०६ क्रियापदानि

६. षष्ठः अध्यायः

क्रियापदानि

(तिङन्तरूपाणि कृदन्तरूपाणि च) ०१. एषा लेखनी आपणे मिलति ।

“मिलति’ इति अस्थाने । प्राप्यते इति वक्तव्यम् । मिलधातोः सङ्गमनम् अर्थः । स च अत्र न अपेक्षितः । प्राप्तिः अत्र

इष्यते । अतः तदर्थकः धातुः प्रयोक्तव्यः ।। एतदत्र स्मर्तव्यं यत् ‘प्राप्यते’ ‘लभ्यते’ इत्यादयः संस्कृतभाषायां कर्मणिप्रयोगाः । तृतीयान्तं कर्तृपदम् अत्र अध्याहार्यम् । यदि कर्तरिप्रयोगः एव इष्यते तर्हि “एतां लेखनीं भवान् आपणे लभते /

लब्धुम् अर्हति’ इति वाक्यं प्रयोक्तव्यं स्यात् । ०२. ह्यः भवत्याः सखी मां मिलितवती ।

‘मया’ इति प्रयोक्तव्यम् । मिलतिः अकर्मकत्वेन एव प्रयुक्तः दृश्यते लोके । प्रयोगो यथा - ‘गङ्गा यमुनया मिलति’ इति । (सङ्गता भवति इत्यर्थः ।) तस्य अकर्मकत्वात् एव कर्तरि क्तः । तथा हि ‘मिलितेषु मिथो योद्धं दन्तिषु …’ (कुमा. - १६. ३१) इति । सकर्मकत्वे तु कर्तरि क्तः सुदुर्लभः । जगन्नाथस्य प्रयोगो यथा - ….. मिलति तव तोयैर्मृगमदः । (गङ्गालहर्याम्) ‘सः मां मिलति’ इति सकर्मकप्रयोगः शिष्टैः प्रयुक्तः यदि दृष्टः स्यात् तर्हि सङ्गमनस्य अङ्गभूतां प्राप्त्यर्थकतां मनसि निधाय सकर्मकत्वं

समर्थनीयं भवेत् । ०३. अहं श्वः मिलिष्यामि । रमेशः सप्ताहानन्तरं पत्रं लिखिष्यति ।

‘मेलिष्यामि’ ‘लेखिष्यति’ इति च साधु । मिलधातोः लिखधातोः च लट्, लोट्, लङ्, विधिलिङ्, शतृ इत्येतान् विहाय इतरत्र सर्वत्र गुणः स्यात् एव ‘पुगन्तलघूपधस्य च’ (७.३.८६) इति सूत्रेण । अतः मिलिष्यति लिखिष्यति इति रूपे असाधुनी एव । मिलति लिखति इत्यत्र न गुणः । एतौ धातू षष्ठे गणे स्तः । षष्ठगणस्य विकरणप्रत्ययः शः । शितः ङिद्वद्भावः गुणनिषेधश्च विहितः ।

क्रियापदानि

141

अतः शिति प्रत्यये परे गुणो न, अन्यत्र गुणः इति ज्ञेयम् । कौमुदीव्याख्याने तत्त्वबोधिन्यां लिख्यते -

“लिखितुं, लिखिष्यति इति प्रयोगः प्रामादिकः । यत्तु कैश्चित् कुटस्यादिः कुटादिः ….. इत्येवमादिक्रमेण ‘लिखितुम्’ इति समर्थितं तदसत् । लेखिता लेखिष्यति इत्यादौ गुणनिषेधापत्तेः । न च इष्टापत्तिः । .. ‘शकुनिष्वालेखने’ इति सौत्रप्रयोगोऽपि

विरुध्यते’ इति । तस्मात् गुणनिषेधः कैश्चित् समर्थितं यत् तत् असत् इति सिद्धम् । ०४. आवयोः पुनः मिलनं कदा भवेत् ?

‘मेलनम्’ इति प्रयोगः वरम् । ल्युटि अनादेशे ‘पुगन्त….’ इति सूत्रेण गुणे ‘मेलनम्’ इति रूपम् । किन्तु क्वाचित्कतया “मिलनम्’ इति प्रयोगाः अपि दृश्यन्ते । यथा -

० परिमिलनमप्राप्य हरितम् ।

• मुक्तांशुजालमिलनाद् रुचिरैः प्रवालैः …..

  • पादुकासहस्त्रे - ५५२ तत्तद्व्याख्यासु ‘संज्ञापूर्वको विधिरनित्यः’ इति गुणनिषेधः इति प्रतिपादितम् । बोपदेवव्याकरणे मुग्धबोधे तु मिलधातोः कुटादित्वम् अङ्गीकृत्य ‘गाङ्कुटादिभ्योऽणिन्डित्’ (१.२.१) इति ङिद्वद्भावेन गुणनिषेधः साधितः । यद्यपि मिलनम् इत्यस्य साधुत्वं मार्गान्तरेण प्रतिपादितं, तथापि स च प्रयोगः क्वाचित्कः इति न विस्मर्तव्यम् । अतः ‘मेलनम्’ इति प्रयोगः

एव वरम् । ०५. ततः आरभ्य किम् अन्विषति भवान् ?

‘अन्विषति’ इति अपशब्दः । ‘अन्विष्यति’ इति प्रयोक्तव्यम् ।

अनु-उपसर्गपूर्वकः गत्यर्थकः इषधातुः चतुर्थगणीयः । चतुर्थगणीयानां विकरणप्रत्ययः श्यन् । अतः लटि यकारः श्रूयते एव । यदि सः षष्ठे गणे स्यात् तर्हि ‘अन्विषति’इति यकाररहितं रूपं स्यात् । किन्तु तथा

तु नास्ति । अतः ‘अन्विष्यति’ इत्येव साधु । ०६. अपघातवार्तां श्रुत्वा को वा न खिद्यति ?

‘खिद्यति’ इति अशुद्धम् । “खिद्यते’ इति प्रयोक्तव्यम् ।

142

शुद्धिकौमुदी दैन्यार्थकः चतुर्थगणीयः खिदधातुः आत्मनेपदी । अतः “खिद्यते’

इत्येव प्रयोक्तव्यम् । ०७. तौ सहोदरौ वैरिणौ इव युध्यतः ।

‘युध्यतः’ इति अपशब्दः । “युध्येते’ इति प्रयोक्तव्यम् ।

सम्प्रहारार्थकः चतुर्थगणीयः युधधातुः आत्मनेपदी । अतः ‘युध्येते’ इत्येव साधु । यद्यपि युद्धम् इच्छतीति युध्यति इति क्यचं विधाय कौमुद्यां निष्पत्तिः दर्शिता तथापि आत्मनेपदिनः प्रयोगः एव वरम् ।

(‘युध्येते’ इत्येषः द्विवचनान्तप्रयोगः ।) ०८. पिता दण्डेन बालान् भापयति ।

‘भापयति’ इति अशुद्धम् । ‘भाययति’ इति प्रयोक्तव्यम् । भयार्थकात् ‘भी’धातोः णिच् इष्यते अत्र । प्रयोजकात् भयं चेदेव आकारः पुक् च । तदा आत्मनेपदित्वम् अपि । प्रयोगो यथा - मुण्डो भापयते ।

अत्रैव भीषयते इत्यपि प्रयोक्तुं शक्यम् । प्रयोजकेतरस्मात् यदा भयं तदा आकारः पुक् च न, नित्यात्मनेपदित्वम् अपि न । उभयपदित्वं

तदा । ०९. छात्राः अध्यापकस्य वाक्यम् उच्चरन्ति ।

‘उच्चारयति’ इति प्रयोक्तव्यम् । उत्पूर्वकः गत्यर्थकः चरधातुः अकर्मकः । सकर्मकत्वे तु आत्मने पदित्वम् ‘उदश्चरः सकर्मकात्’ (१.३.५३) इति । सकर्मकत्वे तु ‘उल्लङ्घय गच्छति’ इत्यर्थः । अकर्मकत्वे तु उद्गच्छति / निर्गच्छति इति

अर्थः । अतः - शब्दः उच्चरति । तम् अन्यः उच्चारयति । भाष्ये अपि णिजन्तप्रयोगः एव प्रयुक्तः दृश्यते - “येनोच्चारितेन सास्नालालककुदखुरविषाणिनां सम्प्रत्ययो भवति स शब्दः’ इति । तत्त्वबोधिन्यां लिख्यते - “ण्यन्तस्तूच्चारणवृत्तिः सकर्मकः । उच्चारयति - निस्सारयति इत्यर्थः’ इति ।

रामायणे प्रयोगो यथा -

उच्चारयति कल्याणी वाचं हृदयहारिणीम् । - किष्किन्धा. ३.३२ १०. माता अन्नं परिवेषयति ।

‘परिवेषयति’ इत्यत्र स्वार्थे णिच् आश्रितः । वस्तुतः पर्युपसर्गपूर्वकःक्रियापदानि

143

व्याप्त्यर्थकः विष्लधातुः जुहोत्यादिः । तस्य रूपाणि नितरां कठिनानि । यथा -

वेवेष्टि वेविष्टः वेविषति वेवेक्षि वेविष्टः वेविष्ट

वेवेष्मि वेविष्वः वेविष्मः इत्यादीनि । अधीतशास्त्राः अपि एतेषां प्रयोगे प्रमाद्येयुः एव । किमुत लौकिकाः? परिवेषणक्रिया तु दैनन्दिनव्यवहारे अस्ति । तदर्थं कश्चन धातुः, तिङन्तरूपं वा आवश्यकम् एव । अतः व्याकरणपरिधौ एव स्थितः मार्गः अत्र आश्रितः । तन्नाम स्वार्थे णिच् कृतः । अत्र प्रमाणं तु - ‘निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते’ इति प्राचीनानां वचनम् । ‘क्वचित् प्रेरणार्थकणिच्प्रत्यये कृते अपि प्रेरणार्थकप्रतीतिः नास्ति’

इति एतस्य वचनस्य तात्पर्यम् । परिवेषयतेः वाक्ये प्रयोगे किञ्चित् ज्ञातव्यम् अस्ति । ‘परिवेषणं नाम व्याप्तिः । भोजना तु आर्थिकी । तस्मात् ‘ब्राह्मणान् अन्नेन परिवेषयति’ इति प्रयोगः एव शिष्टजुष्टः’ इति वदन्ति केचन । चारुदेवशास्त्रिणः तु एतम् एव प्रयोगं समर्थयन्तः ‘अतिथिपतिः अतिथीन् परिविष्य’ (शौनकसंहिता - १.३.५३) इत्यादीन् प्रयोगान् दर्शयन्ति । तेषां दृष्ट्या भोक्तुः एव कर्मत्वं, न अन्नस्य । अतः ‘माता अन्नं परिवेषयति’ इत्येतस्मिन् प्रयोगे विप्रतिपत्तिः तेषाम् । प्राचीनेषु प्रयोगेषु बहुत्र भोक्तुः कर्मत्वम्, अन्नस्य करणत्वं च दृश्यते इति तु सत्यमेव । तथापि अन्नस्य कर्मत्वं सर्वथा निषिद्धं तु न । सिद्धान्तकौमुद्याः बालमनोरमाव्याख्यायां लिख्यते - ‘भोजनपात्रे

ओदनापूपादिभोज्यद्रव्याणां स्थापनं परिवेषणम्’ इति । (यमोऽपरिवेषणे इत्यस्य धातोः व्याख्यानावसरे) तस्मात् अन्नस्यापि कर्मत्वं शास्त्रीयम् एव इति सिद्धम् । अतः ‘माता अन्नं परिवेषयति’ इति प्रयोगः न दोषाय । लोके तु अयमेव प्रयोगः आधिक्येन दृश्यते । सः प्रयोगः शास्त्रसम्मतः एव इत्यतः तस्य प्रयोगे न कोऽपि दोषः इति विभावयितुं

शक्यम् । ११. भक्तः भगवन्तं प्रार्थयति ।

यद्यपि उपयाच्नार्थकस्य ‘अर्थ’धातोः आगीयत्वेन आत्मनेपदित्वम्,

GA

144

शुद्धिकौमुदी ‘अर्थयते’ इति च रूपं, तथापि ‘प्रार्थयति’ इति तु न असाधुः ।

कौमुद्याम् एव तस्य साधुत्वं साधितम् । ‘प्रार्थयन्ति शयनोत्थितं प्रियाः’ (रघु. - १९.२९) इति कालिदासस्य प्रयोगः । परस्मैपदित्वलाभाय स्वार्थे णिच् क्रियते । “निवृत्त प्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते’ इति भाष्योक्तिः (‘णेरणौ…’ इति सूत्रे) अत्र प्रमाणम् । ‘व्यापारहीनात् धातोः णिचि कृते शुद्धन तुल्यः अर्थः प्रतीयते’ इति तस्य वचनस्य तात्पर्यम् । अतः ‘प्रार्थयति’ इति परस्मैपदिप्रयोगः न दोषाय । ‘प्रार्थयते’ इति आत्मनेपदिप्रयोगस्तु

प्रशस्ततरः । १२. मन्दहासपूर्वकम् आशीर्वदति गुरुः ।

‘आशीर्वदति’ इति तिङन्तरूपं नास्ति । ‘आशिषं वदति’ इति प्रयोगः

एव साधुः । ‘आशीर्वाद’शब्दं श्रुत्वा भ्रान्त्या केचन ‘आशीर्वदति’ इति रूपं प्रयुञ्जते । आशीर्वादः इत्यत्र तु ‘आशिषः वादः’ इति षष्टीतत्पुरुष समासः । तत्र आशीर्वादयोः योगं दृष्ट्वा कैश्चित् भ्रान्त्या लटि अपि तयोः योगः क्रियते । न हि आशीश्शब्दस्य गतिसंज्ञा अस्ति, येन च सः क्रियापदेन सह पूर्वप्रयोगं प्राप्नुयात् । आशीश्शब्दस्य तु कर्मत्वम्

एव । आशीश्शब्दः सकारान्तः स्त्रीलिङ्गः । १३. यदि आतङ्कवादविषये प्रतीकारः न चिन्त्यते तर्हि जनाः प्रतिदिनं

‘प्रार्थयन्ति…’ इति माघस्य प्रयोगः इति कौमुद्याः व्याख्यायां तत्त्वबोधिन्यां, बालमनोरमायां च लिखितम् । तत् तु प्रामादिकम् एव । माघकाव्ये तादृशः प्रयोगः क्वापि न दृश्यते ।

“रघुवंशपुस्तकेषु ‘प्रार्थयन्ति….’ इति पाठः क्वापि न दृश्यते । सर्वत्रापि ‘प्रार्थयन्त…’ इति पाठः एव दृश्यते । ‘प्रार्थयन्त’.. इत्येतत् तु लङन्तम् । तत् तु आत्मनेपदिरूपम् एव । अतः तत्र ‘निवृत्तप्रेषणात् धातोः….’ इत्यादियुक्तिम् अवलम्ब्य समाधानकथनस्य न कापि आवश्यकता । अतः कौमुदीकारेण अस्थाने एव समर्थनप्रयासः कृतः इति भाति” इति वदन्ति केचन। एतद्विषये एवम् ऊह्यते - “कौमुदीकारेण प्रायः ‘प्रार्थयन्ति….’ इति पाठः एव दृष्टः । (तेन तद्वाक्यं कुत्रत्यम् इति तु न उक्तम् इति स्मर्तव्यम् ।) अतः सः तस्य समर्थनाय युक्तिं दर्शितवान् । इदानीम् रघुवंशे उपलभ्यमानेषु पाठेषु ‘प्रार्थयन्त….’ इति आत्मनेपदिप्रयोगः एव अस्ति” इति ।

