उणादिः

1

001

विश्वास-प्रस्तुतिः

कृवापाजिमिस्वदिसाध्यशूभ्य उण्

प्रत्ययाः

उण्

सि‌.कौ.

करोतीति कारुः , शिल्पी कारकश्च । [[7.3.33]] «आतो युक्…» वातीति वायुः । पायुर्गुदम् । जयत्यभिभवति रोगान् जायुरौषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम् । स्वादुः । साध्नोति परकार्यं साधुः । अश्नुते आशु शीघ्रम् । आशुर्व्रीहिः पाटलः स्यात् ।

मूलम्

कृवापाजिमिस्वदिसाध्यशूभ्य उण्

002

विश्वास-प्रस्तुतिः

छन्दसीणः

प्रत्ययाः

उण्

सि‌.कौ.

मा न आयौ ।

मूलम्

छन्दसीणः

003

विश्वास-प्रस्तुतिः

दॄसनिजनिचरिचटिभ्यो ञुण्

प्रत्ययाः

ञुण्

सि‌.कौ.

दीर्यत इति दारु । स्नुः प्रस्थः सानुरस्त्रियाम् । जानु । जानुनी । इह [[7.3.35]] «जनिवध्योश्च» इति न निषेधः । अनुबन्धद्वयसामर्थ्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् । मृगय्वादित्वात्कुप्रत्यये चटु इत्यपि ।

मूलम्

दॄसनिजनिचरिचटिभ्यो ञुण्

004

विश्वास-प्रस्तुतिः

किञ्जरयोः श्रिणः

प्रत्ययाः

ञुण्

सि‌.कौ.

किं शृणोतीति किंशारुः सस्यशूकं बाणश्च । जरामेति जरायुर्गर्भाशयः । गर्भाशयो जरायुः स्यात् ।

मूलम्

किञ्जरयोः श्रिणः

005

विश्वास-प्रस्तुतिः

त्रो रश्च लः

प्रत्ययाः

ञुण्

सि‌.कौ.

तरन्त्यनेन वर्णा इति तालुः ।

मूलम्

त्रो रश्च लः

006

विश्वास-प्रस्तुतिः

कृके वचः कश्च

प्रत्ययाः

ञुण्

सि‌.कौ.

कृकेन गलेन वक्तीति कृकवाकुः । ’कृकवाकुर्मयूरे च सरटे चरणायुधे’ इति विश्वः ।

मूलम्

कृके वचः कश्च

007

विश्वास-प्रस्तुतिः

भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः

प्रत्ययाः

सि‌.कौ.

भरति बिभर्ति वा भरुः, स्वामी हरश्च । म्रियन्तेऽस्मिन्भूतानि मरुर्निर्जलदेशः । शेते शयुरजगरः । तरुर्वृक्षः । चरन्ति भक्षयन्ति देवता इममिति चरुः । त्सरुः खड्गादिमुष्टिः । तनु स्वल्पम् । तन्यते कर्मपाशोऽनया इति तनुः, शरीरं च । स्त्रियां मूर्तिस्तनुस्तनूः । धनुः शस्त्रविशेषः । धनुषा च धनुं विदुः । धनुरिवाजनि वक्र इति श्रीहर्षः । मयुः किंनरः । मद्गुः पानीयकाकिकेति रभसः । न्यङ्क्वादित्वात्कुत्वम् जश्त्वेन सस्य दः ।

मूलम्

भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः

008

विश्वास-प्रस्तुतिः

अणश्च

प्रत्ययाः

सि‌.कौ.

लवलेशकणाणवः । चात्कटिवटिभ्याम् । कटति रसनां कटुः । वटतीति वटुः ।

मूलम्

अणश्च

009

विश्वास-प्रस्तुतिः

धान्ये नित्

प्रत्ययाः

सि‌.कौ.

धान्ये वाच्येऽण उप्रत्ययः स्यात् स च नित् । नित्त्वादाद्युदात्तः । प्रियङ्गवश्च मेऽणवश्च मे । व्रीहिभेदस्त्वणुः पुमान् । निद्ग्रहणं फलिपाटीत्यादिसूत्रमभिव्याप्य संबध्यते ।

मूलम्

धान्ये नित्

010

विश्वास-प्रस्तुतिः

शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च

प्रत्ययाः

सि‌.कौ.

शृणातीति शरुः । शरुरायुधकोपयोः । स्वर्यन्ते प्राणा अनेन स्वरुर्वज्रम् । स्नेहुर्व्याधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । पुंसि भूम्न्यसवः प्राणाः । वसुर्हृदेऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ । हनुर्वक्त्रैकदेशः । क्लेदुश्चन्द्रः । बन्धुः । मनुः । चात् बिदि अवयवे । बिन्दुः ।

मूलम्

शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च

011

विश्वास-प्रस्तुतिः

स्यन्देः संप्रसारणं धश्च

प्रत्ययाः

सि‌.कौ.

देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामित्यमरः ।

मूलम्

स्यन्देः संप्रसारणं धश्च

012

विश्वास-प्रस्तुतिः

उन्देरिच्चादेः

प्रत्ययाः

सि‌.कौ.

उनत्ति इन्दुः ।

मूलम्

उन्देरिच्चादेः

013

विश्वास-प्रस्तुतिः

ईषेः किच्च

प्रत्ययाः

सि‌.कौ.

ईषेरुः स्यात्स च कित् आदेरिकारादेशश्च । ईषते हिनस्ति इषुः शरः । इषुर्द्वयोः ।

मूलम्

ईषेः किच्च

014

विश्वास-प्रस्तुतिः

स्कन्देः सलोपश्च

प्रत्ययाः

सि‌.कौ.

कन्दुः ।

मूलम्

स्कन्देः सलोपश्च

015

विश्वास-प्रस्तुतिः

सृजेरसुम् च

प्रत्ययाः

सि‌.कौ.

चात्सलोप उप्रत्ययश्च । रज्जुः ।

मूलम्

सृजेरसुम् च

016

विश्वास-प्रस्तुतिः

कृतेराद्यन्तविपर्ययश्च

प्रत्ययाः

सि‌.कौ.

ककारतकारयोर्विनिमयः । तर्कुः सूत्रवेष्टनम् ।

मूलम्

कृतेराद्यन्तविपर्ययश्च

017

विश्वास-प्रस्तुतिः

नावञ्चेः

प्रत्ययाः

सि‌.कौ.

न्यङ्क्वादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कुर्मृगः ।

मूलम्

नावञ्चेः

018

विश्वास-प्रस्तुतिः

फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च

प्रत्ययाः

सि‌.कौ.

फलेर्गुक् । फल्गु । पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यते इति मधु । जायते इति जतु ।

मूलम्

फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च

019

विश्वास-प्रस्तुतिः

वलेर्गुक्च

प्रत्ययाः

सि‌.कौ.

वल संवरणे ।

मूलम्

वलेर्गुक्च

020

विश्वास-प्रस्तुतिः

शः कित्सन्वच्च

प्रत्ययाः

सि‌.कौ.

श्यतेरुः स्यात्स च कित्सन्वच्च । शिशुर्बालः ।

मूलम्

शः कित्सन्वच्च

021

विश्वास-प्रस्तुतिः

यो द्वे च

प्रत्ययाः

सि‌.कौ.

ययुरश्वोऽश्वमेधीयः । सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम् ।

मूलम्

यो द्वे च

022

विश्वास-प्रस्तुतिः

कुर्भ्रश्च

प्रत्ययाः

कु

सि‌.कौ.

बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ । चादन्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपुः पालकः ।

मूलम्

कुर्भ्रश्च

023

विश्वास-प्रस्तुतिः

पॄभिदिव्यधिगृधिधृषिभ्यः

प्रत्ययाः

कु

सि‌.कौ.

कुः स्यात् । पुरुः । भिनत्ति भिदुर्वज्रम् । [[6.1.16]] «ग्रहिज्या…» इति संप्रसारणम् । विरहिणं विध्यति विधुः । विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे । गृधुः कामः । धृषुर्दक्षः ।

मूलम्

पॄभिदिव्यधिगृधिधृषिभ्यः

024

विश्वास-प्रस्तुतिः

कृग्रोरुच्च

प्रत्ययाः

कु

सि‌.कौ.

