फिट्

1

01

विश्वास-प्रस्तुतिः

फिषो+++(=प्रातिपदिकस्य)+++ ऽन्त उदात्तः

सिद्धान्तकौमुदी

प्रातिपदिकं फिट् । तस्यान्त उदात्तः स्यात् । उच्चैः ॥

मूलम्

फिषोऽन्त उदात्तः

02

विश्वास-प्रस्तुतिः

पाटलापालङ्काम्बासागरार्थानाम्

सिद्धान्तकौमुदी

एतद्-अर्थानाम् अन्त उदात्तः । पाटला, फलेरुहा, सुरूपा, पाकला - इति पर्यायाः । लघावन्ते— इति प्राप्ते । अपालङ्क, व्याधिघात, आरेवत, आरग्वध - इति पर्यायाः । अम्बार्थः । माता । उनर्वन्नन्तानाम् इत्याद्युदात्तत्वे प्राप्ते । सागरः । समुद्रः ॥

मूलम्

पाटलापालङ्काम्बासागरार्थानाम्

03

विश्वास-प्रस्तुतिः

गेहार्थानाम् अस्त्रियाम्

सिद्धान्तकौमुदी

गेहम् । नविषयस्य— इति प्राप्ते । अस्त्रियाम् किम् ? शाला । आद्युदात्तोऽयम् । इहैव पर्युदासाज्ज्ञापकात् ॥

मूलम्

गेहार्थानामस्त्रियाम्

04

विश्वास-प्रस्तुतिः

गुदस्य च

सिद्धान्तकौमुदी

अन्त उदात्तः स्यान्, न तु स्त्रियाम् । गुदम् । अस्त्रियाम् किम् ? आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यः । स्वाङ्गशिटामदन्तानाम् इत्यन्तरङ्गमाद्युदात्तत्वम् । ततष्टाप् ॥

मूलम्

गुदस्य च

05

विश्वास-प्रस्तुतिः

ध्यपूर्वस्य स्त्रीविषयस्य

सिद्धान्तकौमुदी

धकारयकारपूर्वो योऽन्त्योऽच् स उदात्तः । अन्तर्धा । स्त्रीविषयवर्ण— इति प्राप्ते । छा॒या । मा॒या । जा॒या । यान्तस्यान्त्यात्पूर्वम् इत्याद्युदात्तत्वे प्राप्ते । स्त्री इति किम् ? बाह्यम् । यञन्तत्वादाद्युदात्तत्वम् । विषयग्रहणम् किम् ? इभ्या । क्षत्रिया । यतोऽनाव: [[6.1.213]] इत्याद्युदात्त इभ्यशब्दः । क्षत्रियशब्दस्तु यान्तस्यान्त्यात्पूर्वम् इति मध्योदात्तः ॥

मूलम्

ध्यपूर्वस्य स्त्रीविषयस्य

06

विश्वास-प्रस्तुतिः

खान्तस्याश्मादेः

सिद्धान्तकौमुदी

नखम् । उखा । सुखम् । दुःखम् । नखस्य स्वाङ्गशिटामदन्तानाम् इत्याद्युदात्तत्वे प्राप्ते । उखा नाम भाण्डविशेषः । तस्य कृत्रिमत्वात् खय्युवर्ण कृत्रिमाख्या चेत् इत्युवर्णस्योदात्तत्वे प्राप्ते । सुखदुःखयोः नब्विषयस्य— इति प्राप्ते । अश्मादेः किम् ? शिखा । मुखम् । मुखस्य स्वाङ्गशिटाम्— इति नब्विषयस्य— आद्युदात्तत्वम् । शिखायास्तु शीडः खो निद्ध्रस्वश्च इत्युणादिषु नित्वोक्तेरन्तरङ्गत्वाट्टापः प्रागेव स्वाङ्गशिटाम्— इति वा बोध्यम् ॥

