुहृदामल्पतोषिणाम्। वृत्तिमर्हत्यवक्षेप्तुं त्वदन्यः कुरुसत्तम’ (भा० अनु० ५९।२८)॥ अवक्षेप्तुं समर्पयितुम् इति नीलकण्ठः।

क्षु

  • {अवक्षु}
  • क्षु (टुक्षु शब्दे)।
  • ‘पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम्’ (मनु० ५।१२५)। अवक्षुतम्=उपरिकृतक्षुतम्। उपसर्गवशात्सकर्मकत्वम्।
  • ‘अवक्षुतावरुदितं तथा श्राद्धे च वर्जयेत्’ (भा० अनु० ९१।४१)।
  • ‘द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम्’ (मनु० ४।२१३)। उक्तपूर्व एवार्थः। न भुञ्जीतेत्यनुषङ्गः।

क्षुद्

  • {अवक्षुद्}
  • क्षुद् (क्षुदिर् सम्पेषणे)।
  • ‘तण्डुलानवक्षुद्य’ (सुश्रुत० १।१६३।१३)। अवक्षुद्य अवहत्य। अवमृद्य सम्पिष्य।

क्ष्णु

  • {अवक्ष्णु}
  • क्ष्णु (क्ष्णु तेजने)।
  • ‘ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित्’ (ऋ० १०।२३।२)। अवक्ष्णौमि=प्रमार्ज्मि।

खण्ड्

  • {अवखण्ड्}
  • खण्ड् (खडि मन्थे, खडि भेदने)।
  • ‘विद्यत्यवखण्डयति विनाशयति पाप्मनः’ (बृ० उ० ५।७ इत्यत्र शां० भा०)।
  • ‘अर्धयाममात्रावखण्डितायां विभावर्याम्’ (काद०)। अवखण्डिता=अतीता।
  • ‘अहर्निशासंस्थां यथावदवखण्डिताम्’ (मार्क० पु० १६।७०)। मध्ये त्रुटितां भग्नाम् इत्याह।

ख्या

  • {अवख्या}
  • ख्या (ख्या प्रकथने)।
  • ‘आदित्या अव हि ख्यताधि कूलादिव स्पशः’ (ऋ० ८।४७।११)। (यूयम्) अवख्यत=अधःपश्यत।
  • ‘तं ते दुश्चक्षा माऽवख्यन्’ (तै० सं० ३।२।१०।२)। मा दर्शन्नित्यर्थः।
  • ‘तद्धैके यजमानमवख्यापयन्ति’ (आज्यम्) (श० ब्रा० १।३।१।२६)। एकेषां दर्शनं यजमान आज्यमवेक्षेत न ऋत्विग् इत्युक्तं भवति।

गण्

  • {अवगण्}
  • गण् (गण संख्याने)।
  • ‘पर्वतीय इति माऽवजीगणः’ (कि० १३।६७)। ममानादरं मा कार्षीरित्यर्थः।
  • ‘अवगणितखलीनाकर्षणः’ (पञ्चत० ५)। अवगणितमवधीरितमुपेक्षितं खलीनस्याकर्षणं येन सः।
  • ‘कुम्भपातमात्रगतजीवितं तं नकुलं तत्रैवावगणय्य’ (पञ्चत०)। सावहेलं तत्रैव विहायेत्यर्थः।

गम्

  • {अवगम्}
  • (गम्लृ गतौ)।
  • ‘अञ्जः समुद्रमवजग्मुरापः’ (ऋ० १।३२।२, अथर्व० २।५।६)। अवाङ्मुखाः सत्यः समुद्रं गच्छन्त्याप इत्याह। नोचैर्गतयः सत्यः समुद्रमाविशन्तीति वार्थः।
  • ‘हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः’ (ऋ० ८।३५।७)। सोममवगच्छथः=अवतीर्य सोममुपेथः।
  • ‘नैनं घ्नन्ति पर्यायिणो न सन्नाँ अवगच्छति’ (अथर्व० ६।७६।४)। अवगच्छति=नीचैर्गच्छति=नमति।
  • ‘विश्वेह देवौ सवनाऽव गच्छतम्’ (ऋ० ८।३५।४)। विश्वा सवनान्यभिवर्तेथाम् इत्याह।
  • ‘(यः) बृहस्पतिं मनसाऽवगच्छात्’ (अथर्व० ४।१।७)। अवगच्छात्=उपनमेत्। उभे एवं विशं च राष्ट्रं चावगच्छति। अवगच्छति=अधिगच्छति।
  • ‘अव शादेषु गच्छति (वाजी)’ (ऋ० ९।१५।६)। शादेषु नवतृणेष्ववाङ्मुखः सन् गच्छतीत्याह।
  • ‘कुतो युद्धं जातु नरोऽवगच्छेत्’ (भा० उ० २६।३)। अवगच्छेत्=अभ्युपेयात्=आतिष्ठेत्। युद्धभूमिमवतरेदित्यक्षरार्थः।
  • ‘यत्रतद्वपां वा हवींषि वा वयांसि त्रिपदं चतुष्पदं वाऽभिमृश्यावगच्छेयुः’ (कौ० सू० १२३)। उपर्यवपतेयुरित्यर्थः।
  • ‘कथ शान्तमित्यभिहिते श्रान्त इत्यवगच्छति मूर्खः’ (मृच्छक०)। अवगच्छति=जानाति।
  • ‘तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्’ (गीता० १०।४१)। उक्तोऽर्थः।
  • ‘तदैव ध्यानादवगतोऽस्मि’ (शा० ७)। कर्तरि क्तः। अवगतवानस्मि।
  • ‘अपाञ्चमिन्द्र तं कृत्वाऽथेममिहाव गमय’ (अथर्व० ३।३।६) इतोऽभिवर्तयेत्यर्थः।
  • ‘आदित्या विश्वमवगमयन्ति।’ (तै० सं० २।३।१।५)। अवगमयन्ति प्रापयन्ति। विरुद्धार्थमवगमयति। बोधयतीत्यर्थः।
  • ‘कतमेन दिग्विभागेनावगन्तव्यम्’ (तन्त्रा० २।२)। इहावशब्दोऽस्थाने। गन्तव्यमित्येव साधु।
  • ‘न भवति महिमा विना विपत्तेरवगमयन्निव पश्यतः पयोधिः’ (भट्टि० १०।७२)। अवगमयन्=बोधयन्।
  • ‘यदि कामयेत योऽवगतः सोऽपरुध्यताम्’ (तै० सं० ६।६।५)। अवगतः प्राप्तैश्वर्यः। अपरुध्यताम् ऐश्वर्याद् म्रश्यताम् इति सायणः।

गर्ह्

  • {अवगर्ह्}
  • गर्ह् (गर्ह गल्ह कुत्सायाम्)।
  • ‘कृपणं चास्थिरं बाल्ये वृद्धभावेऽवगर्हितम्’ (रा० २।२१।१९)। अवगर्हितं बलवन्निन्दितम्। इहावशब्दो गर्हायाः पूर्णतामाह। उत्तरपदार्थः पूर्वपदार्थमसाकल्यमनवकाशयति।

गल्

  • {अवगल्}
  • गल् (लौकिकोऽयं धातुरवस्रंसने स्यन्दने वा वर्तते)।
  • ‘सौवर्णं वलयमवागलत्कराग्रात्’ (शिशु० ८।३४)। अवास्रंसत=अभ्रंशत।

गाह्

  • {अवगाह्}
  • गाह् (गाहू अवलोडने)।
  • ‘अस्यां नद्यां सुपुण्यायां यथेष्टम्…अवगाह्यताम्’ (भा० वन० ९९।३३)। अवतीर्य स्नायताम् इत्यर्थः।
  • ‘स्वप्नेऽवगाहतेऽत्यर्थं जलम्’ (याज्ञ० १।२७२)। अवगाहते=निमज्जति।
  • ‘सम्प्राप्य पण्डितः कृच्छ्रं प्रज्ञामेवावगाहते’ (रा० ३।६८।५३)। विचारमग्नो भवति, कृच्छ्रवारणोपायं चिन्तयतीत्याह।
  • ‘वारिकोष्ठेऽवगाहयेत्’ (सूश्रत० २।५५०।११)।
  • ‘जलावगाहक्षणमात्रशान्ता’ (रघु० ५।४७)। जलावगाहः=जले निमज्जनम्।
  • ‘सकलशास्त्रावगाहगम्भीरबुद्धिः’ (काद०)। अवगाहः=(शास्त्रे) गभीरप्रवेशः।
  • ‘उपनाहोऽवगाहश्च परिषेकस्तथाष्टमः’ (का० सं० २३।२६)। अवगाहः=स्वेदभेदः।
  • ‘अवगाढा च पीता च (गङ्गा) पुनात्या सप्तमं कुलम्’ (भा० वन० ८५।९३)। अवगाढा प्रवेशपूर्वकं कृतस्नाना। अवगाढः प्रदोषः (अवि० ३)। अवतीर्ण इत्यर्थः।
  • ‘सलिलमवगाढो मुनिजनः’ (स्वप्न० १।१६)। अवतीर्णः, निमग्नः।
  • ‘अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्चात्’ (पदपङ्क्तिः) (शा० ३।८)। अवगाढा मग्ना, न्यग्भावं गता, न्यक्ना।
  • ‘अवगाढं भवत्यग्रे विपरीतं तु योषितः।’ (बृ० श्लो० सं० ९।२४)। उक्तोऽर्थः।
  • ‘अवगाढः सुदुष्पारं शोकसागरमब्रवीत्’ (रा० २।६०।२७)। अवगाढः प्रविष्टः=अवतीर्णः=मग्नः।
  • ‘अमृतह्रदमिवावगाढोस्मि’ (शा० ७)।
  • ‘जलावगाढस्य वनद्विपस्य’ (मृच्छ० २)। सुदूरमवगाढया।
  • ‘शक्त्या निर्भिन्नहृदयः’ (रा० ६।८०।३७)। सुदूरमवगाढया=सुदूरमन्तः प्रविष्टया।
  • ‘अवगाढा द्विषन्तो मे सुखी वातोऽभिवाति माम्’ (भा० वि० ६८। ७५)। अवगाढाः पराभूताः।
  • ‘पूर्वापरौ तोयनिधी वगाह्य’ (कु० १।१)। वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोरिति भागुरिमतेनावस्याकारलोपः।
  • ‘तमोपहन्त्रीं तमसां वगाह्य’ (रघु० ७।४०)। तमसां नदीमवगाह्य तत्र स्नात्वेत्यर्थः।
  • ‘विमानशृङ्गाण्यवगाहमानः’ (घोषः) (कु० ७।४०)। आक्रामन्, व्याप्नुवन्नित्यर्थः।
  • ‘सूत्रेणानवगाढमनतिशिथिलं च बद्ध्वा।’ (सुश्रुत० १।१६।१४)। अनवगाढं नातिदृढम्।

गुण्ठ्

  • {अवगुण्ठ्}
  • गुण्ठ् (गुठि इत्यपरे, वेष्टनेऽर्थे )।
  • ‘पिचुप्लोतयोरन्यतरेणावगुण्ठ्य’ (सुश्रुत० १।५७।४)। वेष्टयित्वेत्यर्थः।
  • ‘रजनीतिमिरावगुण्ठिते पुरमार्गे’ (कु० ४। ११)।
  • ‘तिमिरावगुण्ठिते=तमसाऽऽच्छादिते। पांशुपादावगुण्ठिताः’ (भा० वन० २००।३४)। पांसुभिरवकीर्ण चरणा इति विवक्षति।

गुर्

  • {अवगुर्}
  • गुर् (गुरी उद्यमने)।
  • ‘न कदाचिद् द्विजे तस्माद् विद्वानवगुरेदपि। न ताडयेत्तृणेनापि…’ (मनु० ४।१६९)॥ अवगुरेत्=हननेच्छया दण्डमुद्यच्छेत्।
  • ‘अवगूर्य त्वब्दशतं सहस्रमभिहत्य च। जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते’ (मनु० ११।२०६)॥ उदितोऽर्थः।
  • ‘ब्राह्मणायावगुर्यैव’ (मनु० ४।१६५)।

गुह्

  • {अवगुह्}
  • गुह् (गुहू संवरणे)।
  • ‘या ममोद्विजते नित्यं सा मामद्यावगूहते’ (पञ्चत० ४)। अवगूहते=उपगूहते=आश्लिष्यति।
  • ‘वृद्धमिव पतिं प्रमदा नेच्छत्यवगूहितुं लक्ष्मीः’ (तन्त्रा० २।३।९०)। अवगूहितुम् उपगूहितुम्।

गॄ

  • {अवगॄ}
  • गॄ (गॄ निगरणे)
  • ‘एवानेवाव सागरत्’ (अथर्व० १६।७।४)। को रोमन्थो नाम।
  • ‘उद्गीर्णस्य वा अवगीर्णस्य वा मन्थो रोमन्थः’ (३।१।१५ सूत्रभाष्ये)। अवगीर्णमपादानप्रदेशान्निःसृतं रोमन्थाख्यं द्रव्यं वर्तयति (काशिका)।
  • ‘अवगिरते ग्रासम्’ (पा० १।३।५१ सूत्र वृत्तिः)। निगिरतीत्यर्थः।
  • ‘अवगिरमाणैश्च पिशाचैर्मांसशोणितम्’ (भट्टि० ८।३०)। अवगिरमाणैः=निगिलद्भिः।
  • ‘हृतापि ते हं न जरां गमिष्ये आज्यं यथा मक्षिकयाऽवगीर्णम्’ (रा० ३।४७।४८)। अवगीर्णं निगीर्णम् अभ्यवहृतम्।
  • ‘या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी। परहिंसात्मिका या च न तामवगिरेद् बुधः’ (अमरु० ७७ इत्यत्रार्जुनवर्मदेवकृतायां टीकायाम्)। नावगिरेत् नास्वादेत।

गै

  • {अवगै}
  • गै (के गै शब्दे)।
  • ‘अवगीतः ख्यातगर्हण इत्यमरः।’ अवगीतं जन्ये स्याद् इति च सः।
  • ‘अवगीतां गमिते दशामिमाम्’ (कि० २।७) अवगीताम्=निन्दिताम्।
  • ‘प्रकृत्या कल्याणी मतिरनवगीतः परिचयः’ (उत्तर० २।२)। अनवगीतः=अनवद्यः।
  • ‘अवगीतमिदं रूपम्’ (प्रतिज्ञा० ४।८)। निन्दितमित्यर्थः।
  • ‘अवगीतमिदं सर्वमावाभ्यां भक्तकाननम्’ (हरि० २।८।९)। भुक्तकाननमिति पाठान्तरम्।

ग्रह्

  • {अवग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘दासेति दक्षिणानवगृह्णीयात्’ (रश्मीन्) (लाट्या० श्रौ० २।८।१३)। शिथिली कुर्यादित्याह। नृमणाः। पितृयाणम्।
  • ‘अत्र हि ऋकारोऽवगृह्यते’ (पा० ८।४।२६ सूत्रे वृत्तौ)। अवगृह्यते पृथक् क्रियते। अवगीतं नाशितमिति नीलकण्ठः। सोऽयमुपचारः।
  • ‘वातमूत्रपुरीषरेतांस्यवगृह्णाति’ (चरक० सू० २६।४३)। बद्धानि करोतीत्यर्थः।
  • ‘स्वामिनमवशमवगृह्णन्ति’ (दशकु०)। वशे कुर्वन्तीत्यर्थः।
  • ‘अनुग्रहावग्रहयोर्विधाता’ (शिशु० १।७१)। अवग्रहो निग्रहः।
  • ‘संसारावग्रहः’ (मालती०)। संसाररूपो बन्धः।
  • ‘प्रसह्य रक्षोभिरवग्रहं च’ (रा०)। अवग्रहो बन्धः।
  • ‘परस्परावग्रहनिर्विकारौ’ (माल० ५।१४)। अवग्रहो निरोधः संयमः।
  • ‘वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम्’ (रघ० १।६२)। अवग्रहो वर्षप्रतिबन्धः।
  • ‘सर्वशब्दोप्योदनार्थावग्रहेण प्रवृत्त ओदनशब्दोपि सर्वशब्दार्थावग्रहेण’ (पा० १।१।२७ सूत्रभाष्ये कैयटः)। अवग्रहः क्रोडीकार इत्युद्द्योतः।
  • ‘अवग्राहो ललाटम् (अमरः)। अवगृह्यतेङ्कुशेनेति व्युत्पत्तेः। अवगृह्यते=पाट्यते। अयं च करिमस्तक एव नियतोऽनन्यविषयः।**
  • ‘योऽवग्रहोऽहं ममेत्येतस्मिन्योजितस्त्वया’ (भा० पु० ३।२५।१०)। अवग्रहो दुराग्रहो निर्बन्धः।
  • ‘देवनीथं शंसति पदावग्राहम्’ (ऐ० ब्रा० ६।३५)। पदान्यवगृह्येत्यर्थः। पदावग्राहमिति णमुलन्तम्।
  • ‘यदवग्राहमनुब्रूयाज्जीमूतवर्षीह प्रजाभ्यः पर्जन्यः स्यात्’ (ऐ० ब्रा०)। अवग्राहं विच्छिद्येत्यनर्थान्तरम्। जीमूतोल्पजलो घन इति षड्गुरुशिष्यः। पर्वत इति सायणः। अनुपयुक्ते पर्वत एव वर्षति न तूपयुक्तेषु सस्येष्वित्यपि सः।
  • ‘मन्दोपि नाम न महानवगृह्य साध्यः’ (शिशु० ५।४९)। अवगृह्य=दण्डयित्वा। स्थिरं विरोधमास्थाय वेत्यर्थः स्यात्।
  • ‘गान्धारीं विदुरं चैव समाभाष्यावगृह्य च’ (भा० आश्रम० १८।४)। ‘व्याधिर्मनोवपुरवग्रहः’ (अग्निपु० ३३९।३३)।
  • ‘अवगृह्य पादाभ्याम्’ (सुश्रुत० १।१०१।५)। अपबाध्य, निपीड्येति वा।
  • ‘अवग्राहस्ते वृषल भूयात्’ (पा० ३।३।४५)। अत्र वृत्तावुदाहरणम्। अवग्राहो ग्रहोऽभिभवो वा। आक्रोशे विषये प्रयोगः, नत्वन्यत्र। गृहावग्रहणी देहलीत्यमरः। अवगृह्यतेऽनया द्वारशाखेति स्वामी। मर्दितां समितां क्षीरनारिकेलघृतादिभिः। अवग्राह्य (श० क० द्रु०)।
  • ‘द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यामवगृह्यते, विगृहीताभ्यां विनाश्यते’ (कौ० अ० १।१५।३७)। अवगृह्यते वशे क्रियते, वशंवदतां नीयते।
  • ‘पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः’ (चरक० चि० अ० २१)। अवगृह्णाति पीडयति।
  • ‘तत्रापि क्रुद्धेनार्तेन मत्तेनोन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः’ (कौ० अ० ३।१।१३)। अवगृहीत उपरुद्धः, प्रतिरुद्धप्रसरः।
  • ‘इक्ष्वाकुसिंहावगृहीतदेहः’ (रा० ६।१०९।१०)। अवगृहीतदेहः=दारितशरीरः।
  • ‘ते ह्यस्य सर्वस्वमवगृह्य स्वामिवत् प्रचरन्ति’ (कौ० अ० १।८।२१)। अवगृह्य वशे कृत्वा।
  • ‘मन्दोपि नाम न महानवगृह्य साध्यः’ (शिशु० ५।४९)। अवगृह्य निगृह्य।
  • ‘घृतस्यावग्रहं चक्रे दिनानि कतिचिच्चिकित्सकः’ (बृ० क० को० ५९।१२)। अवग्रहस्त्यागः, परिहारः।
  • ‘…मधुमद्यपलस्य च। अवग्रहं विधायासौ’ (बृ० क० को० ५९।२०)।
  • ‘अवग्रहितसस्यश्रीरुल्ललास यथाम्बुदात्’ (स्कन्द पु० का० ४।४९।४४)। जातवर्षप्रतिबन्धं यत् सस्यम्। अवग्रहोऽवग्राहः संजातोऽस्य। इतच्।
  • ‘दासानो दक्षिणानवगृहाण’ (पञ्च० ब्रा० १।७।९)। अवगृहाण नियच्छ। दासानुर्देवविशेष इति सायणः।

ग्लै

  • {अवग्लै}
  • ग्लै (ग्लै हर्षक्षये)।
  • ‘नेमव ग्लापयन्ति’ (ऋ० १।१६४।१०)। नैनं ग्लानं श्रान्तं कुर्वन्ति।

घट्ट्

  • {अवघट्ट्}
  • घट्ट् (घट्ट चलने)।
  • ‘द्वाराणि समुपावृण्वन् कपाटान्यवघट्टयन्’ (रा० ५।१५।१०)। परतः प्रैरयन् पराणुदन्।
  • ‘जलौकोव्रणान्मधुनावघट्टयेत्’ (सुश्रुत० १।४२।१७)। लिम्पेत्, उपदिह्यात्।
  • ‘दर्व्या सततमवघट्टयन्’ (चरक० विमान० ७।३०)। चलयन्, क्षोभयन् इत्यर्थः।
  • ‘शिरोभिश्चावघट्टनैः’ (भा० वि० १३।२९)। अन्योन्यमवताडनैरित्यर्थः।
  • ‘सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः’ (भा० स्त्री० १६।३६)। उक्तोऽर्थः।