क्रियापदानि

145

मरिष्यन्ति । ‘मरिष्यन्ति’ इति साधु एव । प्राणत्यागार्थकः मृधातुः आत्मनेपदी । किन्तु ‘म्रियतेर्लुङ्लिङोश्च’ (१.३.६१) इति सूत्रेण लुङ्लिङोः शिति च आत्मनेपदित्वं विहितम् । “मरिष्यति’ इत्यत्र ‘स्य’प्रत्ययः न शित् । अतः तस्य न आत्मनेपदित्वं प्राप्तम् । तस्मात् ‘मरिष्यति’ इति रूपम् । एवं च आत्मनेपदिनः अपि मृधातोः भविष्यद्रूपं परस्मैपदिनः इव भवति । (तिबादयः भवन्ति,

न तु तङादयः) १४. आपणिकः वस्तूनि विक्रीणाति ।

‘विक्रीणाति’ इति अपशब्दः । विक्रीणीते’ इति आत्मनेपदिरूपं प्रयोक्तव्यम् । यद्यपि क्रीब्धातुः उभयपदी, तथापि ‘वि’ इत्यस्य उपसर्गस्य योगे तु नित्यम् आत्मनेपदी । ‘परिव्यवेभ्यः क्रियः’ (१.३.१८) इति सूत्रेण आत्मनेपदित्वं विहितम् । तच्च नित्यम् । अतः “विक्रीणीते’ इत्येव रूपम् । व्यवाद्युपसर्गरहितः तु क्रीञ् उभयपदी । अतः क्रीणाति /

क्रीणीते इति रूपद्वयम् अपि साधु । १५. श्रमः एव जयते ।

‘जयते’ इति अपशब्दः । ‘जयति’ इति प्रयोक्तव्यम् । जयार्थकः जिधातु परस्मैपदी एव । अतः जयति इत्येव शुद्धम् । ‘सत्यम् एव जयते’ इत्यत्र जिधातोः आत्मनेपदित्वं दृष्ट्वा अत्रापि ‘जयते’ इति प्रयोगः कृतः । ‘सत्यमेव…’ इति तु छान्दसं वाक्यम् । ‘श्रमः एव…’ इति तु लौकिकं वाक्यम् । लोके तु जयतिः परस्मैपदी एव । विपराभ्यां योगे तस्य आत्मनेपदित्वं विहितम् इति तु अन्यदेतत् । तस्मात् विधानात् ‘विजयते’ ‘पराजयते’ इत्यनयोः आत्मनेपदिरूपयोः

सिद्धिः । १६. वयं श्वः प्रस्थास्यामः ।

‘प्रस्थास्यामः’ इति अपशब्दः । ‘प्रस्थास्यामहे’ इति प्रयोक्तव्यम् । गतिनिवृत्त्यर्थकः स्थाधातुः केवलः परस्मैपदी । (तिष्ठति इति रूपम्) सः एव ‘सम्-अव-प्र-वि’ इत्येतैः उपसर्गः युक्तः आत्मनेपदित्वं प्राप्नोति । “समवप्रविभ्यः स्थः’ (१.३.२२) इति सूत्रम् । अतः

146

शुद्धिकौमुदी ‘प्रतिष्ठते’ इति लटि रूपम् । प्रस्थास्यते इति तु लुटि । १७. मया न कदापि असत्यपक्षः आश्रियते ।

‘आश्रियते’ इति अशुद्धम् । ‘आश्रीयते’ इति प्रयोक्तव्यम् । सेवार्थकस्य श्रिब्धातोः कर्मणि यकि ‘अकृत्सार्वधातुकयोः दीर्घः’ (७.४.२५) इति सूत्रेण दीर्घः विधीयते । अतः ‘आश्रीयते’ इति रूपं भवति ।

अहो, अत्र मशकाः दंशन्ति माम् । ‘दंशति ‘दशति’ इति उभयथा अपि प्रयोगः शक्यः । ‘दंश-दशने’ इति प्रथमगणे पठितम् । तस्य ‘दंशसञ्जस्वां शपि’ (६.४.२५) इति सूत्रेण *उपधा-नकारकस्य (अनुस्वारस्य) लोपे ‘दशति’ इति रूपम् । “दशि दंशने’ इति दशमगणे अपि पाठः कृतः । सः आकुस्मीयः । आकुस्मीयत्वात् आत्मनेपदित्वम् । दंशयते इति रूपम् । आकुस्मीयम् आत्मनेपदं णिचः योगे एव । णिचः विकल्पात् णिज्रहितस्य रूपस्य सिद्धिः । धातोः इदित्त्वात् नुम् । तस्मात् ‘दंशति’ इति रूपम् । एतद्विषये कौमुदीपतिः -

“आकुस्मीयम् आत्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः । इदित्वाणिजभावे दंशति । नलोपे सञ्जिसाहचर्यात् श्वादेरेव

ग्रहणम्” इति । एवं च ‘दंश दशने’ इत्यस्य ‘दशति’ इति रूपम् । ‘दशि दंशने’ इत्यस्य णिजभावे इदित्वान्नुमि ‘दंशति’ इति रूपम् । अतः दशति, दंशति इति उभयोः अपि सिद्धिः । धातुभेदस्तु अस्ति । अर्थभेदः

नास्ति । १९. अहो, मशकानां दंशनं/दशनं सोढुं न शक्यम् ।

दंशनं दशनं चेति उभयम् अपि साधु । “दंश दशने’ इति धातुपाठे ‘दशने’ इति निर्देशात् नकारलोपे ‘दशनम्’ इति रूपम् । ‘दंशेः करणे ल्युटि नलोपो वाच्यः इति नलोपः’ इति

धातुकाव्यव्याख्याने (२.४०) दृश्यते । दशिधातोः इदित्वात् नुमि * ‘उपधा’ इति काचित् संज्ञा । अन्तिमात् वर्णात् पूर्व स्थितः वर्णः ‘उपधा संज्ञायुक्तः

इति उच्यते ।

क्रियापदानि

147

‘दंशनम्’ इत्यपि रूपम् । दंशधातोः लटि इव करणार्थके ल्युटि

रूपद्वयस्यापि सिद्धिः, धातुभेदात् । २०. पाचकः पाकाय अग्नि प्रज्वालयति ।

‘प्रज्वालयति’ इति रूपं न असाधु । ज्वलधातोः ‘ज्वलह्वलालनमामनुपसर्गाद्वा’ (ग.सू.१८९) इति गणसूत्रेण विकल्पेन मित्वात् अनुपसर्गे रूपद्वयं - ज्वलयति, ज्वालयति चेति । उपसर्गे तु नित्यं मित्वम् । ‘मितां ह्रस्वः’ इति ह्रस्वः । प्रज्वलयति इति रूपम् । ‘प्रज्वालयति’ इति रूपं न सिध्यति अत्र । प्रज्वालयति इति रूपं तु लोके दृश्यते । अतः कौमुद्याम् उच्यते -

“कथं तर्हि प्रज्वालयति इति ? घजन्तात् ‘तत्करोति’ इति णौ” इति । एतस्य अयम् अर्थः - प्रज्वलनं प्रज्वालः । भावे घञ् । ‘प्रज्वलनं करोति’ इत्यर्थे ‘तत्करोति तदाचष्टे’ इति णिच् । प्रज्वालि इति णिजन्तरूपम् । अत्र मित्त्वप्रयुक्तहस्वस्य न प्रसक्तिः । ततः शबादिषु कृतेषु ‘प्रज्वालयति’ इति रूपम् । सिद्धान्तकौमुद्याम् एव समर्थितम् इत्यतः ‘प्रज्वालयति’ इत्यस्य प्रयोगः

अपि न दोषाय इति सिद्धम् । २१. सः सर्वदा विना कारणं मां तर्जयति ।

‘तर्जयति’ इति प्रयोगः न असाधुः । तर्जधातुः आत्मनेपदी । अतः तर्जयते इति रूपम् । ‘तर्जयन् इव केतुभिः’ इत्यादिप्रयोगदर्शनात् कौमुद्याः तत्त्वबोधिनीटीकायां (माधवीयधातुवृत्तौ च) उच्यते - “णिजन्तादस्मात् भौवादिकात् तर्जतेर्वा हेतुमण्णिचि बोध्यः’ इति । तन्नाम ‘परिवेषयति’प्रभृतिषु यथा उक्तं (क्रि.प. - १०) तथा ‘निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते’ इत्येतत् वचनम् अवलम्ब्य स्वार्थे णिच् करणीयः । तस्मात् ‘तर्जयति’ इत्यपि सिद्धम् । एवम् एव ‘भर्सयति’ इत्यपि । कृदन्तरूपमालायाम् उच्यते - “क्षीरस्वामी तु ‘लक्ष्ये भर्त्तयति… इति दृश्यते’ इत्याह । तेनास्य धातोः परस्मैपदमपि भवतीति ज्ञेयम्’ इति । तस्मात् भर्त्सयति इति रूपं साधितं भवति । भर्ल्सयते इति आत्मनेपदित्वेन प्रयोगः तु अस्ति एव ।

148

शुद्धिकौमुदी २२. मित्र ! पुनर्मिलामः । आपच्छामि भवन्तम् ।

‘आपृच्छामि’ इति अपशब्दः । ‘आपच्छे’ इति प्रयोक्तव्यम् । प्रच्छधातुः आङपसर्गयोगे आत्मनेपदित्वं प्राप्नोति । आङि नुप्रच्छयोः’ इति वार्तिकम् । तस्मात् लटि प्रथमपुरुषैकवचने ‘आपृच्छते’ इति

रूपम् । प्राचीनप्रयोगो यथा - * ‘आपृच्छस्व प्रियसखममुम्…..’

  • मेघदूतम् * यावन्मातरमापच्छे ।

  • रामायणम् - २.१९.२५ २३. अद्य मम गुरोः आपृच्छनसमारम्भः अस्ति ।

‘आपृच्छनम्’ इति अपशब्दः । ‘आप्रच्छनम्’ इति प्रयोक्तव्यम् । धातुः ‘प्रच्छ’ इति, न तु ‘पृच्छ’ इति । ल्युटि सम्प्रसारणस्य न कोऽपि अवकाशः । सम्प्रसारणे सत्येव रेफस्य ऋकारः ।(प्र’ इत्यस्य स्थाने

‘पृ’) लटि तु सम्प्रसारणम् अस्ति । अतः पृच्छति इति रूपम् । २४. यदि भवान् अपि आगमिष्यत् तर्हि अलभिष्यत ।

‘अलप्स्यत’ इति वक्तव्यम् । ‘अलभिष्यत’ इति अपशब्दः । प्राप्त्यर्थकः लभधातुः अनिट् । अतः इटः प्राप्तिः न । तस्मात्

‘अलप्स्यत’ इत्येव रूपम् । २५. एतां गोष्ठीम् अध्यक्षवर्यः स्वीकरोति ।

‘गोष्ठी निर्वहति’ इति प्रयोगः उचितः स्यात् । स्वीकरणं नाम आदानम् । प्रकृतवाक्ये आदानं न अपेक्ष्यते । आदानेन न कोऽपि अर्थः अत्र । गोष्ठी तु निरुह्यते, न तु स्वीक्रियते । अतः ‘गोष्ठी निर्वहति’ इति प्रयोगः एव औचित्यम् आवहति । प्रादेशिकभाषायां निर्वहणार्थे स्वीकारस्य प्रयोगः दृश्यते ।

तदनुकुर्वन्तः एतादृशानि वाक्यानि प्रयुञ्जते केचन । २६. सः प्रथम स्थान प्राप्तुं बहुधा प्रयतितवान् ।

‘प्रयतितवान्’ इति असाधु । ‘प्रयत्तवान्’ इति प्रयोक्तव्यम् । प्रयलार्थकः यतीधातुः ईदित् । तस्य निष्ठासंज्ञके क्तवतुप्रत्यये परे

क्रियापदानि

149

‘श्वीदितो निष्ठायाम्’ (७.२.१४) इति सूत्रेण इग्निषेधः । अतः ‘प्रयत्तवान्’ इत्येव रूपम् । यद्याग्रहः प्रयतितवान् इति विषये तर्हि यतीधातोः णिचि क्तवतुवति

रूपमिदं स्वीक्रियताम् । ‘निवृत्तप्रेषणाद्धातोः …’ इति आश्रीयताम् । २७. पृष्ठतः स्थितः बालकः अग्रे स्थितं नोदितवान् ।

‘नुन्नवान्’ इति प्रयोगः वरम् । प्रेरणार्थकस्य णुदधातोः क्तवतुप्रत्यये न इट्, यतः णुदधातुः अनिट् । अतः नुन्नवान् इति रूपम् । (नुत्तवान् इत्यपि) नोदितवान् इति रूपं तु

ण्यन्ते स्यात् । ण्यन्तरूपः अर्थः अत्र न विवक्षितः । . २८. सः जलेन सस्यानि सिञ्चितवान् ।

‘सिक्तवान्’ इति प्रयोक्तव्यम् ।।

क्षरणार्थकः षिचधातुः अनिट् । अतः क्तवतुप्रत्यये इटः सद्भावः न । णिचि तु सेचितवान् इति स्यात् । अतः “सिञ्चितवान्’ इति रूपम्

असाधु एव । ‘सिञ्चति’ इत्यत्र ‘शे मुचादीनाम्’ (८.१.५९) इति सूत्रेण नुम् ।

‘श’प्रत्यये एव एषः नुम्, न अन्यत्र । २९. कृषिकः कूपं खनितवान् ।

‘खातवान्’ इति प्रयोक्तव्यम् । ‘खनितवान्’ इति अपशब्दः ।

अवदारणार्थकः खनुधातुः उदित् । उदित्त्वात् क्त्वायाम् इड्किल्पः । तस्मात् ‘यस्य विभाषा’ इति सूत्रेण निष्ठायाम् इटः निषेधः । ‘जनसनखनां सञ्झलोः’ (६.४.४२) इति सूत्रेण आत्वम् । अतः

खातवान् इति रूपम् । ३०. बालकः रज्जुम् आकर्षितवान् ।

‘आकृष्टवान्’ इति प्रयोगः वरम् । कृषधातुः अनिट् । अनिट्वात् क्तवतुप्रत्ययस्य न इट् । तस्मात् कृष्टवान् इति रूपम् । ण्यन्ते तु कर्षितवान् इति रूपम् । ण्यन्तार्थः अत्र न

अभिप्रेतः । अतः आकृष्टवान् इति प्रयोगः एव वरम् । ३१. सर्पः मूषकं गिलितवान् ।

‘गीर्णवान्’ इति वक्तव्यम् । “गिलितवान्’ इति अपशब्दः । ‘गृ’धातोः ‘ऋत इद्धातोः’ (७.१.१००) इति सूत्रेण इकारे ‘हलि

JU

150

शुद्धिकौमुदी च’ (८.२.७७) इति सूत्रेण इकारस्य दीपे गीर्णवान् इति रूपम् । वस्तुतः अयं सेट् । ‘लिङ्सिचोरात्मनेपदेषु’ इति तङ् िइड्विकल्पः । “समः प्रतिज्ञाने’ इति सूत्रेण समुमसर्गयोगे प्रतिज्ञार्थे आत्मनेपदित्वम् । तङि इटः विकल्पेन विधानात् ‘यस्य विभाषा’ इत्यनेन निष्ठायाम् इटः निषेधः । अतः गीर्णवान् इति इड्रहितं रूपम् । ‘गृ निगरणे’ इत्येतस्य धातोः अन्यानि अपि कानिचन रूपाणि विशिष्टानि भवन्ति । तानि कानिचन यथा - लट् - गरिष्यति / गरीष्यति

गलिष्यति / गलीष्यति * तव्यत् - गलितव्यम् / गलीतव्यम्

गरितव्यम् / गरीतव्यम् * अनीयर् - गलनीयम् / गरणीयम् * तुमुन् - गलितुम् / गलीतुम्, गरितुम् / गरीतुम् * ल्युट् - गरणम् लटि गकारोत्तरम् इकारः यः श्रूयते सः उपरि दर्शितेषु रूपेषु नास्ति

इत्येतम् अंशं मनसि स्थापयन्तु । ३२. जनाः शर्मवर्यं नायकत्वेन चयितवन्तः ।

“चितवन्तः’ इति प्रयोक्तव्यम् । ‘चयितवन्तः’ इति असाधु । चयनार्थकः ‘चिञ्’धातुः अनिट् । क्तवतुप्रत्यये ‘चितवत्’ इति

प्रादिपदिकरूपम् । पुंसि चितवान् इति । ३३. मध्यरात्रे सः जागृतः जातः ।

‘जागृतः’ इति अपशब्दः । ‘जागरितः’ इति प्रयोक्तव्यम् । निद्राक्षयार्थकः जागृधातुः सेट् । तस्मात् क्तप्रत्यये इडागमे ‘जागरितः’

इति रूपम् । ३४. अयि सुहृदः, उत्तिष्ठत, जाग्रत, कार्याय गच्छत ।.