मूलम्

खान्तस्याश्मादेः

07

विश्वास-प्रस्तुतिः

बंहिष्ठवत्सरतिशत्थान्तानाम्

सिद्धान्तकौमुदी

एषामन्त उदात्तः स्यात् । अतिशयेन बहुलो बंहिष्ठः । नित्त्वादाद्युदात्तत्वे प्राप्ते । बंहि॑ष्ठै॒रश्वैः॑ सु॒वृता॒ रथे॑न, यद्बंहि॑ष्ठं॒ नाति॒विदे॑ इत्यादौ व्यत्ययादाद्युदात्तः । सवत्सरः, परिवत्सरः । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । सप्ततिः । अशीतिः । लघावन्ते— इति प्राप्ते । चत्वारिंशत् । इहापि प्राग्वत् । ‘अ॒भ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः’ । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत् ॥

मूलम्

बंहिष्ठवत्सरतिशत्थान्तानाम्

08

विश्वास-प्रस्तुतिः

दक्षिणस्य साधौ

सिद्धान्तकौमुदी

अन्त उदात्तः स्यात् । साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया स्वाङ्गशिटाम्— इत्याद्युदात्तः । अर्थान्तरे तु लघावन्ते— इति गुरुरुदात्तः । ‘दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु’ इति कोशः ॥

मूलम्

दक्षिणस्य साधौ

09

विश्वास-प्रस्तुतिः

स्वाङ्गाख्यायामादिर्वा

सिद्धान्तकौमुदी

इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः । दक्षिणो बाहुः । आख्याग्रहणम् किम् । प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति ॥

मूलम्

स्वाङ्गाख्यायामादिर्वा

10

विश्वास-प्रस्तुतिः

छन्दसि च

सिद्धान्तकौमुदी

अस्वाङ्गार्थमिदम् । दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ ॥

मूलम्

छन्दसि च

11

विश्वास-प्रस्तुतिः

कृष्णस्यामृगाख्या चेत्

सिद्धान्तकौमुदी

अन्त उदात्तः । वर्णानां तण— इत्याद्युदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते । कृष्णानां व्रीहीणाम् । कृ॒ष्णो नो॑ नाव वृष॒भः । मृगाख्यायां तु कृष्णो रात्र्यै ॥

मूलम्

कृष्णस्यामृगाख्या चेत्

12

विश्वास-प्रस्तुतिः

वा नामधेयस्य

सिद्धान्तकौमुदी

कृष्णस्येत्येव । अ॒यं वा॑ कृ॒ष्णाे अ॑श्विना । कृष्णर्षिः ॥

मूलम्

वा नामधेयस्य

13

विश्वास-प्रस्तुतिः

शुक्लगौरयोरादिः

सिद्धान्तकौमुदी

नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम् । सरो॑ गौ॒रो यथा॑ पिब - इत्यत्रान्तोदात्तदर्शनात् ॥

मूलम्

शुक्लगौरयोरादिः

14

विश्वास-प्रस्तुतिः

अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः

सिद्धान्तकौमुदी

अङ्गुष्ठस्य स्वाङ्गानामकुर्वादीनाम् इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः । वशाग्रहणं नियमार्थं छन्दस्येवेति । तेन लोके आद्युदात्ततेत्याहुः ॥

मूलम्

अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः

15

विश्वास-प्रस्तुतिः

पृष्ठस्य च

सिद्धान्तकौमुदी

छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् । पृष्ठम् ॥

मूलम्

पृष्ठस्य च

16

विश्वास-प्रस्तुतिः

अर्जुनस्य तृणाख्या चेत्

सिद्धान्तकौमुदी

उनर्वन्नन्तानाम् इत्याद्युदात्तस्यापवादः ॥

मूलम्

अर्जुनस्य तृणाख्या चेत्

17

विश्वास-प्रस्तुतिः

अर्यस्य स्वाम्याख्या चेत्

सिद्धान्तकौमुदी

यान्तस्यान्त्यात्पूर्वम् इति यतोऽनाव [[6.1.213]] इति वाद्युदात्ते प्राप्ते वचनम् ॥

मूलम्

अर्यस्य स्वाम्याख्या चेत्

18

विश्वास-प्रस्तुतिः

आशाया अदिगाख्या चेत्

सिद्धान्तकौमुदी

दिगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकाद्दिक्पर्यायस्याद्युदात्तता । इन्द्र॒ आशा॑भ्य॒ स्परि॑ ॥