घुष्

  • {अवघुष्}
  • घुष् (घुषिर् अवशब्दने, शब्दे इत्यन्ये)।
  • ‘अवघुष्टे समाजे च’ (भा० आदि० १३४।१०)। वीरसमूहे डिण्डीरवशब्देनाहूते सति। अवघुष्टान्नम्। अस्ति कश्चिदिह भोजनेनार्थीत्येवमुच्चैर्घोषं कृत्वा यद् दीयते तत्तथोक्तम्।
  • अस्ति चात्रार्थे भारते प्रयोग:– ‘अवघुष्टं च यद् भुक्तम्’ (भा० अनु० २३।५)।

घृष्

  • {अवघृष्}
  • घृष् (घृषु सङ्घर्षे)।
  • ‘मृदुना सलिलेन खन्यमानान्यवघृष्यन्ति गिरेरपि स्थलानि। उपजापविदां च कर्णजापैः किमु चेतांसि मृदूनि मानवानाम्’ (पञ्चत० १।३३७)॥ अवखातानि भवन्तीत्याह।
  • ‘सलिलैः शुद्धैरेतेषां गोबालैश्चावघर्षणम्।’ (याज्ञ० ३।६०)। अवघर्षणं मर्दनपूर्वकं शोधनम्।

घ्रा

  • {अवघ्रा}
  • घ्रा (घ्रा गन्धोपादाने)।
  • ‘बृहस्पतेर्भागमवजिघ्रत’ (वा० सं० ९।९, १९)। आघ्राणं कुरुतेत्यर्थः। अदूरे वाऽवशब्दः। अदूराज्जिघ्रतेत्याह।
  • ‘स्त्रियै मूर्धानमेवावजिघ्रति’ (पा० गृ० १।१८)। मुखेन स्पृशति, चुम्बति वा।
  • ‘मूर्धनि त्रिरवघ्राय’ (आश्व० गृ०)।
  • ‘अवघ्रातश्च मूर्धनि’ (रा० २।२०।२१)।
  • ‘मनुष्यैरवघ्रातमन्यैर्वाऽमेध्यैः’ (आप० ध० १।५।१७।५)। अवघ्रातमदूराद् घ्रातमिति वृत्तिः।
  • ‘समशो वा प्रतिविभज्यावघ्रेण भक्षयित्वा’ (आप० श्रौ० ८।४।१६।३)। अवघ्रोऽवघ्राणम्। उक्तोऽर्थः।
  • ‘अवघ्रेयमेव, तन्नेव प्राशितं नेवाप्राशितम्’ (तै० ब्रा० १।३१०।७)। अवघ्रेयं घ्रेयं घ्रातव्यम्। नावशब्दो विशेषमर्थेकरोति।

चक्ष्

  • {अवचक्ष्}
  • चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
  • ‘अव चष्ट ऋचीषमोऽवताँ इव मानुषः’ (ऋ० ८।६२।६)। अवचष्टे=दृशमवपातयति। अवोऽधस्तादर्थे।
  • ‘एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे’ (ऋ० ४।५८।५)। इहावशब्दो नार्थे विशेषं करोति। वेदे चक्षिङ् दर्शने वर्तते प्रायेण, तस्य ख्याञादेशोऽपि।

चर्

  • {अवचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘अव द्वके अव त्रिका दिवश्चरन्ति भेषजा’ (ऋ० १०।५९।९)। अवचरन्ति=अवतरन्ति=अवरोहन्ति।
  • ‘अव मा पापमन् इति तितउनि पूल्यान्यवसिच्य… पुरोडाशसंवर्तांश्चतुष्पथेऽप्यवचरति’ (कौ० सू० ३०।१८)। अवचरति=न्यस्यति=निधत्ते।
  • ‘युक्त्याऽवचारयेत् स्नेहं भक्ष्याद्यन्नेन वस्तिभि’ (अष्टाङ्ग० सूत्र० १६।१४)। अवचारयेत्=अन्तर्गमयेत्।
  • ‘शस्त्रेऽवचारिते वाग्भिः शीताम्भोभिश्च रोगिणम्। आश्वास्य…’ (अष्टाङ्ग० सूत्र० २९।२४)॥ अवचारिते=अन्तर्न्यस्ते=प्रयुक्ते।
  • ‘विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्। न सिध्यत्यौषधं यस्य…’ (चरक० इन्द्रिय० १२।७)॥ अवचारितम् आसिक्तम् प्रयुक्तम्।
  • ‘कस्यां कस्यामवस्थायां का वाऽस्यावचारणा’ (का० सं० खिल० रक्त० श्लो० १२)। अवचारणा=उपचारः। सुश्रुते (१।३१।११) प्यत्रार्थे प्रयोगः। स तत्रैव द्रष्टव्यः।
  • ‘तुरगावचरं स बोधयित्वा’ (बुद्ध० ५।६८)। अवचरः परिचारकः। सादीत्यर्थः।
  • ‘कर्णाश्वावित्तदब्रवीद् गिरेरवचरन्तिका’ (अथर्व० ५।१३।९)। अवतरन्तीत्यर्थः।
  • ‘कथमपि तालावचरचारणचरणक्षोभं चक्षमे क्षमा’ (हर्ष० ४)। तालैरवचरति न्यञ्चतीति तालावचरश्चारणचरणः। अवचरो गोचरो विषयोपि।
  • ‘तदनु यज्ञं रक्षांस्यवचरन्ति’ (तै० सं० ६।४।२।७)। योऽन्तः प्रविशन्तीत्यर्थः।
  • ‘रसवन्ति च भोज्यानि यथास्वमवचारयेत्’ (सुश्रुत० उत्तर० ४७।३५)। अवचारयेत् अभ्यवहारयेत्।
  • ‘न च पर्युषितं लेपं कदाचिदवचारयेत्’ (सुश्रुत० सूत्र० १७।८)। नावचारयेत् उपयोगं न नयेत्।
  • ‘परिषेकान् प्रदेहांश्च सुशीतान् अवचारयेत्’ (सुश्रुत० कल्प० ५।११)। अवचारयेत् प्रयोजयेत्, कारयेत्।
  • ‘वारणो यज्ञावचरः’ ( ) अवचरो विषयः, गोचरः।
  • ‘सर्वे च तालावचराः’ (रा० २।३।१७)। तालैरवचरन्ति जीवन्ति ये ते।
  • ‘तथैव तालावचरास्तथैव नटनर्तकाः’ (रा० ७।९१।१५)। तालावचराः तालं गृहीत्वाऽवचराः (इति तिलकः)।
  • ‘कर्णा श्वावित्तदब्रवीत् गिरेरवचरन्तिका’ (अथर्व० ५।१३।९)। अवचरन्तिका अवचरन्ती अवतरन्ती।
  • ‘यदनुपरिक्रामं जुहुयादन्तरवचारिणं रुद्रं कुर्यात्’ (तै० सं० ५।४।३।१२)। अवचारिणम्=अन्तः प्रविश्य चरन्तम् इत्यर्थो भाति।

चल्

  • {अवचल्}
  • चल् (चल कम्पने)।
  • ‘अन्योपि तन्मिषं लब्ध्वा तस्य पार्श्वादवाचलत्’ (राज० ७।१५९६)। अवाचलत्=अपासरत्।

चि

  • {अवचि}
  • चि (चिञ् चयने)।
  • ‘यथा वाचमवचिन्वन्ति सन्तः’ (भा० वन० १६४।२६)। सन्तः सदसद्विवेचनचणाः परीक्षन्त इत्याह।
  • ‘हस्त्यश्वावचयश्चैव’ (हरि० २।७९।२४)। अवचयः समूहः।
  • ‘अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी’ (ऋ० ३।६१।४)। अवचिन्वती स्यूम (वासः, परिधानीयम्)।=प्रतिसंहरन्ती विवृण्वतीति केचित्साम्प्रतिकाः। सोऽयं शब्दमर्यादया दुर्लभोर्थः। न ह्यवचयः क्वचित्प्रतिसंहारं विवरणं आह। स्यूमेव वस्त्रमिव विस्तृतं तमोऽवचिन्वती अवचयं अपक्षयं नयन्तीति सायणः। हृदयङ्गममिदं वाग्व्यहारविदो भाष्यकारस्य व्याख्यानम्। न ह्यशक्यार्थे शक्तिः कल्पनीया शब्दानाम् इति स्मरणीयमधुनातनैः।

चूर्णय्

  • {अवचूर्णय्}
  • चूर्णय् (नामधातुः चूर्णात्प्रातिपदिकाण्णिच्)।
  • ‘चूर्णैरवध्वंसयत्यवचूर्णयति। चूर्णं व्रणादेरुपरि क्षिपति येन तत्पिहितं भवति।’

छद्

  • {अवच्छद्}
  • छद् (छद अपवारणे)।
  • ‘शुक्लेन वस्त्रपट्टेनावच्छाद्य’ (चरक० विमान० ७।३०)। अवच्छाद्य प्रच्छाद्य।
  • ‘शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः’ (वा० प० २।३१६)। अवच्छेदो निश्चयः तदभावोऽनवच्छेदः=इदमित्थम्भावस्याज्ञानम्।
  • ‘दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये। स्वानुभूत्येकमानाय नमः शान्ताय तेजसे’ (भर्तृ० २।१)॥ अनवच्छिन्नः=अपरिच्छिन्नः=अपरिमितः=अनवधिः। घटत्वावच्छिन्नो घटः। घटत्वेन धर्मेण पटादिभ्यो भिन्न इत्यर्थः।

छो

  • {अवच्छो}
  • छो (छो छेदने)।
  • ‘अरुर्वै पुरुषोऽवच्छितोऽनरुरेवैतद् भवति यदभ्यङ्क्ते’ (श० ब्रा० ३।१।३।७)। अवच्छितः=अवच्छातः=त्वग्रहितः।
  • ‘अग्नौ सक्तिर्ब्रह्मघ्नस्त्रिरवच्छातस्य’ (गौ० ध० ३।४।२)। अवच्छातः=भक्तत्यागेन कृशीभूतः।

जि

  • {अवजि}
  • जि (जि जये, जय उत्कर्षप्राप्तिः, जि ज्रि अभिभवे)।
  • ‘अस्मिन्नेव वने पार्थो हृतां कृष्णामवाजयत्’ (भा० वि० ४९।७)। अवाजयत्=युद्धेनावजित्य प्रतिलब्धवान्।
  • ‘हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान्’ (भा० शां० ४।१९)। अवजिग्ये=पराजिग्ये=अभिबभूव।
  • ‘अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते रिपून्’ (भा० वि० ४५।६)। हेलया जेष्यामीति नीलकण्ठः। इदं च युक्तरूपम्। अवोऽवक्षेपणं द्योतयति।
  • ‘गृहस्थश्चावजेष्यामि मृत्युम्’ (भा० अनु० २।४१)। उदितपूर्व एवार्थः।
  • ‘त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा’ (मनु० ११।८०)। अवजित्य=युद्धेन प्रतिलभ्य।
  • ‘कदाचिदेकसीमान्तगोत्रजावजयाय सः’ (कथा० ५३।२०)। अवजयो जयः। अनर्थकोऽवशब्दो यथा विजये विः।

ज्ञा

  • {अवज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्’ (गीता ९।११)। अवजानन्ति=अवहेलयन्ति। अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् । अवज्ञानमवमानः, अनादरः।
  • ‘अल्पसत्त्वेषु धीराणामवज्ञैव हि शोभते’ (कथा० १८।१३१)। अनादर उपेक्षेत्यर्थः।
  • ‘आत्मन्यवज्ञां शिथिली चकार’ (रघु० २।४१)। अवज्ञा=लाघवबुद्धिः।
  • ‘ये नाम केचिदिह नः प्रथयन्त्यवज्ञाम्’ (मालती० १।६)। अवज्ञा=कुत्सा। अतिपरिचयादवज्ञा भवति। अवज्ञा तिरस्कारः।
  • ‘अवजानन्नहं मोहाद् बालोऽयमिति राघवम्’ (रा० ३।३८।१८)। अवजानन् अवमानयन्।

डी

  • {अवडी}
  • डी (डीङ् विहायसा गतौ)।
  • ‘अवरोहोऽवडीनं स्यात्’ (भा० कर्ण० ४१।२८)। इदं निगदव्याख्यातम्।
  • ‘(पातानां शतम्-) उड्डीनमवडीनं च प्रडीनं डीनमेव च’ (भा० कर्ण० ४१।२६-२८)।

तंस्

  • {अवतंस्}
  • तंस् (तसि भूष अलङ्करणे)।
  • ‘दुष्टबुद्धिरयं पापः सद्यः शूलेऽवतंस्यताम्’ (तन्त्रा० १।१६)। अवतंस्यताम्=बध्यताम्। अवपूर्वस्यैव प्रयोगस्तंसेन केवलस्य, उत्पूर्वस्य वा। अलङ्कारो हि कुण्डलादिर्बध्यत इति धातुर्बन्धनार्थमुपसङ्क्रान्तः। अवतंसः कर्णभूषणं भूषणमात्रं वा। कर्णावतंसः शिरोऽवतंस इत्यत्र भूषणमात्रे प्रयोगः।
  • ‘अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि’ (शा० १।४)। अत्रावतंसः कर्णभूषणमाचष्टे। अवतंसयन्ति=अवतंसी कुर्वन्ति।

तक्ष्

  • {अवतक्ष्}
  • तक्ष् (तक्ष त्वक्ष तनूकरणे)।
  • ‘उच्छिष्टलेपोपहतानामवतक्षणम्’ (बौ० ध० १।६।१३।२७)। वाश्यादिनाऽयस्मयेनानुकर्षणम् अवतक्षणम्।
  • ‘अवतक्षणानां स्वरुरधिमन्थश्च’ (आप० श्रौ० ७।१।३।३)। तक्ष्यमाणस्य यूपस्य शकलानाम् इत्यर्थः। अवशब्दोऽधस्तादर्थे। अधः पतितखण्डानाम् इत्युक्तं भवति।

तड्

  • {अवतड्}
  • तड् (तड आघाते)।
  • ‘नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि।’ (उत्तर० १।१४, मालती० ९।४९)। पादाभ्यामवक्रम्य ताडनमवताडनम्।

तन्

  • {अवतन्}
  • तन् (तनु विस्तारे)।
  • ‘यदाततमव तत्तनु’ (अथर्व० ७।९५।३)। यच्छेपो जारस्याततमायतं तदवततं दैर्घ्यरहितं कुरु संकोचय। अवतनिः संकोचने वर्तते।
  • ‘असंख्याता सहस्राणि येे रुद्रा अधि भूम्याम्। तेषां सहस्रयोजनेऽव धन्वानि तन्मसि’ (वा० सं० १६।५४)। अवतन्मसि=अवतन्मः=अवरोपयामः। उज्ज्यानि कुर्म इत्यर्थः।
  • ‘अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः’ (अथर्व० ६।४२।१)। अवतनोमि=व्यपकर्षामि।
  • ‘दिवो मलमवततं पृथिव्या अध्युत्ततम्’ (अथर्व० २।७।३)। अवततम्=अवाङ्मुखं प्रसृतम्। उत्ततम्=ऊर्ध्वं ततम्।
  • ‘अयोध्यायामवतता सा व्यतीयाय शर्वरी’ (रा० २।६७।१)। अवतता=दीर्घीभूता।
  • ‘लताशतैरवतता नदी’ (रा० ५।१४।२६)। अवतता=आच्छादिता।
  • ‘ज्वलितिकसन्तेभ्यो णः’ (पा० ३।१।१४०)। इत्यत्र तनोतेर्ण उपसंख्यानम् इति वार्त्तिकम्। अवतनोतीत्यवतानः। अवतान उल्लोचश्चन्द्रोदयः।
  • ‘अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः’ (भा० सभा० ९।३)। अवतानैः=लताप्रतानैः।
  • ‘अवतत्य धनुष्ट्वं सहस्राक्ष शतेषुधे’ (वा० सं० १६।१३)। धनुरपगतज्याकं कृत्वा।
  • ‘ऋज्वीर्दधानैरवतत्य कन्धराः’ (शिशु० १२।१८)। अवतत्य=नीचैरायम्य।
  • ‘खमवतत्य सलिलदाः’ (बृ० सं० २४।१९)। आकाशमाच्छाद्येत्यर्थः।
  • ‘वृक्षस्थोऽवतानो वृक्षे च्छिन्नेपि न विनश्यति’ (पा० १।२।६४ सूत्रे भाष्ये)। अवतानोऽधोमुखः प्रतानः।
  • ‘परो मूजवतोऽतीह्यवततधन्वा’ (तै० सं० १।८।६)। अवतारितज्याकं धनुर्यस्य स इति भट्टभास्करः। ज्याकर्षणेन विस्तारितधनुष्क इति तु सायणः। अयं प्रमादः। अयमेक आचार्यस्य मृष्यताम्।

तप्

  • {अवतप्}
  • तप् (तप सन्तापे)।
  • ‘महदेषावतपति चरन्ती गोषु गौरपि’ (अथर्व० (१२।४।३९)। अवतपति=अवोऽधः तपति संतप्तं करोति।
  • ‘अवतप्ते नकुलस्थितं तवैतत्।’ (पा० २।१।४७)। इत्यत्र वृत्तावुदाहरणम्। क्षेपे गम्यमाने प्रयोगः। चापलमेतत्, अनवस्थितत्वं तवैतदित्यर्थः। अत्रावशब्दस्तापस्य न्यूनतामाह। अवतप्तम्=ईषत्तप्तम्।
  • ‘गुहासदवतापि स्यात्’ (श० ब्रा० १३।८।१।११)।

तम्

  • {अवतम्}
  • तम् (तमु काङ्क्षायाम्)।
  • ‘तस्मादद्भिरवतान्तमभिषिञ्चन्ति’ (तै० सं० ५।६।२।२)। अवतान्तं मूर्छितम्।
  • ‘ओमिति त्रिरवताम्यन्ति’ (आप० श्रौ० ८।१८।९)। प्राणायामत्रयं कुर्वन्तीत्याह।

तृद्

  • {अवतृद्}
  • तृद् (उतृदिर् हिंसानादरयोः)।
  • ‘अवतृणत्ति दुन्दुभीन्’ (शां० श्रौ० १७।१७।५।६)। उपरमयति शान्तध्वनीन् करोतीत्यर्थः।
  • ‘अनवतृष्णः प्राणः’ (श० ब्रा० ११।१।६।३३)। अनवकृत्तोऽवियुक्तोऽविश्लिष्टः।
  • ‘अवपूर्वस्तृदिः’ (शां० श्रौ० १७।१७।५) इत्यत्र।

