कारकम्

  • “क्रियाजनकं कारकम् ।” क्रियायाः सिद्ध्यर्थम् यत् किमपि आवश्यकम्, तस्य कारकसंज्ञा भवति । “क्रियान्वयि कारकम्” इति अन्यत् (गौणं) मतम् ।
  • कर्तृकारकम्
    • क्रियां यः करोति सः कर्ता । देवदत्तः पचति ।
  • कर्मकारकम्
    • क्रियया कर्ता यद् आप्तुम् इच्छति तत् कर्म । देवदत्तः ओदनं पचति ।
  • करणकारकम्
    • क्रियायाः यत् साधनम्, तत् करणम् । देवदत्तः अग्निना पचति ।
  • सम्प्रदानकारकम्
    • दानक्रियायाः येन सह सम्बन्धः, तत् सम्प्रदानम् । देवदत्तः रामाय ददाति ।
  • अपादानकारकम्
    • यस्मात् कश्चन वियोगः भवति, तत् अपादानम् । वृक्षात् फलम् पतति ।
  • अधिकरणकारकम्
    • क्रिया यत्र भवति, तत् अधिकरणम् । देवदत्तः महानसे पचति ।