करोतीति कुरुः । गृणाति गुरुः ।

मूलम्

कृग्रोरुच्च

025

विश्वास-प्रस्तुतिः

अपदुःसुषु स्थः

प्रत्ययाः

कु

सि‌.कौ.

[[8.3.98]] «सुषामादिषु च» इति षत्वम् । अपष्ठु प्रतिकूलम् । दुष्ठु । सुष्ठु ।

मूलम्

अपदुःसुषु स्थः

026

विश्वास-प्रस्तुतिः

रपेरिच्चोपधायाः

प्रत्ययाः

कु

सि‌.कौ.

अनिष्टं रपतीति रिपुः ।

मूलम्

रपेरिच्चोपधायाः

027

विश्वास-प्रस्तुतिः

अर्जिदृशिकम्यमिपशिबाधामृजिपसितुक्धुक्दीर्घहकाराश्च

प्रत्ययाः

कु

सि‌.कौ.

अर्जयति गुणान् ऋजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः । अन्धुः कूपः । पांशुर्ना न द्वयो रजः । तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः । बाधते इति बाहुः । बाहुः स्त्रीपुंसयोर्भुजः ।

मूलम्

अर्जिदृशिकम्यमिपशिबाधामृजिपसितुक्धुक्दीर्घहकाराश्च

028

विश्वास-प्रस्तुतिः

प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च

प्रत्ययाः

कु

सि‌.कौ.

त्रयाणां कुः संप्रसारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यङ्क्वादित्वात्कुत्वम् । भृज्जति तपसा भृगुः ।

मूलम्

प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च

029

विश्वास-प्रस्तुतिः

लङ्घिबंह्योर्नलोपश्च

प्रत्ययाः

कु

सि‌.कौ.

लघुः । <! वालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते (वार्त्तिकम्) !> । रघुर्नृपभेदः । बहुः ।

मूलम्

लङ्घिबंह्योर्नलोपश्च

030

विश्वास-प्रस्तुतिः

ऊर्णोतेर्नुलोपश्च

प्रत्ययाः

कु

सि‌.कौ.

ऊरुः सक्थि ।

मूलम्

ऊर्णोतेर्नुलोपश्च

031

विश्वास-प्रस्तुतिः

महति ह्रस्वश्च

प्रत्ययाः

कु

सि‌.कौ.

उरु महत् ।

मूलम्

महति ह्रस्वश्च

032

विश्वास-प्रस्तुतिः

श्लिषेः कश्च

प्रत्ययाः

कु

सि‌.कौ.

श्लिष्यतीति श्लिकुर्भृत्यः । उद्यतो ज्योतिश्च ।

मूलम्

श्लिषेः कश्च

033

विश्वास-प्रस्तुतिः

आङ्परयोः खनिशॄभ्यां डिच्च

प्रत्ययाः

कु

सि‌.कौ.

आखनतीत्याखुः । परं शृणातीति परशुः । पृषोदरादित्वादकारलोपात्पर्शुरपि ।

मूलम्

आङ्परयोः खनिशॄभ्यां डिच्च

034

विश्वास-प्रस्तुतिः

हरिमितयोर्द्रुवः

प्रत्ययाः

कु

सि‌.कौ.

द्रु गतौ अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभिर्द्रूयते हरिद्रुर्वृक्षः । मितं द्रवति मितद्रुः समुद्रः ।

मूलम्

हरिमितयोर्द्रुवः

035

विश्वास-प्रस्तुतिः

शते च

प्रत्ययाः

कु

सि‌.कौ.

शतधा द्रवति शतद्रुः । बाहुलकात्केवलादपि । द्रवत्यूर्ध्वमिति द्रुर्वृक्षः शाखा च तद्वान् द्रुमः ।

मूलम्

शते च

036

विश्वास-प्रस्तुतिः

खरु शङ्कु पीयु नीलङ्गु लिगु

प्रत्ययाः

कु

सि‌.कौ.

पञ्चैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूर्खः अश्वश्च । शङ्कुर्ना कीलशल्ययोः । पिबतेरित्वं युगागमश्च । पीयुर्वायसः कालः सुवर्णं च । निपूर्वाल्लगि गतावस्मात्कुत्वं नेर्दीर्घश्च । नीलङ्गुः क्रिमिविशेषः शृगालश्च । नीलाङ्गुरिति पाठान्तरम् । तत्र धातोरपि दीर्घः । लगे सङ्गे अस्य अत इत्वं च । लगतीति लिगु चित्तम् । लिगुर्मूर्खः ।

मूलम्

खरु शङ्कु पीयु नीलङ्गु लिगु

037

विश्वास-प्रस्तुतिः

मृगय्वादयश्च

प्रत्ययाः

कु

सि‌.कौ.

एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयुर्व्याधः । देवयुर्धार्मिकः । मित्रयुर्लोकयात्राभिज्ञः । आकृतिगणोऽयम् ।

मूलम्

मृगय्वादयश्च

038

विश्वास-प्रस्तुतिः

मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच्

प्रत्ययाः

उरच्

सि‌.कौ.

मन्दुरा वाजिशाला । वाशुरा रात्रिः । मथुरा । चतुरः । चङ्कुरो रथः । अङ्कुरः । खर्जूरादित्वादङ्कूरोऽपि ।

मूलम्

मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच्

039

विश्वास-प्रस्तुतिः

व्यथेः संप्रसारणं किच्च

प्रत्ययाः

उरच्

सि‌.कौ.

विथुरश्चोररक्षसोः ।

मूलम्

व्यथेः संप्रसारणं किच्च

040

विश्वास-प्रस्तुतिः

मुकुरदर्दुरौ

प्रत्ययाः

उरच्

सि‌.कौ.

मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । दॄ विदारणे । धातोर्द्विर्वचनमभ्यासस्य रुक् टिलोपश्च । दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरा चण्डिकायां स्याद्ग्रामजाले च दर्दुरमिति विश्वः ।

मूलम्

मुकुरदर्दुरौ

041

विश्वास-प्रस्तुतिः

मद्गुरादयश्च

प्रत्ययाः

उरच्

सि‌.कौ.

उरजन्ता निपात्यन्ते । माद्यतेर्गुक् । मद्गुरो मत्स्यभेदः । कबृ वर्णे । रुमागमः । कर्बुरं श्वेतरक्षसोः । बध्नातेः खर्जूरादित्वादूरोऽपि । बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु इति रन्तिदेवः । <= कोकतेर्वा कुक् च => (गणसूत्रम् 195) । कुक्कुरः । कुकुरः ।

मूलम्

मद्गुरादयश्च

042

विश्वास-प्रस्तुतिः

असेरुरन्

प्रत्ययाः

उरन्

सि‌.कौ.

असुरः । प्रज्ञाद्यण् । आसुरः ।

मूलम्

असेरुरन्

043

विश्वास-प्रस्तुतिः

मसेश्च

प्रत्ययाः

उरन्

सि‌.कौ.

पञ्चमे पादे मसेरूरन्निति वक्ष्यते । मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति । मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पादरोगे स्यादुपधाने पुनः पुमान् । मसूरमसुरौ च द्वाविति विश्वः ।

मूलम्

मसेश्च

044

विश्वास-प्रस्तुतिः

शावशेराप्तौ

प्रत्ययाः

उरन्

सि‌.कौ.

शु इति आश्वर्थे । श्वशुरः । पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोरित्यमरः ।

मूलम्

शावशेराप्तौ

045

विश्वास-प्रस्तुतिः

अविमह्योष्टिषच्

प्रत्ययाः

टिषच्

सि‌.कौ.

अविषः । महिषः ।

मूलम्

अविमह्योष्टिषच्

046

विश्वास-प्रस्तुतिः

अमेर्दीर्घश्च

प्रत्ययाः

टिषच्

सि‌.कौ.

आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि ।

मूलम्

अमेर्दीर्घश्च

047

विश्वास-प्रस्तुतिः

रुहेर्वृद्धिश्च

प्रत्ययाः

टिषच्

सि‌.कौ.