‘जागत’ इति प्रयोक्तव्यम् । ‘जाग्रत’ इति रूपम् असाधु । लोटः मध्यमपुरुषबहुवचनम् अत्र विवक्ष्यते । जागृधातोः लोटि

मध्यमपुरुषबहुवचने ‘जागृत’* इति रूपम् । रेफविशिष्टं रूपं तु * उत्तिष्ठत, जाग्रत, प्राप्य वरान् निबोधत’ इत्यस्मिन् वाक्ये ‘जाग्रत’ इति रेफविशिष्टं

रूपं दृश्यते । तच्च कठोपनिषदः वाक्यम् । छान्दसत्वात् तस्य तत्र साधुता । लौकिकप्रयोगः तु ‘जागृत’ इत्येव ।

क्रियापदानि

151

भ्रान्त्या प्रयुज्यते । ३५. सः अपक्तं शाकम् एव खादति ।

‘अपक्तम्’ इति असाधु । ‘अपकम्’ इति प्रयोक्तव्यम् । पाकार्थकस्य पचधातोः क्तप्रत्यये ‘पचो वः’ (८.२.५२) इति सूत्रेण निष्ठातकारस्य वकारः । वकारप्राप्तिः न विकल्पेन । अतः पक्तः इति

रूपं न भवति । ‘पक्कः’ इत्येव प्रयोक्तव्यम् । ३६. स्पर्धायाम् अहं (प्रतिस्पर्धिनं) जितः ।

‘जितवान्’ इति प्रयोक्तव्यम् ।

अत्र अहं जयं प्राप्तवान् इत्यर्थः अपेक्षितः । स च अर्थः “जितः’ इत्यनेन न प्राप्यते । प्रत्युत ‘पराजयं प्राप्तवान्’ इत्यर्थः प्राप्यते । जिधातुद्वयम् अस्ति । एकः जयार्थकः । अपरः अभिभवार्थकः । जयः नाम सर्वोत्कर्षेण स्थितिः । जयार्थकः जिधातुः अकर्मकः । सः कर्तरि क्तप्रत्ययम् अर्हति । तदा जितः नाम सर्वोत्कर्षेण स्थितवान् इति अर्थः भवति । स च अर्थः अत्र न अभिप्रेतः । अतः एव प्रतिस्पर्धिनम् इति कर्मणः निर्देशः कृतः आवरणे । अभिभवार्थकः जिधातुः सकर्मकः । सः कर्तरि क्तप्रत्ययं न प्राप्नोति, अपि तु कर्मणि एव । कर्तरि क्तवतुप्रत्ययः प्रयोक्तव्यः । अतः ‘अहं प्रतिस्पर्धिनं जितवान्’ इति वाक्यविन्यासः उचितः ।

अहं जितः इत्यत्र कर्मणि क्तप्रत्ययः इत्यतः तस्य वाक्यस्य कर्ता स्यात् ‘अन्येन’ इति पदेन बोध्यः । तदा च ‘अन्येन अहं जितः’, तन्नाम

‘अहं पराजयं प्राप्तवान्’ इत्यर्थस्य प्रतीतिः स्यात् ।। ३७. सः मित्रगृहे द्वित्राणि दिनानि उषितुम् इष्टवान् ।

‘उषितुम्’ इति अपशब्दः । ‘वस्तुम्’ इति प्रयोक्तव्यम् । .१४ निवासार्थकस्य वसधातोः अकिति न सम्प्रसारणम् । ‘तुमुन्’ तु न कित् । सम्प्रसारणविधायकं सूत्रं तु - ‘वचिस्वपियजादीनां किति’

(६.१.१५) इति । यजादयः नव धातवः । ते च -

‘यजिर्वपिर्वहिश्चैव वसिर्वेञ् व्येब इत्यपि ।

ह्वेञ्वदी श्वयतिश्चेति यजाद्याः स्युरिमे नव’ इति । उषितुम् इति प्रयोगः ‘उषित्वा’ इत्यादीन् अनुकुर्वद्भिः क्रियते प्रायः । उषित्वा इत्यत्र तु कित्त्वात् सम्प्रसारणम् । तुमुनि तु अकित्त्वात्

6B

152

शुद्धिकौमुदी

सम्प्रसारणाभावः । ३८. शर्मवर्यः उपन्यस्तुं नगरान्तरं गतवान् ।

‘उपन्यस्तुम्’ इति अपशब्दः । ‘उपन्यसितुम्’ इति प्रयोक्तव्यम् । उपन्यस्यति इत्यत्र उप + नि इत्येताभ्याम् उपसर्गाभ्यां युक्तः क्षेपणार्थकः असुधातुः । स च सेट् । अतः तुमुनि इट् स्यादेव । निष्ठायाम् इडभावयुक्तं रूपं दृष्ट्वा तत्सादृश्यात् भ्रान्त्या तुमुनि अपि

इडभावोपेतं रूपं प्रयुञ्जते केचन । ३९. शैत्यकाले अपि ततुं मम इच्छा भवति एव ।

‘तर्तुम्’ इति अपशब्दः । तरितुम्/तरीतुम् इति प्रयोक्तव्यम् । तृधातुः सेट् । तुमुनि ‘वृतो वा’ (७.२.३७) इति सूत्रेण इटः विकल्पेन दीर्घः । दीर्घ प्राप्ते “तरीतुम्’ इति, दीर्घस्य अभावे ‘तरितुम्’ इति च रूपम् । धातोः सेट्कत्वात् इड्रहितं तुमुन्नन्तरूपं तु नास्ति । ‘आर्धधातुकस्य इड्वलादेः’ (७.२.३५) इति सूत्रेण

इडागमः । ४०. दुष्टः शुनकः स्वामिना बद्धव्यः ।

‘बद्धव्यः’ इति असाधु । ‘बन्धव्यः’ इति प्रयोक्तव्यम् । ‘बन्ध’ इति नकारसहितो धातुः । तस्य तव्यति नकारस्य लोपस्य न

काऽपि प्रसक्तिः । अतः ‘बन्धव्यम्’ इति रूपम् । बद्धव्यम् इति यः असाधुप्रयोगः क्रियते तस्य मूलं तु “तव्यदन्तरूपं क्तप्रत्ययान्तसदृशम्’ इति भ्रान्तिः । क्तप्रत्यये त ‘अनिदिताम्…’ (६.४.२४) इति सूत्रेण नकारलोपः । अतः ‘बद्धः’ इति रूपम् । तव्यति न नकारलोपः । अतः नकारसहिततया (बन्धव्यम् इति)

प्रयोक्तव्यम् । ४१. कार्यक्रमार्थ के आह्वयितव्याः इति चिन्तनीयम् ।

‘आह्वयितव्याः’ इति अपशब्दः । ‘आह्वातव्याः’ इति प्रयोक्तव्यम् । स्पर्धार्थकः ह्वेग्धातुः एजन्तः । अतः ‘आदेच उपदेशे अशिति’ (६.१.४५) इति सूत्रेण धातोः आत्वं तव्यति परे । तस्मात् ‘आह्वातव्यम्’ इति रूपस्य सिद्धिः । एतस्य धातोः अनिट्कत्वात् न

इडागमः । ४२. ‘भगवतः नाम सहस्रवारं जप्तव्यम्’ इति गुरुः उक्तवान् ।क्रियापदानि

153

‘जप्तव्यम्’ इति रूपम् असाधु । ‘जपितव्यम्’ इति प्रयोगः

करणीयः । जपधातुः सेट् । तव्यति ‘आर्धधातुकस्य इड्वलादेः’ (७.२.३५)

इत्यनेन इडागमः । इड्रहितं रूपं कथमपि न सिध्यति । ४३. एवं त्वया न इच्छितव्यम् आसीत् ।

‘इच्छितव्यम्’ इति अपशब्दः । “एष्टव्यम्’ इति प्रयोक्तव्यम् । इच्छार्थकस्य इषधातोः तव्यति गुणे ‘एष्टव्यम्’ इति रूपम् । लटि तु “इषगमियमां छः’ (७.३.७७) इति सूत्रेण शे परे छकारस्य आदेशः । अतः इच्छति इति रूपम् । तव्यति तु छकारस्य न

प्रसक्तिः । ४४. भिक्षुकाय वस्त्रं ददन् धनिकः सन्तुष्टः । .

___ ‘ददन्’ इति अपशब्दः । ‘ददत्’ इति वक्तव्यम् ।

शत्रन्तात् पुंसि प्रथमैकवचने ‘उगिदचां सर्वनामस्थाने अधातोः’ (७.१.७०) इति सूत्रेण नुमागमः । तस्मात् गच्छन्, पठन्, लिखन् इत्यादीनि रूपाणि सिध्यन्ति । अतः प्रथमैकवचने नकारश्रवणम् । दाधातुः तृतीयगणीयः । तृतीयगणीयाः धातवः शतरि ‘अभ्यस्त’’ संज्ञां प्राप्य द्वित्वं प्राप्नुवन्ति । ‘नाभ्यस्ताच्छतुः’ (७.१.७८) इति सूत्रेण नुमः निषेधः । तस्मात् प्रथमैकवचने नकारः न श्रूयते, अपि तु तकारः एव । तृतीयगणीयानां सर्वेषाम् अपि शत्रन्तानाम् एषा एव

स्थितिः । ४५. बालिका कार्यं कुर्वन्ती सम्भाषणं करोति ।

‘कुर्वन्ती’ इति अपशब्दः । ‘कुर्वती’ इति प्रयोक्तव्यम् । पठन्ती, लिखन्ती इत्यादिषु नुम् दृश्यते । अदन्ताङ्गत्वे सत्येव शतरि स्त्रियां नुम् । कृञ्धातुः अष्टमगणीयः । तस्य शतरि न अदन्ताङ्गत्वम् । अतः न नुम् । तस्मात् कुर्वती इत्येव रूपम्, न तु कुर्वन्ती इति । एवमेव २, ३, ५, ७,९ गणीयानाम् अपि न नुम् । द्वितीयगणीयानां ‘याति प्रभृतीनां १४ धातूनां विकल्पेन नुम् ।

अन्येषां न । १. ‘अभ्यस्तम्’ इति काचित् संज्ञा । यत्र (षाष्ठद्वित्वप्रकरणे) धातोः द्वित्वं तत्र तयोः

उभयोः समुदायस्य ‘अभ्यस्त ‘संज्ञा भवति । (उभे अभ्यस्तम् - ६.१.५) २. विस्तरस्तु ‘शतृशानजन्तमञ्जरी’पुस्तकस्य परिशिष्टे द्रष्टव्यः ।

154

शुद्धिकौमुदी ४६. कार्य क्रियमाणः सः वेतनं लभते ।

कुर्वन्/कुर्वाणः इति प्रयोक्तव्यम् । ‘क्रियमाणः’ इति पदम् अस्थाने । क्रियमाणः इत्यत्र कर्मणि शानच् । उपरि निर्दिष्टे वाक्ये कर्बर्थे प्रत्ययः (शतृप्रत्ययः शानच् वा) अपेक्षितः । एतस्य विवरणम् एवम् अस्ति - - ‘नमति’ इत्यत्र कत्रर्थे तिप् । नमधातुः परस्मैपदी । अतः शतृ

प्रत्ययः । शतृप्रत्ययान्तं नमन् इति रूपं कर्तुः विशेषणम् । यथा - देवं नमन् रामः… ‘वन्दते’ इत्यत्र कर्बर्थे तङ् । वदि(वन्द)धातुः आत्मनेपदी । अतः शानच्प्रत्ययः । शानच्प्रत्ययान्तं ‘वन्दमानः’ इति रूपं कर्तुः विशेषणम् ।

यथा - देवं वन्दमानः रामः…. एवं पूर्वोक्तौ उभौ अपि शतृशानचौ कर्बर्थे स्तः । अतः तदन्तं रूपं

कर्तुः विशेषणं भवति । - रामेण पाठः पठ्यते - इत्यत्र पठ्धातोः कर्मणि तङ् । अतः

शानच्प्रत्ययः । तदन्तं रूपं कर्मणः विशेषणम् । यथा - रामेण पठ्यमानः पाठः….. एतस्मात् स्पष्टं यत् कर्बर्थे शतृशानचौ चेत् तदन्तं रूपं कर्तुः विशेषणं भवति । कर्मार्थे शानच् चेत् तदन्तं रूपं कर्मणः विशेषणं भवति इति । तस्मात् “क्रियमाणः सः’ ‘पठ्यमानः रामः’ इत्यादयः प्रयोगाः न सम्भवन्ति पूर्वोक्ते अर्थे । ‘उज्यमाणं गृहम्’, ‘गम्यमानः मार्गः’, …. एतौ उभौ अपि प्रयोगौ दुष्टौ । पूर्ववाक्ये दृष्टं यत् कर्मणि शानच् यदा क्रियते तदा तदन्तं रूपं कर्मणः एव विशेषणं भवति इति । उष्यमाणः गम्यमानः इत्यादिषु कर्मणि शानच् कृतम् । तदन्तरूपस्य विशेष्यभूतौ गृहमार्गों न हि कर्मभूतौ । अतः एतादृशी आनुपूर्वी सर्वथा न सम्भवति । ‘यत्र उष्यते तत् गृहम्’ ‘येन गम्यते सः मार्गः’ इति यत्तच्छब्दयोः साहाय्येन अपेक्षितः अर्थः अवगमनीयः भवति । केनचिदपि