मूलम्

आशाया अदिगाख्या चेत्

19

विश्वास-प्रस्तुतिः

नक्षत्राणामाब्विषयाणाम्

सिद्धान्तकौमुदी

अन्त उदात्तः स्यात् । आश्लेषानुराधादीनां लघावन्ते— इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् ॥

मूलम्

नक्षत्राणामाब्विषयाणाम्

20

विश्वास-प्रस्तुतिः

न कुपूर्वस्य कृत्तिकाख्या चेत्

सिद्धान्तकौमुदी

अन्त उदात्तो न । कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप्तद्विषयाणामिति व्याख्याय आर्यिका, बहुलिका इत्यत्राप्यन्तोदात्तो नेत्याहुः ॥

मूलम्

न कुपूर्वस्य कृत्तिकाख्या चेत्

21

विश्वास-प्रस्तुतिः

घृतादीनां च

सिद्धान्तकौमुदी

अन्त उदात्तः । ‘घृ॒तं मि॑मिक्षे’ । आकृतिगणोऽयम् ॥

मूलम्

घृतादीनां च

22

विश्वास-प्रस्तुतिः

ज्येष्ठकनिष्ठयोर्वयसि

सिद्धान्तकौमुदी

अन्त उदात्तः स्यात् । ज्ये॒ष्ठ आ॑ह च॒मसा । कनि॒ष्ठ आ॑ह च॒तुरः॑ । वयसि किम् ? ज्येष्ठः श्रेष्ठः , कनिष्ठोऽल्पिकः । इह नित्त्वादाद्युदात्त एव ॥

मूलम्

ज्येष्ठकनिष्ठयोर्वयसि

23

विश्वास-प्रस्तुतिः

बिल्वतिष्ययोः स्वरितो वा

सिद्धान्तकौमुदी

अनयोरन्तः स्वरितो वा स्यात् । पक्ष उदात्तः ॥

मूलम्

बिल्वतिष्ययोः स्वरितो वा

2

01

विश्वास-प्रस्तुतिः

अथादिः प्राक् शकटेः

सिद्धान्तकौमुदी

अधिकारोऽयम् । शकटिशकट्योः— इति यावत् ॥

मूलम्

अथादिः प्राक् शकटेः

02

विश्वास-प्रस्तुतिः

हस्वान्तस्य स्त्रीविषयस्य

सिद्धान्तकौमुदी

आदरुदात्तः स्यात् । बलिः । तनुः ॥

मूलम्

हस्वान्तस्य स्त्रीविषयस्य

03

विश्वास-प्रस्तुतिः

नब्विषयस्यानिसन्तस्य

सिद्धान्तकौमुदी

व॒ने न वा॒ यः । इसन्तस्य तु सर्पिः । नब्नपुंसकम् ॥

मूलम्

नब्विषयस्यानिसन्तस्य

04

विश्वास-प्रस्तुतिः

तृणधान्यानां च द्व्यषाम्

सिद्धान्तकौमुदी

द्व्यचामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बह्वचां तु गोधूमाः ॥

मूलम्

तृणधान्यानां च द्व्यषाम्

05

विश्वास-प्रस्तुतिः

न्रः सङ्ख्यायाः

सिद्धान्तकौमुदी

पञ्च । चत्वारः ॥

मूलम्

न्रः सङ्ख्यायाः

06

विश्वास-प्रस्तुतिः

स्वाङ्गशिटामदन्तानाम्

सिद्धान्तकौमुदी

शिट् सर्वनाम । कर्णा॑भ्यां॒ चु॒बु॑कादधि॑ । ओष्ठा॑विव॒ मधु॑ । विश्वो॒ विहा॑याः ॥

मूलम्

स्वाङ्गशिटामदन्तानाम्

07

विश्वास-प्रस्तुतिः

प्राणिनां कुपूर्वम्

सिद्धान्तकौमुदी

कवर्गात्पूर्वः आदिरुदात्तः । काकः । वृकः । शुके॑षु मे । प्राणिनाम् किम् ? क्षी॒रं स॒र्पिर्मधू॑द॒कम् । कुपूर्वाद् किम् ? धनुः ॥