तॄ

  • {अवतॄ}
  • तॄ (तॄ प्लवनतरणयोः)।
  • ‘रथादवततार च’ (रघु० १।५४)। अवरुरोहेत्यर्थः।
  • ‘तस्यां (नगर्यां) च नभसोऽवततार सः’ (कथा० ३।५३)।
  • ‘सागरं वर्जयित्वा कुत्र वा महानद्यवतरति’ (शा० ३)। निम्नीभूय प्रविशतीत्याह।
  • ‘मत्स्नेहाच्चैव राधायां सद्यः क्षीरमवातरत्’ (भा० उ० १४१।६)। स्तनयोः प्रादुरभवदित्यर्थः।
  • ‘मुनिकन्या च सा शापात्तस्यां जाताववातरत्’ (पञ्चत०)। अवातरत्=समक्रामत्। शरीरपरिग्रहमकरोत्।
  • ‘कपोलः पाण्डुत्वमवतरति ताली-परिणतिम्’ (भोज० १।७२)। अत्रावतरतेर्गौणः प्रयोगः। पाण्डुत्वमुपैतीत्येवार्थः।
  • ‘वागेव मे नाभिधेयविषयमवतरति त्रपया’ (काद०)। अभिधेयमर्थमभिधातुं न प्रवर्तते ह्रीणोऽस्मीति।
  • ‘तत्प्रेयसीमाहूय सङ्गीतकमवतरामि’ (धूर्त०)। अवतरामि=प्रारभे। इहापि पूर्ववद् गौणो व्यवहारः।
  • ‘पुरो यदिन्द्र शारदीरवातिरः’ (ऋ० १।१३१।४)। अवातिरः=अवातरः। तरते रूपमवोपसृष्टस्य केवलं तुदादित्वं परिगृह्या शे विकरणे गुणाभावे इत्त्वम्। अन्यत्रापि वेद एषैव प्रक्रिया वेदनीया। अभ्यभवः, पराभव इति वार्थः।
  • ‘अव तस्य बलं तिर’ (ऋ० १०।१३३।५)। उदितचर एवार्थः। लोटि रूपम्।
  • ‘अवातिरज्ज्योतिषाऽग्निस्तमांसि’ (ऋ० ६।९।१)। अपाकरोदपाकर्षदिति तात्पर्यार्थः। प्रपूर्वस्तु तिरतिः (तरतिः) वर्धने वर्तते इत्युपसर्गकृतोऽर्थभेदः।
  • ‘शरीराद् भूषणं सर्वमात्मनः साऽवतारयत्’ (रा० ४।१९।२९)। अवारोपयदित्यर्थः।
  • ‘कस्मिन्नवतितीर्षति ते पुण्यभाजि प्रदेशे हृदयम्’ (हर्ष० १)। अवतरीतुमधो गन्तुमिच्छति=अवतितीर्षति।
  • ‘सहमित्रं सहामात्यं ससोदर्यं सहानुगम्। शक्नुयां यदि पन्थानमवतारयितुं पुनः’ (भा० उ० १३०।३१)॥ पन्थानमवतारयितुम्=उत्पथात्पथे नेतुम्।
  • ‘दृष्ट एवावतीर्णोस्मि यद्रोगमतिदुस्तरम्’ (कथा० २४।१९५) । अवतीर्णः=उत्तीर्णः।
  • ‘मेघपदवीमवतीर्णौ स्वः’ (शा० ७)। अवतीर्णौ=अवरूढौ। प्रथमावतीर्णयौवनमदनविकाराः। प्रथमम् इदम्प्रथमतयाऽवतीर्णः प्रादुर्भूतो यौवनमदनविकारो येषां ते।
  • ‘तदनुरागवशगा चास्य पत्नी केशानवतार्य’ (अवदा० जा० २१)। अवतार्य=परिवाप्य=कर्तयित्वा।
  • ‘अथोरुदेशादवतार्य पादम्’ (कु० ३।११)। अधो न्यस्येत्यर्थः।
  • ‘स्वगात्रादवतार्य भूषणानि’ (मुद्रा० २।५)।
  • ‘अथाङ्गराजादवतार्य चक्षुः’ (रघु० ६।३०)। चक्षुरवतार्य=प्रतिसंहृत्य।
  • ‘रुद्धे गजेन सरितः सरुषाऽवतारे’ (शिशु० ५।३३)। अवतारस्तीर्थम्।
  • ‘अवे तॄस्त्रोर्घञ्’ (पा० ३।३।१२०) इति सूत्रेऽवतारो नद्या इति वृत्तावुदाहरणम्।
  • ‘अवतरति जलमवगाहतेऽनेनेत्यवतारः। कोप्येष सम्प्रति नवः पुरुषावतारः’ (उत्तर० ५।३४)। पुरुषरूपेण पुरुषयोनाववतीर्णः (दिवः) जातो देव इत्यर्थः। अवतरणमवतारः सोऽस्यास्तीत्यवतार इति कथंचिद् व्याख्येयम्। भावेऽवतारशब्दः पाणिनेरविदितः, कर्तरि च सुतरामविदितः।
  • ‘कवयस्तु भावे बहुलं प्रयुञ्जते-वसन्तावतारसमये’ (शा० १)। अवतर इति तु युज्यते। इहावतारः प्रारम्भ इत्यर्थे।
  • ‘परीवादनवावतारः’ (रघु० ५।२४)। स एवार्थः।
  • ‘गोस्तु महिमानं नाव तिरेत्’ (तै० सं० ६।१।१०)। गोर्महिम्नः सोममहिमानं नातिरेचयेदित्यर्थः।
  • ‘अवातिरतमनृतानि विश्वा’ (तै० ब्रा० २।८।६।६)। अवातिरतं (युवां) विनाशितवन्तौ।
  • ‘दृष्ट एवावतीर्णोस्मि यद्रोगमतिदुस्तरम्’ (कथा० २४।१९५)। अवतीर्णः प्रविष्टः।
  • ‘पूर्वं सिद्धं पश्चादवतारितम्’ (कौ० अ० २।६।२१)। अवतारितम्=राजदेयो भागः प्रतीष्टः।

त्सर

  • {अवत्सर}
  • त्सर (त्सर छद्मना गतौ)।
  • ‘अव त्सरत् पृशन्यश्चिकित्वान्’ (ऋ० १।७१।५)। अवत्सरत् अवात्सरत् पलायत इति सायणः।

दंश्

  • {अवदंश्}
  • दंश् (दंश दशने)।
  • ‘फलावदंशपूर्णाश्च चाङ्गेर्यः पानयोजिताः’ (हरि० २।२९।११)। फलावदंशाः=जम्बीराद्युपदंशाः।
  • अवदंशः तिक्तरसं योज्यमुच्यते। येन भुक्तेन तर्ष उपजायते।

दय्

  • {अवदय्}
  • दय् (दय दानगतिरक्षणहिंसादानेषु)।
  • ‘तस्मादेनमवदये’ (अथर्व० १६।७।११)। अवदये विच्छिनद्मि, व्यवदधामि।
  • ‘तदेनांस्तदवदयते यद् यजते’ (श० ब्रा० १।७।२।६)। अवदयते=आराधयति=रञ्जयति=परितोषयति।
  • ‘वैरं तद् देवानवदयते’ (पञ्च० ब्रा० १६।१)।

दल्

  • {अवदल्}
  • दल् (दल विशरणे)।
  • ‘मासं चाप्याय्यते त्वक् चावदलति’ (सुश्रुत० २।१६६।६)। अवदलति=अवदीर्यते=विशीर्यते।

दह्

  • {अवदह्}
  • दह् (दह भस्मीकरणे)।
  • अवदाह उशीरम्। अवशब्दो न्यूनत्वे यथाऽन्यत्र। अवकृष्टं दह्यते न्यूनीक्रियते वा दाहोऽनेनेति व्युत्पत्तेः।

दिश्

  • {अवदिश्}
  • दिश् (दिश अतिसर्जने)।
  • ‘अव प्रिया दिदिष्टन’ (ऋ० १०।१३२।६)। प्रियाणि निर्दिशतेत्याह।

दिह्

  • {अवदिह्}
  • दिह् (दिह उपचये)।
  • ‘दन्तरजसाऽवदेग्धि’ (कौ० सू० ३१)। अवदेग्धि उपलिम्पति।

दुष्

  • {अवदुष्}
  • दुष् (दुष वैकृत्ये)।
  • ‘द्रव्यावदूषको यश्च प्रतिच्छन्दकविक्रयी’ (विष्णुधर्मोत्तरे २।७२।१७१)।

दुह्

  • {अवदुह्}
  • दुह् (दुह प्रपूरणे)।
  • ‘भरद्वाजायाव धुक्षत द्विता धेनुं च विश्वदोहसमिषं च विश्वभोजसम्’ (ऋ० ६।४८।१३)। अवधुक्षत दत्त, प्रदिशतेत्यनर्थान्तरम्।

दृश्

  • {अवदृश्}
  • दृश् (दृशिर् प्रेक्षणे)।
  • ‘यथा जलस्थ आभासः स्थलस्थेनावदृश्यते। स्वाभासेन यथा सूर्यो जलस्थेन दिवि स्थितः’ (भा० पु० ३।२७।१२)॥ जले स्थित आभासः सूर्यप्रतिबिम्बं यदा कुड्यादौ स्फुरति तदा गृहकोणस्थितैः पुरुषैर्यथा प्रथमं जलस्याभासो लक्ष्यते इत्यादिरर्थः।
  • ‘सत्यानृते अवपश्यञ्जनानाम्’ (ऋ० ७।४९।३, अथर्व० १।३३।२)। अवयुत्य परस्परसाङ्कर्यपरिहारेण पश्यन्नित्यर्थः।
  • ‘श्येनो नृचक्षा अग्नेष्ट्वा चक्षुषाऽवपश्यामि’ (पञ्च० ब्रा० १।५।३)। अवपश्यामि अवाङ्मुखः पश्यामि।

दॄ

  • {अवदॄ}
  • दॄ (दॄ विदारणे)।
  • ‘पूयः स्वमाश्रयमवदीर्य… कृच्छ्रसाध्यो भवति’ (सुश्रुत० १।६३।१)। अवदारणकाले तु पृथिवी नावदीर्यते। विवरं न ददातीत्यर्थः। विदारणं भेदनं द्विधाकरणं भवति। अवशब्दस्तस्य नीचैर्गतिमाह। खनु अवदारण इति धातुपाठः। अवस्ताद् नीचैर्दारणमवदारणम्। तदिदं खातादिषु शब्देषु स्पष्टम्।
  • ‘गां चावदीर्णां सहसाविवेश’ (अवदा० जा० २८, श्लो० ५८)। उक्तोऽर्थः।
  • ‘भयावदीर्णः सङ्ग्रामादबद्धं बहु भाषसे’ (भा० कर्ण० ४०।१६)। भयाद् भग्नोऽपत्रस्त इति यावत्। भयस्य हेतोः सङ्ग्रामाद् विद्रुत इत्यर्थः।
  • ‘दूतावदीर्णे इत्यमरः।’ एतौ विलीनेऽर्थे पर्यायौ।

दे

  • {अवदे}
  • दे (देङ् रक्षणे)।
  • ‘तद् (ऋणं) अवदानैरेवावदयते’ (तै० सं० ६।३।५५)। अवदयते विनाशयतीति भट्टभास्करः। शोधयतीति यावत्। अवोऽर्थं विपर्यासयति।

दो

  • {अवदो}
  • दो (दो अवखण्डने)।
  • ‘हृदयस्यैवाग्रेऽवद्यति’ (श० ब्रा० ३।१५।१६)। हृदयांशं प्रथमं खण्डयतीत्यर्थः।
  • ‘सर्वभक्ष्यापूपकन्दमूलफलमांसादीनि दन्तैर्नावद्येत्’ (बौ० ध० २।७।१२।८)। खण्डयेत्=नापच्छिन्द्यात्। दन्तखण्डितावशिष्टं पुनर्भक्षणाय नाददीतेत्यर्थः।
  • ‘अव स्तोमेभी रुदं दिषीय’ (ऋ० २।३३।५)। ** (क्रुद्धं) रुद्रं शमयेयमित्याह।**
  • ‘यां रात्रिं ब्रह्मचारी समिधं नाहरत्यायुष एव तामवदाय वसति’ (श० ब्रा० ११।३।३।१)। अवदाय=अंशं छित्त्वा।
  • ‘वशाया अवदानानां तथैव तेषामवदानम्’ (श० ब्रा० ४।५।२।८)। अवदानमवखण्डनम्।
  • ‘नानवत्तमश्नीयात्’ (शां० गृ० २।१४।२३)। अनवत्तमपृथक्कृतदेवताभागम्।
  • ‘त्वं चापि दक्षयज्ञेस्मिन्नवदानार्थमागतः’ (शिवपु० २।२।३६।५२)। अवदानं हविर्भागः।

दै

  • {अवदै}
  • दै (दैप् शोधने)।
  • ‘येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च’ (पा० ४।१।४८ सूत्रे भाष्ये)। अवदातानि=शुद्धानि।
  • ‘अवदातं मुखम्’ (पा० १।१।२०) इत्यत्र वृत्तावुदाहरणम्। शोधितमित्यर्थः।

द्युत्

  • {अवद्युत्}
  • द्युत् (द्युत दीप्तौ)।
  • ‘गुहावद्योतिनोऽप्यस्ति किं दीपस्यार्कतुल्यता’ (गीता ४।१८ इत्यत्र नीलकण्ठोक्तिः)। अवशब्दो द्योतनस्य न्यूनतामाह।
  • ‘हिशब्देन प्रसिद्ध हेतुमवद्योतयते’ (बृ० उ० शङ्करवचः)। अवद्योतयते=बोधयति=स्मारयति। अवेन नार्थः।

द्रा

  • {अवद्रा}
  • द्रा (द्रा कुत्सायां गतौ)।
  • ‘यत्र सुप्त्वा पुनर्नावद्रास्यन्भवति’ (श० ब्रा० ३।२।२।२३)। नावद्रास्यन्भवति=निद्रालुर्न भवति, निद्रया नाभिभूयत इत्यर्थः।
  • ‘त्वाऽनवद्राणश्च रक्षताम्’ (अथर्व० १।१३।)। अनवद्राणः=निद्रारहितः।

धा

  • {अवधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः’ (ऋ० १।१५८।५)। समुब्धमवाधुः=अवाङ्मुखमपातयन्।
  • ‘दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः’ (ऋ० ४।१३।४)। अवाङ् अन्तरवाधुः=अन्तर्निमज्जयामासुः।
  • ‘आसिञ्चोदकमव धेह्येनम्’ (अथर्व० ९।५।५)। एनमजमवधेहि=अधः श्रय, अवतारयेत्यर्थः।
  • ‘सोऽवैवावरं समुद्रं दधावव पूर्वम्’ (श० ब्रा० १।६।३।११)। अवदधौ स्वस्मिन्नन्तरकरोदित्यर्थः। स वृत्रस्तथा ववृधे यथा समुद्रद्वयमपि स्वेन शरीरेणाववारेत्युक्तं भवति।
  • ‘यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः’ (अथर्व० ५।३१।८)। अवदधुर्नीचैः पातयामासुः।
  • ‘पचनमवधाय महावीरमवदधाति’ (श० ब्रा० १४।१।२१) अवदधाति=अधः श्रयति, अवतारयति।
  • ‘यच्चोक्तं धर्मशास्त्रेण तत्तावादवधीयताम्’ (बृ० श्लो० सं० ७।७७)। तत्र मनो धीयतामित्याह। अत्रार्थे दधातेरुभयथा प्रयोगा दृश्यन्ते सकर्मकत्वेनाकर्मकत्वेन च।
  • ‘स वीर किं मुह्यसि नावधत्से’ (भा० कर्ण० ८९।४३)। नावेक्षसे, न चेतयस इत्याह।
  • ‘यद् दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति’ (छां० उ० ८।१३।१)। अवाधाः=न्यधाः=निहितवानसि।
  • ‘दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम्’ (तै० आ० २।१)। अवधत्ते न्युब्जी करोति=न्यञ्चयति=नीचैः करोति।
  • ‘मारुत्यां मेषीमवदधाति वारुण्यां मेषम्’ (आप० श्रौ० ८।२।६।१७)। अवदधाति=प्रक्षिपति। मारुत्यां मरुद्देवताकायामामिक्षायाम्।
  • ‘कर्तेऽवदध्युरुपसर्प मातरं भूमिमेतामिति’ (आश्व० गृ० ४।६।८)। कर्ते=गर्ते। अवदध्युः=नीचैर्दध्युः=निदध्युः।
  • ‘इत्यवटेऽवदधाति’ (भा० श्रौ० ७।८।९)। उक्तोऽर्थः।
  • ‘न वै तदवकल्पते यदश्वस्य पादमवदध्याद् वा गोः पादमवदध्यात्’ (श० ब्रा० ४।३।४।७)। अवदध्यात्=अधो निक्षेपयेत्। (चमसे) न्यासयेत्।
  • ‘अथ मुसल मादत्ते…तदवदधाति’ (श० ब्रा० १।१।४।१०)। उलूखलेन्तर्दधातीत्यर्थः। त्रिलोककृद् ब्रह्मा प्रभुरेकाकी तिष्ठति।
  • ‘ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति’ (भा० शां० १९०।१०)। अवदधाति=निमज्जयति। आसजतीत्यर्थः।
  • ‘ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा’ (भा० आदि० ११५।२२)॥ अवदधे=निदधे।
  • ‘गर्तेष्ववकानवधापयेत्’ (आश्व गृ० २।८४।४)। संचाययेत्, सङ्ग्राहयेत्।
  • ‘यथा क्षुरः क्षुरधानेऽवहितः’ (बृ० उ० १।४।७)। अवहितः=न्यस्तः।
  • ‘त्रितं कूपेऽवहितमेतत् सूक्तं प्रतिबभौ’ (नि० ६।२७)। कूपेऽवहितम्=कूपेऽन्तः पतितम्।
  • ‘त्रितः कूपेऽवहितो देवान् हवत ऊतये’ (ऋ० १।१०५।१७)। उक्तोऽर्थः।
  • ‘उत देवा अवहितं देवा उन्नयथा पुनः’ (ऋ० १०।१३७।१)। अवहितम्=पतितम्, अवाञ्चम्, अधोगतम्।
  • ‘न सोपानाद् वेष्तिशिरा अवहितपाणिर्वाऽऽसीदेत्’ (आप० ध० १।२।५।१०)। अवहितपाणिर्न्युब्जीकृतहस्तः।
  • ‘शृणु मेऽवहिता वचः (रा० २।६३।४)। अवहिता=दत्तावधाना=एकाग्रमनाः।
  • ‘कर्तव्येष्ववहितेन भवता भवितव्यम्’ (प्र० च०)। उक्तोऽर्थः।
  • ‘लवणमेतदुदकेऽवधाय’ (छां० उ० ६।१२।३)। अवधाय न्यस्य।
  • ‘दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय’ (गो० गृ० १।२।२)। अवधाय वेष्टयित्वा।
  • ‘प्रबद्धं हिरण्यं हवन्यामवधाय’ (का० श्रौ० १०।२।४)। हवन्यामवधाय=जुह्वां निधाय।
  • ‘कंसमपां पूरयित्वा सर्वौषधीः कृत्वा हस्ताववधाय,’ (गो० गृ० ३।२।३५)। हस्ताववधाय=हस्तौ निमग्नौ न्युब्जौ कारयित्वा।
  • ‘हिरण्यमवधाय’ (तास्वप्सु) (आश्व० गृ० २।९।६)। निक्षिप्य, न्यस्येत्यर्थः।
  • ‘पादाग्रे दृशमवधाय’ (मुद्रा० ५।१३)। दृशं निपात्येत्यर्थः।
  • ‘सोऽज्ञायमानः (धृष्टद्युम्नः) पुरुषानवधाय समन्ततः’ (भा० आदि० १९२।२)। अवधाय=अवस्थाप्य।
  • ‘गच्छावधानं नृपते ततो दुःखं प्रहास्यसि’ (भा० शां० २९।१६)। अवहितः समाहितो भवेत्याह।
  • ‘वयं तु तमृते वीरं वनेस्मिन्द्विपदां वर। अवधानं न गच्छामः काम्यके सह कृष्णया’ (भा० वन० ८६।१७)॥ अवधानं मनसः स्वास्थ्यम्।
  • ‘सैषा… यजमानस्य लोकेऽवहिता’ (तै० सं० १।७।१।१)। अवहिता=अवस्थिता।
  • ‘सोदकेन पात्रेणामृन्मयेनापिदध्यात्। यदि मृन्मयं स्यात्तृणं काष्ठं वाऽवदध्यात्’ (वाराह श्रौ० १।२।२।३४-३५)। अवदध्यादधो निदध्यात्।
  • ‘पारुष्यमवधीय माना’ (ब्रह्मगवी) (अथर्व० १२।५।३०)। अवधीयमाना व्रजमवरुध्यमाना। अन्तराधीयमानेति त्वक्षरार्थः।
  • ‘दासा बद्ध्वा नदीतोये दृष्टिहीनमवादधुः’ (बृ० दे० ४।२१)। अवादधुः=अधः क्षिप्तवन्तः।

धाव्

  • {अवधाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘यत्ते गात्रादग्निना पच्यमानादभिशूलं निहतस्यावधावति’ (वा० सं० २५।३४)। अवधावति=अधस्ताद् गच्छति। ये तव शरीराद्रसबिन्दवो निष्क्रम्य निपतन्तीत्याह।
  • ‘अदो यदवधावत्यवत्कमधि पर्वतात्’ (अथर्व० २।३।१)। अवरुह्य भूमिं धावतीत्युक्तं भवति।

अवधीर्

  • {अवावधीर्}
  • अवधीर् (अवधीर गणेऽपठितः)।
  • ‘अयं स ते तिष्ठति सङ्गमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम्’ (शा० ३।१४)। अवधीरणा=तिरस्कारः प्रत्याख्यानम्।
  • ‘अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया’ (शा० ६।१२)। अवधीरिताऽवमानिता।