क्रियापदानि

155

प्रत्ययान्तेन पदेन अयं भावः प्रकाशयितुं न शक्यः । प्रादेशिकभाषासु अधिकरणादीनाम् अपि विशेषणत्वेन क्रिया प्रयुज्यते । अतः तादृशानां विषये अवधानं स्यात् । तादृशानि अन्यानि कानिचन यथा -

| अशुद्धम् (x) | शुद्धम् (1)

•क्रीयमाणः आपणः यत्र वस्तूनि क्रीयन्ते सः आपणः

•शय्यमानः प्रकोष्ठः यत्र शय्यते सः प्रकोष्ठः

• गम्यमानं लोकयानम् येन जनाः गच्छन्ति तत् लोकयानम्

•सुप्यमाना शय्या यत्र सुप्यते सा शय्या’

• लिख्यमानं कागदम् यत्र लिख्यते तत् कागदम्

• उपविश्यमानः आसन्दः यस्मिन् उपविश्यते सः आसन्दः

•स्नायमाना नदी ___ यस्यां स्नायते सा नदी ४८. सः ग्रन्थं पठितः ।

‘पठितः’ इति अस्थाने । “पठितवान्’ इति प्रयोक्तव्यम् ।

अत्र कर्बर्थे प्रत्ययः इष्यते । सकर्मकधातुभ्यः (गत्यर्थकात् अकर्मकात् च अन्येभ्यः) कर्मणि एव क्तप्रत्ययः, न तु कर्तरि । अतः ‘पठितः’ इत्यत्र कर्मणि क्तः । पूर्वदर्शितं वाक्यं कर्तरि अस्ति । कर्तरि क्तवतुप्रत्ययः । अतः ‘पठितवान्’ इत्येव प्रयोक्तव्यम् । क्तप्रत्यसङ्ग्रहः इत्थम् -

• सर्वे सकर्मकाः धातवः कर्मणि क्तप्रत्ययं प्राप्नुवन्ति ।

यथा - तेन ग्रन्थः पठितः ।

• अकर्मकाः सर्वे भावार्थे क्तप्रत्ययं प्राप्नुवन्ति ।

यथा - पुष्पेण विकसितम् ।

• अकर्मकाः सर्वे कर्बर्थे अपि क्तप्रत्ययं प्राप्तुवन्ति ।

यथा - उत्थितः/उत्थितवान् सः …..

एवं कर्मार्थे भावार्थे अकर्मकेभ्यः कर्तरि चक्तप्रत्ययः स्यात् ।

• सकर्मकेषु कर्तरि गत्यर्थकाः (प्लिषादयः केचन च) एव क्तप्रत्ययं १. एतस्मिन् अर्थे ‘शयनीयं शय्या’ इत्येषः प्रयोगः भवितुम् अर्हति इति वदति दुर्घटवृत्तिकारः शरणदेवः । “कृत्यल्युटो बहुलम्’ (३.३.११३) इति सूत्रेण

अधिकरणार्थे तव्यत् इति वदति सः ।

156

शुद्धिकौमुदी प्राप्नुवन्ति, न अन्ये । सूत्रं - ‘गत्यर्थाकर्मकश्लिषशीङ्स्थासवस जनरुहजीर्यतिभ्यश्च’ (३.४.७२)

यथा - ग्रामं गतः सः ….. फलितोर्थः -

भूते क्तः

कर्मणि

भावे

कर्तरि गत्यर्थकेभ्यः अकर्मकेभ्यः

(श्लिषादिभ्यः अपि सर्वेभ्यः सकर्मकेभ्यः सर्वेभ्यः अकर्मकेभ्यः

४९. अरण्ये व्याघ्राः हरिणान् निश्शवं निहन्ति ।

“निघ्नन्ति’ इति प्रयोक्तव्यम् । “निहन्ति’ इति तु एकवचनान्तम् । अपेक्षा तु बहुवचनान्तस्य । पठन्ति, वदन्ति इत्यादौ बहुवचनान्ते अन्तेः दर्शनात् “निहन्ति’ इत्यत्रापि बहुवचनान्तस्य भ्रमः । ‘हन्ति’ इत्यत्र यः नकारः श्रूयते सः धातोः,

न तु ‘झि’प्रत्ययसम्बन्धिनः । ५०. इदानीं किं करणीयम् इति योचयन् आसीत् गणेशः ।

‘योचयन्’ इति असाधु । ‘आलोचयन्’ इति ‘आलोचमानः’ इति, “चिन्तयन्’ इति वा प्रयोक्तव्यम् । ‘योचयति’ इति क्रियापदं संस्कृते नास्ति, येन योचयन् इति रूपं सिध्येत् ।

भवन्तः पुनः अपि मम गृहम् आगमिष्यन्तु । ‘आगमिष्यन्तु’ इति अपशब्दः । ‘आगच्छन्तु’ इत्येव भाव्यम् ।

लोटः कालवाचकत्वं नास्ति । भविष्यतः प्रतीतिः तु क्वचित् भवितुम् अर्हति । सर्वेभ्यः धातुभ्यः लटि (भविष्यत्काले) ‘स्य’कारस्य श्रवणात्, प्रार्थनादौ लोटि ‘तु’ इत्यस्य श्रवणात् च भ्रान्त्या एतदुभयम् अपि योजयित्वा आगमिष्यन्तु, दास्यन्तु इत्यादीन् प्रयोगान् कुर्वन्ति केचन ।

क्रियापदानि

157

५२. परश्वः प्रातः एव अहम् आगच्छामि ।

‘परश्वः आगच्छामि’ इति प्रयोगः दुष्टः । ‘परश्वः आगमिष्यामि’ इति प्रयोक्तव्यम् । प्रादेशिकभाषायाः प्रभावतः प्रायः दाक्षिणात्याः लटि प्रयोक्तव्ये लटं

प्रयुञ्जते । संस्कृते तु ‘वर्तमाने लट्, भविष्यति लुट्’ इति विवेकः । ५३. यदि भवान् वदति स्म तर्हि अहं करोमि स्म ।

एषा वाक्यरचना दोषयुक्ता । ‘यदि भवान् अवदिष्यत्/वदेत् तर्हि अहम् अकरिष्यम्/कुर्याम्’ इति प्रयोक्तव्यम् । अत्र लटा सह ‘स्म’प्रयोगः कृतः । एतस्मात् वाक्यात् भूतकालस्य (निवृत्तक्रियायाः) प्रतीतिः भवति । अतः ‘यदि भवान् अवदत् तर्हि

अहम् अकरवम्’ इत्यर्थः अवबुध्यते । तादृशः अर्थः न अन्वितः, न वा अभिप्रेतः । क्रियायाः अनिष्पत्तिः, कार्यकारणभावः च अभिप्रेतः वक्त्रा । तादृशम् अर्थम् अभिव्यञ्जयितुं लङ्लकारः प्रयोक्तव्यः । अतः ‘यदि भवान् अवदिष्यत् तर्हि अहम् अकरिष्यम्’ इति वाक्यं प्रयोक्तव्यम् ।

एतस्मिन् एव अर्थे लिङ् अपि प्रयोक्तुं शक्यः । तस्मात् ‘यदि भवान् वदेत् तर्हि अहं कुर्याम्’ इत्येतत् वाक्यम् अपि विवक्षितस्य अर्थस्य द्योतने समर्थः एव । लटा सह ‘स्म’प्रयोगः तु एतस्मिन् अर्थे

परिहरणीयः एव । ५४. व्याघ्रं दृष्ट्वा सः कम्पितुम् आरब्धवान् ।

‘कम्पितुम् आरब्धवान्’ इति वाक्यं दोषाय । “व्याघ्नं दृष्ट्रा सः

कम्पितः जातः’ इति प्रयोगः उचितः । व्याघ्रदर्शनात् तस्मिन् कम्पनक्रिया स्वयम् उत्पन्ना । तां क्रियां सः यत्नेन न आरभते । अतः ‘कम्पितः जातः’ इति प्रयोगः उचितः । ‘व्याघ्रं दृष्टवति तस्मिन् कम्पनम् उत्पन्नम्’ इति भङ्यन्तरेण

अपि एषः अभिप्रायः आविष्कर्तुं शक्यः । ५५. सः किमपि वक्तुं प्रस्थितः ।

‘वक्तुं प्रस्थितः’ इति न प्रशस्तः प्रयोगः । ‘वक्तुम् उमुक्तः’ इति प्रयोक्तव्यम् । अत्र प्रस्थानस्य न कोऽपि अवसरः । वक्ता उद्यमं करोति । अतः

158

शुद्धिकौमुदी

‘वक्तुम् उद्युक्तः’ इति प्रयोक्तव्यम् । लोकभाषायाः प्रभावतः ‘वक्तुं

प्रस्थितः’ इत्यादयः प्रयोगाः क्रियन्ते । एतादृशाः यत्नतः

परिहरणीयाः ।। ५६. रामः रावणम् असंहरत् ।

‘असंहरत्’ इति अपशब्दः । ‘समहरत्’ इति प्रयोक्तव्यम् । “संहरति’ इत्यत्र ‘सम्’ इति उपसर्गः ‘हरति’ इति लडन्तम् । भूतकाले लङि अडागमः भवति धातोः । स च अडागमः धातोः पूर्वं भवति, न तु उपसर्गात् पूर्वम् । अतः सम् + अहरत् – समहरत् इतिरूपम् । वाक्यप्रयोक्त्रा तु अडागमः उपसर्गात् पूर्वं कृतः । स च

दोषाय । ५७. एवम् उक्त्वा देवः अन्तर्धानः जातः ।

‘अन्तर्हितः जातः’ इति, ‘अन्तर्धानं गतः’ इति वा प्रयोक्तव्यम् । ‘अन्तर्धानः जातः’ इति अयुक्तम् ।। ‘धाञ्’धातोः ल्युट्प्रत्यये ‘धानम्’ इति रूपम् । ‘क्त’प्रत्यये तु “हितम्’ इति रूपम् । ‘दधातेर्हिः (७.४.४२) इति सूत्रेण तादौ किति हिः । अतः ‘हितम्’ इति रूपम् । प्रकृते वाक्ये क्तान्तं रूपम् एव इष्टम् । अतः ‘अन्तर्हितः’ इति प्रयोगः करणीयः । । यदि ‘अन्तर्धानशब्दप्रयोगे एव प्रीतिः तर्हि ‘अन्तर्धानं गतः’ इति

प्रयोगः भवतु । तदा अपि न कोऽपि दोषः । ५८. सः राजनीतिकक्षेत्रे पदं निधत्तवान् ।

  • “निधत्तवान्’ इति अपशब्दः । ‘निहितवान्’ इति प्रयोक्तव्यम् ।

‘धाञ्’धातोः क्तवतुप्रत्यये ‘दधातेर्हिः’ इति हिः भवति । तदानीं

‘(नि)हितवान्’ इति रूपम् । धत्तवान् इति रूपं तु असाधु एव । ५९. सचिवः योजनां क्रियान्वेतुं प्रयत्नं कृतवान् । ।

“क्रियान्वेतुम्’ इति अपशब्दः । “क्रियान्वितां कर्तुम्’ इति, ‘व्यवहारपथम् आनेतुम्’ इति वा प्रयोक्तव्यम् ।। ‘क्रिया’शब्दः न उपसर्गः । तस्मात् उपसर्गस्य इव धातौ अन्वयः नास्ति तस्य । अतः क्रियान्वेतुम् इति अपशब्दः । क्रियान्वितः क्रियान्वयः इत्यादिषु क्रियाशब्देन समासः दृश्यते । तस्मात् भ्रान्त्या

क्रियापदानि

‘क्रियान्वेति’ इति क्रियापदरूपस्य सत्तां चिन्तयन्ति केचन । ६०. रामः राक्षससंहाराय ब्रह्मास्त्रं त्यक्तवान् ।

‘ब्रह्मास्त्रं प्रयुक्तवान्’ इति प्रयोगः उचितः । योद्धा धनुः गृहीत्वा बाणं प्रवर्तयति । एतदुच्यते - ‘बाणप्रयोगः’ इति । त्यागः एतस्मात् अन्यः । महाभारतयुद्धे स्वजनान् दृष्ट्रा विषादं प्राप्य ‘न योक्ष्ये’ इति उक्त्वा अर्जुनः धनुर्बाणादीन् भूमौ स्थापितवान् । सः उच्यते - ‘त्यागः’ इति । एवं प्रयोग-त्यागयोः अस्ति महान् अर्थभेदः । प्रकृतं तु रामः बाणं प्रयुक्तवान्, न तु त्यक्तवान् । अतः ‘बाणं त्यक्तवान्’ इति प्रयोगः औचित्यं न आवहति । ‘बाणं मुञ्चति’ इत्यपि बहुधा प्रयोगः कृतः दृश्यते

प्राचीनैः । ६१. सः गोष्ठ्यां सस्य प्रबन्धं मण्डितवान् ।

‘मण्डितवान्’ इति अस्थाने । ‘उपस्थापितवान् ’ इति प्रयोक्तव्यम् । ‘मण्डितवान्’ इत्यत्र भूषणार्थकः ‘मडि’धातुः । अलङ्करणं मण्डनम् इति उच्यते । तथा हि कोषः - ‘मण्डनं स्यादलङ्कारेऽलङ्करिष्णुनि वाच्यवत्’ ( विश्व.) इति । गोष्ठ्यां प्रबन्धस्य भूषणं न क्रियते । प्रबन्धगतः विषयः श्राव्यते । अतः प्रबन्धः उपस्थाप्यते प्रस्तूयते

वा । तस्मात् तदनुगुणः एव शब्दप्रयोगः वरम् । ६२. इतोऽपि किञ्चित् अन्नं नयतु भोः !