मूलम्

प्राणिनां कुपूर्वम्

08

विश्वास-प्रस्तुतिः

खय्युवर्ण कृत्रिमाख्या चेत्

सिद्धान्तकौमुदी

खयि परे उवर्णमुदात्तं स्यात् । कन्दुकः ॥

मूलम्

खय्युवर्ण कृत्रिमाख्या चेत्

09

विश्वास-प्रस्तुतिः

उनर्वन्नन्तानाम्

सिद्धान्तकौमुदी

उन । ‘वरु॑ण वो रि॒शाद॑सम्’ । ॠ । स्वसा॑रं त्वा कृणवै॒ । वन् । पीवा॑न मे॒षम् ॥

मूलम्

उनर्वन्नन्तानाम्

10

विश्वास-प्रस्तुतिः

वर्णानां तणतिनितान्तानाम्

सिद्धान्तकौमुदी

आदिरुदात्तः । एतः । हरिणः । शितिः । पृश्निः । हरित् ॥

मूलम्

वर्णानां तणतिनितान्तानाम्

11

विश्वास-प्रस्तुतिः

हस्वान्तस्य हस्वमनृताच्छील्ये

सिद्धान्तकौमुदी

ऋद्वर्जं हस्वान्तस्यादिभूतं हस्वमुदात्तं स्यात् । मुनिः ॥

मूलम्

हस्वान्तस्य हस्वमनृताच्छील्ये

12

विश्वास-प्रस्तुतिः

अक्षस्यादेवनस्य

सिद्धान्तकौमुदी

आदिरुदात्तः । तस्य॒ नाक्षः॑ । देवने तु - अ॒क्षैर्मा दी॑व्यः ॥

मूलम्

अक्षस्यादेवनस्य

13

विश्वास-प्रस्तुतिः

अर्धस्यासमद्योतने

सिद्धान्तकौमुदी

अर्धो ग्रामस्य । समेंऽशके तु अर्धं पिप्पल्याः ॥

मूलम्

अर्धस्यासमद्योतने

14

विश्वास-प्रस्तुतिः

पीतद्र्वर्थानाम्

सिद्धान्तकौमुदी

आदिरुदात्त । पीतद्रुः सरलः ॥

मूलम्

पीतद्र्वर्थानाम्

15

विश्वास-प्रस्तुतिः

ग्रामादीनां च

सिद्धान्तकौमुदी

ग्रामः । सोमः । यामः ॥

मूलम्

ग्रामादीनां च

16

विश्वास-प्रस्तुतिः

लुबन्तस्योपमयनामधेयस्य

सिद्धान्तकौमुदी

चञ्चेव चञ्चा । ‘स्फिगन्तस्य’ इति पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा ॥

मूलम्

लुबन्तस्योपमयनामधेयस्य

17

विश्वास-प्रस्तुतिः

न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्

सिद्धान्तकौमुदी

एषामुपमेयनाम्नामादिरुदात्तो न । ताल इव तालः । मेरुरिव मेरुः । व्याघ्रः । सिंहः । महिषः ॥

मूलम्

न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्

18

विश्वास-प्रस्तुतिः

राजविशेषस्य यमन्वा चेत्

सिद्धान्तकौमुदी

यमन्वा वृद्धः। आङ्गमुदाहरणम् । अङ्गाः प्रत्युदाहरणम् ॥

मूलम्

राजविशेषस्य यमन्वा चेत्

19

विश्वास-प्रस्तुतिः

लघावन्ते द्वयोश्च बह्वषो गुरुः

सिद्धान्तकौमुदी

अन्ते लघौ, द्वयोश्च लध्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः । कल्याणः । कोलाहलः ॥

मूलम्

लघावन्ते द्वयोश्च बह्वषो गुरुः

20

विश्वास-प्रस्तुतिः

स्त्रीविषयवर्णक्षुपूर्वाणाम्

सिद्धान्तकौमुदी

एषा त्रयाणामाद्युदात्तः । स्त्रीविषयम् । मल्लिका । वर्णः श्येनी । हरिणी । अक्षुशब्दात्पूर्वोऽस्त्येषां ते अक्षुपूर्वाः । तरक्षुः ॥