धू

  • {अवधू}
  • धू (धूञ् अवधूनने)।
  • ‘अस्मे देवासोऽवधूनुता वसु’ (ऋ० १०।६६।१४)। हे देवा नोभि वसु प्रेरयत, यथा फलिनः पादपो वातादिना कम्पितोऽवपातयति फलानि तथा कुरुतेत्यर्थः।
  • ‘अव दस्यूँ रधूनुथाः।’ (ऋ० ८।१४।१४)। अवाधूनुथाः=अवाक्षिपः=अवाङ्मुखानपातयः=परासुवः।
  • ‘अपेत्य पत्रिभ्योऽवधूनोत्यवधूतमिति’ (का० श्रौ० २।४।२)। कृष्णाजिनमवधूनोति, तल्लग्नं धूल्यादिकं कृष्णाजिनकम्पनेन उत्करे पातयतीत्यर्थः।
  • ‘एवमनिर्ज्ञातानि दैवतान्यप्यवधूयन्ते’ (स्वप्न०१)। अवधूयन्ते=अवज्ञायन्ते=अवगण्यन्ते।
  • ‘विपरीतस्तु विद्वद्भिः स्वतन्त्रोप्यवधूयते’ (का० नी० १२।२)। अवमन्यते।
  • ‘रेणुः पवनावधूतः’ (रघु० ७।४३)। अवधूतः=विक्षिप्तः। इहावस्योपसर्गस्य नीचैस्त्वादिरर्थो नास्ति।
  • ‘लीलावधूतैश्चामरैः’ (मेघ० ३७)। अवधूतैरुपरि कम्पितैश्चलितैः।
  • ‘आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः।’ (ध्वन्यालोके २।५ व्याख्यायाम्)। अवधूतो हस्तक्षेपेण सहसा पराणुन्नः।
  • ‘अवधूतप्रणिपाताः’ (विक्रम० ३।५)। अवधूतो निराकृतोऽवहेलितः।
  • ‘आत्मानमवधूतं में विज्ञाय नृपपुङ्गवाः’ (रा० १।६६।२१)। अवधूतं तिरस्कृतम्।
  • ‘सुरवधूरवधूतभयाः शरैः’ (रघु० ९।२०)। अवधूतभयाः=निरस्तत्रासाः।
  • ‘गवाघ्रातमवधूतमवक्षुतम्’ (अन्नम्) (मनु० ५।१२५)। अवधूतम् पदावधूतं पदापसारितम्। यो विलङ्घ्याश्रमान्सर्वानात्मन्येव स्थितः पुमान्। अतिवर्णाश्रमी योगी अवधूतः स उच्यते॥
  • ‘अवधूतवेषः’ (भा० पु० १।१९।२५)। संन्यस्तवस्त्रः। परैर्भुक्तोभितानि वा जीर्णानि वसनानि यो वस्ते स तथोक्तः।
  • ‘पापम्…। अवधूय… गच्छेम स्वर्गमुत्तमम्’ (भा० वन० ५२।२०)। कम्पनेनेव परासूय पराकृत्येत्यर्थः। रुचिरोऽवधूनोतेः प्रयोगः।
  • ‘चण्डी मामवधूय पादपतितम्’ (विक्रम० ४।६७)। तिरस्कृत्य, उपेक्ष्य, अवज्ञायेत्यनर्थान्तरम्।
  • ‘अवधूय रसालमञ्जरीर्घनमादाय परागमञ्जसा’ (पारिजात० ११।३६)। अवपूर्वस्यापि धूञ् इह शुद्धे धात्वर्थे प्रयोगः। न तूपचरिते तिरस्कारार्थे। अवधूय ईषद् धूत्वा (धवित्वा)।

धृ

  • {अवधृ}
  • धृ (धृञ् धारणे)।
  • ‘श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्। आत्मनः प्रतिकूलानि परेषां न समाचरेत्’ (भा०)॥ अध्यवसीयतामित्यर्थः।
  • ‘वानप्रस्थस्य धर्मं ते कथयाम्यवधार्यताम्’ (मार्क० पु०)। अवहितं श्रूयतामित्यर्थः।
  • ‘न विश्वमूर्तेरवधार्यते वपुः’ (कु० ५।७८)। अवधार्यते=परिच्छिद्यते। इदमित्थम्भूतमिति निश्चीयते।
  • ‘द्विरुच्चारितं शतमप्यवधारयति’ (सुश्रुत० २।१६१।९)। अवधारयति=चिन्तयति।
  • ‘तत्रैवमवध्रियते सोम एवान्नम्’ (बृ० उ०)। अवध्रियते=अवसीयते=निश्चितं ज्ञायते।
  • ‘प्रकृतिपुरुषसंयोग एव साक्षाद् बन्धहेतुरवधारितः’ (साङ्ख्य० १।१८।५४)। अवधारितो निश्चितः।
  • ‘पुरैव पुंसाऽवधृतो धराज्वरः’ (भा० पु० १०।१।२२)। अवोऽस्थाने।
  • ‘सर्वत्र यदवधारेणोच्यते स एकान्तः’ (सुश्रुते)। अवधारेण=याथातथ्येन।
  • ‘अस्तीत्युत्पन्नसत्त्वस्यावधारणम् (नि० १।२।१०)। निश्चयोऽभ्युपगमः। विषादे विस्मये हर्षे कोपे दैन्येऽवधारणे। प्रसादनेऽनुकम्पायां द्विस्त्रिरुक्तं न दुष्यति॥ अवधारणं नियमो नियोगकरणम्।
  • ‘यावदवधारणे’ (पा० २।१८)। यावदमत्रं ब्राह्मणानामन्त्रयस्वेत्यत्रावधारणमियत्तापरिच्छेदः।**
  • ‘तस्योपकरणं प्रमाणं प्रहरणं प्रधारणमवधारणं च खरपट्टादवगमयेत्’ (कौ० अ० ४।८।२४)। अवधारणम् इयत्ता।

ध्वंस्

  • {अवध्वंस्}
  • ध्वंस् (ध्वंसु अवस्रंसने गतौ च)।
  • ‘ध्वान्तं तमोऽवदध्वसे हते’ (वृत्रे) (ऋ० १०।११३।७)। अवदध्वसे=अवस्तादगच्छत्। चूर्णैरवध्वंसयति अवचूर्णयति। अवध्वंसयति=अवकिरति।
  • ‘यः परुषः पारुषेयोऽवध्वंस इवारुणः’ (अथर्व० ५।२२।३)। अवध्वंसो रजश्चूर्णं वा। क्वचिदवध्वंसः परित्यागमाह। तत्रावो ध्वंसस्यासाकल्यमाह।

नम्

  • {अवनम्}
  • नम् (णम् प्रह्वत्वे शब्दे च)।
  • ‘सर्वो हि बिभ्यत्तस्या आसीदति अवनमति च’ (नि० २।९ इत्यत्र दुर्गः)। अवनमति प्रह्वी भवति।
  • ‘अद्य प्रभृत्यवनताङ्गि तवास्मि दासः’ (कु० ५। )।
  • ‘त्वय्यादातुं जलमवनते’ (मेघ० ४८)।
  • ‘लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितः’ (अमरु० ७)।
  • ‘गलितनयनवारेर्याति पादावनामम्’ (शिशु० ११।३५)। पादावनामं याति=चरणयोरवनतिं प्रणिपातं याति। सर्वत्र विस्पष्ट उदितचर एवार्थः।
  • ‘दुरितमवनतानां दुर्निरोधं निरुन्धन्’ (विश्व० च० १४।१७०)। अवनतानां प्रणतानाम्, भक्तानाम्। अत्रार्थे प्रः प्रशस्यः।

नश्

  • {अवनश्}
  • नश् (णश अदर्शने)
  • ‘अवनेशुः कुरूणां हि वीर्याणि अर्जुनाद् भयात्’ (भा० ४।१७२८)। अवनेशुः=तिरोभावं जग्मुः।

नह्

  • {अवनह्}
  • नह् (णह बन्धने)।
  • ‘अवनद्धं श्नथितमप्स्वन्तः’ (अथर्व० १।११६।२४)। अवनद्धम्=पिहितम्=आच्छन्नम्।
  • ‘सवालधानेन चर्मणावनह्य’ (का० श्रौ० १३।३।१६)। उक्तोऽर्थः।
  • ‘गदा हेमपट्टावनद्धा’ (भा०)।
  • ‘चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः’ (मनु० ६।७६)। चर्मावनद्धं चर्मणाच्छादितम्।
  • ‘यूपं कृत्वा तु मलयमवनाहं च तक्षकम्’ (भा० द्रोण० २०२।७३)। अवनाहम्=त्रिवेणुयुगबन्धनरज्जुम्।

निज्

  • {अवनिज्}
  • निज् (णिजिर् शौचपोषणयोः)।
  • ‘तस्मात् पाणी अवनेनेवित’ (श० ब्रा० १।२।१।२३)। शुन्धतीत्याह। प्रायेण निजिर्निःपूर्वः प्रयुज्यते। अत्रावपूर्वः। अर्थे तु न कश्चिद्विशेषः। केवलमवशब्दः शोधनजलस्यावपातं द्योतयति।
  • ‘अन्यत्रापि–उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने। न कुर्याद् गुरुपुत्रस्य पादयोश्चावनेजनम्’ (मनु० २।२०९)॥ अवनेजनम्=प्रक्षालनम्।
  • ‘पादमवनेनिजे’ (ऐ० ब्रा० ८।२७)। प्रक्षालयामासेत्यर्थः।
  • ‘तस्य (मनोः) अवनेनिजानस्य मत्स्यः पाणी आपेदे’ (श० ब्रा० १।८।१।१)। अवनेनिजानस्य=प्रक्षालयतः।

नी

  • {अवनी}
  • नी (णीञ् प्रापणे)।
  • ‘मन्थे सम्पातमवनयेत्’ (छां० उ०)। सम्पातं हुतावशेषमासिञ्चेदित्यर्थः।
  • ‘तं (पूर्णं ग्रहम्) न स्तूयमानेऽवनयेत्’ (श० ब्रा० ४।२।४।६)। स्तुतौ प्रवर्तमानायां होतुश्चमसे नावर्जयेदित्युक्तं भवति।
  • ‘उच्छेषणं वल्मीकवपायामवनयेत्’ (तै० ब्रा० १।८।६।२)। उक्तोऽर्थः।
  • ‘आहुतेराहुतेस्तु सम्पातं मूर्धनि वध्वा अवनयेत्’ (गो० गृ० २।३।७)। सम्पातः=शेषः। अवनयेत्=निपातयेत्।
  • ‘मन्थे संस्रवमवनयति’ (श० ब्रा० १४।९।३।४)। आसिञ्चति।
  • ‘उदपात्रेऽक्षतान् अवनीय’ (शां० गृ० १।२२।१२)।
  • ‘अपः श्वभ्रेऽवनयति’ (का० श्रौ० १६।३।२)।
  • ‘ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः’ (ऋ० १।११६।८)। अवनीतमधः पातितम्।
  • ‘युवमत्रयेऽवनीताय’ (ऋ० १।११८।७)। उक्तोऽर्थः।
  • ‘अश्वान्प्रोक्षत्यपोऽवनीयमानान्’ (का० श्रौ० १४।३।३)। अवनीयमानान्=प्रवणं नीयमानान्। जलेऽवतार्यमाणान् इत्यर्थः। अवनायस्तु निपातनम् इत्यमरः। अवोदोर्नियः (पा० ३।३।२६)। इत्यवपूर्वान्नयतेर्घञ्।
  • ‘अरण्ये मुनिभिर्जुष्टे अवनेया भविष्यसि’ (रा० उ० ४६।९)। अवनेया रथादवरोप्य प्रापणीया। सीतां प्रति सौमित्रेरुक्तिः।

नु

  • {अवनु}
  • नु (णु स्तुतौ)।
  • ‘असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः’ (ऋ० ९।८६।२७)। अवनवन्ते=गच्छन्ति=सङ्गच्छन्ति। अयमुपसर्गकृतो धात्वर्थबाधः।

नुद्

  • {अवनुद्}
  • नुद् (णुद प्रेरणे)।
  • ‘कुरूनवानोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत्’ (भा० द्रोण० ८६।६)। कुरूनचोदयिष्यस्त्वमिति पाठान्तरम्। तन्निर्दोषम्।

पत्

  • {अवपत्}
  • पत् (पत्लृ गतौ)।
  • ‘सोपि हंसो गदां गृह्य रथात्तस्मादवापतत्’ (हरि० ३।१२४।१२)। अवाप्लवत, अवास्कन्दत्, अवाकूर्दतेत्यर्थः।
  • ‘अवपतन्तीरवदन् दिव ओषधयस्परि’ (ऋ० १०।९७।१७, वा० सं० १२।९१)। **अवपतन्तीः=अवपतन्त्यः। अवाचीनं पतन्त्य इत्यर्थः।
  • ‘श्येनावपातमवपत्य’ (प्र० च०)। अवपत्य=सरभसमवतीर्य।
  • ‘जलं कूलावपातेन प्रसन्नं कलुषायते’ (मृच्छ० ९।२४)। कूलावपातः=रोधःपतनम्। अवपातस्तु हस्त्यर्थे गर्ते छन्ने तृणादिना (यादवो वैजयन्त्याम्)।
  • ‘रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास’ (रघु० १६।७८)। अवपाते गजग्रहणार्थे गर्त इति मल्लिनाथः।
  • ‘अवपाताननमग्नं मृगमिव कोभ्युद्धरिष्यति माम्’ (अवदा० जा०, २४, ४)। अवपातोऽवटः।
  • ‘तस्मिंस्तत्रावपतिते महिष्यः केशवस्य याः’ (हरि० २।१०८।५)। अवपतिते=अवतीर्णे।
  • ‘केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्’ (भा० अनु० २३।६)। केशकीटा अवपतिता उपरि पतिता यत्र तत्।
  • ‘लघूनुन्नमयन्भावान् गुरूनप्यवपातयन्’ (कथा० २५।४२)। अवपातयन्=अवनमयन्। (प्रभञ्जनः)।

पद्

  • {अवपद्}
  • पद् (पद गतौ)।
  • ‘पूष्णश्चक्रं न रिष्यति न कोशोऽवपद्यते’ (ऋ० ६।५४।३)। अवपद्यते=अधः पतति, भ्रंशते।
  • ‘जामिमृत्वा माऽवपत्सि लोकात्’ (अथर्व० ६।१२०।२)। माऽवपत्सि=मा पप्तम्, स्वर्गाल्लोकान्मा प्रच्योषि।
  • ‘कर्तमवपदात्यप्रभुः’ (ऋ० ९।७३।९)। गर्तमवपततीत्याह।
  • ‘अवपद्यन्तामेषामायुधानि’ (अथर्व० ८।८।२०)। नश्यन्त्वित्यर्थः।
  • ‘ये गर्भा अवपद्यन्ते’ (अथर्व० ५।१७।७)। अवपतन्ति। प्रच्यवन्तेऽवस्रवन्तीत्यर्थः।
  • ‘न्यङ्ङुत्तानोऽवपद्यते न’ (ऋ० ४।१३।५)। अवपद्यते=भ्रंशते=अधः पतति।
  • ‘उत्क्रामातः पुरुष माऽवपत्थाः’ (अथर्व० ८।१।४)। माऽवपत्थाः=मा स्म नीचैर्गच्छः।
  • ‘मोषु देवा अदः स्वरवपादि दिवस्परि’ (ऋ० १।१०५।३)। दिवस्परि दिवः सकाशाद्भ्रष्टं मा भूदित्याह।
  • ‘यावन्तः स्तोका अवापद्यन्त’ (तै० ब्रा० २।१।१।१)। स्तोका बिन्दवोऽपतन्नित्यर्थः।
  • ‘ब्रह्मा घृते हिरण्यमवपद्यते’ (लौ० गृ० ३६।६)। अवपद्यतेऽवष्टभ्नातीति देवपालष्टीकाकारः।
  • ‘यदि कीटोऽवपद्येत’ (आप० श्रौ० ९।१।२।३९)। अग्निहोत्रस्य सान्नायस्योपरि पतेद् इत्याह।
  • ‘अथ ग्रन्थिं करोतीन्द्रस्य ध्रुवोऽसीति नेदवपद्याता इति’ (श० ब्रा० ३।६।१।२५)। नेदवपद्यातै=विकीर्णो विषितो विस्रस्तो मा भूदिति।
  • ‘गर्भः सह जरायुणाऽवपद्यताम्’ (लौ० गृ० ३३।३)। अवपद्यताम्=अधो गच्छतु। निष्क्रामत्विति तात्पर्यार्थः।
  • ‘अव भेषज पादय इमां संविवृत्सति’ (अथर्व० ८।६।१६)। अवपादय=नाशय।
  • ‘क्षतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत्’ (भा० शल्य० ४३।२६) कीटावपन्नम्=यस्योपरि कीटोऽवपन्नः पतितस्तद्।
  • ‘पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम्। केशकीटावपन्नं च मृत्प्रक्षेपेण शुध्यति’ (मनु० ५।१२५)॥
  • ‘केशकीटावपन्नम्’ (गौ० ध० २।८।९)। उक्तोऽर्थः।
  • ‘तस्मादेवं विदुषे ब्राह्मणायैवं चक्रुषे न क्षत्रियो द्रुह्येत्, नेद्राष्ट्रादवपद्येयम्’ (ऐ० ब्रा० ८।२३)। नेदवपद्येयम्=भ्रष्टो मा भूवम्।
  • ‘तस्माद् विभक्ताः स्तोका अव पद्यन्त’ (तै० सं० ६।३।९)। अवपद्यन्ते ऽधःपतन्ति। स्तोका बिन्दवः।
  • ‘ते (गर्भाः) प्रतिहृता नावपद्यन्ते’ (छां० उ० २।९।६)। अवपद्यन्ते पतन्ति।
  • ‘यदप्स्ववापद्यत’ (तै० ब्रा० २।२।९।४)। अवापद्यत अपतत्। न्यमज्जत्।
  • ‘अन्धा तमांस्यव पादयैनान्’ (अथर्व० ९।२।१०)। तमस्सु पातयेत्यर्थः।
  • ‘तस्या वाचोऽवपादादबिभयुः’ (तै० ब्रा० १।५।१२।१)। अवपादोऽधस्तात्पातोऽवपातः।
  • ‘त्राध्वं कर्तादवपदो यजत्राः’ (ऋ० २।२९।६)। अवपदः पतनात्। अवपद् इति क्विबन्तम्।

पा

  • {अवपा}
  • पा (पा पाने)।
  • ‘अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेषु’ (ऋ० १।१३६।४)। अवनतं पानमवपानमिति सायणः। अवनम्य पानमित्यर्थः।
  • ‘अस्मिन्त्सु सोमेऽवपानमस्तु ते’ (ऋ० १०।४३।२)।
  • ‘गौराद् वेदीयाँ अवपानमिन्द्रो विश्वाहेद् याति सुतसोममिच्छन्’ (ऋ० ७।९८।१)। अवपानम्=पानस्थानं पल्वलादि।
  • ‘ऋश्यो न तृष्यन्नवपानमा गहि’ (ऋ० ८।४।१०)।
  • ‘माप स्थातं महिषेवावपानात्’ (ऋ० १०।१०६।२)। उक्तोऽर्थः। ऋश्यो मृगः।
  • ‘ऋश्यो न तृष्यन्नवपानमा गहि’ (ऋ० ८।४।१०)। अवपानं ग्रहचमसादिपात्रेष्ववनीतं सोमम्। ऋश्यपक्षे ऽवगाह्य पीयतेऽत्रेत्यवपानं पलवलादि।

पा

  • {अवपा}
  • पा (पाल् लुगागमः)।
  • ‘अवपालितोऽरक्षितो भवतीति कोशकाराः।’

पाशय्

  • {अवपाशय्}
  • पाशय् (पाश+णिच्)।
  • ‘शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम्’ (रा० ३।१५।२२)। अवपाशितां सर्वतो बद्धाम्। अत्रोपसर्गस्य प्रसिद्धार्थस्य बाधः।

पीड्

  • {अवपीड्}
  • पीड् (पीड अवगाहने)।
  • ‘ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव’ (भा० १।६२९२)। अवपीड्य=आबाध्य।
  • ‘ममज्जेव मही तस्य भूरिभारावपीडिता’ (भा० पु० १।३७।१०)। अवपीडिता=अवगाढा।
  • ‘(नेत्रे) पार्श्वावपीडिते’ (सुश्रुत० २।१०४।४)। पार्श्वयोः प्रान्तयोरवगाढे इत्याह।
  • ‘अवपीड इति नस्यभेदः’ (सुश्रुत० २।४२।८)।
  • ‘वेगान्तरेषु चावपीडं दद्यात्’ (सुश्रुत० चि० ५।२७)।
  • ‘अवपीडो हितश्चात्र वचाभागाधिकायुतः’ (सुश्रुत० उत्तर० २६।१४)। अवपीड्य दीयते इत्यवपीडो नस्यभेदः।

पॄ

  • {अवपॄ}
  • पॄ (पॄ पालनपूरणयोः)।
  • ‘मधुमेदोऽवपूर्णा च पृथिवी’ (हरि० ३।२६।५४)। अवपूर्णा=पूर्णा। इहावशब्दो नार्थं धातोर्विशिनष्टि। मधुभेदोम्बुपूर्णा चेति पाठान्तरम्।

प्लु

  • {अवप्लु}
  • प्लु (प्लुङ् गतौ)।
  • ‘द्रोणाय व्यसृजद् राजन् स रथादव अवपुप्लुवे’ (भा० द्रोण० १२७।५३)। पुप्लुवेऽवततार।
  • ‘सिंहासनादवप्लुत्य’ (बृ० श्लो० सं० २।८७)। प्लुत्याऽवतीर्येत्यर्थः।
  • ‘अवप्लुत्य रथात् कृष्णः’ (भा० पु० १०।७८।३)। उक्तोऽर्थः।
  • ‘अवप्लुत्य पदानि षट् स्वरथं पुनरास्थितः’ (भा० द्रोण० १४।७४)। अवप्लुत्य=अवतीर्य गत्वा।
  • ‘रथादवप्लुत्य ततोऽभ्यधावत्’ (भा० वन० २६९।१०)।
  • ‘अवप्लुतः सिंह इवाचलाग्रात्’ (भा० भीष्म० ८५।३८)। अवफूर्दितः।
  • ‘धर्मवांस्त्वमधर्मज्ञ सतां मार्गादवप्लुतः’ (भा० सभा० ४१।२०)। अवप्लुतः=प्रच्युतः=भ्रष्टः=विचलितः।
  • ‘अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ’ (भा० द्रोण० १३०।४१)। अवप्लुतौ=अवतीर्णौ।
  • ‘अवप्लुतः स्यादाविःपृष्ठो वा’ (आश्व० गृ० २।१।५)। अवप्लुतः=निमग्नः (धृते)।
  • ‘अवप्लुतम्’ (भा० शल्य० ५७।१९)। प्रहारवञ्चनार्थं नम्रीभूय निःसरणमवप्लुतमिहोक्तम्।