‘अन्नं स्वीकरोतु’ इति प्रयोगः शोभते । भोजनावसरे प्रयुक्तम् इदं वाक्यम् । परिवेष्टा भोक्तुः अन्नस्वीकारम् अभिलषति । स्वीकारार्थे नयतेः प्रयोगं करोति सः । किन्तु नयतिः न स्वीकारार्थकः । अतः स्वीकारार्थे तस्य प्रयोगः न युज्यते ।

एतस्यापि प्रयोगस्य कारणं प्रादेशिकभाषाप्रभावः एव । ६३. सः नगरे निवसन् कष्टेन भोजनादिव्ययं सम्पादयति स्म ।

“भोजनादिव्ययं सम्पादयति’ इति प्रयोगः न युक्तः । सम्पादयति नाम अर्जयति इत्यर्थः । न कोऽपि व्ययम् अर्जयति । व्ययाय धनं तु अर्जयितुम् अर्हति । सम्पादयतेः कर्म धनादिकं भवितुम् अर्हति, न तु व्ययादिकम् । अतः ‘भोजनादिव्ययाय (व्ययार्थ वा) धनं सम्पादयति स्म’ इति, ‘धनं सम्पाध

160

शुद्धिकौमुदी

भोजनादिव्ययं निर्वहति स्म’ इति वा प्रयोक्तव्यम् । तदा एव अपेक्षितस्य अर्थस्य अभिव्यञ्जनं भवितुम् अर्हति । भवता एतद्विषये चिन्ता विहितव्या नास्ति । “विहितव्या’ इति अपशब्दः । “विधातव्या’ इति प्रयोक्तव्यम् ।

दधातेः तादौ किति प्रत्यये परे एव ‘हिः’ इति आदेशः ‘दधातेर्हिः’ (७.४.४२) इति सूत्रेण । तस्मात् हितादीनि रूपाणि सिद्धानि भवन्ति । तव्यत्प्रत्ययः यद्यपि तादिः तथापि कित् न । (यद्यपि आदौ तकारः अस्ति तथापि इत्संज्ञायुक्तः ककारः एतस्य नास्ति ।) तस्मात् “हिः’ इत्यस्य प्रसक्तिः अत्र न । अतः (वि)हितव्या’ इति रूपम्

असाधु एव । बालकः दशवादने निद्रितवान् । ‘निद्रितवान्’ इति असाधु । “निद्राणवान्’ इति प्रयोक्तव्यं, “निद्रितः’ इति वा । ‘सुप्तः’ इति तु वरम् । ‘नि’ इति उपसर्गात् ‘द्रा’धातोः क्तवतुप्रत्यये ‘संयोगादेरातो धातोर्यण्वतः’ (८.२.४३) इति सूत्रेण क्तवतुप्रत्ययावयवस्य तकारस्य (निष्ठातकरस्य) नकारः । ततः णत्वे ‘निद्राणवान्’ इति रूपम् । ‘निद्रितवान्’ इति रूपं तु न भवति क्तवतुप्रत्यये परे । ‘निद्रितः’ इत्यत्र तारकादिभ्यः इतच् । “निद्रायुक्तः’ इति तात्पर्यं

भवति ।

‘निद्रितवान्’ इति प्रयोगः तु क्रियते भ्रान्त्या एव । ६६. अद्यत्वे अध्यापकाः परीक्षायाम् उत्तराणि लेखापयन्ति ।

‘लेखापयन्ति’ इति अपशब्दः । ‘लेखयन्ति’ इति प्रयोक्तव्यम् । लिखधातोः णिचि लेखयति इति रूपम् । णिचि परे आत्वस्य अभावात् ‘अर्तिही..(७.३.३६) इति सूत्रेण न पुक् । अतः ‘लेखापयति’ इति रूपं न भवति । यदि पुक् इष्यते एव तर्हि “लिखापयति’ इति रूपं कथञ्चित् समर्थनीयम् (गुणरहितम्) । मनोरमायाम् इत्थं समर्थ्यते - “अयनम्

आयः प्राप्तिः । लिखस्य आयः लिखायः । तं करोति इति लिखापयति’’ इति । स्थितस्य गतेः चिन्ततार्थम् अत्र अयं क्रमः आश्रितः दृश्यते । अतः

क्रियापदानि

161

तस्य परिहारः एव वरम् । ‘लेखयति’ इत्येव प्रयोगः शोभते । ६७. एतं विषयं वयं श्वः चर्चिष्यामः ।

‘चर्चयिष्यामः’ इति प्रयोगः वरम् ।।

अध्ययनार्थकः चर्चधातुः दशमगणीयः । चर्चयति इति लटि प्रथम पुरुषैकवचनान्तं रूपम् । लुटि ‘चर्चयिष्यति’ इति रूपम् । धातुरयं सेट इत्यतः ‘णेरनिटि’ इति सूत्रेण णेर्लोपो न । अतः चर्चय् + इ + स्यति

= चर्चयिष्यति इति रूपम् । ‘सर्वोऽपि चुरादिणिच् पाक्षिकः’ इति पक्षे तु चर्चति इति रूपं स्यात् । तस्य भविष्यति ‘चर्चिष्यति’ इति रूपं भवेत् । किन्तु चर्चधातुः चुरादिः णिजन्तः एव प्रयुज्यते सर्वत्र । (भ्वादौ तुदादौ च स्थितयोः चर्चधात्वोः परिभाषणादयः अर्थाः । परिभाषणं नाम सनिन्दोपा लम्भः । स च अत्र न अभिप्रेतः । तस्मात् तयोः प्रयोगः भवितुं न

अर्हति अत्र ।) ६८. सः केनापि सह सम्भाषयितुं न इच्छति ।

‘सम्भाषयितुम्’ इति प्रयोगः अस्थाने । “सम्भाषितुम्’ इति प्रयोक्तव्यम् । ‘सम्भाषते’ इत्यस्य तुमुन्नन्तरूपं ‘सम्भाषितुम्’ इति । सम्भाषयतेः (ण्यन्तस्य) तुमुन्नन्तरूपं ‘सम्भाषयितुम्’ इति । प्रकृतवाक्ये सः स्वयं सम्भाषणं कर्तुम् इच्छति । अन्येन कारयितुं न इच्छति । अतः

ण्यन्तस्य प्रयोगः न उचितः । ६९. विना कारणं बालाः न ताडितव्याः ।

‘ताडितव्यः’ इति रूपम् असाधु । ‘ताडयितव्यः’ इति प्रयोक्तव्यम् । आघातार्थकः ‘तड’धातुः दशमगणीयः । वर्तमाने प्रथमैकवचने ‘ताडयति’ इति रूपम् । तस्य सेट्त्वात् तव्यति इडागमे गुणे अयादेशे ‘ताडयितव्यम्’ इति रूपम् । “ताडितव्यम्’ इति रूपं तु असाधु । अद्य सभायां पारितोषिकानि वितरितानि । ‘वितरितानि’ इति अपशब्दः । “वितीर्णानि’ इति प्रयोक्तव्यम् । तरणार्थकात् ‘तृ’धातोः सनि विकल्पितेट्कत्वात् निष्ठायां (क्तप्रत्यये) ‘यस्य विभाषा’ (७.२.१५) इति इटः निषेधः । इत्वे रपरत्वे दीर्घ ‘रदाभ्यां निष्ठातो नः …..’(८.२.४२) इति सूत्रेण निष्ठातकारस्य नकारः । “रषाभ्यां ….’(८.४.१) इति सूत्रेण नकारस्य णकारः ।

162

शुद्धिकौमुदी तस्मात् ‘तीर्णः’ इति रूपम् । क्तप्रत्यये इट् तु नास्ति । अतः ‘तरितम्’

इति रूपम् असाधु । ७१. * व्याघ्राय वृक्षारोहणं न आगच्छति ।

  • मम संस्कृतं न आगच्छति । * भवते संस्कृतम् आगच्छति किम् ? एतेषु वाक्येषु ज्ञानार्थे गम्धातुः प्रयुक्तः । एतादृशः प्रयोगः शिष्टैः क्वापि न कृतः । प्रादेशिकभाषायाः साक्षात् अनुवादः अयम् । अतः एतादृशाः प्रयोगाः सर्वथा परिहरणीयाः । ‘व्याघ्रः वृक्षम् आरोढुं न शक्नोति’, ‘मया संस्कृतं न ज्ञायते/ अहं संस्कृतं न जानामि’, ‘भवान् संस्कृतं जानाति किम् ?’

इत्येवमादिरूपेण वाक्यविन्यासः करणीयः । ७२. यदि अहं रात्रौ गृहं न गच्छेयं तर्हि गृहजनाः चिन्तिताः भवन्ति ।

“चिन्ताग्रस्ताः भवन्ति’ इति प्रयोक्तव्यम् । संज्ञानार्थकस्य “चिती’धातोः लटि प्रथमैकवचने “चिन्तयति’ इति रूपम् । स च सकर्मकः । सकर्मकधातुभ्यः (गत्यर्थकभिन्नेभ्यः) क्तप्रत्ययः कर्मार्थे एव । अतः “चिन्तितः’ इत्यस्य कर्तृपदं तृतीयान्तं

भवेत् । प्रकृतवाक्ये ‘गृहजनाः’ इति प्रथमान्तं पदम् । अतः अयुक्तता। ‘गृहजनैः’ इति प्रयोगादपि न इष्टसिद्धिः इति तु विषयान्तरम् तत् ।

अन्यच्च चिन्तयतेः न प्रसक्तिः अत्र । चिन्ताग्रस्तता वक्तुम् इष्टा । अतः “चिन्ताग्रस्ताः / चिन्तायुक्ताः / चिन्ताकुलाः भवन्ति’ इति वाक्यविन्यासः एव शोभते । “चिन्ता अस्य अस्ति इति चिन्तितः’ इति इतन्प्रत्ययान्तकथनं तु

अगतिकगत्या । ७३. तेन धनिकः सम्पृक्तः / सम्पर्कितः ।

“सम्पृक्तः’ ‘सम्पर्कितः’ इति रूपद्वयम् अपि साधु । . ‘पृची सम्पर्के’ इत्येषः सेटकः धातुः । तथापि क्तप्रत्यये न इट् - ‘श्वीदितो निष्ठायाम्’ (७.२.१४) इति सूत्रेण इटः निषेधात् । क्तप्रत्ययः निष्ठासंज्ञायुक्तः । ‘चोः कुः’ (१.२.३०) इत्यनेन

यकारस्य कुत्वम् । तस्मात् ‘सम्पृक्तः’ इत्यस्य रूपस्य सिद्धिः । :काल सम्पर्कितः’ इति रूपं तु ‘सम्पर्कयति’ इत्यस्य क्तान्तं रूपम् ।क्रियापदानि

16

सम्पर्कशब्दात् ‘तत्करोति तदाचष्टे’ इति णिच् । तस्मात् ‘सम्पर्कयति’ इति

लडन्तं रूपम् । तस्य क्तप्रत्यये कृते इटि ‘सम्पर्कितः’ इति रूपम् । एवं ‘सम्पृक्तः’ इति रूपं पृचीधातोः क्तप्रत्यये कृते सिद्धम् । ‘सम्पर्कितः’ इति तु सम्पर्कयति इत्यस्य क्तप्रत्यये कृते सिद्धम् । अतः

उभयथा अपि साधुता । ७४. तेन बहवः सम्पर्कितव्याः सन्ति ।

‘सम्पर्चितव्याः’ इति, ‘सम्पर्कयितव्याः’ इति, “सम्पर्कणीयाः’ इति वा प्रयोक्तव्यम् । पृचीधातोः तव्यदन्तं रूपं प्रयोक्तुम् इच्छति प्रयोक्ता । पृच् + तव्य इति स्थिते इडागमे ‘पर्चितव्यम्’ इति रूपम् । तत्र चकारस्य कुत्वं (ककारः) दुर्लभम् । ‘सम्पर्कयति’ इत्यस्मात् (सम्पर्कशब्दात् तत्करोति तदाचष्टे इति णिचि सम्पर्कयति इति रूपम्) तव्यति ‘सम्पर्कयितव्यम्’ इति रूपम् । अत्र ककारश्रवणं तु भवति । किन्तु णेः लोपस्य अभावात् ‘सम्पर्कयितव्यम्’ इति रूपम् । तन्नाम इकारश्रवणं ककारोत्तरं न, अपि तु यकारोत्तरम् । ‘सम्पर्कयति’ इत्यस्मात् अनीयरि ‘सम्पर्कणीयम्’ इति रूपम् । पृचीधातोः अनीयरि (सं)पर्चनीयम्’ इति रूपम् । ‘पृची’धातोः (पृणक्ति) कृद्रूपाणि, ‘सम्पर्कयति’ इत्यस्य कृद्रूपाणि

च अधः दीयन्ते वैशद्याय ।

पृचीधातोः सम्पर्कयतेः

तव्यत्

सम्पर्चितव्यम् सम्पर्कयितव्यम् अनीयर्

सम्पर्चनीयम् सम्पर्कणीयम् क्त्वा

सम्पृक्तः

सम्पर्कितः शतृ (पुं)

सम्पृश्चन्

सम्पर्कयन् (स्त्री) सम्पृञ्चती

सम्पर्कयन्ती तुमुन्

सम्पर्चितुम् सम्पर्कयितुम् ल्यप्

सम्पृच्य

सम्पर्य ल्यट

सम्पर्चनम्

सम्पर्कणम्

प्रत्ययः

164

शुद्धिकौमुदी ७५. अहं त्वां प्रीणामि ।

अनुरागवान् कश्चित्, अनुरागवती काचित् वा अनुरागपात्रम् उद्दिश्य एतत् वाक्यं वदति । अतः अत्र ‘अहं त्वयि अनुरक्तः / अनुरक्ता

अस्मि’ इति कथनं युज्यते । ‘प्रीणाति’ इत्यत्र प्रीधातुः । सः नवमगणीयः । दशमगणीयः अपि कश्चन अस्ति । दशमगणीयस्य रूपं ‘प्रीणयति’ इति । उभयोः अपि अर्थः समानः - तर्पणं, सन्तोषजननं चेति । तस्मात् प्रीणाति / प्रीणयति = सन्तोषं जनयति / तर्पयति । सन्तोषजननादिकम् अनुरागस्य अनन्तरं भवति । अनुरागप्रकटन दशायां न । अनुरागप्रकटनदशायाम् अपि सन्तोषः तु जायते, तथापि तत्र अनुरागस्यैव प्राधान्यम् । अतः तत्र ‘अनुरक्तोऽस्मि’ इति (अनुरक्तास्मि इति वा) प्रयोक्तव्यम् । यदि अखण्डक्रियापदस्य प्रयोगे इच्छा तर्हि अनुरज्ये / अनुरज्यामि / अनुरजे / अनुरजामि इत्यादीनि रूपाणि प्रयोक्तव्यानि । रागार्थकः रञ्जधातुः चतुर्थगणीयः प्रथमगणीयश्चापि । उभौ अपि तौ अकर्मकौ, उभयपदिनौ च । तस्मात् ‘त्वयि’ इति सप्तम्यन्तं प्रयोक्तव्यं, न तु ‘त्वाम्’ इति द्वितीयान्तम् । द्वितीयायां प्रयुक्तायां सकर्मकत्वं सिद्धं भवति । यत्र सन्तोषजननमात्रम् इष्यते तत्र ‘प्रीणातेः’ (प्रीणयतेः वा) प्रयोगः भवितुम् अर्हति । ‘यः प्रीणयेत् सुचरितैः पितरं स पुत्रः’ ‘प्रीणयामो

वासुदेवम्’ इत्यादयः प्रयोगाः एतमेव अंशं समर्थयन्ति । ७६. एवम् आशासमानः सः राजसमीपम् अगच्छत् ।

‘आशासमानः’ इति अपशब्दः । ‘आशासानः’ इति प्रयोक्तव्यम् । इच्छार्थकः ‘शास’धातुः अत्र । सः आत्मनेपदी । प्रायः अयं नित्यम् आपूर्वः । वर्तमाने प्रथमैकवचने ‘आशास्ते’ इति रूपम् । (शासु अनुशिष्टौ इत्येषः धातुः तु परस्मैपदी । अनुशिष्टिः नाम नियोगः ।) शासुधातोः आत्मनेपदित्वात् शानचि ‘आशासानः’ इति रूपम् । धातोः अदन्ताङ्गत्वाभावात् मुक्विधायकस्य ‘आने मुक्’ (७.२.८२) इति सूत्रस्य अत्र अप्रवृतिः । अतः मुगागमः न । ‘तस्मात् आशासानः’ इति रूपम् ।

क्रियापदानि

‘बृहद्धातुरूपावली कारः इच्छार्थकः शासधातुः प्रथमगणीयः अपि अस्ति इति वदति । यदि तस्य प्रामाणिकत्वम् अङ्गीक्रियेत तर्हि ‘आशासमानः’ इति मुगागमसहितं रूपं साधु स्यात् । किन्तु कौमुद्यां कृदन्तरूपमालादिषु वा तादृशः धातुः न दर्शितः । तस्मात् तस्य