मूलम्

स्त्रीविषयवर्णक्षुपूर्वाणाम्

21

विश्वास-प्रस्तुतिः

शकुनीनां च लघु पूर्वम्

सिद्धान्तकौमुदी

पूर्वं लघु उदात्त स्यात् । कुक्कुटः । तित्तिरिः ॥

मूलम्

शकुनीनां च लघु पूर्वम्

22

विश्वास-प्रस्तुतिः

नर्तुप्राण्याख्यायाम्

सिद्धान्तकौमुदी

यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः । कृकलासः ॥

मूलम्

नर्तुप्राण्याख्यायाम्

23

विश्वास-प्रस्तुतिः

धान्यानां च वृद्धक्षान्तानाम्

सिद्धान्तकौमुदी

आदिरुदात्तः । कान्तानाम् - श्यामाकाः । षान्तानाम् - राजमाषाः ॥

मूलम्

धान्यानां च वृद्धक्षान्तानाम्

24

विश्वास-प्रस्तुतिः

जनपदशब्दानामषान्तानाम्

सिद्धान्तकौमुदी

आदिरुदात्तः । केकयः । यान्तस्यान्त्यात् पूर्वम् इति प्राप्ते ॥

मूलम्

जनपदशब्दानामषान्तानाम्

25

विश्वास-प्रस्तुतिः

हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा

सिद्धान्तकौमुदी

हयिति हल्सज्ञा । पललम् । शललम् । हयादीनाम् किम् ? एकलः । असंयुक्त इति किम् । मल्लः ॥

मूलम्

हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा

26

विश्वास-प्रस्तुतिः

इगन्ताना च द्व्यषाम्

सिद्धान्तकौमुदी

आदिरुदात्तः । कृषिः ॥

मूलम्

इगन्ताना च द्व्यषाम्

3

01

विश्वास-प्रस्तुतिः

अथ द्वितीयं प्रागीषात्

सिद्धान्तकौमुदी

ईषान्तस्य हयादे— इत्यतः प्राग्द्वितीयाधिकार ॥

मूलम्

अथ द्वितीयं प्रागीषात्

02

विश्वास-प्रस्तुतिः

त्र्यचा प्राङ्मकरात्

सिद्धान्तकौमुदी

मकरवरूढ— इत्यतः प्राक् त्र्यचामित्यधिकारः ॥

मूलम्

त्र्यचा प्राङ्मकरात्

03

विश्वास-प्रस्तुतिः

स्वाङ्गानामकुर्वादीनाम्

सिद्धान्तकौमुदी

कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम् । ल॒लाट॒म् । कुर्वादीनां तु । क॒पोलः॑ । रसना । वदनम् ॥

मूलम्

स्वाङ्गानामकुर्वादीनाम्

04

विश्वास-प्रस्तुतिः

मादीनां च

सिद्धान्तकौमुदी

मलयः । मकरः ॥

मूलम्

मादीनां च

05

विश्वास-प्रस्तुतिः

शादीनां शाकानाम्

सिद्धान्तकौमुदी

शीतन्या । शतपुष्पा ॥

मूलम्

शादीनां शाकानाम्

06

विश्वास-प्रस्तुतिः

पान्तानां गुर्वादीनाम्

सिद्धान्तकौमुदी

पादपः । आतपः । लघ्वादीना तु - अनूपम् । द्व्यचां तु - नीपम् ॥

मूलम्

पान्तानां गुर्वादीनाम्

07

विश्वास-प्रस्तुतिः

युतान्यण्यन्तानाम्

सिद्धान्तकौमुदी

युत । अयुतम् । अनि । धमनि । अणि । विपणिः ॥

मूलम्

युतान्यण्यन्तानाम्

08

विश्वास-प्रस्तुतिः

मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा

सिद्धान्तकौमुदी

एषामादिर्द्वितीयो वोदात्तः । मकरः वरूढ इत्यादि ॥

मूलम्

मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा

09

विश्वास-प्रस्तुतिः

छन्दसि च

सिद्धान्तकौमुदी

अमकराद्यर्थ आरम्भः । लक्ष्यानुसारादादिर्द्वितीयं चोदात्तं ज्ञेयम् ॥

मूलम्

छन्दसि च

10

विश्वास-प्रस्तुतिः

कर्दमादीनां च

सिद्धान्तकौमुदी

आदिर्द्वितीयं वोदात्तम् ॥

मूलम्

कर्दमादीनां च

11

विश्वास-प्रस्तुतिः

सुगन्धितेजनस्य ते वा

सिद्धान्तकौमुदी

आदिर्द्वितीयं तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः । सुगन्धितेजनाः ॥