बाध्

  • {अवबाध्}
  • बाध् (बाधृ लोडने)।
  • ‘अङ्गुष्ठाभ्यां चावबाधते’ (भूमिम्) (का० श्रौ० ३।१।७)। अवबाधते अवपीडयति।

बुध्

  • {अवबुध्}
  • बुध् (बुध अवगमने)।
  • ‘विधुरावबोधाः (स्कन्दपु० का० ४।३०।८४)। विधुरो विश्लिष्टः (नष्ट इत्यर्थः) अवबोधोऽज्ञानं यैषां त इति रामानन्दष्टीकाकारः। अन्यत्र दुर्लभोऽयमर्थः।

बृह्

  • {अवबृह्}
  • बृह् (बृह बृहि वृद्धौ)।
  • ‘तदात्मन्व्यतिषजत्यवबर्हाय (शां० ब्रा० ७।९)। अवबर्हाय=अविप्रयोगाय।

बन्ध्

  • {अवबन्ध्}
  • बन्ध् (बन्ध बन्धने)।
  • ‘अवबन्धो हि बुद्धस्य कर्मभिर्नोपपद्यते’ (भा० शां० ३३१।५२)। अवबन्धो नीचो देहबन्धः।
  • ‘अवबन्धः’ (सुश्रुते २।३०६।१२)। **नेत्रपात्रयोः स्तम्भोऽवबन्ध **इहोक्तः।
  • ‘प्रसितः प्रसक्तो यस्तत्र नित्यमेवावबद्धः स उच्यते’ (पा० २।३।४४) सूत्रे काशिकायाम्।
  • ‘शुक्रशोणितयोरवबन्धः’ (सुश्रुत० शारीर० ३।१०)। अवबन्धोऽप्रवृत्तिः।
  • ‘जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य’ (रा० ४।३३।५३)। अवबद्धं बद्धम् आसक्तम्। असक्तमनवरतम्।

बुध्

  • {अवबुध्}
  • बुध् (बुध अवगमने, बुधिर् बोधने)।
  • ‘यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते’ (मनु० ८।५३)। अवबुध्यते=सम्यग् जानाति।
  • ‘दैवतमन्तरेण न शक्यो देवतापदार्थः सम्यगवबोद्धुम्’ (नि० ७।१ इत्यत्र दुर्गवचनम्)। **अवबोद्धुं साकल्येनावगन्तुम्। **
  • ‘तत्र मे कौशलं सर्वमवबुद्धं विशाम्पते’ (भा० वि० ३।१०)।
  • ‘तत्त्वावबोधैकरसो न तर्कः’ (विक्रम०)। उक्तोऽर्थः।

भाष्

  • {अवभाष्}
  • भाष् (भाष व्यक्तायां वाचि)।
  • ‘इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे’ (भा० स्वर्गा० २।४०)। अवशब्दो धात्वर्थं न विशिनष्टि। द्वित्वाभाव आर्षः।

भुज्

  • {अवभुज्}
  • भुज् (भुजो कौटिल्ये)।
  • ‘अवभुग्नभोगिफणमण्डलां भुवम्’ (१५।५४)। अवभुग्नमवनमितम्।

भृ

  • {अवभृ}
  • भृ (भृञ् भरणे)।
  • ‘दीक्षान्तोऽवभृथः’ (अमरः)। अवभ्रियते यज्ञोऽनेनेति व्युत्पत्तेः। इहावशब्द उत्तरपदार्थस्य न्यूनतां नाह यथान्यत्र। रूढश्चायं प्रयोगो नापवाद्यः।
  • ‘यदी घृतेभिराहुतो वाशीमग्निर्भरत उच्चाव च’ (ऋ० ८।१९।२३)। अवभरते अनुच्चैः करोति। वाशीं शब्दम्।

मा

  • {अवमा}
  • मा (माङ् माने)।
  • ‘रत्नसारफल्गु-कुप्यानामर्घ-प्रतिवर्णकमानप्रतिमानोन्मानावमानभाण्डं… निबन्धपुस्तकस्थं कारयेत्’ (कौ० अ० २।७।२)। अवमानं गाम्भीर्यम्।

मन्

  • {अवमन्}
  • मन् (मन ज्ञाने मनु अवबोधने)।
  • ‘जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे’ (उत्तर० ७।८)। अवजानासि, अवगणयसीत्यर्थः।
  • ‘योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः’ (मनु० २।११)। उक्तोऽर्थः।

मान्

  • {अवमान्}
  • मान् (मान पूजायाम्)।
  • ‘भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत्’ (मनु० २।५०)। प्रत्याख्यानेन न तिरस्कुर्यात्।

मिह्

  • {अवमिह्}
  • मिह् (मिह सेचने)।
  • ‘नरो हितमव मेहन्ति पेरवः’ (ऋ० ९।७४।४)। अवस्तान्नीचै र्वर्षन्ति।

मुच्

  • {अवमुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘मेखलामवमुञ्चते’ (गो० गृ० ३।४।२३)। अवमुञ्चते=अधस्तान्मुञ्चते=अवतारयति। अवमुक्तोपानत्कः=अवमुक्ते परिहृते उपानहौ येन सः।
  • ‘अवमुच्य स्ववक्षोभ्यो रुक्मं तस्मै तदा ददुः’ (बृ० दे० ५।७२)। अवमुच्य अवतार्य।

मूर्च्छ

  • {अवमूर्च्छ}
  • मूर्च्छ (मुर्छा मोहसमुच्छ्राययोः)।
  • ‘कस्मादेषां कलहो नावमूर्च्छेत्’ (भा० उ० २९।३)। अवमूर्च्छेत्=वर्धेत। अत्र मूर्च्छतेः केवलस्य योऽर्थः समुच्छ्रायलक्षणः स एवावपूर्वस्य। अपि वाऽवो विशेषकः स्यात्। नावमूर्च्छेत्=नापकृष्येत, न शाम्येत्। अवोऽसाकल्ये।

मृज्

  • {अवमृज्}
  • मृज् (मृजू शुद्धौ)।
  • ‘अथ यदन्तर्यामं हुत्वा। अवाञ्चमवमार्ष्टि’ (श० ब्रा० ४।५।५।६)। अवमार्ष्टि=अवस्तान्मार्ष्टि=शोधयति।
  • ‘सर्वं तूष्णीमनुक्रामन्नुच्च मार्ष्टि अव च मार्ष्टि’ (बौ० श्रौ० २।१८।३६)। उन्मार्ष्टि=ऊर्ध्वभागे मार्ष्टि। अवमार्ष्टि=अवस्तादधोभागे मार्ष्टि।
  • ‘इमा ते वाजिन्नवमार्जनानि’ (ऋ० १।१६३।१५)। अवमृज्यतेऽनेनेत्यवमार्जनमवमर्दनसाधनम्। कङ्कतविशेषः।

मृद्

  • {अवमृद्}
  • मृद् (मृद क्षोदे)।
  • ‘शत्रुबलावमर्दनः’ (रा० ३।३५।११४)। अवमर्दनः= विध्वंसकः।
  • ‘हस्तपादावमर्दनम्’ (पञ्चत०)। उद्वर्तनमित्यर्थः।

मृश्

  • {अवमृश्}
  • मृश् (मृश आमर्शने आमर्शनं स्पर्शः)।
  • ‘अवमृशन्ती कलहंसकान्’ (काद०)। परामृशन्ती स्पृशन्तीत्यर्थः।
  • ‘तद्धावमृश्य न विवेद’ (छां० उ० ६।१३।१)। अवमृश्य=अन्विष्य।
  • ‘तद्धावमृश्य न विवेद’ (छां० उ० ६।१३।१)। पुस्तके कृतन्यासमिदं भूयोवैशद्यायेहानूद्यते। तल्लवणं सलिलेऽन्तरवहितमभितः स्पृष्ट्वा न विवेद न लेभ इत्यर्थः।

यज्

  • {अवयज्}
  • यज् (यज देवपूजासंगतिकरणादानेषु)।
  • ‘तांस्ते यज्ञस्य मायया सर्वान् (वरुणस्य पाशान्) अवयजामहे’ (तै० ब्रा० ३।१०।८।२)। अवयजामहे=यज्ञकर्मणा पराणुदामः।
  • ‘सुन्वानो हि ष्मा यजत्यव द्विषः’ (ऋ० १।३३।७)। उक्तचर एवार्थः।
  • ‘अव देवानां यज हेडो अग्ने’ (अथर्व० १९।३।४)। अवयज=तिरस्कुरु। यजतिः पूजाकर्मा। अवस्तद्वैपरीत्यकृत्। पूजायाश्च वैपरीत्यमनादरः पराक्रिया।
  • ‘यदेनश्चकृमा वयमिदं तदवयजामहे’ (वा० सं० ३।४५)। अवयजामहे=अपनोदयामः=अपाकुर्मः।
  • ‘या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि याऽऽदित्ये या बृहति या जागते छन्दसि तां त एतेनावयजे’ (आप० श्रौ० ५।४।१६।४)। अवयजे=यजे=पूजयामि। अत्रानर्थकोऽवः।
  • ‘यदेकस्याधि धर्मणि तस्यावयजनमसि’ (वा० सं० २०।१७)।
  • ‘या तेषामवया दुरिष्टिः’ (अथर्व० २।३५।१)। अवया अवयजनं यागाननुष्ठानम् इति सायणः। अपकर्षवचनोऽवोऽत्र नञर्थे वर्तते। साधीयसी खल्वेषा वृत्तिः।
  • ‘अवेष्टा दन्दशूकाः’ (श० ब्रा० ५।४।१।१) अवेष्टा दूरीकृता अपनुन्नाः।
  • ‘प्रजाः सृष्ट्वांहोऽवयज्य सोऽकामयत वृत्रं हन्यामिति’ (मै० सं० १।१०।१४)। अंहोऽवयज्य=अंहोऽवेज्य=पाप्मानं विपूय।
  • ‘यथोदितमेव वरुणमव यजते’ (तै० सं० ६।३।१२)। अवयजते यजते। अव इह विशेषको न, तद्विरलम्।

या

  • {अवया}
  • या (या प्रापणे)।
  • ‘अव देवैर्देवकृतमेनोऽयासिषम्’ (वा० सं० ३।४८)। अवयासिषम्=अवायासिषम्=अवानैषमित्यर्थः।
  • ‘वरुणस्य हेडोऽवयासिसीष्ठाः’ (ऋ० ४।१।४)। वरुणस्य क्रोधमपनेषीष्ठा इत्याह।
  • ‘नू चित्सुदानुरवयासदुग्रान्’ (ऋ० ६।६६।५)। अवयासत्=अपगमयेत्।
  • ‘अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे’ (कि० १०।१५)। अवययुः=अवजग्मुः।
  • ‘न जनोऽयमित्यवयये च स तापसैः’ (कि० १२।१५)। अवयये=जज्ञे। कर्मणि लिट्।
  • ‘अथवा धर्ममसुबोधसमयमवयात बालिशाः’ (शिशु० १५।१९)। अवयात=जानीत।
  • ‘भवा मरुद्भिरवयातहेडाः’ (ऋ० १।१७१।६)। अवयातहेडाः=शमितक्रोधः।
  • ‘अवयाता सदमिद् दुर्मतीनाम्’ (ऋ० १।१२९।११)। अवयाता=अपाकर्ता=शमयिता।
  • ‘अवयाता हरसो दैव्यस्य’ (अथर्व० २।२।२)। अवयाता=अपगमयिता=शमयिता। उभयत्रान्तर्णीतण्यर्थको यातिः।
  • ‘नेह भद्रं रक्षस्विने नावयै नोपया उत’ (ऋ० ८।४७।१२)। अवयै=अवयातुम्=इतोऽपवर्तितुम्=अपसर्प्तुम्। उपयै=उपयातुमुपसर्प्तुम्।
  • ‘उद्यानं ते पुरुष नावयानम्’ (अथर्व० ८।१।६)। अवयानम्=अवाङ्गमनम्।
  • ‘कलाजातं हि सर्वं त्वमवयास्यसि मे वरात्’ (स्कन्दपु० का० ४।८६।८०)। अवयास्यसि अवैष्यसि ज्ञास्यसि।

यस्

  • {अवयस्}
  • यस् (यसु प्रयत्ने)।
  • ‘देवस्य हेडोऽवयासिसीष्ठाः’ (ऋ० ४।१।४)। अपनयेत्यर्थः। अवपूर्वो यासिर्विनाशे वर्तत इति सायणः।

यु

  • {अवयु}
  • यु (यु मिश्रणामिश्रणयोः)।
  • ‘अवयुवती’ (नि० ४।११)। वियुञ्जाने।
  • ‘ययोरन्याऽघानि द्वेषांस्यवयावयति’ (नि० ९।४२।१)। अवयावयति अवमिश्रयति, अपनयति, पराकरोति, अपाकरोति।

राध्

  • {अवराध्}
  • राध् (राध साध संसिद्धौ)।
  • ‘अवैतेनारात्सीरसौ स्वाहा’ (अथर्व० ५।६।६)। अवरात्सीः=अवारात्सीः=व्यृध्यसि=न भवसि=न सिध्यसि=न सिद्धार्थो भवसि।
  • ‘यथैव षडवराध्नोति स रिक्तः’ (ऐ० ब्रा० ३।७)। षट् छब्दो वषट्कारमाह। अवराध्नोति समृद्ध्यभावमाप्नोति।

री

  • {अवरी}
  • री (रीङ् स्रवणे)।
  • ‘अवरीणो धिक्कृतश्चापीत्यमरः।’

रुच्

  • {अवरुच्}
  • रुच् (रुच दीप्तौ प्रीतौ च)।
  • ‘अदो यदवरोचते चतुष्पक्षमिवच्छदिः’ (अथर्व० ३।७।३)। अवभासते। अवशब्दो रोचनस्यासाकल्यमाह। एवं विरोचते इत्यस्य प्रतिद्वन्द्वि भवत्यवरोचत इति।

रुज्

  • {अवरुज्}
  • रुज् (रुजो भङ्गे)।
  • ‘अवरुज्य ययौ गुल्मान्पथस्तस्य समीपजान्’ (भा० आदि० १५१।३)। अवरुज्य=अवभज्य=नीचैर्भग्नान् कृत्वा।
  • ‘परश्वधैः शाल इवावरुग्णाः’ (भा० कर्ण० ८२।५)। अवरुग्णोऽधोभग्नः।

रुद्

  • {अवरुद्}
  • रुद् (रुदिर् अश्रुविमोचने)।
  • ‘अवक्षुतमवरुदितं तथा श्राद्धे च वर्जयेत्’ (भा० अनु० ९१।४१)। यस्योपरि अश्रूणि पतितानि तद् (अन्नम्) अवरुदितमुच्यते।

रुध्

  • {अवरुध्}
  • रुध् (रुधिर् आवरणे)।
  • ‘स ह गवां सहस्रमवरुरोध’ (बृ० उ० ३।१।१)। व्रजेऽपिदधौ। कथं तर्हीमौ द्वौ प्रधानशब्दौ युगपदवरुध्येते ( )। नियम्येते इत्यर्थः। गामवरुणद्धि व्रजम्। यदा प्रवेशयतीत्यर्थस्तदा (ऽधिकरणस्य) कर्मसंज्ञा विहिता (पा० १।४।५१ सूत्र न्यासे)।
  • ‘स्रोतसां वर्त्मान्यवरुध्यन्ते गर्भेण’ (सुश्रुते १।३२८।८)। अवरुध्यन्ते=पिधीयन्ते।
  • ‘आव श्मशा रुधद्वाः’ (ऋ० १०।१०५।१)। अपोरुणदित्याह। अपां गतिं रुद्धवानित्यर्थः।
  • ‘समुदायनिपातनाच्चार्थविशेषेऽवरुध्यन्ते’ (द्विदण्ड्यादयः) (पा० ५।४।१२८ सूत्रे काशिकायाम्)। अवरुध्यन्ते=नियम्यन्ते।
  • ‘यस्य चार्थेऽवरुध्यसे’ (रा० २।३०।९)। अवरुध्यसे=वार्यसे=बहिष्क्रियसे=अपनुद्यसे।
  • ‘सा मेऽमुष्मादिदमवरुन्ध्यात्’ (कौ० उ० २।३)। अवरुन्ध्यात्=प्रापयेत्=प्रासादयेत्=उपनमयेत्।
  • ‘सर्वेषां छन्दसां वीर्यमवरुन्धे’ (ऐ० ब्रा० १।१)। प्राप्नोतीत्यर्थः। अवरोधः प्राप्तिरिति षड्गुरुशिष्यः।
  • ‘चुम्ब्यते शतकृत्वोऽवरुध्यते सहस्रकृत्वः’ (ध्वन्यालोके १।१४ व्याख्यायाम्)। अवरुध्यते=आलिङ्ग्यते। तेऽर्चन्तः श्राम्यन्तश्चेरुः।
  • ‘अमृतत्वमवरुरुत्समानाः’ (श० ब्रा० १०।४।३।६)। अवरुरुत्समाना अवरोद्धुं प्राप्तुमिच्छन्तः, ईप्सन्त इत्यर्थः। निगदितरूपैर्जलधरजालैस्त्र्यहमवरुद्ध द्व्यहमथवाऽहः।
  • ‘यदि वियदेवं भवति सुभिक्षम्…’ (बृ० सं० २४।२०)। अवरुद्धमाच्छादितम्।
  • ‘अन्यक्षेत्रे अवरुद्धं चरन्तम्’ (अथर्व० ३।३।४)। अवरुद्धं शत्रुभिर्निरुद्धमिति सायणः।
  • ‘अथ बोधिसत्त्वस्तथेत्यस्मै प्रतिश्रुत्य यत्र ते नृपसुतास्तेनावरुद्धास्तत्रैवाभिजगाम’ (अवदा० सुत० जा०)। अवरुद्धाः=निरुद्धाः।
  • ‘तासां चेदवरुद्धानां चरन्तीनां मिथो वने’ (मनु० ८।२३६)। अवरुद्धानां पालेन नियमितानाम्।
  • ‘अवरुद्धोऽचरत्पार्थो वर्षाणि त्रिदशानि च’ (भा०)। अवरुद्धः संवृताकारः।
  • ‘अवरुद्धा रथिनः केकयेभ्यः’ (भा० उ० २२।२०)। अवरुद्धाः=निष्कासिताः=निःसारिताः=निर्वासिताः। देव्यः परिणयाहृताः।
  • ‘अवरुद्धापि जयमत्यभिधाना’ (राज० ७।७२४)। अवरुद्धाऽन्तःपुरे निक्षिप्ता विधिवदनूढा।
  • ‘अवरुद्धासु दासीषु भुजिष्यासु तथैव च’ (याज्ञ० २।२९०)। पुरुषान्तरोपभोगतो निरुद्धाः सेवार्थं रक्षिता इति मिताक्षरा।
  • ‘प्रहर्षेणावरुद्धा सा व्याहर्तुं न शशाक ह’ (रा० ६।११३।१४)। हर्षपरीतां हर्षवशगां हर्षेण परवतीमाह।
  • ‘अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि’ (रा० २।११७।२२)। अवरुद्धं पित्रा नियुक्तमिति तिलकः।
  • ‘न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुद्यतम्’ (रा० ३।१।३३)। अवरोद्धुम्=उपरोद्धुम्=नियन्तुम्।
  • ‘सर्वग्रहणं शूद्रावरोधनार्थम्’ (मनु० १।२ इत्यत्र मेधातिथिवचनम्)। अवरोध उपसङ्ग्रहः।
  • ‘बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले। तव कार्यावरोधस्तु तस्माद् गच्छावमाचिरम्’ (भा० उ० ९८।२५)॥ अवरोधः=उपरोधः=अन्तरायः।
  • ‘अज्ञातचर्या बालानामवरोधश्च माधव’ (भा उ० ९०।५९)। अवरोधो राज्याप्रदानरूपो वृत्तिनिरोध इति नीलकण्ठः।
  • ‘अच्युतो रोधावरोधाद् ध्रुवो राष्ट्रे प्रतितिष्ठति’ (कौ० सू० ९८)। अवरोधोऽधः पातनम्, मज्जनम्।
  • ‘फेनायमानं स्रोतोवरोधः’ (सुश्रते)। अवरोधः=उपरोधः।
  • ‘निन्ये विनीतैरवरोधदक्षैः’ (कु० ७।७३)। अवरोधः शुद्धान्तः=अन्तःपुरम्।
  • ‘यस्यावरोधस्तनचन्दनानां प्रक्षालनाद् वारि विहारकाले’ (रघु० ६।४८)। अवरोधोन्तःपुरस्था योषितः। दुर्गावरोधः=शत्रुबलेन कृतो दुर्गरोधः।
  • ‘प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्’ (रा० १।४।३५)। प्रत्ययभेदो नार्थभेदः।
  • ‘मन्ये प्रकाशीकृतमूर्धजानि रणं प्रविष्टान्यवरोधनानि’ (ऊरु० १।३८)। अवरोधनानि=अन्तःपुरजनः।
  • ‘राजावरोधनवधूरवतारयन्तः’ (शिशु० ५।१८)। अवरोधनमन्तः पुरम्।
  • ‘अवरोधनानि सिन्धोः’ (शिशु० ८।८)। समुद्रमहिष्यो नद्य इत्यर्थः।
  • ‘योग्यः कन्यावरोधने’ (वि० पु० ६।१।१२)। भार्यात्वेन ग्रहण इत्यर्थः।
  • ‘यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद’ (ऐ० ब्रा० ४।१४)। अंश आद्योऽवरोधः स्यात्।
  • ‘सर्वेषां कामानामवरुद्ध्यै’ (ऐ० ब्रा० २।१७)। अवरुद्धिः प्राप्तिः, तस्यै।
  • ‘अन्नाद्यस्यावरुद्ध्यै’ (जै० ब्रा० १।७८)। उक्तोऽर्थः।
  • ‘कस्य चित्त्वथ कालस्य साङ्काश्यादागतः पुरात्। मिथिलामवरोधकः…’ (रा० १।७१।१६)। अवरोधक आगतः=अवरोद्धुमागतः। अत्रार्थे परिवेष्टनरूपे केवलो रुधिरपि शक्यप्रयोगः।
  • ‘देवराज, दुरवरोधोऽयमनयोर्महावीरयोर्मिथो विमर्दः’ (महावीर० ६)। दुरवरोधो दुर्निवारः।
  • ‘तेनोद्वेगेन राजा तानवरुन्ध्यात्’ (कौ० अ० १।१०।१०)। अवरुन्ध्यात् आसेधेत्, निषिद्धस्वेच्छाचारान् निषिद्धस्वच्छन्दगतीन् कुर्यात्।
  • ‘तद् देवा विजित्यावरुरुत्समाना अन्वायन्’ (तै० सं० १।५।१)। अवरुरुत्समाना आत्मसात्कर्तुमिच्छन्तः।
  • ‘मर्म्मगतस्त्वगादिष्ववरुद्धत्वान्नोच्यते’ (सुश्रुत० सूत्र० २२।६)। अवरुद्धः संगृहीतः।
  • ‘अनवरुद्धा वा एतस्य विराड् य आहिताग्निः’ (तै० सं० १।७।६)। अनवरुद्धाऽस्वाधीना।
  • ‘अनवरुद्धस्यावरुद्ध्यै’ (तै० ब्रा० १।३।८)। अस्वीकृतस्य स्वीकृतय इत्याह।
  • ‘अथास्यैष स्वभक्षो न्यग्रोधस्यावरोधाः’ (ऐ० ब्रा० ७।३०)। शाखाभ्योऽवाङ्मुखत्वेन प्ररोहन्तोमूलविशेषा अवरोधाः।
  • ‘विततेव दूर्वाऽवरोधै र्भूम्यां प्रतिष्ठितेव’ (ऐ० ब्रा० ८।८)। उक्तोऽर्थः।
  • ‘नह्येकस्मिञ्शास्त्रे शक्यः सर्वशास्त्राणामवरोधः कर्तुम्’ (सुश्रुत० १।४।५)। अवरोध उपसङ्ग्रहः।
  • ‘राजा किल मामवरोधयिष्यति’ (कौ० अ० १२।२।२१)। शुद्धान्तेऽन्तः करिष्यति, अन्तः पुरगतां करिष्यति।