धातोः प्रामाणिकता चिन्त्या एव । ७७. विमर्शकः ग्रन्थान् विमर्शयति ।

“विमर्शयति’ इत्येतत् णयन्तरूपम् अस्थाने । ‘विमशति’ इति

अण्यन्तरूपं प्रयोक्तव्यम् । आमर्शनार्थकः मृशधातुः षष्ठगणीयः । तस्मात् ‘विमृशति’ इति रूपं सिद्धम् । एषः धातुः प्रेरणार्थकणिचप्रत्ययरहितः । अतः अण्यन्तः धातुः इति उच्यते । प्रेरणार्थके णिचि “विमर्शयति’ इति रूपम् । एतत् णिच्सहितम् । अतः ण्यन्तम् । क्वचित् अयं णिच् स्वार्थे अपि क्रियते अगतिकगत्या । अत्र तु अण्यन्तरूपेणैव इष्टसिद्धिः । अतः ण्यन्तस्य न काऽपि आवश्यकता । ण्यन्तरूपप्रयोगविषये आधिक्येन भ्रान्तिः दृश्यते लोके । यत्र इच्छा भवति तत्र सर्वत्र स्वार्थे ण्यन्तस्य प्रयोगः भवितुं न अर्हति । किन्तु ‘ण्यन्तमोहः’ (ण्यन्तविषये अविवेकः वा) बहुत्र दृश्यते ।

कानिचन उदाहरणानि यथा -

| मास्तु (X)

| भवतु () (ण्यन्तरूपाणि)

(अण्यन्तरूपाणि) ० सौचिकः वस्त्रं सीवयति । सौचिकः वस्त्रं सीव्यति । ० तरुणः वस्त्रं धारयति । तरुणः वस्त्रं धरति । ० बालः चित्रम् अवलोकयति* । बालः चित्रम् अवलोकते । ० बालकः रुचिम् आस्वादयति । बालकः रुचिम् आस्वदते । ० रक्षकः गृहं रक्षयति । रक्षकः गृहं रक्षति । ० लेपकारः लेपयति ।

लेपकारः लिम्पति । ० सः दुरभ्यासं विसर्जयति ।। सः दुरभ्यासं विसृजति । इदमत्र स्मर्तव्यम्, - लोक(भाषायाम् धातुः स्वदधातुः च दशमगणीयोऽपि अस्ति । तथापि अण्यन्तस्य धातोः सद्भावात्, तस्य प्रयोगे क्लेशराहित्यात् त प्रयोगः वरम् ।

साना तस्यैव

166

शुद्धिकौमुदी

० कर्मकरः जलं सेचयति । कर्मकरः जलं सिञ्चति । ० चिन्तकः आलोचयति । चिन्तकः आलोचते । ० प्रकाशकः लेखं प्रकटयति । प्रकाशकः लेखं प्रकटति । एतादृशेषु स्थलेषु ण्यन्तस्य प्रयोगः अपरिहार्यः तु न । अतः

अण्यन्तस्यैव प्रयोगः ण्यन्तस्य परिहारश्च वरम् । ७८. अयं ‘ण्यन्तमोहः’ वर्तमाने एव न, भूतकृदन्तप्रयोगस्थले अपि

आधिक्येन दृश्यते । तन्नाम अण्यन्तेन एव इष्टसिद्धौ ण्यन्तप्रयोगः क्रियते । महता श्रमेण ण्यन्तस्य समर्थनं शक्येत । किन्तु किं व्यर्थपरिश्रमेण ? अण्यन्तस्यैव रूपस्य प्रयोगः वरम् । तद्यथा - | मास्तु (X)

| भवतु (1) १. शिरोवेदना वर्धिता । शिरोवेदना प्रवृद्धा । २. क्षीरं दूषितम् ।

क्षीरं दुष्टम् । ३. सः चोरं बन्धितवान् । सः चोरं बद्धवान् । ४. अधिकारिणा एवं निर्देशितम् । अधिकारिणा एवं

निर्दिष्टम् । ५. जनाः यानं नोदितवन्तः । जनाः यानं नुन्नवन्तः/

नुत्तवन्तः । ६. भक्ताः रथम् आकर्षितवन्तः । भक्ताः रथम्

आकृष्टवन्तः । ७. शत्रवः नगरम् आक्रमितवन्तः । शत्रवः नगरम्

आक्रान्तवन्तः । ८. कृषिकः वृक्षं छेदितवान् । कृषिकः वृक्षं छिन्नवान् । ९. गुरुः मन्त्रम् उपदेशितवान् । गुरुः मन्त्रम् उपदिष्टवान् । १०. शुनकः दंशितवान् । शुनकः दष्टवान् । ११. विमर्शकः विमर्शितवान् । विमर्शकः विमृष्टवान् । १२. सा लतां सिञ्चितवती । सा लतां सिक्तवती । १३. सभा विसर्जिता।

सभा विसृष्टा । १४. अभिमन्युः व्यूह भेदितवान् । अभिमन्युः व्यूह भिन्नवान् । १५. सः सर्वत्र भ्रमितवान् । सः सर्वत्र भ्रान्तवान् ।

क्रियापदानि

167

यदि ‘नुन्नवान्’ ‘छिन्नवान्’ “भिन्नवान्’ इत्यादयः क्लेशाय इति भाव्यते तर्हि ‘नोदनं कृतवान्’ ‘छेदनं कृतवान्’ ‘भेदनं कृतवान्’

इत्येवं सरलः प्रयोगः क्रियताम् । ७९. क्षणाभ्यन्तरे अहं भवतः गृहे उपतिष्ठामि ।

‘उपतिष्ठे’ इति, ‘उपस्थितः भवामि’ इति वा प्रयोक्तव्यम् । ‘उप’ इत्यस्मात् ‘ष्ठा’धातोः योगे अकर्मकत्वे द्योत्ये आत्मनेपदित्वं नित्यम् ‘अकर्मकाच्च’ (१.३.२३) इति सूत्रेण । एतस्मिन् वाक्ये अकर्मकत्वं स्फुटम् । अतः ‘उपतिष्ठे’ इति आत्मनेपदिप्रयोगः स्यात् । अथवा ‘उपस्थितः भवामि’ इति भङ्यन्तरेण वा वक्तव्यम् ।

सकर्मकत्वे तु तस्य परस्मैपदित्वम् । यथा - कः तत्र द्वारम् उपतिष्ठति ? ८०. क्रीडाङ्गणे बालकाः कूर्दन्ति ।

“कूर्दन्ति’ इति अपशब्दः । “कूर्दन्ते’ इति प्रयोक्तव्यम् ।

अत्र धातुः ‘कूर्द’ (क्रीडायाम्) इति । ‘उपधायां च’ (८.२.७९) इति सूत्रेण उकारस्य दीर्घः । अतः ‘कूदते’ इति रूपम् । अयं च धातुः आत्मनेपदी । परस्मैपदित्वं तु कथमपि नास्ति एतस्य । अतः ‘कूर्दति’

इति रूपम् असाधु एव । ८१. दशरथपुत्रं ‘दाशरथिः’ इत्यपि आह्वयन्ति जनाः ।

‘आह्वयन्ति’ इति प्रयोगः अस्थाने । ‘निर्दिशन्ति’ इति प्रयोगः वरम् । आह्वानं नाम अभिमुखीकरणम् । जनाः दाशरथिं नात्र अभिमुखीकर्तुम् इच्छन्ति । निर्देशः च अत्र इष्टः । अतः तदनुगुणः क्रियापदप्रयोगः उचितः । यदि च ‘दाशरथे !’ इति सम्बुद्धिरूपं प्रयुज्यते तर्हि तु आह्वयतेः

प्रयोगः औचित्यम् आवहति । निर्देशार्थे आह्वयतेः प्रयोगः अस्थाने । ८२. कार्यक्रमार्थम् अध्यक्षत्वेन कं निमन्त्रयाम ?

“निमन्त्रयामहै’ इति प्रयोक्तव्यम् ।’ निमन्त्रयाम’ इति रूपम् अशुद्धम् । गुप्तभाषणार्थकः ‘मत्रि’धातुः चुरादिः आकुस्मीयः । आकुस्मीयाः आत्मोपदिनः । अतः मत्रिधातोः लटि प्रथमपुरुषैकवचनान्तं रूपं ‘(नि)मन्त्रयते’ इति । लोटि उत्तमपुरुषबहुवचनान्तं रूपं (नि)मन्त्रयामहै’ इति स्यात् । यद्यपि णिजन्तात् णिचं कृत्वा परस्मैपदित्वं (‘निवृत्तप्रेषणात्….’ इति

168

शुद्धिकौमुदी

वचनस्य अनुगुणम्) समर्थयितुं शक्यं, तथापि तादृशस्य शिष्टप्रयोगस्य

अभावात् तादृशं समर्थनं न युक्तम् । ८३. दुर्जनाः जनान् बहुधा वश्चयन्ति ।

“वश्चयन्ते’ इति प्रयोगः प्रशस्तः । ‘वञ्चयन्ति’ इति प्रयोगः न दोषाय । प्रलम्भनार्थकः ‘वञ्चु’धातुः आकुस्मीयः । तस्मात् तस्य आत्मने पदिरूपम् इति शास्त्रकारैः अङ्गीक्रियते । “निवृत्तप्रेषणात् धातोः …’ इति पक्षम् आश्रित्य णिजन्तात् णिचि कृते ‘वञ्चयति’ इति रूपं सिद्धं भवति । कौमुद्याः तत्त्वबोधिनीटीकायां, कृतन्तरूपमालायां च वञ्चयतेः सद्भावः उच्यते । अतः ‘वञ्चयति’ इति प्रयोगः अपि भवितुम् अर्हति ।

तथापि ‘वञ्चयते’ इति आत्मनेपदिप्रयोगः तु प्रशस्ततरः । ८४. तस्य रूपम् आकर्षणीयम् अस्ति ।

‘आकर्षणार्हम्’ इत्यर्थः यद्यत्र अभिप्रेतः तर्हि प्रयोगोऽयं न दोषाय । (आ) कृयधातोः अनीयरि ‘आकर्षणीयम्’ इति रूपम् । अनीयप्रत्ययः कृत्, कृत्यश्चापि । कृत्यप्रत्ययाः अर्हाद्यर्थेषु अपि प्रयुज्यन्ते । अतः आकर्षणार्थेि आकर्षणीयपदस्य प्रयोगः न दोषाय । यदि कर्बर्थः एव अभिप्रेतः तर्हि ‘आकर्षकम्’ इति प्रयुज्यताम् ।

एतादृशाः अन्ये केचन प्रयोगाः यथा -

। परिगणनीयं कार्यम् (परिगणनाहम् इत्यर्थः) . दर्शनीय रूपम् (दर्शनार्हम् इत्यर्थः) । अभिनन्दनीयं कृत्यम् (अभिनन्दनार्हम् इत्यर्थः) । मननीयं वचनम् (मननार्हम् इत्यर्थः)

• असहनीया वेदना (सोढुम् अशक्या वेदना इत्यर्थः) ८५. सभामण्डपः शोभायमानः अस्ति ।

“शोभमानः’ इत्येतेन प्रयोगेण एव इष्टसिद्धिः । सभायाः शोभावत्त्वम् अत्र विवक्षितम् । शुभ(दीप्तौ)धातोः शानचि तस्य अर्थस्य प्रतीतिः भवति एव । “शोभायते’ इत्येतं धातुं कष्टेन निर्माय शानचि कृते ‘शोभायमानः’ इति रूपं सिद्ध्येत् । किन्तु किं तेन व्यर्थप्रयासेन ? तृणसाध्ये कार्ये परशुं को वा प्रयुञ्जीत ?

क्रियापदानि

169

८६. एषः सदा निद्रितुम् इच्छति ।

‘निद्रितुम्’ इति अपशब्दः । ‘निद्रातुम्’ इति प्रयोक्तव्यम् । “नि’ इति उपसर्गेण युक्तात् द्राधातोः तुमुनि ‘द्रातुम्’ इति रूपम् । अस्य धातोः अनिट्त्वात् तुमुनि न इट् । अतः इकारस्य श्रवणं नास्ति

तत्र । ८७. बालः स्वपितुम् इच्छन् मातरम् आह्वयति ।

‘स्वपितुम्’ इति अपशब्दः । “स्वप्तुम्’ इति प्रयोक्तव्यम् ।

शयनार्थकः ‘ष्वप्’धातुः अनिट् । तस्मात् तुमुनि तस्य इडागमो न । अतः ‘स्वप्तुम्’ इति रूपम् । अस्यैव धातोः लटि पकारोत्तरम् इकारः श्रूयते । स च इट् रुदादिभ्यः पञ्चभ्यः सार्वधातुकेभ्यः विहितः “रुदादिभ्यः सार्वधातुके’ (७.२.७६) इति सूत्रेण । तत्सादृश्यात् सेट्कभ्रान्त्या वा कदाचित् ‘स्वपितुम्’ इति प्रयोगः क्रियेत कैश्चित् ।

किन्तु तत् रूपम् असाधु एव । ८८. कथापुस्तकम् अधीतुम् अपि समयः नास्ति मम ।

‘अधीतुम्’ इति अपशब्दः । ‘अध्येतुम्’ इति प्रयोक्तव्यम् । अध्ययनार्थकः इधातुः अत्र । स च नित्यम् अधिपूर्वः । तुमुनि ‘सार्वधातुकार्धधातुकयोः’ (८.३.८४) इति सूत्रेण गुणे कृते एतुम् इति रूपम् । अधि + एतुम् = अध्येतुम् । गुणाभावः सवर्णदीर्घः वा

तत्र नास्ति, येन अधीतुम् इति रूपं स्यात् । ८९. सुगन्धिपुष्पस्य आघ्राणनं सर्वे कुर्वन्ति ।

‘आघ्राणनम्’ इति अपशब्दः । ‘आघ्राणम्’ इति प्रयोक्तव्यम् ।

आ + घ्राधातोः ल्युटि ‘युवोरनाकौ’ (७.१.१) इति अनादेशे आघ्राणम् इति रूपम् । ल्युडन्तात् पुनः ल्युट् न । आवश्यकता नास्ति अपि । ‘घ्राण’शब्दः ल्युडन्तः न इति मत्त्वा केचन ल्युडन्तरूपम् इच्छन्तः

‘आघ्राणनम्’ इति रूपं प्रयुञ्जते । तत् रूपं तु असाधु एव । ९०. कर्मकरः प्रतिदिनं जलसिञ्चनं करोति ।

‘सिञ्चनम्’ इति अपशब्दः । ‘सेचनम्’ इति प्रयोक्तव्यम् । क्षरणार्थकात् ‘षिच्’धातोः ल्युटि ‘पुगन्तलघूपधस्य च’ (७.३.८६) इति सूत्रेण गुणः । अतः ‘सेचनम्’ इति रूपम् । गुणः नित्यः । अतः सिञ्चनम् इति रूपम् असाधु एव भवति ।