मूलम्

सुगन्धितेजनस्य ते वा

12

विश्वास-प्रस्तुतिः

नपः फलान्तानाम्

सिद्धान्तकौमुदी

आदिर्द्वितीयं वोदात्तम् । राजादनफलम् ॥

मूलम्

नपः फलान्तानाम्

13

विश्वास-प्रस्तुतिः

यान्तस्यान्त्यात्पूर्वम्

सिद्धान्तकौमुदी

कुलायः । तलयः । वलयः ॥

मूलम्

यान्तस्यान्त्यात्पूर्वम्

14

विश्वास-प्रस्तुतिः

थान्तस्य च नालघुनी

सिद्धान्तकौमुदी

नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा ॥

मूलम्

थान्तस्य च नालघुनी

15

विश्वास-प्रस्तुतिः

शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च

सिद्धान्तकौमुदी

अन्त्यात्पूर्वमुदात्तं द्वितीयं वा ॥

मूलम्

शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च

16

विश्वास-प्रस्तुतिः

साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्

सिद्धान्तकौमुदी

द्वितीयमुदात्तं वा ॥

मूलम्

साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्

17

विश्वास-प्रस्तुतिः

ईषान्तख्य हयादेरादिर्वा

सिद्धान्तकौमुदी

हलीषा । लाङ्गलीषा ॥

मूलम्

ईषान्तख्य हयादेरादिर्वा

18

विश्वास-प्रस्तुतिः

उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्

सिद्धान्तकौमुदी

एषामादिरुदात्तः स्यात् ॥

मूलम्

उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्

19

विश्वास-प्रस्तुतिः

महिष्याषाढयोर्जायेष्टकाख्या चेत्

सिद्धान्तकौमुदी

आदिरुदात्तः । महिषी जाया । आषाढा उपदधाति ॥

मूलम्

महिष्याषाढयोर्जायेष्टकाख्या चेत्

4

01

विश्वास-प्रस्तुतिः

शकटिशकट्योरक्षरमक्षरं पर्यायेण

सिद्धान्तकौमुदी

उदात्तम् । शकटिः । शकटी ॥

मूलम्

शकटिशकट्योरक्षरमक्षरं पर्यायेण

02

विश्वास-प्रस्तुतिः

गोष्ठजस्य ब्राह्मणानामधेयस्य

सिद्धान्तकौमुदी

अक्षरमक्षर पर्यायेणोदात्तम् । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः ॥

मूलम्

गोष्ठजस्य ब्राह्मणानामधेयस्य

03

विश्वास-प्रस्तुतिः

पारावतस्योपोत्तमवर्जम्

सिद्धान्तकौमुदी

शेष क्रमेणोदात्तम् । पारावतः ॥

मूलम्

पारावतस्योपोत्तमवर्जम्

04

विश्वास-प्रस्तुतिः

धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्

सिद्धान्तकौमुदी

एषां चतुर्ण्णां धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेशः । कालवालः । स्थालीपाकः ॥