रङ्कुशम्बररौहिषाः । रौहिषो मृगभेदे स्याद्रौहिषं च तृणं मतमिति संसारावर्तः ।

मूलम्

रुहेर्वृद्धिश्च

048

विश्वास-प्रस्तुतिः

तवेर्णिद्वा

प्रत्ययाः

टिषच्

सि‌.कौ.

तवेति सौत्रो धातुः । तविपताविषावब्धौ स्वर्गे च । स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च । तविषी बलमिति वेदभाष्यम् ।

मूलम्

तवेर्णिद्वा

049

विश्वास-प्रस्तुतिः

नञि व्यथेः

प्रत्ययाः

टिषच्

सि‌.कौ.

अव्यथिषोऽब्धिसूर्ययोः । अव्यथिषी धरारात्र्योः ।

मूलम्

नञि व्यथेः

050

विश्वास-प्रस्तुतिः

किलेर्बुक् च

प्रत्ययाः

टिषच्

सि‌.कौ.

किल्बिषम् ।

मूलम्

किलेर्बुक् च

051

विश्वास-प्रस्तुतिः

इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्

प्रत्ययाः

किरच्

सि‌.कौ.

इषिरोऽग्निः । मदिरा सुरा । मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । छिदिरोऽसिकुठारयोः । भिदिरं वज्रम् । मन्दिरं गृहम् । स्त्रियामपि । मन्दिरं मदिरापि स्यादिति विश्वः । चन्दिरौ चन्द्रहस्तिनौ । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः मुहिरः काम्यसभ्ययोः । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । शुष शोषणे । शुषिरं छिद्रम् । शुष्कमित्यन्ये ।

मूलम्

इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्

052

विश्वास-प्रस्तुतिः

अशेर्णित्

प्रत्ययाः

किरच्

सि‌.कौ.

आशिरो वह्निरक्षसोः ।

मूलम्

अशेर्णित्

053

विश्वास-प्रस्तुतिः

अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः

प्रत्ययाः

किरच्

सि‌.कौ.

अजेर्वीभावाभावः । अजिरमङ्गणम् शशेरुपधाया इत्वम् । शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् । श्रथ मोचने उपधाया इत्वं रेफलोपः । प्रत्ययरेफश्च लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेर्वुक् ह्रस्वत्वं च । स्थविरः । खदिरः । बाहुलकात् शीङो बुक् ह्रस्वत्वं च । शिबिरम् ।

मूलम्

अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः

054

विश्वास-प्रस्तुतिः

सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्

प्रत्ययाः

इलच्

सि‌.कौ.

सलति गच्छति निम्नमिति सलिलम् । कलिलः । अनिलः । महिला । पृषोदरादित्वान्महेलापि । भड इति सौत्रो धातुः । भडिलौ शूरसेवकौ । भण्डिलो दूतः कल्याणं च । शण्डिलो मुनिः । पिण्डिलो गणकः । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुलकात्कुटिलः ।

मूलम्

सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्

055

विश्वास-प्रस्तुतिः

कमेः पश्च

प्रत्ययाः

इलच्

सि‌.कौ.

कपिलः ।

मूलम्

कमेः पश्च

056

विश्वास-प्रस्तुतिः

गुपादिभ्यः कित्

प्रत्ययाः

इलच्

सि‌.कौ.

गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम् ।

मूलम्

गुपादिभ्यः कित्

057

विश्वास-प्रस्तुतिः

मिथिलादयश्च

प्रत्ययाः

इलच्

सि‌.कौ.

मथ्यन्तेऽत्र रिपवो मिथिला नगरी । पथिलः । पथिकः ।

मूलम्

मिथिलादयश्च

058

विश्वास-प्रस्तुतिः

पतिकठिकुठिगडिगुडिदंशिभ्य एरक्

प्रत्ययाः

एरक्

सि‌.कौ.

पतेरः पक्षी गन्ता च । छठेरः कृच्छ्रजीवी । कुठेरः पर्णाशः । बाहुलकान्नुम्न । गडेरो मेघः । गुडेरो गुडकः । दंशेरो हिंस्रः ।

मूलम्

पतिकठिकुठिगडिगुडिदंशिभ्य एरक्

059

विश्वास-प्रस्तुतिः

कुम्बेर्नलोपश्च

प्रत्ययाः

एरक्

सि‌.कौ.

कुबेरः ।

मूलम्

कुम्बेर्नलोपश्च

060

विश्वास-प्रस्तुतिः

शदेस्त च

प्रत्ययाः

एरक्

सि‌.कौ.

शतेरः शत्रुः ।

मूलम्

शदेस्त च

061

विश्वास-प्रस्तुतिः

मूलेरादयः

प्रत्ययाः

एरक्

सि‌.कौ.

एरगन्ता निपात्यन्ते । मूलेरो जटा । गुधेरो गोप्ता । गुहेरो लोहघातकः । मुहेरो मूर्खः ।

मूलम्

मूलेरादयः

062

विश्वास-प्रस्तुतिः

कबेरोतच् पश्च

प्रत्ययाः

ओतच्

सि‌.कौ.

कपोतः पक्षी ।

मूलम्

कबेरोतच् पश्च

063

विश्वास-प्रस्तुतिः

भातेर्डवतुः

प्रत्ययाः

डवतु

सि‌.कौ.

भातीति भवान् ।

मूलम्

भातेर्डवतुः

064

विश्वास-प्रस्तुतिः

कठिचकिभ्यामोरन्

प्रत्ययाः

ओरन्

सि‌.कौ.

कठोरः । चकोरः ।

मूलम्

कठिचकिभ्यामोरन्

065

विश्वास-प्रस्तुतिः

किशोरादयश्च

प्रत्ययाः

ओरन्

सि‌.कौ.

किंपूर्वस्य शृणातेष्टिलोपः किमोऽन्त्यलोपः किशोरोऽश्वशावः । सहोरः साधुः ।

मूलम्

किशोरादयश्च

066

विश्वास-प्रस्तुतिः

कपिगडिगण्डिकटिपटिभ्य ओलच्

प्रत्ययाः

ओलच्

सि‌.कौ.

कपीति निर्देशान्नलोपः । कपोलः । गडोलगण्डोलौ गुडकपर्यायौ । कटोलः कटुः । पटोलः ।

मूलम्

कपिगडिगण्डिकटिपटिभ्य ओलच्

067

विश्वास-प्रस्तुतिः

मीनातेरूरन्

प्रत्ययाः

ऊरन्

सि‌.कौ.

मयूरः ।

मूलम्

मीनातेरूरन्

068

विश्वास-प्रस्तुतिः

स्यन्देः संप्रसारणं च

प्रत्ययाः

ऊरन्

सि‌.कौ.

सिन्दूरम् ।

मूलम्

स्यन्देः संप्रसारणं च

069

विश्वास-प्रस्तुतिः

सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्

प्रत्ययाः

तुन्

सि‌.कौ.

सिनोतीति सेतुः । [[7.2.9]] «तितुत्र…» इति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तुः । अर्धर्चादिः । [[6.4.20]] «ज्वरत्वर…» इत्यूठ् । तत्र क्ङितीत्यनुवर्तते इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः क्रोष्टा ।

मूलम्

सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्

070

विश्वास-प्रस्तुतिः

पः किच्च

प्रत्ययाः

तुन्

सि‌.कौ.

पिबतीति पितुर्वह्नौ दिवाकरे ।

मूलम्

पः किच्च

071

विश्वास-प्रस्तुतिः

अर्तेश्च तुः

प्रत्ययाः

तु

सि‌.कौ.

अर्तेस्तुः स्यात्स च कित् । ऋतुः स्त्रीपुष्पकालयोः ।

मूलम्

अर्तेश्च तुः

072

विश्वास-प्रस्तुतिः

कमिमनिजनिगाभायाहिभ्यश्च

प्रत्ययाः

तु

सि‌.कौ.