170

शुद्धिकौमुदी

‘सिञ्चति’ इत्यादौ गुणाभावः दृश्यते । तत्सादृश्यात् केचन ल्युटि अपि गुणाभावं चिन्तयेयुः । तत् अयुक्तम् । “सिञ्चति’ इत्यत्र विकरणप्रत्ययः ‘श’ । तस्य अपित्त्वात् ‘सार्वधातुकमपित्’ (१.२.४) इति ङित्त्वात् गुणस्य निषेधः । (‘शे मुचादीनाम्’ (७.१.५९) इति सूत्रेण ‘श’प्रत्यये परे एव नुम् विहितम् । अतः सिञ्चति इत्यादिषु नुम्सहितं रूपं दृश्यते । ल्युटि तु

‘श’परत्वाभावात् न नुम् ।) ९१. एतादृशाः बहवः कार्यक्रमाः प्रचलेरन् ।

‘प्रचलेयुः’ इति प्रयोक्तव्यम् । कम्पनार्थकः ‘चल’धातुः परस्मैपदी । तस्य लिङि प्रथमपुरुषबहुवचने ‘प्रचलेयुः’ इति रूपम् । यदि सः धातुः उभयपदी स्यात् तर्हि ‘प्रचलेरन्’ इति रूपं स्यात् । किन्तु तथा तु नास्ति । अतः ‘प्रचलेरन्’ इति

अपशब्दः एव । ९२. शुभम् आंशसन्/आशंसमानः सः एवम् अवदत् ।

‘आशंसन्’ ‘आशंसमानः’ इति रूपद्वयम् अपि साधु । ‘आशंसन्’ इति तु ‘शंसु - स्तुतौ’ इत्यस्य धातोः शत्रन्तं रूपम् । स च धातुः (भ्वादिः) परस्मैपदी । तस्मात् ‘आशंसन्’ इति रूपं साधु एव । ‘आशंसमानः’ इति तु ‘शसि - इच्छायाम्’ इत्यस्य धातोः शानजन्तं रूपम् । स च धातुः आत्मनेपदी । नित्यम् आङ्पूर्वः इति केचित् । तस्मात् ‘आशंसमानः’ इति रूपम् । शत्रन्तं रूपं स्तुत्यर्थकस्य ‘शंसु’धातोः, शानजन्तं रूपं इच्छार्थकस्य

“शसि’धातोः । एवं धातुभेदः तु अस्ति तत्र । ९३. बान्धवाः कति दिनानि निवसिष्यन्ति इति नाहं जाने ।

‘निवत्स्यन्ति’ इति प्रयोक्तव्यम् । ‘निवसिष्यन्ति’ इति अपशब्दः । निवासार्थकः ‘वस’धातुः अनिट् । अतः भविष्यति लटि तस्य इडागमो न । तस्मात् “निवत्स्यति’ इति रूपम् । तत्र तकारस्तु “सः स्यार्धधातुके’

(८.४.४९) इति सूत्रेण । ९४. मानवेन उत्तमं जीवनं जीवनीयम् ।

‘जीवनं करणीयम्’ इति, ‘उत्तमतया जीवनीयम्’ इति वा

क्रियापदानि

171

प्रयोक्तव्यम् । प्राणधारणार्थकः जीवधातुः अकर्मकः । बृहद्धातुरूपावलौ लिख्यते - ‘कर्मणो धात्वर्थेनोपसङ्ग्रहात् अकर्मकः’ इति । अतः ‘जीवन’पदस्य

अत्र कर्मत्वम् अयुक्तं भवति * । ९५. कष्टात् भीताः वयं न रोदिमः ।

‘रोदिमः’ इति अपशब्दः । ‘उदिमः’ इति प्रयोक्तव्यम् । अश्रुविमोचनार्थकात् ‘रुद्’धातोः ‘मस्’प्रत्यये पित्त्वाभावात् न गुणः ‘पुगन्तलघूपधस्य’ (७.३.८६)इति सूत्रेण । ‘रुदादिभ्यः सार्वधातुके’ (७.२.७६) इति सूत्रेण इट् तु भवति एव । अतः ‘रुदिमः’ इति रूपम् । ‘रोदिति’ इत्यत्र तु तिपः पित्त्वात् ‘पुगन्त…’ इति सूत्रेण गुणो

भवति । ९६. कार्यक्रमः पञ्चवादने आरभते ।

‘आरभ्यते’ इति प्रयोक्तव्यम् । राभस्यार्थकः रभधातुः सकर्मकः । (राभस्यं नाम उपक्रमः) अतः तदनुगुणतया एव कर्तृकर्मादिपदयोजनं चिन्तनीयम् । ‘आरभते’ इत्यस्य ‘कार्यक्रमः’ एव कर्म । अतः ‘कार्यक्रमम् आरभते’ इति प्रयोक्तव्यम् । तदा तु ‘व्यवस्थापकगणः’ इत्यादयः कर्तृपदत्वम् आप्तुम् अर्हन्ति । यदि कार्यक्रमस्य प्रथमा एव इष्यते तर्हि आरभ्यते’ इति कर्मणि रूपं प्रयोक्तव्यम् । ‘जनैः’ इत्यादि कर्तृपदं भवितुम् अर्हति । “कार्यक्रमः आरब्धः’ इत्यादौ कार्यक्रमस्य कर्तृत्वं, क्रियायाः च अकर्मकत्वं स्यात् इति भ्रान्तिः भवितुम् अर्हति केषाञ्चित् । किन्तु

तत्रापि सकर्मकत्वं तु अस्ति एव । अतः कार्यक्रमस्य कर्मत्वम् एव * इदमत्र चिन्तनीयम् - तर्कशास्त्रे कश्चन न्यायः श्रूयते - “विशिष्टवाचकानां पदानां

सति पृथग्विशेषणवाचकपदसमवाधाने विशेषमात्रपरत्वम्’ इति । ‘सकीचकैः मारुतरन्ध्रपूर्णैः’ इति कालिदासप्रयोगः । (रघु० - २.१२) । ‘कीचका वेणवस्ते स्युर्ये स्वनन्त्यनिलोद्धताः’ इति कोषः । तस्मात् सिद्धं यत् कीचकः नाम मारुतपूर्णरन्ध्र विशिष्टः इति । तथापि कालिदासः ‘मारुतरन्ध्रपूर्णैः’ इति प्रयुङ्क्ते । अतः अत्र कीचकपदस्य वेणुमात्रबोधकत्वम् अङ्गीक्रियते । एवमेव जीवनपदस्य कर्मत्वात् ‘जीवनीयम्’ इत्यस्य क्रियासामान्यवाचित्वम् अङ्गीकृत्य (तन्नाम जीवति इत्यस्य करोति इत्यर्थः इति अभ्युपगन्तव्यम्) साधुत्वं यदि केनचित् उच्येत तर्हि तस्य शिष्टसम्मतत्वं भवेनवेति चिन्तनीयं विज्ञैः ।

172

शुद्धिकौमुदी

तत्रापि । ९७. ‘युद्धं भविष्यति’ इति विश्वसनीया वार्ता ।

“विश्वसनीया वार्ता’ इति प्रयोगे न कोऽपि दोषः । “विश्वसनीया’ इत्यत्र तव्यत्प्रत्ययः । स च विधिमात्रे एव अस्ति इति न । सः कृत्यप्रत्ययगणे अपि अन्तर्भवति । कृत्यप्रत्ययाः अर्हाद्यर्थेषु अपि विहिताः । (अर्हे कृत्यतृचश्च - ३.३.१६९)तस्मात् तव्यदन्तस्य विध्याद्यर्थकत्वं यथा, तथैव अर्थिकत्वम् अपि अस्ति एव । अतः ‘विश्वासार्हा’ इत्यर्थे “विश्वसनीया’ इति प्रयोगः साधुः एव । एतादृशाः अन्ये केचन (अर्हशक्याद्यर्थे विद्यमानाः) प्रयोगाः यथा - * गणनीया समस्या ।

  • रमणीयं रूपम् । ८. आतपकारणात् हिमं द्रवितं भवति ।

“द्रुतं’ भवति इति प्रयोक्तव्यम् । गत्यर्थकस्य दुधातोः क्तप्रत्यये न इडागमः । [शीफूभ्याम् अन्यस्य धातोः परस्य निष्ठाप्रत्ययस्य इट् न । विस्तरार्थम् ‘इड्व्यवस्था (कृत्सु)’ इति पुस्तकं द्रष्टव्यम् । अतः “द्रुतम्’ इति रूपम् । द्रवशब्दस्मरणात् केचन ‘द्रवितम्’ इति

प्रयोगं कुर्युः । तत् तु भ्रान्त्या ।। ९९. अतीयमानस्य वर्षस्य कार्यक्रमाः अधोनिर्दिष्टाः सन्ति ।

‘अतियतः वर्षस्य’ ‘अतियातः वर्षस्य’ इत्यादयः प्रयोगाः अत्र भवितुम् अर्हन्ति । ‘अतीयमानस्य वर्षस्य’ इत्येषा आनुपूर्वी नात्र

युज्यते ।

‘अतीयमान पदस्य स्वरूपम् आदौ अवगन्तव्यम् । अतिपूर्वकात् गत्यर्थकात् इण्धातोः कर्मणि यकि ‘अतीयते’ इति रूपम् । (कर्तरि तु ‘अत्येति’ इति रूपम्) तस्मात् शानचि ‘अतीयमानम्’ इत्यस्य रूपस्य सिद्धिः । कर्मणि शानचः विधानात् सिद्धं यत् ‘अतीयमान’पदं कर्मणः विशेषणम् इति । उपर्युक्तस्य वाक्यस्य प्रयोक्ता तु वर्षस्य कर्तृत्वम् इच्छति । ‘वर्षम् अतीतम्’ ‘कालः अत्येति’ इत्यादयः प्रयोगाः तस्य इष्टाः । ‘अतीयमान पदं कर्तुः विशेषणं भवितुं नार्हति । अतः ‘अतीयमानंक्रियापदानि

173

वर्षम्’ इति प्रयोगः चिन्त्यः एव । वर्षस्य कर्तृत्वविवक्षायाम् ‘अत्येति’ ‘अतियाति’ इत्यादीनां धातूनां शत्रन्तं रूपं विशेषणत्वेन प्रयोक्तव्यम् । तदा तु अपेक्षितस्य अर्थस्य सिद्धिः । एतदत्र अवधेयम् । केचन कालजयिनः भवन्ति । ते तु वर्षम् अपि अतियन्ति । ‘कालजयी वर्षम् अत्येति’ इति यदि वाक्यप्रयोगः इष्टः स्यात् तर्हि (कालजयिना) ‘अतीयमानम् वर्षम्’ इत्येषा आनूपूर्वी अपि सिद्धा स्यात् । एतादृशे शिष्टप्रयोगे सत्येव साधुत्वकथनाय अयं पन्थाः आश्रयणीयः । अन्यथा तु ‘अतीयमानं वर्षम्’ इत्यस्याः आनुपूर्व्याः परित्यागः एव वरम् । यदि कदाचित् ‘कालः अत्येति’ इत्यादौ अकर्मकत्वम् इष्येत तर्हि ‘अतीयमानम्’ इति शानजन्त रूपं साधु स्यात् । (भावे शानच्) तदा

अपि वर्षपदस्य विशेषणत्वं तु दुष्यति एव । १००. उड्डीयमानः पक्षी व्याधेन मारितः ।

‘उड्डयमानः’ इति प्रयोगः वरम् ।

आकाशगत्यर्थकस्य डीधातोः (प्रथमगणीयस्य) कर्तरि रूपं ‘डयते’ इति । प्रायः अयमेव धातुः आधिक्येन प्रयुज्यते लोके । स च सकर्मकः । तस्य कर्मणि रूपं ‘डीयते’ इति । ‘डीयमानः’ इति रूपं कर्मणि शानजन्तम् । तत्तु कर्तृभूतस्य पक्षिणः विशेषणं भवितुं नाहति । ‘डयते’ इति कर्तरि । तस्मात् शानचि ‘डयमानम्’ इति रूपम् । तच्च पक्षिणः (कर्तृभूतस्य) विशेषणं भवितुम् अर्हति । अतः ‘डयमानः पक्षी’ इति प्रयोगः साधुः । डी(विहायसा गतौ)धातुः चतुर्थगणीयः अपि अस्ति । तस्य कर्तरि रूपं ‘डीयते’ इति । चतुर्थगणीयात् कर्तरि शानचि कृते ‘डीयमानम्’ इति रूपं सिद्धं भवति । ‘डीयमानः पक्षी’ इत्यत्र चतुर्थगणीयः ‘डीङ्’ धातुः प्रयुक्तः, न तु प्रथमगणीयः इति यदि भवन्तः वदेयुः

तर्हि न तत्र विवादं कर्तुम् इच्छामः वयम् । १०१. वाक्यमेतत् अनूदितव्यं भवता ।

‘अनूदितव्यम्’ इति अपशब्दः । ‘अनुवदितव्यम्’ इति,

शुद्धिकौमुदी

‘अनुवक्तव्यम्’ इति वा प्रयोक्तव्यम् ।

वद(व्यक्तायां वाचि)धातोः तव्यति ‘वदितव्यम्’ इति रूपम् । सम्प्रसारणे सत्येव ‘उदितव्यम्’ इति रूपं स्यात् । किन्तु सम्प्रसारणं किति प्रत्यते परे एव । [वचिस्वपियजादीनां किति (६.१.१५)] तव्यत्प्रत्ययः न कित् । अतः सम्प्रसारणम् अपि न । यदि परिभाषणार्थकः ‘वच’धातुः इष्येत तर्हि ततः तव्यति ‘वक्तव्यम्’

इति रूपम् । अत्रापि तव्यतः कित्त्वाभावात् न सम्प्रसारणम् । १०२. तदनुसतं मया एवं कृतम् ।

‘तदनुसारम्’ इति, “तदनुसारेण’ इति वा प्रयोक्तव्यम् । ‘अनुसृतम्’ इत्यत्र अनुपूर्वकस्य सृधातोः कर्मणि क्तः । अनुसरणरूपः भावार्थः अत्र अपेक्ष्यते । तस्मिन् अर्थे क्तान्तस्य प्रयोगः न सङ्गच्छते । ‘अनुसार शब्दः भावार्थकः घजन्तः । द्वितीयान्तेन क्रियायाम् अन्वये

‘अनुसारम्’ इति रूपम् । उभयथा अपि साधुता । १०३. जनैः व्यवहियमाणा भाषा कथं निर्जीवा स्यात् ?

‘यया व्यवहियते सा भाषा’ इति प्रयोक्तव्यम् । ‘व्यवह्रियमाणा’ इत्यत्र शानच्प्रत्ययः । सः कर्बर्थे कर्मार्थे वा भवितुम् अर्हति । व्यवहारक्रियायां भाषायाः भवति करणत्वम् । अतः एव ‘संस्कृतेन सम्भाषणं कुरु’ इत्यादयः व्यवहाराः सङ्गच्छन्ते । करणार्थः शानच्प्रत्ययेन न अभिधीयते । अतः ‘यया व्यवह्रियते सा भाषा’ इति आनुपूर्वी एव आश्रयणीया भवति । ‘सः भाषां व्यवहरति’ इति यदि प्रयोगः साधुः स्यात् तर्हि ‘व्यवह्रिय माणा भाषा’ इति प्रयोगः साधुः अभविष्यत् । किन्तु व्यवहारार्थकस्य क्रियापदस्य भाषा न कर्म । अतः ‘व्यवह्रियमाणा भाषा’ इति

प्रयोगः दोषाय भवति । १०४ . न दृश्यतः भवन्तौ एषु दिनेषु ।

‘न दृश्येते’ इति प्रयोक्तव्यम् । ‘दृश्यते’ इति तु दृशधातोः कर्मणि रूपम् । तच्च आत्मनेपदि । तस्य प्रथमपुरुषद्विवचनान्तं रूपं ‘दृश्येते’ इति । कर्मपदं द्विवचने अस्तीत्यतः

क्रियापदम् अपि द्विवचनान्तम् एव स्यात् । १०५. भवता अहं स्मर्यते किम् ?