रुह्

  • {अवरुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘अस्माकमुत्तमं कृधीत्यादित्यमीक्षमाणो जपित्वाऽवरोहेत्’ (आश्व० गृ० २।६।१२)। अवरोहेत्=संसदं प्रपद्येत।
  • ‘यानासनस्थश्चैवैनमवरुह्याभिवादयेत्’ (मनु० २।२०२)। अवरुह्यावतीर्य।
  • ‘यौ व्याघ्राववरूढौ जिघत्सतः पितरं मातरं च’ (अथर्व० ६।१४०।९)। अवरूढौ=इत उपेतौ=अर्वाङ्मुखौ प्राप्तौ।
  • ‘यदत्रिर्वामवरोहन्नृबीसम्’ (ऋ० ५।७८।४)। अवरोहन्=अवगाहमानः=प्रविशन्।
  • ‘अवरोहशताकीर्णं वटमासाद्य तस्थतुः’ (रा० २।५२।९६)। अवरोहोऽवलम्बमानाः शाखा या भूमौ पुनर्मूलानि बध्नन्ति। अमरोप्याह=शाखाशिफाऽवरोहः स्यात्। शाखाया अवलम्बिनी शिफा।
  • ‘इतरेष्वागमाद् धर्मः पादशस्त्ववरोपितः’ (मनु० १।८२)। अवरोपितोऽवकलितो हीनः कृतः।
  • ‘शूनपाणिपादोदरमपगताक्षमुद्वृत्तनाभिमवरोपितं विद्यात्’ (कौ० अ० ४।६)। अवरोपितं शूलारोपितम्।

लग्

  • {अवलग्}
  • लग् (लगे सङ्गे)।
  • ‘अवलगनरूपेणोपगम्य’ (तन्त्रा० १।३)।
  • ‘कृशावलग्नसंलग्नसप्तकीसंभृतश्रियम्’ (शि० भा० २।५६)। अवलग्नम्=मध्यम्, उदरम्।
  • ‘क्षिप्तो हस्तावलग्नः प्रसभमभिहतः’ (ध्वन्यालोके ५।५१ व्याख्यायाम्)। अवलग्नः स्पृष्टः।
  • ‘स्कन्धावलग्नोद्धृतपद्मिनीकः’ (रघु० १६।६८)। अवलग्ना संसक्ता।

लम्ब्

  • {अवलम्ब्}
  • लम्ब् (लबि अवस्रंसने)।
  • ‘किं न पश्यसि, सर्वोऽयं जनस्त्वामवलम्बते’ (भट्टि० १८।४१)। त्वामवलम्बते=त्वत्सापेक्षः, त्वय्याधृतः।
  • ‘उर्वशी राजानमवलम्बते’ (विक्रम०)। राजशरीर आत्मानमवस्रंसयति।
  • ‘व्यवहारोऽयं चारुदत्तमवलम्बते’ (मृच्छ०)। चारुदत्तेन सम्बध्यत इत्यर्थः।
  • ‘सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते’ (भाषापरि०)। साजात्यं समानजातित्वमवलम्बतेऽपेक्षते।
  • ‘के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः’ (भा० आदि० १३।१६)। अवलम्बन्ते=निपतिताः।
  • ‘अन्तरेण तालुके। य एष स्तन इवावलम्बते’ (तै० उ० १।६।१)। अवलम्बतेऽन्तरा तिष्ठति।
  • ‘भूतं हित्वा च भाव्यर्थे योऽवलम्बेत मूढधीः’ (भा० आदि० २३३।१५)। अवलम्बेत=श्रयेत।
  • ‘शक्यमिदानीं जीवितमवलम्बितुम्’ (माल०)। अवलम्बितुम्=धर्तुम्।
  • ‘हस्तेऽवलम्ब्य तम्’ (कथा० १२१।१७६)। अवलम्ब्य-आदाय, गृहीत्वा।
  • ‘ययौ तदीयामवलम्ब्य चाङ्गुलिम्’ (रघु० ३।२५)। उक्तोऽर्थः।
  • ‘अवलम्ब्यापराः कण्ठे हरिम्’ (हरि० २।८८।२६)। अवलम्ब्य=आसज्य परिरभ्य।
  • ‘चित्रलेखाहस्तावलम्बिता’ (विक्रम० १)। अवलम्बिता=अवष्टब्धा।
  • ‘कनकशृङ्खलावलम्बिनी’ (मुद्रा० २)। अवलम्बिनी=अवस्रंसमाना।

लिख्

  • {अवलिख्}
  • लिख् (लिख अक्षरविन्यासे)।
  • ‘नीवीमवलिखतो द्विगुणः’ (कौ० अ० १।७।२५)।
  • ‘दारुमयानां पात्राणामुच्छिष्टसमन्वारब्धानामवलेखनम्’ (बौ० ध० १।६।१३।२६)। अवलेखनं धर्षणम्।
  • ‘यथा दन्तप्रक्षालनोत्सादनावलेखनानीति’ (आप० ध० ११२।८।५)। अवलेखनं कङ्कतादिना केशानां विभागेनावस्थापनम्।
  • ‘अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु’ (भा० पु० ७।१२।१२)। अवलेखा शरीरमृजा, अलङ्करणम्। अन्यत्र दुर्लभोऽत्रार्थे प्रयोगः।
  • ‘बहुशोऽवलिखेच्चापि वर्त्मास्योपगतं यदि’ (सुश्रुत० उत्तर० १२।२३)। अवलिखेत् विलिखेत् उल्लिखेत्। वर्त्म तुण्डम्। उपगतमुच्चतां गतमुपर्यागतम्।

लिप्

  • {अवलिप्}
  • लिप् (लिप उपदेहे)।
  • ‘कर्णा याम्याः, अवलिप्ता रौद्राः, नभोरूपाः पार्जन्याः।’ अवलिप्ता दूषिताः। अवशब्दो लेपस्य दौष्ट्यमाह।
  • ‘भार्गव भार्गव ! अति हि नामावलिप्यसे’ (महावीर० ३)। अतिगर्वितोसीत्याह।
  • ‘गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्’ (रा० २।२१।१३)। अवलिप्तस्य गर्वितस्य।
  • ‘अवलिप्तं मुखं ब्रह्मन् दिव्यान्गन्धान् बिभर्मि च’ (भा० आदि० १६७।३७)। अवलिप्तं दूषितं लालादिना। अवलेपः स्याद् गर्वे लेपने द्वेषणेपि चेति मेदिनी।
  • ‘अहंकृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम्’ (भा० आदि० १५८।११)। अहंकृतमहङ्कारः, तेनावलिप्तैर्दूषितैः।
  • ‘न मूखैर्नावलिप्तैश्च’ (संवसेत्) (मनु० ४।७९)। अवलिप्ता धनादिमदगर्विताः।
  • ‘केनान्येनावलिप्ताः’ (मुद्रा० ३।२७)। अवलिप्ताः=निबर्हिता:, निसूदिताः, हिंसिताः।
  • ‘अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि’ (हरि० १।२७।७)। अवलेपो गर्वः, दर्पः।
  • ‘रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम्’ (नारा० ७५।१)। अवलीढं पिहितं रुद्धम्।

लिह्

  • {अवलिह्}
  • लिह् (लिह आस्वादने)।
  • ‘आसुरी वै दीर्घजिह्वी देवानां प्रातःसवनमवालेट्’ (ऐ० ब्रा० ८।४)। अवालेट्=किञ्चिदलिक्षदित्यर्थः।
  • ‘नोत्सहे परिभोगाय श्वावलीढं हविर्यथा’ (भा० ३।२९१)। उक्तोऽर्थः।
  • ‘नवयौवनावलीढावयवा’ (दशकु०)। यौवनाभिव्याप्तगात्रा। औपचारिकः प्रयोगः।
  • ‘अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे’ (वेणी० ३।७)। उदितचर एवार्थः।
  • ‘पापामचोक्षामवलेहिनीं च’ (भा० अनु० ११।१२)। अवलेहिनीम्=सृक्किणी लेलिहानाम्।

ली

  • {अवली}
  • ली (लीङ् श्लेषणे)।
  • ‘कर्ण चापच्युतैर्बाणैर्बध्यमानास्तु सोमकाः। अवालीयन्त राजेन्द्र वेदनार्ता भृशार्दिताः’ (भा० कर्ण० २४।२६)॥ अबालीयन्त=अवानमन्, भुवमालिङ्गन्।
  • ‘दोषा: स्रोतस्ववलीयमाना घनोभावमापन्नाः’ (सुश्रुत० २।१९५।१०)। अवरुध्यमाना अप्रवहन्तोऽविसर्पन्तः।
  • ‘लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली’ (रा० ६।९९।४३)। अवलीयन्ती=अवलीयमाना=सङ्कुचन्ती=प्रविशन्तीव।
  • ‘विहगादिभिरवलीनैः’ (बृ० सं० ५३।११४)। अवलीनैः=अवतीर्णैः।
  • ‘पुनर्वृक्षमवलीनो मन्थरकमब्रवीत्’ (तन्त्रा० २।४)। वृक्ष आलीनः, वृक्षमाश्रितः।
  • ‘आलानमवलीनानां वन्यानामिव दन्तिनाम्’ (यो० वा० ६ (२) ९३।७७)। अवलीनाः संलीना दुर्बलाः कृशाः।
  • ‘अवलीनः स निर्वाक्यो हनुमान् शिंशपाद्रुमे’ (रा० ५।२४।१४)। अवलीनश्छन्नः।
  • ‘चोरहतमन्ययूथप्रविष्टमवलीनं वा नष्टम्’ (कौ० अ० २।२९।१२)। अवलीनं विभ्रष्टं प्रच्युतम्।

लुप्

  • {अवलुप्}
  • लुप् (लुप्लृ छेदने)।
  • ‘वृकवच्चावलुम्पेत।’ अवलुम्पेत=अवकृन्तेत्=सरभसमामृशेत्।
  • ‘अन्योन्यस्यावलुम्पन्ति सारमेया यथामिषम्। राजन्या भरतश्रेष्ठ भोक्तुकामा वसुन्धराम्’ (भा० भीष्म० ९।७३)॥ अवलुम्पन्ति=अपच्छिन्दन्ति आच्छिन्दन्ति।
  • ‘अवलुप्यमान इव दृष्टिपातैः’ (काद०)। औपचारिकः प्रयोगः।

लोक्

  • {अवलोक्}
  • लोक् (लोकृ दर्शने)।
  • ‘नोलूकोप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम्’ (भर्तृ०)।
  • ‘वृतिं च तत्र कुर्वीत यामुष्ट्रो नावलोकयेत्’ (गौ० ध० सूत्रव्याख्यायां मिताक्षरायामुद्धृतः पाठः, मनौ ८।२३९ इत्यत्र तु… न विलोकयेदिति पाठः स्थितः)। वृतिं कण्टकादिमयीं तथोच्छ्रितां कुर्याद्यथोद्ग्रीवोपि क्रमेलकस्तां नातिपश्येदित्युक्तं भवति। अवशब्दोऽधोवचनः साम्प्रतम्।
  • ‘सलिलेष्ववलोकयत इवात्मानं प्रतिष्ठानस्य’ (विक्रम० २)। उच्चैः स्थितस्य प्रसन्नेषु वारिषु प्रतिबिम्बमात्मनो लभमानस्येत्यर्थः।
  • ‘आत्मानमात्मन्यवलोकयन्तम्’ (कु० ३।५०)।
  • ‘धन्यास्म्यनुगृहीतास्मि देवैश्चाप्यवलोकिता। यत्…’ (मार्क० पु० १६।६५)॥ अवलोकिता=अनुध्याता=अनुकूलमीक्षिता।
  • ‘अप्यत्र ज्ञायन्ते पुत्रकृतका वृक्षाः। जानामि जानामि। अवलोकितपत्रका उल्लोकयितव्याः सम्प्रति संवृत्ताः’ (प्रतिमा ७)। अवलोकितपत्रका अधोनिक्षिप्ताभ्यां दृग्भ्यां शक्यदर्शनानि पत्रकाणि किसलयानि येषां ते तथाभूताः। स्थानेऽवस्य प्रयोगः। स्थानेतरां चोल्लोकयितव्यशब्द उच्छब्दस्य। अहो एवमुपसर्गेष्ववहितः कविः।
  • ‘सुरपतिगुरुणावलोकिते’ (बृ० सं० ५।६२)। अवलोकिते=प्रभाविते।
  • ‘अवलोकेषु वारीणां सहस्राणि शतानि च’ (भा० आदि० २१८।१८)। समाजग्मुरित्यनुषङ्गः।
  • ‘दीर्घिकावलोकनगवाक्षगता’ (माल०)। अधः स्थिता दीर्घिका यतो लोकयितुं शक्या स दीर्घिकावलोकनो गवाक्षस्तं गता तत्र स्थिता। दिगवलोकनप्रासादः। यत्र स्थितेन सर्वा दिशोऽवलोकयितुं शक्यन्ते स तथाभूतः।
  • ‘प्रेषितस्ते यदा वीर हनूमानवलोककः’ (रा० ६।१०१।१३)। अवलोककः=अन्वेषकः=स्पशः=चरः।
  • ‘सजलानि समाख्यानि सावलोकनकानि च’ (गृहाणि) (मात्स्यपु० १४०।५६)। अवलोकनकं गवाक्षः।

लिप्

  • {अवलिप्}
  • लिप् (लिप उपदेहे)।
  • ‘रूप्यभाण्डं घनं सुषिरं वा सुवर्णार्धेनावलेपयेत्’ (कौ० अ० २।१३।४५) अदलेपयेत् उपदिह्यात्।

लोच्

  • {अवलोच्}
  • लोच् (लोचृ दर्शने)।
  • ‘अवलोचनमिति कामवासनाया अभाव इति कोषः।’

वद्

  • {अववद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘मा श्रियोऽववादिष्मेति दुरववदं हि श्रेयसः’ (ऐ० ब्रा० ५।२२)। निन्दया मा हिंसिष्म, माऽवक्रुक्षामेति वाऽऽह। अववादस्तु निर्देशो निदेशः शासनं च तत् (अमरः)। कार्यमवलम्ब्य वादो वदनं कथनमववादः। किं मह्यभाक्तेति।
  • ‘एतमेव निष्ठावमववदितारमित्यब्रुवन्’ (ऐ० ब्रा० ५।१४)। अववदिता=अवच्छिद्य वदितुं समर्थः (सायणः)। अववदिता शिक्षकः। अवः सान्त्वन इति षड्गुरुशिष्यः।
  • ‘मा श्रियोऽववादिष्म’ (ऐ० ब्रा० १।२२)। मा निन्दिष्मेत्यर्थः।

वा

  • {अववा}
  • वा (वा गतिगन्धनयोः)।
  • ‘न्यग् वातोऽववाति’ (ऋ० १०।६०।११)। अववाति नीचैर्वाति। न्यवछब्दसमभिव्याहारादवोऽनर्थकः।

वी

  • {अववी}
  • वी (गतिव्याप्तिप्रजनकान्त्यसनखादनेषु)।
  • ‘अववेति सुक्षयं सुते मधु’ (ऋ० १०।२३।४)। अववेति=अन्वेषते।

वृष्

  • {अववृष्}
  • वृष् (वृषु सेचने)।
  • ‘यस्याग्निहोत्रं स्रुच्युन्नीतमुपरिष्टादववर्षेत्’ (श० ब्रा० १२।४।२।१०)। अग्निहोत्रमिति द्वितीयान्तम्।
  • ‘यस्याग्निहोत्रमववर्षेत्’ (आप० श्रौ० ९।१।२।४०)। होमार्थद्रव्यस्योपरिवर्षबिन्दुर्निपतेदित्युभयत्र साधारणोऽर्थः।

व्यध्

  • {अवव्यध्}
  • व्यध् (व्यध ताडने)।
  • ‘अवाजुष्टान् विध्यति कर्ते अव्रतान्’ (ऋ० ९।७३।८)। अवविध्यति=अधः क्षिपति।
  • ‘अवविद्धं तौग्र्यमप्स्वन्त’ (ऋ० १।१८२।६)। अवविद्धम्=अवहितम्=निपातितम्=अधः क्षिप्तम्।

शद्

  • {अवशद्}
  • शद् (शद्लृ शातने)।
  • ‘अग्नेर्व्यवशादमन्वसुरा व्यवशेदुः’ (श० ब्रा० २।१।२१६)। व्यवशेदुः=विशशरुः=विशीर्णा अभूवन्।
  • ‘ये प्रत्यञ्चः शम्याया अवशीयन्ते’ (तै० सं० १।८।१)। अवशीयन्ते ऽवपतन्ति।

शस्

  • {अवशस्}
  • शस् (शसु हिंसायाम्)।
  • ‘अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः’ (अथर्व० ६।४५।२)। अवशसा अवस्ताद् हिंसनेन। अवपूर्वाच्छसेः क्विप्।

शिष्

  • {अवशिष्}
  • शिष् (शिष्लृ विशेषणे, शिष असर्वोपयोगे)।
  • ‘पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’ (बृ० उ० ५।१।१)।
  • ‘कियदवशिष्टं रजन्याः’ (शा० ४)। उर्वरितमित्यर्थः।

शुष्

  • {अवशुष्}
  • शुष् (शुष शोषणे)।
  • ‘अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन’ (कृताभिषेकैर्न्यस्ता वल्कलाः) (रा० ३।७४।२७)। अल्पमपि न शुष्का इत्यर्थः।