एभ्यस्तुः स्यात् । कन्तुः कन्दर्पचित्तयोः । मन्तुरपराधः । जन्तुः प्राणी । गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च । भानुरादित्यः । यातुरध्वगकालयोः । रक्षसि क्लीबे । हेतुः कारणम् ।

मूलम्

कमिमनिजनिगाभायाहिभ्यश्च

073

विश्वास-प्रस्तुतिः

चायः किः

प्रत्ययाः

तु

सि‌.कौ.

केतुर्ग्रहपताकयोः ।

मूलम्

चायः किः

074

विश्वास-प्रस्तुतिः

आप्नोतेर्ह्रस्वश्च

प्रत्ययाः

तु

सि‌.कौ.

अप्तुः शरीरम् ।

मूलम्

आप्नोतेर्ह्रस्वश्च

075

विश्वास-प्रस्तुतिः

वसेस्तुन्

प्रत्ययाः

तुन्

सि‌.कौ.

वस्तु ।

मूलम्

वसेस्तुन्

076

विश्वास-प्रस्तुतिः

अगारे णिच्च

प्रत्ययाः

तुन्

सि‌.कौ.

वेश्मभूर्वास्तुरस्त्रियाम् ।

मूलम्

अगारे णिच्च

077

विश्वास-प्रस्तुतिः

कृञः कतुः

प्रत्ययाः

कतु

सि‌.कौ.

क्रतुर्यज्ञः ।

मूलम्

कृञः कतुः

078

विश्वास-प्रस्तुतिः

एधिवह्योश्चतुः

प्रत्ययाः

चतु

सि‌.कौ.

एधतुः पुरुषः । वहतुरनड्वान् ।

मूलम्

एधिवह्योश्चतुः

079

विश्वास-प्रस्तुतिः

जीवेरातुः

प्रत्ययाः

आतु

सि‌.कौ.

जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे ।

मूलम्

जीवेरातुः

080

विश्वास-प्रस्तुतिः

आतृकन् वृद्धिश्च

प्रत्ययाः

आतृकन्

सि‌.कौ.

जीवेरित्येव । जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ।

मूलम्

आतृकन् वृद्धिश्च

081

विश्वास-प्रस्तुतिः

कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः

प्रत्ययाः

सि‌.कौ.

कर्षूः पुंसि करीषाग्नौ कर्षूर्नद्यां स्त्रियां मता । चमूः । तनूः । धनूः शस्त्रम् । सर्ज सर्जने । सर्जूर्वणिक् । खर्ज व्यथने । खर्जूः पामा ।

मूलम्

कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः

082

विश्वास-प्रस्तुतिः

मृजेर्गुणश्च

प्रत्ययाः

सि‌.कौ.

मर्जूः शुद्धिकृत् ।

मूलम्

मृजेर्गुणश्च

083

विश्वास-प्रस्तुतिः

वहो धश्च

प्रत्ययाः

सि‌.कौ.

वधूर्जायास्नुषास्त्रीषु ।

मूलम्

वहो धश्च

084

विश्वास-प्रस्तुतिः

कषेश्छश्च

प्रत्ययाः

सि‌.कौ.

कच्छूः पामा ।

मूलम्

कषेश्छश्च

085

विश्वास-प्रस्तुतिः

णित्कसिपद्यर्तेः

प्रत्ययाः

सि‌.कौ.

कासूः शक्तिः । पादूश्चरणधारिणी । आरूः पिङ्गलः ।

मूलम्

णित्कसिपद्यर्तेः

086

विश्वास-प्रस्तुतिः

अणो डश्च

प्रत्ययाः

सि‌.कौ.

आडूर्जलप्लवद्रव्यम् ।

मूलम्

अणो डश्च

087

विश्वास-प्रस्तुतिः

नञि लम्बेर्नलोपश्च

प्रत्ययाः

सि‌.कौ.

तुम्ब्यलाबूरुभे समे इत्यमरः ।

मूलम्

नञि लम्बेर्नलोपश्च

088

विश्वास-प्रस्तुतिः

के श्र एरङ् चास्य

प्रत्ययाः

सि‌.कौ.

कशब्दे उपपदे शृणातेरूः स्यादेरङ् आदेशः । कशेरूस्तृणकन्दे स्त्री । बाहुलकादुप्रत्यये कशेरुः क्लीबे पुंसि च ।

मूलम्

के श्र एरङ् चास्य

089

विश्वास-प्रस्तुतिः

त्रो दुट् च

प्रत्ययाः

सि‌.कौ.

तरतेरूः स्यात्तस्य दुट् । तर्दूः स्याद्दारुहस्तकः ।

मूलम्

त्रो दुट् च

090

विश्वास-प्रस्तुतिः

दरिद्रातेर्यालोपश्च

प्रत्ययाः

सि‌.कौ.

इश्च आश्च यौ तयोर्लोपः । दर्द्रूः कुष्ठप्रभेदः ।

मूलम्

दरिद्रातेर्यालोपश्च

091

विश्वास-प्रस्तुतिः

नृतिशृध्योः कूः

प्रत्ययाः

कू

सि‌.कौ.

नृतूर्नर्तकः । शृधूरपानम् ।

मूलम्

नृतिशृध्योः कूः

092

विश्वास-प्रस्तुतिः

ऋतेरम् च

प्रत्ययाः

कू

सि‌.कौ.

ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तूर्देवनदी सत्यवाक् च ।

मूलम्

ऋतेरम् च

093

विश्वास-प्रस्तुतिः

अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः

प्रत्ययाः

कू

सि‌.कौ.

एते कूप्रत्ययान्ता निपात्यन्ते । अन्दूर्बन्धनम् । दृभी ग्रन्थे । निपातनान्नुम् । दृम्भूः । अनुस्वाराभावोऽपि निपातनादित्येके । दृन्भूः । जनेर्बुक् जम्बूः । जमु अदने अस्येत्येके बाहुलकाद्ध्रस्वोऽपि । जम्बुः । कफं लाति कफेलूः श्लेष्मातकः । निपातनादेत्वम् । कर्कं दधाति कर्कन्धूर्बदरी । निपातनान्नुम् । दिधिं धैर्यं स्यति त्यजतीति दिधिषूः पुनर्भूः । केचित्तु अन्दूदृम्फूजम्बूकम्बू इति पठन्ति । दृम्फ उत्क्लेशे । दृम्फूः सर्पजातिः । कमेर्बुक् कम्बूः परद्रव्यापहारी ।

मूलम्

अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः

094

विश्वास-प्रस्तुतिः

मृग्रोरुतिः

प्रत्ययाः

उति

सि‌.कौ.

मरुत् । गरुत्पक्षः ।

मूलम्

मृग्रोरुतिः

095

विश्वास-प्रस्तुतिः

ग्रो मुट् च

प्रत्ययाः

उति

सि‌.कौ.

गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्णं तृणविशेषश्च ।

मूलम्

ग्रो मुट् च

096

विश्वास-प्रस्तुतिः

हृषेरुलच्

प्रत्ययाः

उलच्

सि‌.कौ.

हर्षुलो मृगकामिनोः । बाहुलकाच्चटतेः । चटुलं शोभनम् ।

मूलम्

हृषेरुलच्

097

विश्वास-प्रस्तुतिः

हृसृरुहियुषिभ्य इतिः

प्रत्ययाः

इति

सि‌.कौ.

हरित्ककुभि वर्णे च तृणवाचिविशेषयोः । सरिन्नदी । रोहित् मृगविशेषस्य स्त्री । युष इति सौत्रो धातुः । ऋश्यस्य रोहित् । पुरुषस्य योषित् इति भाष्यम् ।

मूलम्

हृसृरुहियुषिभ्य इतिः

098

विश्वास-प्रस्तुतिः

ताडेर्णिलुक् च

प्रत्ययाः

इति

सि‌.कौ.

ताडयतीति तडित् ।

मूलम्

ताडेर्णिलुक् च

099

विश्वास-प्रस्तुतिः

शमेर्ढः

प्रत्ययाः

सि‌.कौ.