क्रियापदानि

175

‘स्मर्ये किम् ?’ इति प्रयोक्तव्यम् ।

कर्मणिप्रयोगीयं वाक्यम् एतत् । अत्र कर्मपदम् अस्ति अस्मच्छब्दः । स च एकवचनोपेतः । तस्मात् क्रियापदम् अपि उत्तमपुरुषीयम् एक वचनान्तं च स्यात् । तस्मात् ‘स्मर्ये’ इति प्रयोक्तव्यम् । एतदत्र स्मर्तव्यम् - कर्मणिप्रयोगे यदा कर्मपदं युष्पच्छब्दः अस्मच्छब्दः वा स्यात् तदा क्रियापदप्रयोगे विशेषावधानम् आवश्यकम् एव । तादृशानि वाक्यानि दैनन्दिनजीवने विरलतया एव प्रयुज्यन्ते । तादृशानां प्रयोगः यत्र क्रियते तत्र अधिकम् अवधानं तु आवश्यकम् एव । कानिचन उदाहरणानि यथा -

• भवता अहं ज्ञाये किम् ?

● भवता आवां तत्र तत्र दृश्यावहे एव ननु ?

• वयं कदा आहूयामहे भवता ?

• त्वं मया सर्वदा स्मर्यसे एव ।

• केनापि अहं स्मर्ये एषु दिनेषु । १०६. पाचकः तण्डुलं पक्तवान् ।

‘पक्तवान्’ इति अपशब्दः । ‘पकवान्’ इति प्रयोक्तव्यम् । पचधातोः निष्ठाप्रत्यये (क्तक्तवतू ‘निष्ठा’शब्देन निर्दिश्येते) “पचो वः’ (८.२.५२) इति सूत्रेण निष्ठातकास्य वकारः विहितः । अतः ‘पक्ववान्’ इत्येव प्रयोगः साधुः । एवमेव ‘पाचकेन तण्डुलः पक्वः’ इत्येव प्रयोक्तव्यं, न तु ‘पक्तः’

इति । १०७.

, भवताम् आगमनतः अस्माकं गृहं पवितं जातम् ।

‘पवितम्’ इति रूपं साधु । ‘पूतम्’ इत्यपि प्रयोक्तुं शक्यम् । पूधातोः निष्ठाप्रत्यये ‘पूङः च’ (७.२.५१) इति सूत्रेण विकल्पेन

इटि ‘पवितः’ इति रूपम् । इडभावे तु ‘पूतः’ इति । १०८. अद्य बालिका कार्यक्रमे सम्यक् नर्तितवती ।

‘नर्तितवती’ इति अपशब्दः । ‘नृत्तवती’ इति प्रयोक्तव्यम् । गात्रविक्षेपार्थकः ‘नृती’धातुः यद्यपि सेट, तथापि निष्ठाप्रत्यये परे ‘श्वीदितो निष्ठायाम्’ (७.१.१४) इति सूत्रेण इटः निषेधः कृतः । अतः नृत्तः/नृत्तवान् इत्येव रूपम् ।

176

शुद्धिकौमुदी

‘नर्तितव्यम्’ इत्यादिषु इटः श्रवणात् कैश्चित् भ्रान्त्या प्रयुज्येत

‘नर्तितवान्’ इति । १०९. बालः जलं निपाय निर्गतवान् ।

“निपाय’ इति साधु एव रूपम् । ‘निपीय’ इत्यपि भवितुम् अर्हति । वयं लोके आधिक्येन पिबतेः एव प्रयोगं कुर्मः पानार्थे । तस्य धातुः ‘पा’ । निपूर्वकस्य पाधातोः ल्यपि “निपाय’ इति रूपम् । ‘पीत्वा’ इत्यत्र ‘घुमास्थागापाजहातिसां हलि’ (६.४.६६) इति सूत्रेण ईत्वं विहितम् । ल्यपि तु ‘न ल्यपि’ (६.४.६९) इति सूत्रेण ईत्वस्य निषेधः विहितः । अतः “निपाय’ इत्येव रूपम् । एतस्य तात्पर्य - निपीय इति रूपम् असाधु इति न । ‘पीङ्-पाने’ इत्यपि कश्चन धातुः अस्ति । तस्य ल्यबन्तं रूपं ‘निपीय’ इति । पिबादेशार्हस्य ‘पा’धातोः

ल्यबन्तं रूपं यदि इष्येत तर्हि “निपाय’ इत्येव प्रयोक्तव्यम् । ११०. अध्यापकः बालकं बहुधा प्रशंसितवान् ।

‘प्रशंसितवान्’ इति अपशब्दः । ‘प्रशस्तवान्’ इति प्रयोक्तव्यम् । यदि अनुस्वारघटितरूपस्य एव प्रयोगे प्रबलेच्छा तर्हि ‘प्रशंसां कृतवान्’ इति प्रयोक्तव्यम् । स्तुत्यर्थकात् ‘शंसु’धातोः क्तवतुप्रत्यये ‘यस्य विभाषा’ (७.२.१५) इति सूत्रेण इटः निषेधः विहितः । [‘उदितो वा’ (७.२.५६) इति सूत्रेण क्त्वायाम् इटः विकल्पात् ‘यस्य विभाषा’ इति सूत्रेण इटः निषेधः । अतः ‘प्रशस्तवान्’ इत्येव रूपम् । ‘शंसु’ इत्यत्र शकारोत्तरं यः अनुस्वारः श्रूयते तस्य लोपः ‘अनिदितां हल उपधायाः किति (६.४.२४) इति सूत्रेण । अतः क्तवतुप्रत्यये परे न अनुस्वारस्य श्रवणम् । ‘प्रशंसा’ ‘प्रशंसति’ इत्यादिषु अनुस्वारस्य श्रवणात् केषाञ्चित् भ्रान्तिः - “प्रशसितवान्’ इति रूपं साधु स्यात् इति । एतस्यैव धातोः कर्मणि रूपं ‘प्रशस्यते’ इति न तु ‘प्रशंस्यते’ इति । ‘प्रशस्यते’ इत्यत्र यक्प्रत्ययः । सः कित् । तस्मात् अनुस्वारलोपः । यदि बहुधा प्रयोगः श्रूयेत तर्हि स्वार्थण्यन्तात् क्तवतुप्रत्यये कृते

रूपमिदं कथञ्चित् साधनीयम् । १११. अस्माभिः नूतना योजना आरभणीया अस्ति ।

क्रियापदानि

177

‘आरभणीया’ इति अपशब्दः । ‘आरम्भणीया’ इति प्रयोक्तव्यम् । राभस्यार्थकात् रभधातोः अनीयरि ‘रभेरशब्लिटोः’ (७.१.६३) इति सूत्रेण नुमागमः, अनीयरः अजादित्वात् । अतः ‘आरम्भणीया’ इति साधु रूपम् । तव्यति तु ‘आरब्धव्यम्’ इति नुमागमरहितं रूपं,

तव्यतः अजादित्वाभावात् । ११२. बालकः ससन्तोषं फलं भुनक्ति ।

“भुढे’ इति प्रयोक्तव्यम् । भुजधातुः पालने अभ्यवहारे च अस्ति । स च उभयपदी अपि । किन्तु ‘भुजोऽनवने’ (१.६.६६) इति सूत्रेण तस्मात् धातोः पालन

भिन्नार्थे आत्मनेपदं विहितम् । अतः ‘भुते’ इत्येव साधु । ११३. अद्यत्वे सर्वेऽपि पुस्तकानि मुद्रापयन्ति ।

‘मुद्रयन्ति’ इति प्रयोक्तव्यम् । ‘मुद्रां करोति’ इति मुद्रयति । ‘तत्करोति तदाचष्टे’ इति वार्तिकेन णिच् । णिचि परे आत्वस्य अभावात् ‘अर्तिही…’ इति सूत्रेण न पुक् । अतः ‘मुद्रापयति’ इति रूपम् असाधु एव । विषयेऽस्मिन् किञ्चित् चिन्तनीयम् अस्ति -

कौमुद्यां ‘वण्टापयति’ ‘लञापयति’ इति रूपनिर्देशावसरे लिख्यते - ‘अदन्तेषु पाठबलात् अदन्तत्वे वृद्धिः इत्यन्ये । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह’ इति । अदन्तपाठः प्रयोजनहीनः न भवेत् इत्यतः अतो लोपं बाधित्वा ‘अचो णिति’ इति वृद्धौ ‘अर्तिही…’ इति पुक् । एषः पुक् कथादीनाम् एव । तत्रापि शाकटायनमते एव । एतमेव अंशम् आदाय केचन ‘मुद्रापयति’ इत्यादीनि रूपाणि प्रयुञ्जीरन् । तस्य साधुता तु चिन्त्या एव भवति । ‘मुद्रापयति’ इति प्रयोगप्राचुर्यं दृश्यते इति यदि भवन्तः मन्यन्ते तर्हि संज्ञापूर्वकविधेरनित्यत्वात् लोपो न भवति आकारस्य इति कथञ्चित्

समाधेयम् । ११४. भोः बाल ! सम्यक् अभ्यस्तव्यं भवता ।

‘अभ्यस्तव्यम्’ इति अपशब्दः । ‘अभ्यसितव्यम्’ इति प्रयोक्तव्यम् । अभिपूर्वकः क्षेपणार्थकः ‘असु’धातुः सेट् । तव्यति इटः प्राप्त्या ‘अभि + असितव्यम्’ इति रूपम् । निष्ठायां तु इट् न यस्य

178

शुद्धिकौमुदी

विभाषा’ इति सूत्रेण । (क्त्वायाम् ‘उदितो वा’ इति इटः वैकल्पिकत्वात् ‘यस्य विभाषा’ इत्यस्य प्रवृत्तिः ।) ‘अभ्यस्तवान्’ इत्यादिषु स्थितम् इडभावं मनसि निधाय केचन भ्रमवशात् तव्यति अपि इडभावयुक्तं रूपं प्रयुञ्जते । तत् असत् ।

तुमुनि अपि ‘अभ्यसितुम्’ इति इट्सहितम् एव रूपं स्यात् । ११५. तत् दृष्ट्रानन्तरं तेन निर्गतम् ।

‘तस्य दर्शनस्य अनन्तरम्’ इति प्रयोक्तव्यम् । अनन्तरशब्दः वा

परिहरणीयः । ‘दृष्टा’ इत्यत्र यः क्त्वाप्रत्ययः अस्ति सः एव दर्शनक्रियायाः पूर्वकालिकतां ज्ञापयति । प्रत्ययबलात् एव अनन्तरक्रियायाः आनन्तर्यं सिद्धम् । अतः ‘अनन्तर’शब्देन नार्थः । यदि ‘अनन्तर’शब्दप्रयोगः एव इष्यते तर्हि ‘दर्शनस्य’ इति प्रयुज्यताम् । ‘कर्तृकर्मणोः कृति’ इति षष्ठी । विशेषणात् तच्छब्दात् अपि षष्ठी स्यात् । तदा च ‘तस्य दर्शनस्य अनन्तरम्’ इति आनुपूर्वी । एतादृशाः परिहर्तव्याः अन्ये केचन प्रयोगाः यथा -

• भोः बाल ! स्नानं कृत्वा अनन्तरं पठ ।

• सा वस्तूनि परिशील्य अनन्तरं धनं दत्तवती ।

• सः किञ्चित् स्मृत्वा अनन्तरम् अवदत् ।

• भोजनं कृत्वा अनन्तरम् औषधं सेव्यताम् ।

• अध्यापकः श्लोकम् उक्त्वा अनन्तरम् अर्थविवरणं कृतवान् ।

• अहं प्रातः उत्थाय देवं प्रणम्य अनन्तरम् एव गृहकार्यं करोमि ।

त्वं पुस्तकं मित्राय दत्त्वा अनन्तरं विद्यालयं गच्छ । “निश्चिनोति इत्यस्य भूतकालरूपं ‘निसचिनोत्’ इति । ‘निसचिनोत्’ इति अपशब्दः । ‘निरचिनोत्’ इति प्रयोक्तव्यम् । निस् + अचिनोत् इति स्थिते ‘ससजुषो रुः’ इति रुत्वम् । रुत्वं तु पदान्तत्वमात्रम् अपेक्षते, न तु निमित्तान्तरम् । अतः ‘निस्’ इत्यस्य रुत्वं प्राप्यते एव । निर् + अचिनोत् = निरचिनोत् । तस्मात् “निसचिनोत्’ इति रूपम् असाधु एव ।। एवं तर्हि “निश्चिनोति’ इत्यत्र कुतो रुत्वं न इति प्रश्नः उदियात् । निस् + चिनोति इत्यत्रापि रुत्वं तु प्राप्यते एव । खरि परत्वात् त्वस्य

क्रियापदानि

179

विसर्गः । ततः विसर्गस्य सकारः । ततश्च श्चुत्वम् । अतः ‘निश्चिनोति’

इति रूपम् । ११७. गृहस्वामी भृत्यं कार्यं कारयति ।

‘भृत्यम्’ इति प्रयोगः साधुः एव । ‘भूत्येन’ इत्यपि प्रयोगः सम्भवति । ‘भृत्यः कार्यं करोति’ इति अण्यन्तावस्था । तत्र भृत्यः कर्ता । ण्यन्तावस्थायां सः ‘प्रयोज्यकर्ता’ इति उच्यते । कृधातुप्रयोगे प्रयोज्यकर्तुः विकल्पेन कर्मसंज्ञा - ‘हक्रोरन्यतरस्याम्’ (१.४.५३) इति सूत्रेण । अतः द्वितीयान्तः प्रयोगः साधुः एव । कर्मसंज्ञाभावे तु कर्तुः तृतीया - ‘कर्तृकरणयोः तृतीया’ इति सूत्रेण । अतः

‘भृत्येन’ इति प्रयोगः अपि साधुः । ११८. गृहस्वामिना भृत्येन कार्यं कार्यते ।

‘भृत्येन’ इति प्रयोगः अस्थाने । ‘भृत्यः’ इति प्रथमान्तं प्रयोक्तव्यम् । ‘कार्यते’ इत्येतत् ण्यन्तस्य कर्मणि रूपम् । ण्यन्ते कर्मणि व्यवस्था तु - “बुद्धिभक्ष्यार्थशब्दकर्मभिन्नानां धातूनां प्रयोगे प्रयोज्यकर्मणः प्रथमा’ इति । तथा हि श्लोकः -

बुद्धिभक्ष्यार्थयोः शब्दकर्मणां च निजेच्छया । प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः ।। इति । ‘कार्यते’ इत्येतत् बुद्धिभक्ष्यार्थकात् शब्दकर्मणः च भिन्नम् । अतः तस्य प्रयोगे प्रयोज्यकर्तुः भृत्यपदात् प्रथमा एव स्यात्, न तु तृतीया ।

अतः ‘भृत्यः’ इत्येव प्रयोगः स्यात् अत्र ।

180