श्यै

  • {अवश्यै}
  • श्यै (श्यैङ् गतौ)।
  • ‘नावश्यायः पपातोर्व्याम्’ (भा० आदि० १७३।४०)। अवश्यायस्तुषारबिन्दवः।
  • ‘अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम्’ (उत्तर० ६।२०)।

श्रि

  • {अवश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘अधिश्रयणावश्रयणान्तादिः पूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः’ (सा० द० १ )। अवश्रयणमधः श्रयणम्।

श्रन्थ्

  • {अवश्रन्थ्}
  • श्रन्थ् (श्रन्थ विमोचनप्रतिहर्षयोः)।
  • ‘उदुत्तमं वरुण पाशमस्मदवाऽधमं वि मध्यमं श्रथाय’ (अथर्व० १।८।४।६९)। अवश्रथाय=अवश्रथान=अवस्तान्मोचय।

सञ्ज्

  • {अवसञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘त्रिवृद् दर्भमयं पवित्रं कृत्वा वसूनां पवित्रमसीति शाखायां शिथिलमवसजति मूले मूलान्यग्रेऽग्राणि’ (आप० श्रौ० १।२।६।८)। अवसजति=ईषल्लग्नं करोति। अवः सङ्गस्यापूर्णतामाह, सा च शिथिलमित्यनेन क्रियाविशेषणेन प्रागेवोक्तेति नार्थोऽवेन।
  • ‘अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः’ (भा० आदि० ४१।३)। स्कन्धेऽवसक्तः=स्कन्धे निहितः।
  • ‘अशिथिलमपराऽवसज्य कण्ठे’ (शिशु० ७।१६)। गाढमालिङ्गयेत्यर्थः।
  • ‘अविज्ञातावसक्तेन दूषिता मम वाससा’ (मृच्छ० १।५४)। अवसक्तेन कृतेषत्स्पर्शेन। अवशब्दः सङ्गस्यासाकल्यमाह।
  • ‘नागदन्तावसक्ता वीणा’ (का० सू० १।४।४)। अवसक्ताऽवलम्बिता।
  • ‘अवसज्य शिलां कण्ठे समुद्रं तर्त्तुमिच्छसि’ (रा० ३।४७।४१)। अवसज्य बद्ध्वा। अवशब्दः सम्यगर्थे स्यादनर्थको वा।
  • ‘स्वं चावसङ्गं पथि निर्मुमुक्षुः’ (सौन्दर० ५।५)। अवसङ्ग आसङ्गः।

सद्

  • {अवसद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘अव द्रोणानि घृतवन्ति सीद’ (ऋ० ९।९६।१३)। अवसीद=अवतिष्ठस्वेति सायणः।
  • ‘आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति’ (भा० आदि० २।६२)। नावसीदति=न मुह्यति।
  • ‘न हीङ्गितज्ञोऽवसरेऽवसीदति’ (कि० ४।२०)। वचनावसरे न वाचं नियच्छति। अवश्यं वक्तव्यं वक्तीति तात्पर्यार्थः।
  • ‘नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति’ (भर्तृ० २।८६)। अवसीदति=विपद्यते=नश्यति।
  • ‘कथमेत्य विपर्ययं करिणीं पङ्कमिवावसीदति’ (कि० २।६)। कथं विवेकिनी ते मतिरविवेकं प्राप्य नश्यतीत्याह।
  • ‘सीदतामपि कौन्तेय न कीर्तिरवसीदति’ (भा० शां० ७५।२६)। अवसीदति विशीर्यते नश्यति। विशरणगत्यवसादनेषु धातुः पठितः। उपसर्गा द्योतका इत्यव उपसर्गो धातोरर्थमेकत्र नियच्छति। इदमेव द्योतकत्वम्।
  • ‘स रथो धनुषः क्षोभादतीव ह्यवसीदति’ (भा० कर्ण० ३४।१००)। अवसीदति=न्यञ्चति, मज्जति।
  • ‘नावसीदति यथा गुरु प्रयोजनम्’ (काद०)। नावसीदति=न विहन्यते, न नश्यति।
  • ‘सर्वमस्मत्कुटुम्बमवसीदेत्’ (दशकु०)। अवसीदेत्=नश्येत्।
  • ‘उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्’ (गीता ६।५)। अवसादो हर्षोत्सादो मनोग्लानिः। आत्मानं क्षीणोत्साहं न कुर्यादित्याह।
  • ‘चित्तं हि स्वकार्यादवसादयन्ति’ (यो० सू० १।५० भाष्ये)। निर्विण्णं कृत्वोपरमयन्ति विनिवर्तयन्तीत्यर्थः।
  • ‘तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्’ (छां० उ० २। २३।१)। अवसादयन् क्लिश्नन्। श्राम्यन्नित्यर्थः।
  • ‘वैद्यासनावसादः’ (सुश्रुत० १।१०९।८)। अवसादः=अधः स्थापनम्।
  • ‘स्वरावसादः’ (सुश्रुत० २।२६६।२०)। स्वरस्योपक्षय इत्यर्थः।
  • ‘धर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः’ (कि० ३।३८)। धैर्यावलोपः=धैर्यच्युतिः।
  • ‘बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम्’ (रा० ४।५५।११)। अवसादः खेदः (शारीरो मानसश्च)।
  • ‘अलं स्वपक्षावसादशङ्कया’ (माल० १)। अवसादो भङ्गः पराजयः।
  • ‘नन्दनं वानरेन्द्राणां रक्षसामवसादनम्’ (रा० ६।१०८।१२)। अवसादनं हर्षापकर्षकारकम्, चेतोग्लानिकरम्।
  • ‘अवसादनमिति त्वग्रोगस्य कण्डूयायाः कृत्रिमैरुपायैरुत्पादनम्’ (सुश्रुत० २।३॥२०)।
  • ‘उत्सन्नमृदुमांसानां व्रणानामवसादनम्’ (सुश्रुते)। संरोहतो व्रणस्योपर्युपजातस्य मांसस्यापाकरणमिहावसादनमुक्तम्।
  • ‘अति प्रबलपिपासावसन्नानि’ (काद०)। अवसन्नानि=क्षीणशक्तिकानि।
  • ‘कान्तारेष्ववसन्नानाम्’ (भा० वि० ६।२०)। हतोत्साहानामित्यर्थः।
  • ‘पित्रोः सकाशमवसन्नदृशोर्निनाय’ (रघु० ९।७७)। अवसन्नदृशोः=नष्टदर्शनयोः=अन्धयोः।
  • ‘ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु’ (रा० ५।४६।३८)। अवसन्नेषूपरतेषु।
  • ‘काश्यपस्तमथावोचदवसन्नोऽसि खेचर’ (बृ० श्लो० सं० ३।१२३)। अवसन्नोऽधरीभूत:=पराजितः।
  • ‘अपन्नदन्नवसन्नवृथामांसानि’ (गौ० ध० २।८।३१)। अवसन्नो व्याधितः।
  • ‘आचारेणावसन्नोपि पुनर्लेखयते यदि’ (याज्ञ० २।७ मिताक्षरायामुद्धृतं कात्यायनवचनम्)। अवसन्नो हीनः।
  • ‘निर्ऋत्यै त्वा इत्यवसन्नां संशीर्णां वा’ (आप० श्रौ० १०।६।१८।१०)। अवसन्ना (गौः) या न शक्नोत्युत्थातुम्।
  • ‘नदीकूलमिव क्लिन्नमवसीदामि’ (रा० ४।२८।५८)। अवसीदामि सोदामि। यथा सीदन्ति मम गात्राणीत्यत्रावो द्योतकस्तथेहापि।
  • ‘आज्यं चावसादयति’ (तै० सं० १।६।९)। अवसादयति अवपातयति। क्रमप्रयोजनं नाम्नां शाकपूण्युपलक्षितम्। प्रकल्पयेदन्यदपि न प्रज्ञामवसादयेत् इति निरुक्तवार्तिककारवाक्यम्।

सिच्

  • {अवसिच्}
  • सिच् (षिच क्षरणे)।
  • ‘को हि क्षते क्षारमिवावसिञ्चेत्’ (अवदा० जा० २६, २९)। अवसिञ्चेत्=उपरि पातयेत्।
  • ‘मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलिभिराप्लावयति’ (कौ० सू० ३२।३,४)। अवसिञ्चति वा।
  • ‘दूरादावसथान्मूत्रं दूरात्पादावसेचनम्’ (मनु० ४।१५१)। पादावसेचनम्=पादप्रक्षालन जलशेषः।
  • ‘प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचितैः’ (भा० भीष्म० ९७।३१)। अवसेचितैः=कृतावसेकैः। अवसेको नाम तैलस्य प्रदीपेन्तरासेचनम्।
  • ‘शीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत्’ (सुश्रुत० सूत्र० २७ )। अवसेचयेत् तत्र काश्चन विप्रुषोऽवपातयेत्। अवशब्दः क्षारणस्याल्पतामाह।

स्रु

  • {अवस्रु}
  • स्रु (स्रु गतौ)।
  • ‘उदकानि च दूषयेत्, अवस्रावयेच्च’ (कौ० अ० १२।५।१४)। अवस्रावयेत् परिवाहयेत्।
  • ‘यो महत्यर्थसमुदये स्थितः कदर्यः सन्निधत्तेऽवनिधत्ते ऽवस्रावयति’ (कौ० अ० २।९।२५)। अवस्रावयति विषयान्तरं (देशान्तरं) संक्रमयति।
  • ‘कोशदण्डनिचयरक्षाविधानान्यवस्रावयिष्यामि’ (कौ० अ० ९।४।८)। अवस्रावयिष्यामि ध्वंसयिष्यामि।

सृज्

  • {अवसृज्}
  • सृज् (सृज विसर्गे)।
  • ‘अव राजन्पशुतृपं न तायुं सृजा’ (ऋ० ७।८६।५)। अवसृज=मुञ्च।
  • ‘प्रथमोत्पादितं मेध्यमश्वमवासृजः’ (भा० वन० १२।१८)। विसृष्टवानसि, अमुञ्च इत्यर्थः।
  • ‘वृत्रस्य स ततः क्रुद्धो घोरं वज्रमवासृजत्’ (भा०)। अवासृजत्=प्राक्षिपत्=प्राहरत्।
  • ‘पत्न्या चानुगतो दुःखी वने प्राणानवासृजत्’ (हरि० १।१४।५)। अवासृजत्= पर्यत्यजत्=अजहात्।
  • ‘य आस्यन्ये अवासृजन्’ (अथर्व० ४।६।७)। अवासृजन्=समीपस्थाः प्राक्षिपन्।
  • ‘तासु वीर्यमवासृजत्’ (हरि० १।१।२७)। रेतोऽसिञ्चदित्याह।
  • ‘अथैनं कामेष्ववसृजेत्’ (चरक० सूत्र० १५।१७)। निर्यन्त्रणं कुर्यादित्यर्थः।
  • ‘तान्पण्डितो नावसृजेत् परेषु’ (भा० सभा० ६६।७)। तानतिवादान् परेषु परान्प्रति नावसृजेन्न मुञ्चेन्न मुखान्निःसारयेदित्यर्थः।
  • ‘तान्पण्डितो नावसृजेत्परेभ्यः’ (भा० उ० ३४।८०)।
  • ‘प्रमादादरण्ये पशूनुत्सृष्टान्दृष्ट्वा ग्राममानीय स्वामिभ्योऽवसृजेत्’ (आप० ध० २।२८।८)। अवसृजेत्=अर्पयेत्।
  • ‘सूर्याया वहतुः प्रागात्सविता यमवासृजत्’ (ऋ० १०।८५।१३)। अवासृजत् प्राजत् प्रासुवत्।
  • ‘अवसृष्टा परापत शरव्ये ब्रह्मसंशिते’ (अथर्व० ३।१९।८)। अवसृष्टा=धनुषो विनिर्मुक्ता।
  • ‘यथेषुका परापतदवसृष्टाधि धन्वनः’ (अथर्व० १।३।९)। उक्तोऽर्थः।
  • ‘बृहस्पतिनावसृष्टां सर्वे देवा अधारयन्’ (अथर्व० १४।२।५३)।
  • ‘सृजदर्णंस्यव यद् युधा गाः’ (ऋ० १।१७४।४)। अवासृजत्=अवासृजः। पुरुषव्यत्ययः। अवाङ्मुखमपातयः। अर्णांसि जलानि।
  • ‘समुद्रमनयत्पार्थं तत्र चैनमावासृजत्’ (भा० वन० १८७।२४)। अवासृजत् अधोऽक्षिपत्।
  • ‘सुपेशसं मा ऽ व सृजन्त्यस्तम्’ (ऋ० ५।३०।१३)। गृहं गन्तुमनुजानन्तीत्याह।
  • ‘इन्द्रमेव तत् स्वायां दिशि प्रीत्वा ऽवसृजति’ (शां० ब्रा० २।२)। उक्तोऽर्थः।
  • ‘अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः’ (ऋ० ७।८६।५)। अवसृज विमुञ्च, अस्मत्तो विश्लेषय।
  • ‘अव वृष्टिं सृजतं जीरदानू’ (ऋ० ५।६२।३)। अवसृजतम् अधः प्रेरयतम्।
  • ‘वनस्पतिरवसृष्टो न पाशैः’ (तै० ब्रा० २।६।८।४)। अवसृष्टो मुक्तः।

सृप्

  • {अवसृप्}
  • सृप् (सृप्लृ गतौ)।
  • ‘असौ योऽवसर्पति नीलग्रीवो विलोहितः’ (वा० सं० १३।७)। अवसर्पति=अवाचीनं सर्पति सरति।
  • ‘तदप्येतद् उत्तरस्य गिरेर्मनोरवसर्पणम्’ (श० ब्रा० १।८।१।६)। अवसर्पणमवरोहरणम्।

सो

  • {अवसो}
  • सो (षो अन्तकर्मणि)।
  • ‘अव स्य हरी वि मुचा सखाया’ (ऋ० ६।४०।१)। अवस्य। अवोपसृष्टस्य अवस्यतेर्लोण्मध्यमैकवचने रूपम्। सखायौ हरी वाजिनौ बिषितौ कुर्वित्याह।
  • ‘स्यतिरुपसृष्टो विमोचने’ (नि० १।१७)।
  • ‘अवस्यति हैतद्यद् गार्हपत्यं चिनोति। … य उ वैके चाग्निचितोऽस्यामेव तेऽवसिताः’ (श० ब्रा० ७।१।१।१)। अवस्यति=स्वस्यावस्थितिं करोति।
  • ‘स्वकृत इरिणे नावस्येत्’ (आप० श्रौ० ५।७।२५।९)। नावस्येत्=न तिष्ठेत्। इरिणेऽतृणे।
  • ‘अगदः सोमेन पशुनेष्ट्येष्ट्वाऽवस्येत्’ (आश्व० गृ० ४।१।४)। अवस्येत् गृहं प्रविश्य वसेदिति हरदत्तः।
  • ‘यानि वा इमानि पृथिव्याश्चित्राणि तानि नक्षत्राणि तस्मादश्लीलनामानि चित्रे नावस्येन्न यजेत’ (तै० ब्रा० १।५।२।६)। अवस्येत् निवसेदिति सायणः।
  • ‘आद्यन्तयोः पृथगवस्यसि मध्यतश्च’ (भा० पु० ७।९।३०)। अवस्यसि=स्थितो भवसि। कारणत्वेनावधित्वेन च विरामं करोषीति श्रीधरः।
  • ‘प्रतिष्ठा वा एतस्य एष्टव्या यः कृषिमवस्यति’ (काठक० १७।१२)।
  • ‘शक्तिर्ममावस्यति हीनयुद्धे’ (कि० १६।१७)। अवस्यति=समाप्तिमेति, क्षीयते।
  • ‘वाणीं काणभूजीमजीगणदवासासीच्च वैयासिकीम्’ (मल्लिनाथः संजीवन्या उपक्रमे)। अवासासीत्=निरचिनोत्, निश्चितमजानात्।
  • ‘अवसेयाश्च कार्याणि धर्मेण पुरवासिनाम्’ (भट्टि० १९।१२)। अवसेयाः=जानीयाः। आशिषि लिङि प्रयोगः।
  • ‘देवयजन एवैनं तदवसाययति’ (ऐ० ब्रा० ३।२)। उपवेशयतीत्यर्थः।
  • ‘अवसानं जोषयेत्’ (आश्व० ग० २।७।२, गो० गृ० ४।७।२)। अवसानं वास्तु।
  • ‘यमो ददात्यवसानमस्मै’ (ऋ० १०।१४।९)। अवसानमावासः। दहनस्थानमिति सायणः।
  • ‘ददाम्यस्मा अवसानमेतत्’ (अथर्व० १८।२।३७)। अवस्यन्ति निवसन्त्यत्रेत्यवसानमावासस्थानम्।
  • ‘अवसानं भवत्वत्र’ (भा० उ० ३१।१९)। अवसानं वसतिस्थानम्।
  • ‘दोहावसाने पुनरेव दोग्ध्रीम्’ (रघु० २।२३)। दोहस्यान्ते दोहकर्मणि परिणते सति।
  • ‘तच्छिष्याध्ययननिवेदितावसानाम्’ (रघु० १।२) अवसानं विरामः, अन्तः।
  • ‘अवसानेऽङ्गराजस्य योद्धव्यं भवता किल’ (वेणी० ५।३९)। अवसानं निधनम्।
  • ‘इदमुच्छ्रेयोऽवसानमागाम्’ (अथर्व० १९।१४।१)। अवस्यति पर्याप्तं भवति प्रयाणमत्र स्थाने इत्यवसानम्।
  • ‘विमुच्या वयोऽवसायाश्वान्’ (ऋ० १।१०४।१)। अवसाय=वियोज्य।
  • ‘स्यतिरुपसृष्टो विमोचने’ (नि० १।१७)।
  • ‘अवसितं हसितं प्रसितम्’ (भट्टि० १०।६)। अवसितम्=समाप्तम्=अपगतम्।
  • ‘अवसितो दर्शनार्थः’ (माल० २)। उक्तोऽर्थः।
  • ‘नवावसिते वैनमाहरेयुः’ (श० ब्रा० २।३।२।८)। नवे गृह इत्याह।
  • ‘शरवर्षैरवसायमाश्रयाशः’ (शिशु० २०।७२)। अवसायः=अन्तः=नाशः।
  • ‘अवसायो भविष्यामि दुःखस्यास्य कदा न्वहम्’ (भट्टि० ६।८१)। अवसायः=समापकः।
  • ‘अत्रा युक्तोऽवसातारमिच्छात्’ (ऋ० १०।२७।९)। अवसातारम्=विमोक्तारम्
  • ‘अवसेन वा अध्वानं यन्ति’ (श० ब्रा० २।६।२।१७) अवसः पाथेयं पथ्यदनम्। अन्तावसायी श्वपचे मुनिभेदे च नापिते (मेदिनी)। अत्रावपूर्वस्य स्यतेर्निवासोऽर्थ इति प्रव्यक्तम्।
  • ‘तस्य सप्त पदानि समस्यावस्येत्।’ (शां० ब्रा० ३।२)। अवस्येत् समाप्तिं कुर्यात्, विरमेत्।
  • ‘अब स्यतं मुञ्चतं यन्नो अस्ति तनूषु कृतमेनो अस्मत्’ (तै० सं० १।८।२२)। अवस्यतमवसाययतं नाशयतम्।
  • ‘नवाऽवसिते वा’ (का० श्रौ० ४।१३।८)। इदं पुस्तके न्यस्तचरं भूयो वैशद्यायेहानूद्यते। अवसितं गृहम्। लोके उदवसितं गृहमुच्यते। तथा चामरः पठति–गृहं गेहोदवसितम् इति। स्वामी तु सिनोते र्व्युत्पत्तिमाह।
  • ‘साक्षरः पदान्तो ऽवसितः’ (ऋक्तन्त्रे २।२।८)। साक्षरं समानाक्षरं पदान्तो ऽवसितोऽनुनासिको भवतीति वृत्तिः।
  • ‘यत्कामस्तदवस्यति’ (भा० पु० ११।१५।५)। तस्य कामस्य परां सीमानमधिगच्छतीत्यर्थः।

स्कन्द्

  • {अवस्कन्द्}
  • स्कन्द् (स्कन्दिर् गतिशोषणयोः)।
  • ‘पुरीमवस्कन्द लुनीहि नन्दनम्’ (शिशु० १।५१)। अवस्कन्द=आक्राम।
  • ‘स नद्यवस्कन्दमुपास्पृशच्च’ (भट्टि० २।११)। नदी नदीमवस्कद्यावतीर्येत्याह।
  • ‘अवस्कन्दं करिष्यामि शिबिरेऽस्याद्य दुष्करम्’ (भा० सौप्तिक० ३।२७)। अवस्कन्दः=आक्रमणम्।
  • ‘न नाम प्रतिबन्धेन न चावस्कन्दकर्मणा। शक्य एष गिरिस्तात देवैरप्यवमर्दितुम्’ (हरि० २।४२।४५)। अवस्कन्देन=उपर्युत्प्लवनेन।
  • ‘रथादवस्कन्द्य’ (भा० पु० १०।३८।२६)। अवस्कन्द्य=अवप्लुत्य।
  • ‘नद्यवस्कन्दमुपास्पृशच्च’ (भट्टि० २।११)। नद्यवस्कन्दमिति णमुलन्तम्। अवस्कन्द्य=अवतीर्य।