बाहुलकादिसंज्ञा एयादेश इट् च न । शण्ढः स्यात्पुंसि गोपतौ । शण्ढः क्लीबः ।

मूलम्

शमेर्ढः

100

विश्वास-प्रस्तुतिः

कमेरठः

प्रत्ययाः

अठ

सि‌.कौ.

कमठः । कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकमिति मेदिनी । बाहुलकाज्जरठः ।

मूलम्

कमेरठः

101

विश्वास-प्रस्तुतिः

रमेर्वृद्धिश्च

प्रत्ययाः

अठ

सि‌.कौ.

रामठं हिङ्गु ।

मूलम्

रमेर्वृद्धिश्च

102

विश्वास-प्रस्तुतिः

शमेः खः

प्रत्ययाः

सि‌.कौ.

शङ्खः ।

मूलम्

शमेः खः

103

विश्वास-प्रस्तुतिः

कणेष्ठः

प्रत्ययाः

सि‌.कौ.

कण्ठः ।

मूलम्

कणेष्ठः

104

विश्वास-प्रस्तुतिः

कलस्तृपश्च

प्रत्ययाः

कल

सि‌.कौ.

तृपतेः कलप्रत्ययः चात्तृफतेः । तृपला लता । त्रिफला तु फलत्रिके ।

मूलम्

कलस्तृपश्च

105

विश्वास-प्रस्तुतिः

शपेर्बश्च

प्रत्ययाः

कल

सि‌.कौ.

शबलः ।

मूलम्

शपेर्बश्च

106

विश्वास-प्रस्तुतिः

वृषादिभ्यश्चित्

प्रत्ययाः

कल

सि‌.कौ.

वृषलः । पललम् । बाहुलकाद्गुणः । सरलः । तरलः । <= कमेर्बुक् च => (गणसूत्रम् 196) । कम्बलः । मुस खण्डने । मुसलम् । <= लङ्गेर्वृद्धिश्च => (गणसूत्रम् 197) । लाङ्गलम् । <= कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् => (गणसूत्रम् 198) । कुट्मलः । कुडेरपि । कुड्मलः । कश्मलम् । बाहुलकाद्गुणः । कोमलम् ।

मूलम्

वृषादिभ्यश्चित्

107

विश्वास-प्रस्तुतिः

मृजेष्टिलोपश्च

प्रत्ययाः

कल

सि‌.कौ.

मलम् ।

मूलम्

मृजेष्टिलोपश्च

108

विश्वास-प्रस्तुतिः

चुपेरच्चोपधायाः

प्रत्ययाः

कल

सि‌.कौ.

चपलम् ।

मूलम्

चुपेरच्चोपधायाः

109

विश्वास-प्रस्तुतिः

शकिशम्योर्नित्

प्रत्ययाः

कल

सि‌.कौ.

शकलम् । शमलम् ।

मूलम्

शकिशम्योर्नित्

110

विश्वास-प्रस्तुतिः

छो गुक् ह्रस्वश्च

प्रत्ययाः

कल

सि‌.कौ.

छगलः । प्रज्ञादित्वाच्छागलः ।

मूलम्

छो गुक् ह्रस्वश्च

111

विश्वास-प्रस्तुतिः

ञमन्ताड्डः

प्रत्ययाः

सि‌.कौ.

दण्डः । रण्डा । खण्डः । भण्डः । वण्डश्छिन्नहस्तः । अण्डः । बाहुलकात्सभावः । षण्डः सङ्घातः । तालव्यादिरित्यपरे । शण्डः। गण्डः । चण्डः । पण्डः क्लीबः । पण्डा बुद्धिः ।

मूलम्

ञमन्ताड्डः

112

विश्वास-प्रस्तुतिः

क्वादिभ्यः कित्

प्रत्ययाः

सि‌.कौ.

कवर्गादिभ्यो डः कित्स्यात् । कुण्डम् । काण्डम् । गुङ् । गुडः । घुण भ्रमणे । घुण्डो भ्रमरः ।

मूलम्

क्वादिभ्यः कित्

113

विश्वास-प्रस्तुतिः

स्थाचतिमृजेरालज्वालजालीयचः

प्रत्ययाः

आलच्, वालच्, आलीयच्

सि‌.कौ.

तिष्ठतेरालच् । स्थालम् स्थाली । चतेर्वालच् । चत्वालः । मृजेरालीयच् । मार्जालीयो बिडालः ।

मूलम्

स्थाचतिमृजेरालज्वालजालीयचः

114

विश्वास-प्रस्तुतिः

पतिचण्डिभ्यामालञ्

प्रत्ययाः

आलञ्

सि‌.कौ.

पातालम् । चण्डालः । प्रज्ञादित्वादणि चाण्डालोऽपीत्येके ।

मूलम्

पतिचण्डिभ्यामालञ्

115

विश्वास-प्रस्तुतिः

तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्

प्रत्ययाः

कालन्

सि‌.कौ.

तमालः । विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चालाः ।

मूलम्

तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्

116

विश्वास-प्रस्तुतिः

पतेरङ्गच् पक्षिणि

प्रत्ययाः

अङ्गच्

सि‌.कौ.

पतङ्गः ।

मूलम्

पतेरङ्गच् पक्षिणि

117

विश्वास-प्रस्तुतिः

तरत्यादिभ्यश्च

प्रत्ययाः

अङ्गच्

सि‌.कौ.

तरङ्गः । लवङ्गम् ।

मूलम्

तरत्यादिभ्यश्च

118

विश्वास-प्रस्तुतिः

विडादिभ्यः कित्

प्रत्ययाः

अङ्गच्

सि‌.कौ.

विडङ्गः । मृदङ्गः । कुरङ्गः । बाहुलकादुत्वं च ।

मूलम्

विडादिभ्यः कित्

119

विश्वास-प्रस्तुतिः

सृवृञोर्वृद्धिश्च

प्रत्ययाः

अङ्गच्

सि‌.कौ.

सारङ्गः । वारङ्गः खड्गादिमुष्टिः ।

मूलम्

सृवृञोर्वृद्धिश्च

120

विश्वास-प्रस्तुतिः

गन् गम्यद्योः

प्रत्ययाः

गन्

सि‌.कौ.

गङ्गा । अद्गः पुरोडाशः ।

मूलम्

गन् गम्यद्योः

121

विश्वास-प्रस्तुतिः

छापूखडिभ्यः कित्

प्रत्ययाः

गन्

सि‌.कौ.

छागः । पूगः । खड्गः । बाहुलकात् षिट अनादरे गन्सत्वाभावश्च । षिड्गः तरलः । षिड्गैरगद्यत ससंभ्रममेवमेकेति माघः ।

मूलम्

छापूखडिभ्यः कित्

122

विश्वास-प्रस्तुतिः

भृञः किन्नुट् च

प्रत्ययाः

गन्

सि‌.कौ.

भृञः गन् कित्स्यात्तस्य नुत् च । भृङ्गाः षिड्गालिधूम्याटाः ।

मूलम्

भृञः किन्नुट् च

123

विश्वास-प्रस्तुतिः

शृणातेर्ह्रस्वश्च

प्रत्ययाः

गन्

सि‌.कौ.

शृङ्गम् ।

मूलम्

शृणातेर्ह्रस्वश्च

124

विश्वास-प्रस्तुतिः

गण् शकुनौ

प्रत्ययाः

गण्

सि‌.कौ.

नुट् चेत्यनुवर्तते । शार्ङ्गः ।

मूलम्

गण् शकुनौ

125

विश्वास-प्रस्तुतिः

मुदिग्रोर्गग्गौ

प्रत्ययाः

गक्, ग

सि‌.कौ.

मुद्गः । गर्गः ।

मूलम्

मुदिग्रोर्गग्गौ

126

विश्वास-प्रस्तुतिः

अण्डन्कृसृभृवृञः

प्रत्ययाः

अण्डन्

सि‌.कौ.

करण्डः । सरण्डः पक्षी । भरण्डः स्वामी । वरण्डो मुखरोगः ।

मूलम्

अण्डन्कृसृभृवृञः

127

विश्वास-प्रस्तुतिः

शॄदॄभसोऽदिः

प्रत्ययाः

अदि

सि‌.कौ.

