०२१ समति (सम्+अति)

क्रम्

  • {समतिक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘द्वौ मासौ समतिक्रम्य पास्यामि रुधिरं तव’ (रा० ५।५६।७९)। समतिक्रम्य=अतिक्रम्य=विगमय्य।

वृत्

  • {समतिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘इन्द्रियाणां वशानुगम्। अर्थाः समतिवर्तन्ते हंसाः शुष्कंसरो यथा’ (भा० उ० ३६।४०)। समतिवर्तन्ते=अतीत्य गच्छन्ति।

सृज्

  • {समतिसृज्}
  • सृज् (सृज विसर्गे)।
  • ‘तर्ह्येत एव समतिसृष्टाः स्तुवताम्’ (छां० उ० १।११।३)। समतिसृष्टाः समनुज्ञाताः