कॄ

  • {अवकॄ}
  • कॄ (कॄ विक्षेपे, स्कॄ= कॄ सुट्)।
  • ‘रोधांसि धीरमवचस्करिरे महोक्षाः’ (शिशु० ५।६३)। अवचस्करिरे=आलिलिखुः। काशिकायां त्वत्रार्थेऽपोपसर्गः प्रयुक्तः-अपस्किरते वृषभो हृष्टः। गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् (नारदः)। अवस्करोऽन्नमलम्। अवकरेर्थेप्यस्य प्रयोगो दृश्यते।

स्तम्भ्

  • {अवस्तम्भ्}
  • स्तम्भ् (स्तम्भू रोधने, धारणे वा सौत्रो धातुः)।
  • ‘अघानि हिम्मकोयोधैरवाष्टम्भि यशोधरः’ (राज० ६।२५०)। अवाष्टम्भि=अग्राहि। अवष्टब्धो धृत इत्यर्थः।
  • ‘अवष्टब्धा सेना’ (पा० ८।३।६८ सूत्रे काशिकायाम्)। समीपस्थेत्यर्थः। अवष्टब्धा गौः। निरुद्धा सती समीपस्थेति तत्त्वबोधिनी।
  • ‘पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी’ (रा० ५।५९।२३)। मया दृष्टेति हनूमद्वचः। अवष्टब्धा=निरुद्धगमना।
  • ‘शोधयेत्पूर्ववादं तु यावन्नोत्तरदर्शनम्। अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत्’ (याज्ञ० २।३ इत्यत्र मिताक्षरायामुद्धृतं नारदवचनम्)। अवष्टब्धस्य प्रतिबद्धस्य।
  • ‘अवष्टब्धधनुं रामं क्रुद्धं तं रिपुघातिनम्’ (रा० ३।२५।१)। अवष्टब्धधनुम्=गृहीतधनुषम्। अवलम्बितकार्मुकम्=धृतकोदण्डम्।
  • ‘अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः’ (रा० २।४।१८)। आक्रान्तमित्याह।
  • ‘प्रकृतिं स्वामवष्टभ्य’ (गीता० ९।८)।स्वामधिष्ठायेति पाठान्तरम्।
  • ‘वृद्धो भार्यामवष्टभ्य’ (रा० )। आधृत्य। तस्याः कृत इति तात्पर्यार्थः।
  • ‘कोसलनृपतेर्द्वारमवष्टभ्य’ (रत्ना० ४)। रुद्ध्वेत्यर्थः।
  • ‘अवष्टभ्यासौ माम्’ (महावीर० ५।५)। परिष्वज्य, उपगुह्य।
  • ‘क्रोडविभागेन मामवष्टभ्य’ (काद०)। उक्तोऽर्थः।
  • ‘तिमिरेणावष्टभ्यमाने जीवलोके’ (काद०)। अवगुण्ठ्यमाने, आच्छाद्यमान इत्यर्थः।
  • ‘अवष्टभ्यमान इव जलधरैः’ (का०)। उपरुध्यमानः, पुरः सरणाद् वार्यमाणः।
  • ‘अथ शोकं समुत्सृज्य…स्वावष्टम्भेन’ (कथा० ६।२२)। स्वावष्टम्भेन=आत्मावलम्बनेन।
  • ‘प्रसन्नवदनो हृष्टः…सावष्टम्भो नरः शुचिः’ (पञ्चत० १।२१५)। अवष्टम्भोऽध्यवसायः, निर्भीकं शक्तिश्रद्धानं वा।
  • ‘तत्कथमहं धैर्यावष्टम्भं करोमि’ (पञ्चत० १)। धैर्यस्यावलम्बनम् आश्रयणम्।
  • ‘खड्गलतावष्टम्भनिश्चलः’ (मालती० ३)। अवष्टम्भोऽवलम्ब आश्रयः।
  • ‘मेरोश्चतुर्दिशमवष्टम्भगिरय उपक्लृप्ताः’ (भा० पु० ५।६।११)। उक्तोऽर्थः। सावष्टम्भम्=सगर्वम्।
  • ‘सावष्टम्भाकृतिना’ (काद०)। सावष्टम्भा ओजस्विन्याकृतिर्यस्य तेन।
  • ‘ईदृशोऽस्यावष्टम्भः’ (रत्ना० ४)। अध्यवसायः, निश्चयः।
  • ‘पलायनमवष्टम्भो वा’ (पञ्चत० ४)। स्थिरीभूय विरोध इत्यर्थः।
  • ‘रघोरवष्टम्भमयेन पत्त्रिणा’ (रघु० ३।५३)। स्तम्भरूपेणेति मल्लिनाथः। अवष्टम्भः स्वर्णम्, तन्मयेन तद्विकारेणेत्येवमपि शक्यं व्याख्यातुम्।
  • ‘अवष्टब्धावथ क्षिप्त्वा पादौ शङ्करपाणिना’ (स्कन्दपु० मा० कौ० (२) २७।७६)। अवष्टब्धौ=अवलम्बितौ।
  • ‘अवष्टब्धसहायश्च’ (रा० ४।१५।१३)। परिगृहीतसहाय इत्यर्थः।

स्तॄ

  • {अवस्तॄ}
  • स्तॄ (स्तॄञ् आच्छादने)।
  • ‘शरासनज्यातलवारणध्वनिः…प्रकम्पयन्गामवतस्तरे दिशः’ (कि० १४।२९)। अवतस्तरे=आच्छादयामास। व्यानश इत्यर्थः।
  • ‘उरसि रसादवतस्तरे स्तनाभ्याम्’ (शिशु० ७।४७)। अवतस्तरे=उपजुगुहे।
  • ‘नभोऽवस्तीर्यते जृम्भकैः’ (उत्तर०)। आच्छाद्यत इत्यर्थः।
  • ‘अवस्तारो जवनिका।’ (पा० ३।३।१२० इत्यत्र काशिका)।
  • ‘आवसथं दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणम्’ (आप० ध० २।३।६।१५)। अवस्तरणमुपरिपटः।
  • ‘सिद्धं कालमप्राप्तं करोत्यप्राप्तं प्राप्तं वेत्यवस्तारः’ (कौ० अ० २।८।१०)।
  • ‘अवे तॄस्त्रोर्घञ्’ (पा० ३।३।१२०) इति सूत्रे ऽवस्तारो जवनिकेति वृत्तिः।

स्था

  • {अवस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘मा रायो राजन्सुयमादवस्थाम्’ (ऋ० २।२७।११)। माऽवस्थाम्=दूरे मा स्थाम्। वियुक्तो मा स्म भूवम् इत्यर्थः।
  • ‘सोऽवतिष्ठति’ (श० ब्रा० ५।४।३।२२)। अवरोहतीत्याह।
  • ‘क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ’ (रघु० ८।८७)। अवतिष्ठते=तिष्ठति, ध्रियते।
  • ‘समुद्रमासामवतस्थे अग्रिमा’ (ऋ० ५।४४।९)।
  • ‘अयं यो भूरिमूलः समुद्रमवतिष्ठति’ (अथर्व० ६।४३।२)। अवक्रम्य तिष्ठति। उभयत्रावपूर्वस्तिष्ठतिः सकर्मकः।
  • ‘मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता’ (कु० २।२८)। अवस्थिता=स्थिता। लम्बत आयत्तेति तात्पर्यार्थः।
  • ‘ते कपि तं समासाद्य तोरणस्थमवस्थितम्’ (रा० ५।४३।२७)। अवस्थितं सज्जम्, जागरूकम्।
  • ‘अवस्थितमसम्भ्रान्तं’ (माम्) (रा० ५।५८।३९)। अवस्थितो निश्चेष्टः।
  • ‘विपर्यये तु पितुरस्याः समीपनयनमवस्थितमेव’ (शा० ५)। अवस्थितम्=व्यवस्थितम्=निर्णीतम्।
  • ‘नारीर्हत्वाऽनवस्थिताः’ (मनु० ११।१३८)। अनवस्थिताः=इत्वरीः, स्वैरिणीः, असंस्थुलाः।
  • ‘आदित्यं वौशनसं वाऽवस्थाय प्रयोधयेत्’ (आश्व० गृ० ३।१२।१६)।
  • ‘ततो निर्याय कौरव्य अवस्थाप्य च तद्बलम्’ (भा० वन० १६।२९)। अवस्थाप्य=सान्त्वयित्वा, समाहितं कृत्वा।
  • ‘द्वैराज्यमवस्थापयितुकामोऽस्मि’ (माल० ५)। प्रतिष्ठापयितुमना इत्याह।
  • ‘न शक्नोमि हृदयमवस्थापयितुम्’ (उत्तर० ४)। अवस्थापयितुम्=स्थिरीकर्तुम्।
  • ‘एषो अपश्रितो वलो गोमतीमवतिष्ठति’ (ऋ० ८।२४।३०)। अवतिष्ठति अधितिष्ठति।
  • ‘वेदकावेदकयोः कृतसमर्थावस्थयोर्देशाग्रामजातिगोत्रनामकर्माणि चाभिलिख्य…’ (कौ० अ० ३।१।१७)। अवस्थः प्रतिभूः, लग्नकः।
  • ‘कृतप्रतिघातावस्थः सूचकः’ (कौ० अ० २।८।२९)। अवस्था प्रातिभाव्यम्।
  • ‘अवस्थानं यदैव त्वमासिष्यसि परन्तप’ (रा० ४।५४।१६)। अवस्थाने बिलेऽन्तः स्थितिम्। अवोऽधोर्थे।

स्ना

  • {अवस्ना}
  • स्ना (ष्णा शौचे)।
  • ‘अन्यस्य चावस्नातं दूरतः परिवर्जयेत्’ (भा० अनु० १०४।५९)। अवस्नातं यत्रान्येन पूर्वं स्नातम्।

स्मि

  • {अवस्मि}
  • स्मि (ष्मिङ् ईषद्धसने)।
  • ‘अव स्मयन्त विद्युतः पृथिव्याम्’ (ऋ० १।१६८।८)। अवाङ्मुखं प्रकाशन्त इत्याह।

स्यन्द्

  • {अवस्यन्द्}
  • स्यन्द् (स्यन्दू स्रवणे)।
  • ‘नट अवस्यन्दने इति धातुपाठः।’ अवस्यन्दनं नाट्यम्।
  • ‘पूर्वमविवक्षितस्यार्थस्यानन्तरं स्ववावये समारोपो नाट्ये ऽवस्यन्दितमुच्यते।’ तथा च दर्पणकारस्तल्लक्षणमाह।

स्रंस्

  • {अवस्रंस्}
  • स्रंस् (स्रंसु अवस्रंसने)।
  • ‘लवि अवस्रंसन इति धातुपाठः।’ अवशब्दोऽधोवचनो यथान्यत्र-अवलम्बन्ते तरुशाखासु वल्कलानि यतीनाम्।
  • ‘परिस्खलितगतिरवस्रस्तवासा: समायातः’ (तन्त्रा० १।३)। श्लथीभूतपतितवसन इत्यर्थः।
  • ‘अंसावस्रंसिनः शापशासनपट्टस्य’ (हर्ष० १)। अंसस्याधः पतत इत्यर्थः।

स्वप्

  • {अवस्वप्}
  • स्वप् (ञिष्वप् शये)।
  • ‘अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम्’ (रा० २।५६।१)। अवसुप्तमीषत् सुप्तम् इति तिलककारो रामः।
  • ‘तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे’ (रा० ३।५०।१)। उक्तोऽर्थः। स्थानेऽवशब्दप्रयोगो वश्यवाचः कवेः। ईषत्सुप्त एव शब्दं शृणुयान्न प्रसुप्तः सुषुप्तो वा।
  • ‘इयं पद्मावत्यवसुप्ता (स्वप्न० ५)। अत्रास्थानेऽवः। न ह्यत्र स्वापस्याल्पताऽभिप्रेता। लेखकप्रमादो वाऽयं स्यात्।
  • ‘अचकितमवसुप्तं पाण्डवानामनीकम्। निशि सुनिशितशस्त्रो द्रोणसूनुर्जघान’ (का० नी० सा० १९।७१)॥ अत्रावः सुतमामनिष्टः, अर्थं हि विपर्यासयति। गाढं सुप्तानामेव पाण्डवानां वधः शक्यो द्रौणिना न त्ववसुप्तानामीषत्सुप्तानाम्। मन्ये कामन्दकोऽत्रानर्थकमवं प्रयुङ्क्ते स्वापमात्रं च विवक्षते।

स्वृ

  • {अवस्वृ}
  • स्वृ (स्वृ शब्दोपतापयोः)।
  • ‘अव स्वराति गर्गरः’ (अथर्व० २०।९२।६)। मन्दं शब्दायत इत्यर्थः।

हन

  • {अवहन}
  • हन (हन हिंसागत्योः)।
  • ‘व्रीहीनवहन्ति।’ **उलूखले मुसलेनावताड्य तुषं विविनक्ति। अवासां जहि शर्धो यातुमतीनाम्’ (ऋ० १।१३३।३)। अवजहि=चूर्णय।
  • ‘अवैनान् दुन्दुभे जहि’ (अथर्व० ५।२०।१)। संचूर्णय, संपिण्ड्ढि।
  • ‘अव ब्रह्मद्विषो जहि’ (अथर्व० २०।९३।१)।
  • ‘उद्यंस्त्वं देव सूर्य सपत्नानव मे जहि’ (अथर्व० १३।१।३२)। उक्तोऽर्थः। अत्रोदाहरणेषु सर्वत्रावोऽयमुपसर्गः साकल्यमाह क्रियाया नासाकल्यं यथाऽन्यत्र। इदमवश्यमभ्युपेयम्। व्यवहारोऽत्र मानम्।
  • ‘कर्णावघातानिपुणेन च ताड्यमाना दूरीकृताः करिवरेण’ (तरङ्गभङ्गाः) (नी० प्र० २)। अवघातः=प्रहारः।
  • ‘अधरे दत्तदन्तावघाते’ (सा० द०)। उक्तोऽर्थः। अवधातो व्रीहीणाम्। अवघातः कण्डनम्। अवहननम्=कण्डनम्।
  • ‘अवहननायोलूखलम्।’ (पा० २।१।३६। वृत्तौ)। अवहननमिति फुप्फुसस्यापि समाख्या भवति तथा च याज्ञवल्क्ये प्रयोगः-वपा वसाऽवहननम् (३।९४)।
  • ‘वज्रेणावहतः शयाम्’ (=शेताम्) (अथर्व० ६।१३४।२)। अवः साकल्ये।
  • ‘अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती’ (ऋ० १।१९१।२)। (विषौषधिः) अवघ्नती=अवहन्यमाना कण्ड्यमाना।
  • ‘नासुष्वेरापिर्न सखा न जामिर्दुष्प्राव्यो ऽवहन्तेदवाचः’ (ऋ० ४।२५।६)। अवहन्ता पराहन्ता पराणोदयिता। हिंसिता, चूर्णयिता।
  • ‘स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन्’ (ऋ० ५।४०।६)। अवाहन् अपनुदसीत्यर्थः।
  • ‘अव रक्षो दिवः सपत्नं वध्यासम् इत्यवहन्ति’ (आप० श्रौ० १।१९।१०)। अववध्यासम् पराणुद्याम्।

हस्

  • {अवहस्}
  • हस् (हसे हसने)।
  • ‘यच्चावहासार्थमसत्कृतोसि’ (गीता० ११।४३)। अवहासः=प्रहासः परिहासः।
  • ‘अवहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत्’ (रा० ७।१८।८)। अवहासः सनिन्द उपहासः।
  • ‘कथं नु सर्वलोकस्य नावहास्या भवेमहि’ (भा० द्रोण० ७५।३)। अवहास्याः=उपहासयोग्याः। अन्तर्लीनमवहस्य। इहावहासः स्मितपर्यायः। सार्थकोऽवशब्दः।
  • ‘तत्रावहसितश्चासीत् प्रस्कन्दन्निव संभ्रमात्’ (भा० आदि० १।१३६)। अवहसितोऽनादरेणोपहसितः। अवशब्दोधोऽर्थे।

हा

  • {अवहा}
  • हा (ओहाक् त्यागे)।
  • ‘परायद्भ्योऽवहीये सखिभ्यः’ (ऋ० १०।३४।५)। अवहीये=पृष्ठतस्त्यज्ये।
  • ‘अस्मास्ववहीनेषु’ (शा०)। उक्तोर्थः।
  • ‘अवहीनाः कथाः’ (दशकु०)। अवहीनाः=अवसिताः=विरताः।
  • ‘विक्रियायाश्च सद्भावे नित्यत्वमवहीयते’ (तत्त्वसं० २९५)। अवहीयते हीयते। नार्थोऽवेन। अस्थाने चायम्।
  • ‘मा वयमेतमवहाय परा गाम’ (काठक सं० ७।१२)। अवहाय पृष्ठतो विहाय।
  • ‘तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः’ (ऋ० १।११६।३)। अवाहाः=अवस्तादहासीत्।

हु

  • {अवहु}
  • हु (हु दानादनयोः, प्रीणने चेत्येके)।
  • ‘अव स्म यस्य वेषणे स्वेदं पथिषु जुह्वति’ (ऋ० ५।७।५)। अवजुह्वति अधोमुखं जुह्वति।

हृ

  • {अवहृ}
  • हृ (हृञ् हरणे)।
  • ‘समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर’ (भा० वि० ४०।२)। अवहर=अवतारय। अवोऽधोऽर्थे।
  • ‘स्वान्यनीकानि बीभत्सुः शनकैरवहारयत्’ (भा० द्रोण० १६।५१)। अवहारयत्=अवाहारयत्=प्रतिसमहरत्।
  • ‘रतिं चावहरेत्समम्’ (यो० वा० ५।२४।४४)। अवहरेत्=परिहरेत्।
  • ‘अवहरत्यग्नेऽभ्यावर्तिन्निति’ (का० श्रौ० १६।५।१५)। अवहरति=आत्मसमीपं प्रापयति। श्याद्व्यधेति (३।१।१४१) सूत्रेण णप्रत्ययेऽवहारशब्दः कर्तरि साधितः। अवहरति नीचैरप्सु कर्षतीत्यवहारो ग्राहः। अवहारश्चौर इत्याभिधानिकाः। प्रयोगस्तु नयनयोरयनं न यातः।
  • ‘संभवत्यवहरति पचति’ (पा० ५।१।५२) सूत्रे प्रस्थमवहरति स्थाली प्रास्थिकीत्युदाहरणं काशिकायाम्। उपसंहरणमवहार इति च तत्रैव। आधारादाधेयप्रमाणस्य न्यूनताऽवहार इति पदमञ्जर्यां हरदत्तः।**
  • ‘क्रियतामवहारोऽस्माद् युद्धाद् ब्राह्मणसंवृतात्’ (भा० आदि० १९०।३५)। अवहारः कञ्चित्कालं युद्धविरामः।
  • ‘एवं राजन्नवहारो बभूव’ (भा० उ० १८२।३०)।
  • ‘ततोऽवहारः सैन्यानां तव तेषां च भारत’ (भा० भीष्म० ४८।१२०)। शिबिरं प्रति संहार इहावहार उक्तः।
  • ‘अर्भकमवहृतं भवति’ (नि० ३।२०)। अवहृतमूनपरिमाणम् इति स्कन्दस्वामी।
  • ‘उत्तरां जुहूमध्युह्य प्राचीमवहृत्य जुहोति’ (का० श्रौ० ३।२।२४)। अवहृत्य=अवतार्य।
  • ‘आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः। अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ’ (मनु० ८।१४५)॥ अवहार्यौ= प्रत्यर्पणीयौ।
  • ‘अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम्’ (मनु० ८।१९८)। अवहार्यः=दण्ड्यः, षट्शतं दमं दाप्य इत्यर्थः।
  • ‘युद्धावहारिकं यच्च पितुः स्यात्स हरेत्तु तत्’ (भा० अनु० ४७।४९)। युद्धेऽवह्रियतेऽपह्रियते जयेन प्राप्यते रथगजायुधकवचादिकं तद् युद्धाऽवहारिकम् प्रधनधनम्।
  • ‘धर्म्यं शुल्कमवहारयेत्’ (अधिकृतैः) (आप० ध० २।१०।२६।९)। ग्राहयेदित्यर्थः।
  • ‘कच्चिदभ्यागता दूराद्वणिजो लाभकारणात्। यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः’ (भा० सभा० ५।१४)॥ अवहार्यन्ते=दाप्यन्ते।
  • ‘आयव्ययनीवीनामग्राणि श्रुत्वा नीवीमवहारयेत्’ (कौ० अ० २।७।१८)। अवहारयेत् कोशं प्रति प्रेरयेत्। नीवी परिशेषः। अग्रं सम्पिण्डितो राशिः।
  • ‘अवहृत्योपरिनाभि धारयन्’ (का० श्रौ० १६।३।८)। अवहृत्य नीचैरवतार्य।