शरत् । दरद्धृदयकूलयोः । भसज्जघनम् ।

मूलम्

शॄदॄभसोऽदिः

128

विश्वास-प्रस्तुतिः

दृणातेर्दृग् ह्रस्वश्च

प्रत्ययाः

अदि

सि‌.कौ.

दृषत् ।

मूलम्

दृणातेर्दृग् ह्रस्वश्च

129

विश्वास-प्रस्तुतिः

त्यजितनियजिभ्यो डित्

प्रत्ययाः

अदि

सि‌.कौ.

त्यद् । तद् । यद् । सर्वादयः ।

मूलम्

त्यजितनियजिभ्यो डित्

130

विश्वास-प्रस्तुतिः

एतेस्तुट् च

प्रत्ययाः

अदि

सि‌.कौ.

एतद् ।

मूलम्

एतेस्तुट् च

131

विश्वास-प्रस्तुतिः

सर्तेरटिः

प्रत्ययाः

अटि

सि‌.कौ.

सरट् स्याद्वातमेघयोः । वेदभाष्ये तु याभिः कृशानुमिति मन्त्रे सरट्भ्यो मधुमक्षिकाभ्य इति व्याख्यातम् ।

मूलम्

सर्तेरटिः

132

विश्वास-प्रस्तुतिः

लङ्घेर्नलोपश्च

प्रत्ययाः

अटि

सि‌.कौ.

लघट् वायुः ।

मूलम्

लङ्घेर्नलोपश्च

133

विश्वास-प्रस्तुतिः

पारयतेरजिः

प्रत्ययाः

अजि

सि‌.कौ.

पारक् सुवर्णम् ।

मूलम्

पारयतेरजिः

134

विश्वास-प्रस्तुतिः

प्रथः कित्संप्रसारणं च

प्रत्ययाः

अजि

सि‌.कौ.

पृथक् । स्वरादिपाठादव्ययत्वम् ।

मूलम्

प्रथः कित्संप्रसारणं च

135

विश्वास-प्रस्तुतिः

भियः षुक् ह्रस्वश्च

प्रत्ययाः

अजि

सि‌.कौ.

भिषक् ।

मूलम्

भियः षुक् ह्रस्वश्च

136

विश्वास-प्रस्तुतिः

युष्यसिभ्यां मदिक्

प्रत्ययाः

मदिक्

सि‌.कौ.

युष् सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् ।

मूलम्

युष्यसिभ्यां मदिक्

137

विश्वास-प्रस्तुतिः

अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन्

प्रत्ययाः

मन्

सि‌.कौ.

एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षूरोगः । स्तोमः सङ्घातः । सोमः । होमः । सर्मो गमनम् । धर्मः क्षेमं कुशलम् । क्षोमम् । प्रज्ञाद्यणि क्षौमं च । भाम आदित्यः । यामः । वामः शोभनदुष्टयोः । पद्मम् । यक्ष पूजायाम् । यक्ष्मो रोगराजः । नेमः ।

मूलम्

अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन्

138

विश्वास-प्रस्तुतिः

जहातेः सन्वदालोपश्च

प्रत्ययाः

मन्

सि‌.कौ.

जिह्मः कुटिलमन्दयोः ।

मूलम्

जहातेः सन्वदालोपश्च

139

विश्वास-प्रस्तुतिः

अवतेष्टिलोपश्च

प्रत्ययाः

मन्

सि‌.कौ.

मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रूयात् । [[6.4.20]] «ज्वरत्वर…» इति ऊठौ । तयोर्दीर्घे कृते गुणः । चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु स्वरादिपाठादव्ययत्वम् । अवतीति ओम् ।

मूलम्

अवतेष्टिलोपश्च

140

विश्वास-प्रस्तुतिः

ग्रसेरा च

प्रत्ययाः

मन्

सि‌.कौ.

ग्रामः ।

मूलम्

ग्रसेरा च

141

विश्वास-प्रस्तुतिः

अविसिविसिशुषिभ्यः कित्

प्रत्ययाः

मन्

सि‌.कौ.

ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । शुष्ममग्निसमीपयोः ।

मूलम्

अविसिविसिशुषिभ्यः कित्

142

विश्वास-प्रस्तुतिः

इषियुधीन्धिदसिश्याधूसूभ्यो मक्

प्रत्ययाः

मक्

सि‌.कौ.

इष्मः कामवसन्तयोः । ईषीति पाठे दीर्घादिः । युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यजमानः । श्यामः धूमः । सूमोऽन्तरिक्षम् । बाहुलकादीर्मं व्रणः ।

मूलम्

इषियुधीन्धिदसिश्याधूसूभ्यो मक्

143

विश्वास-प्रस्तुतिः

युजिरुचितिजां कुश्च

प्रत्ययाः

मक्

सि‌.कौ.

युग्मम् । रुक्मम् । तिग्मम् ।

मूलम्

युजिरुचितिजां कुश्च

144

विश्वास-प्रस्तुतिः

हन्तेर्हि च

प्रत्ययाः

मक्

सि‌.कौ.

हिमम् ।

मूलम्

हन्तेर्हि च

145

विश्वास-प्रस्तुतिः

भियः षुग्वा

प्रत्ययाः

मक्

सि‌.कौ.

भीमः । भीष्मः ।

मूलम्

भियः षुग्वा

146

विश्वास-प्रस्तुतिः

घर्मः

प्रत्ययाः

मक्

सि‌.कौ.

घृधातोर्मग्गुणश्च निपात्यते ।

मूलम्

घर्मः

147

विश्वास-प्रस्तुतिः

ग्रीष्मः

प्रत्ययाः

मक्

सि‌.कौ.

ग्रसतेर्निपातोऽयम् ।

मूलम्

ग्रीष्मः

148

विश्वास-प्रस्तुतिः

प्रथेः षिवन् संप्रसारणं च

प्रत्ययाः

षिवन्

सि‌.कौ.

पृथिवी । पवन्नित्येके । पृथवी पृथिवी पृथ्वी इति शब्दार्णवः ।

मूलम्

प्रथेः षिवन् संप्रसारणं च

149

विश्वास-प्रस्तुतिः

अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्

प्रत्ययाः

क्वन्

सि‌.कौ.

अश्वः । प्रुष स्नेहनादौ । प्रुष्वः स्यादृतुसूर्ययोः । प्रुष्वा जलकणिका । लट्वा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्वे किण्वमपि । खट्वा । विश्वम् ।

मूलम्

अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्

150

विश्वास-प्रस्तुतिः

इण्शीभ्यां वन्

प्रत्ययाः

वन्

सि‌.कौ.

एवो गन्ता । ये च एवा मरुतः । असत्वे निपातोऽयम् । शेवं मित्राय वरुणाय ।

मूलम्

इण्शीभ्यां वन्

151

विश्वास-प्रस्तुतिः

सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे

प्रत्ययाः

वन्

सि‌.कौ.

अकर्तर्येते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वाद्घृषेर्गुणाभावोऽपि । निघृष्यतेऽनेन निघृष्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शम्भुः । शीङो ह्रस्वत्वम् । पट्वो रथो भूलोकश्च । प्रहूयते इति प्रह्वः । ह्वेञ आकारवकारलोपः । जहातेरालोपो वा । ईषेर्वन् । ईष्व आचार्यः । इष्व इत्यन्ये । अस्वतन्त्रे किम् । सर्ता सारकः । बाहुलकाद् ह्रसतेः ह्रस्वः ।

मूलम्

सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे

152

विश्वास-प्रस्तुतिः

शेवयह्वजिह्वाग्रीवाप्वामीवाः

प्रत्ययाः

वण्

सि‌.कौ.

शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन वह्वः । ह्रस्वो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । अप्नोतीत्याप्वा वायुः । मीवा उदरकृमिः । वायुरित्यन्ये ।

मूलम्

शेवयह्वजिह्वाग्रीवाप्वामीवाः

153

विश्वास-प्रस्तुतिः

कॄगॄशॄदॄभ्यो वः

प्रत्ययाः

सि‌.कौ.