मूलम्

धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्

05

विश्वास-प्रस्तुतिः

कपिकेशहरिकेशयोश्छन्दसि

सिद्धान्तकौमुदी

कपिकेशः । हरिकेशः ॥

मूलम्

कपिकेशहरिकेशयोश्छन्दसि

06

विश्वास-प्रस्तुतिः

न्यङ्स्वरौ स्वरितौ

सिद्धान्तकौमुदी

स्पष्टम् । न्य॑ङ्ङुत्ता॒नः । व्य॑चक्षय॒त्स्वः ॥

मूलम्

न्यङ्स्वरौ स्वरितौ

07

विश्वास-प्रस्तुतिः

न्यर्बुदव्यल्कशयोरादि

सिद्धान्तकौमुदी

स्वरितः स्यात् । न्यर्बुदाय स्वाहा । पाकदूर्वा व्यल्कशा ॥

मूलम्

न्यर्बुदव्यल्कशयोरादि

08

विश्वास-प्रस्तुतिः

तिल्यशिक्यमत्यकार्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्त

सिद्धान्तकौमुदी

स्वरितः स्यात् । तिलाना भवनं क्षेत्रं तिल्यम् । वैश्वानर्या शिक्यमादत्ते । प्रभिन्नायमत्यमन्व्यास्यति । वज्रः कार्ष्मर्योर्वज्रेण । यतोऽनाव: [[6.1.213]] इति प्राप्ते । कार्ष्मर्यमुपयाति । धान्यमसिधिनुहि । मावीरवीकन्या । राजन्यो वज्रस्य रूपम् । प्रतीची मनुष्या ॥

मूलम्

तिल्यशिक्यमत्यकार्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्त

09

विश्वास-प्रस्तुतिः

बिल्वभक्ष्यवीर्याणि च्छन्दसि

सिद्धान्तकौमुदी

अन्तस्वरितानि । ततो बिल्वस्य उदतिष्ठत् । बलं विरुजवीर्यम् ॥

मूलम्

बिल्वभक्ष्यवीर्याणि च्छन्दसि

10

विश्वास-प्रस्तुतिः

त्वत्त्वसमसिमेत्यनुच्चानि

सिद्धान्तकौमुदी

स्त॒रीरु॑ त्व॒त् । उ॒त त्वः॒ पश्य॑न् । नभ॑न्तामन्यके॒ स॑मे । सिम॑स्मै ॥

मूलम्

त्वत्त्वसमसिमेत्यनुच्चानि

11

विश्वास-प्रस्तुतिः

सिमस्याथर्वणेऽन्त उदात्तः

सिद्धान्तकौमुदी

अथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवंपरं वा । तेन ‘वास॑स्तनुते सि॒मस्मै॑’ इत्यृग्वेदेऽपि भवत्येव ॥

मूलम्

सिमस्याथर्वणेऽन्त उदात्तः

12

विश्वास-प्रस्तुतिः

निपाता आद्युदात्ताः

सिद्धान्तकौमुदी

स्वाहा ॥

मूलम्

निपाता आद्युदात्ताः

13

विश्वास-प्रस्तुतिः

उपसर्गाश् चाभिवर्जम्

मूलम्

उपसर्गाश्चाभिवर्जम्

14

विश्वास-प्रस्तुतिः

एवादीनाम् अन्तः

सिद्धान्तकौमुदी

एवमादीनामिति पाठान्तरम् । एव । एवम् । नूनम् । सह ।

सह॑ ते पुत्र सू॒रिभिः॑ । षष्ठस्य तृतीये सहस्य सः संज्ञायाम् [[6.3.78]] इति प्रकरणे सहशब्द आद्युदात्त इति तु प्राञ्चः । तच्चिन्त्यम् ॥

मूलम्

एवादीनामन्तः

15

विश्वास-प्रस्तुतिः

वाचादीनामुभावुदात्तौ

सिद्धान्तकौमुदी

उभौग्रहणमनुदात्तं पदमेकवर्जमित्यस्य बाधाय ॥

मूलम्

वाचादीनामुभावुदात्तौ

16

विश्वास-प्रस्तुतिः

चादयोऽनुदात्ताः

सिद्धान्तकौमुदी

स्पष्टम् ॥

मूलम्

चादयोऽनुदात्ताः

17

विश्वास-प्रस्तुतिः

यथेति पादान्ते

सिद्धान्तकौमुदी

तं ने॒मिमृ॒भवो॑ य॒था । पादान्ते किम् । यथा॑नो॒ अदि॑तिः॒ कर॑त् ॥

मूलम्

यथेति पादान्ते

18

विश्वास-प्रस्तुतिः

प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः

सिद्धान्तकौमुदी

पटुपटुः ॥

मूलम्

प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः

19

विश्वास-प्रस्तुतिः

शेषं सर्वमनुदात्तम्

सिद्धान्तकौमुदी

शेषमित्यादिद्विरुक्तस्य परमित्यर्थः । प्रप्रा॒यम् । दि॒वेदि॑वे ॥

मूलम्

शेषं सर्वमनुदात्तम्