कर्वः काम आखुश्च । गर्वः । शर्वः । दर्वो राक्षसः ।

मूलम्

कॄगॄशॄदॄभ्यो वः

154

विश्वास-प्रस्तुतिः

कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः

प्रत्ययाः

कनिन्

सि‌.कौ.

यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम् । द्युवा सूर्यः । प्रतिदीव्यन्त्यस्मिन् प्रतिदिवा दिवसः ।

मूलम्

कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः

155

विश्वास-प्रस्तुतिः

सप्यशूभ्यां तुट् च

प्रत्ययाः

कनिन्

सि‌.कौ.

सप्त । अष्ट ।

मूलम्

सप्यशूभ्यां तुट् च

156

विश्वास-प्रस्तुतिः

नञि जहातेः

प्रत्ययाः

कनिन्

सि‌.कौ.

अहः ।

मूलम्

नञि जहातेः

157

विश्वास-प्रस्तुतिः

श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति

प्रत्ययाः

कनिन्

सि‌.कौ.

एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते । श्वयतीति श्वा । उक्षा पूषा । प्लिह गतौ । इकारस्य दीर्घत्वम् । प्लेहतीति प्लीहा कुक्षिव्याधिः । क्लिदू आर्द्रीभावे । क्लिद्यति क्लेदा चन्द्रः । स्निह्यतेर्गुणः । स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च । मुह्यन्त्यस्मिन्नाहते । मूर्धा । मुहेरुपधाया दीर्घो धोऽन्तादेशो रमागमश्च । मज्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् अर्यमा । विश्वं प्साति विश्वप्साग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जनेरुपधालोपो मश्चान्तादेशः । मातरि अन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकारलोपः । मह पूजायाम् । हस्य घो वुगागमश्च मघवा इन्द्रः

मूलम्

श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति

2

001

विश्वास-प्रस्तुतिः

कृहृभ्यामेणुः

प्रत्ययाः

एणु

सि‌.कौ.

करेणुः । हरेणुर्गन्धद्रव्यम् ।

मूलम्

कृहृभ्यामेणुः

002

विश्वास-प्रस्तुतिः

हनिकुषिनरिकाशिभ्यः कथन्

प्रत्ययाः

कथन्

सि‌.कौ.

हथो विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् ।

मूलम्

हनिकुषिनरिकाशिभ्यः कथन्

003

विश्वास-प्रस्तुतिः

अवे भृञः

प्रत्ययाः

कथन्

सि‌.कौ.

अवभृथः ।

मूलम्

अवे भृञः

004

विश्वास-प्रस्तुतिः

उषिकुषिगार्तिभ्यः स्थन्

प्रत्ययाः

स्थन्

सि‌.कौ.

ओष्ठः कोष्ठम् । गाथा अर्थः । बाहुलकात् शोथः ।

मूलम्

उषिकुषिगार्तिभ्यः स्थन्

005

विश्वास-प्रस्तुतिः

सर्तेर्णित्

प्रत्ययाः

स्थन्

सि‌.कौ.

सार्थः समूहः ।

मूलम्

सर्तेर्णित्

006

विश्वास-प्रस्तुतिः

जॄवृञ्भ्यामूथन्

प्रत्ययाः

ऊथन्

सि‌.कौ.

जरूथं मांसम् । वरूथो रथगुप्तौ ना ।

मूलम्

जॄवृञ्भ्यामूथन्

007

विश्वास-प्रस्तुतिः

पातॄतुदिवचिरिचिसिचिभ्यस्थक्

प्रत्ययाः

थक्

सि‌.कौ.

पीथो रविर्घृतं पीथम् । तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतमिति विश्वः । तुत्थोऽग्निः । उक्थं सामभेदः । रिक्थम् । बाहुलकादृचेरपि । रिक्थमृक्थं धनं वसु । सिक्थम् ।

मूलम्

पातॄतुदिवचिरिचिसिचिभ्यस्थक्

008

विश्वास-प्रस्तुतिः

अर्तेर्निरि

प्रत्ययाः

थक्

सि‌.कौ.

निर्ऋथं साम ।

मूलम्

अर्तेर्निरि

009

विश्वास-प्रस्तुतिः

निशीथगोपीथावगथाः

प्रत्ययाः

थक्

सि‌.कौ.

निशीथोऽर्धरात्रः रात्रिमात्रं च । गोपीथं तीर्थम् । अवगथः प्रातःस्नातः ।

मूलम्

निशीथगोपीथावगथाः

010

विश्वास-प्रस्तुतिः

गश्चोदि

प्रत्ययाः

थक्

सि‌.कौ.

उद्गीथः साम्नो भागविशेषः ।

मूलम्

गश्चोदि

011

विश्वास-प्रस्तुतिः

समीणः

प्रत्ययाः

थक्

सि‌.कौ.

समिथो वह्निः संग्रामश्च ।

मूलम्

समीणः

012

विश्वास-प्रस्तुतिः

तिथपृष्ठगूथयूथप्रोथाः

प्रत्ययाः

थक्

सि‌.कौ.

तिजेर्जलोपः । तिथोऽनलः कामश्च । पृष्ठम् । गूथं विष्ठा । यूथं समूहः । प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते ।

मूलम्

तिथपृष्ठगूथयूथप्रोथाः

013

विश्वास-प्रस्तुतिः

स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक्

प्रत्ययाः

रक्

सि‌.कौ.

द्वात्रिंशद्भ्यो रक् स्यात् । वलि यलोपः । स्फारम् । न्यङ्क्वादित्वात्कुत्वम् । तक्रम् । वक्रम् । शक्रः । क्षिप्रम् । क्षुद्रः । सृप्रश्चन्द्रः । तृप्रः पुरोडाशः । दृप्रो बलवान् । वन्द्रः पूजकः । उन्दी, उन्द्रो जलचरः । श्वित्रं कुष्ठम् । वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे । अजेर्वी, वीरः । नीरम् । पद्रो ग्रामः । मन्द्रो हर्षो देशभेदश्च । मुद्रा प्रत्ययकारिणी । खिद्रो रोगो दरिद्रश्च । छिद्रम् । भिद्रं वज्रम् । मन्द्रः । चन्द्रः । पचाद्यचि चन्दोऽपि । हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः । दहोऽग्निः । दस्रः स्वर्वैद्यः । दम्भ्रः समुद्रः स्वल्पं च । वसेः संप्रसारणे ।

मूलम्

स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक्

014

विश्वास-प्रस्तुतिः

चकिरम्योरुच्चोपधायाः

प्रत्ययाः

रक्

सि‌.कौ.

चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः ।

मूलम्

चकिरम्योरुच्चोपधायाः

015

विश्वास-प्रस्तुतिः

वौ कसेः

प्रत्ययाः

रक्

सि‌.कौ.

विकुस्रश्चन्द्रः ।

मूलम्

वौ कसेः

016

विश्वास-प्रस्तुतिः

अमितम्योर्दीर्घश्च

प्रत्ययाः

रक्

सि‌.कौ.

आम्रम् । ताम्रम् ।

मूलम्

अमितम्योर्दीर्घश्च

017

विश्वास-प्रस्तुतिः

निन्देर्नलोपश्च

प्रत्ययाः

रक्

सि‌.कौ.

निद्रा ।

मूलम्

निन्देर्नलोपश्च

018

विश्वास-प्रस्तुतिः

अर्देर्दीर्घश्च

प्रत्ययाः

रक्

सि‌.कौ.

आर्द्रम् ।

मूलम्

अर्देर्दीर्घश्च

019

विश्वास-प्रस्तुतिः

शुचेर्दश्च

प्रत्ययाः

रक्

सि‌.कौ.

शूद्रः ।

मूलम्

शुचेर्दश्च

020

विश्वास-प्रस्तुतिः

दुरीणो लोपश्च

प्रत्ययाः

रक्

सि‌.कौ.

दुःखेनेयते प्राप्यत इति दूरम् ।

मूलम्

दुरीणो लोपश्च

021

विश्वास-प्रस्तुतिः

कृतेश्छः क्रू च

प्रत्ययाः

रक्

सि‌.कौ.

कृच्छ्र्म् । क्रूरः ।

मूलम्

कृतेश्छः क्रू च

022

विश्वास-प्रस्तुतिः

रोदेर्णिलुक् च

प्रत्ययाः

रक्

सि‌.कौ.

रोदयतीति रुद्रः ।

मूलम्

रोदेर्णिलुक् च

023

विश्वास-प्रस्तुतिः

बहुलमन्यत्रापि संज्ञाछन्दसोः

प्रत्ययाः

रक्

सि‌.कौ.

णिलुगित्येव । वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे ।

मूलम्

बहुलमन्यत्रापि संज्ञाछन्दसोः

024

विश्वास-प्रस्तुतिः

जोरी च

प्रत्ययाः

रक्

सि‌.कौ.

जीरोऽणुः । ज्यश्चेत्येके ।

मूलम्

जोरी च

025

विश्वास-प्रस्तुतिः

सुसूधागृधिभ्यः क्रन्

प्रत्ययाः

क्रन्

सि‌.कौ.

सुरः । सूरः । धीरः । गृध्रः ।

मूलम्

सुसूधागृधिभ्यः क्रन्

026

विश्वास-प्रस्तुतिः

शुसिचिमीनां दीर्घश्च

प्रत्ययाः

क्रन्

सि‌.कौ.

शुः सौत्रः । शूरः । सीरम् । चीरम् । भीरः समुद्रः ।

मूलम्

शुसिचिमीनां दीर्घश्च

027

विश्वास-प्रस्तुतिः

वा विन्धेः

प्रत्ययाः

क्रन्

सि‌.कौ.

वीध्रं विमलम् ।

मूलम्

वा विन्धेः

028

विश्वास-प्रस्तुतिः

वृधिवपिभ्यां रन्

प्रत्ययाः

रन्

सि‌.कौ.

वर्ध्रं चर्म । वप्रः प्राकारः ।

मूलम्

वृधिवपिभ्यां रन्

029

विश्वास-प्रस्तुतिः

ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः

प्रत्ययाः

रन्

सि‌.कौ.

रन्नन्ता ऊनविंशतिः । निपातनाद्गुणाभावः । ऋज्रो नायकः । इदि इन्द्रः । अङ्गेर्नलोपः । अग्रम् । वज्रोऽस्त्री हीरके पवौ । डुवप् उपधाया इत्वम् विप्रः । कुम्बिचुम्ब्योर्नलोपः । कुब्रमरण्यम् । चुब्रं मुखम् । क्षुर विलेखने रेफलोपः । अगुणः । क्षुरः । खुर छेदने रलोपो गुणाभावश्च । खुरः । भन्देर्नलोपः भद्रम् । उच समवाये । चस्य गः । उग्रः । ञिभी । भेरी । पक्षे लः । भेलो जलतरणद्रव्यम् । शुचेश्चस्य कः । शुक्रः । पक्षे लः । शुक्लः । गुङ् वृद्धिः । गौरोऽरुणे सिते पीते । वन संभक्तौ । वम्रो विभागी इणो गुणाभावः । इरा मद्ये च वारिणि । मा माने माला ।

मूलम्

ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः

030

विश्वास-प्रस्तुतिः

समि कस उकन्

प्रत्ययाः

उकन्

सि‌.कौ.

कस गतौ । सम्यक्कसन्ति पलायन्ते जना अस्मादिति सङ्कसुको दुर्जनः अस्थिरश्च ।

मूलम्

समि कस उकन्

031

विश्वास-प्रस्तुतिः

पचिनशोर्णुकन्कनुमौ च

प्रत्ययाः

णुकन्, कनुम्

सि‌.कौ.

पचेः कः । पाकुकः सूपकारः । नशेर्नुम् । नंशुकः ।

मूलम्

पचिनशोर्णुकन्कनुमौ च

032

विश्वास-प्रस्तुतिः

भियः क्रुकन्

प्रत्ययाः

क्रुकन्

सि‌.कौ.

भीरुकः ।

मूलम्

भियः क्रुकन्

033

विश्वास-प्रस्तुतिः

क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि

प्रत्ययाः

क्वुन्

सि‌.कौ.

रजकः । इक्षुकुट्टकः । चरकः । चष भक्षणे । चषकः । शुनकः । भषकः ।

मूलम्

क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि

034

विश्वास-प्रस्तुतिः

रमे रश्च लो वा

प्रत्ययाः

क्वुन्

सि‌.कौ.

रमको विलासी । लमकः ।

मूलम्

रमे रश्च लो वा

035

विश्वास-प्रस्तुतिः

जहातेर्द्वे च

प्रत्ययाः

क्वुन्

सि‌.कौ.

जहकस्त्यागी कालश्च ।

मूलम्

जहातेर्द्वे च

036

विश्वास-प्रस्तुतिः

ध्मो धम च

प्रत्ययाः

क्वुन्

सि‌.कौ.

धमकः कर्मकारः ।

मूलम्

ध्मो धम च

037

विश्वास-प्रस्तुतिः

हनो वध च

प्रत्ययाः

क्वुन्

सि‌.कौ.

वधकः ।

मूलम्

हनो वध च

038

विश्वास-प्रस्तुतिः

बहुलमन्यत्रापि

प्रत्ययाः

क्वुन्

सि‌.कौ.

कुह विस्मापने । कुहकः । कृतकम् ।

मूलम्

बहुलमन्यत्रापि

039

विश्वास-प्रस्तुतिः

कृषेर्वृद्धिश्चोदीचाम्

प्रत्ययाः

क्वुन्

सि‌.कौ.

कार्षकः । कृषकः ।

मूलम्

कृषेर्वृद्धिश्चोदीचाम्

040

विश्वास-प्रस्तुतिः

उदकं च

प्रत्ययाः

क्वुन्

सि‌.कौ.

प्रपञ्चार्थम् ।

मूलम्

उदकं च

041

विश्वास-प्रस्तुतिः

वृश्चिकृष्योः किकन्

प्रत्ययाः

किकन्

सि‌.कौ.

वृश्चिकः । कृषिकः ।

मूलम्

वृश्चिकृष्योः किकन्

042

विश्वास-प्रस्तुतिः

प्राङिपणिकषः

प्रत्ययाः

किकन्

सि‌.कौ.

प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारोपजीवी ।

मूलम्

प्राङिपणिकषः

043

विश्वास-प्रस्तुतिः

मुषेर्दीर्घश्च

प्रत्ययाः

किकन्

सि‌.कौ.

मूषिक आखुः ।

मूलम्

मुषेर्दीर्घश्च

044

विश्वास-प्रस्तुतिः

स्यमेः संप्रसारणं च

प्रत्ययाः

किकन्

सि‌.कौ.

चाद्दीर्घः । सीमिको वृक्षभेदः ।

मूलम्

स्यमेः संप्रसारणं च

045

विश्वास-प्रस्तुतिः

क्रिय इकन्

प्रत्ययाः

इकन्

सि‌.कौ.

क्रयिकः क्रेता ।

मूलम्

क्रिय इकन्

046

विश्वास-प्रस्तुतिः

आङि पणिपनिपतिखनिभ्यः

प्रत्ययाः

इकन्

सि‌.कौ.

आपणिकः । आपनिकः इन्द्रनीलः किरातश्च । आपतिकः श्येनो दैवायत्तश्च । आखनिको मूषिको वराहश्च ।

मूलम्

आङि पणिपनिपतिखनिभ्यः

047

विश्वास-प्रस्तुतिः

श्यास्त्याहृञविभ्य इनच्

प्रत्ययाः

इनच्

सि‌.कौ.

श्येनः । स्त्येनः । हरिणः । अविनोऽध्वर्युः ।

मूलम्

श्यास्त्याहृञविभ्य इनच्

048

विश्वास-प्रस्तुतिः

वृजेः किच्च

प्रत्ययाः

इनच्

सि‌.कौ.

वृजिनम् ।

मूलम्

वृजेः किच्च

049

विश्वास-प्रस्तुतिः

अजेरज च

प्रत्ययाः

इनच्

सि‌.कौ.

वीभावबाधनार्थम् । अजिनम् ।

मूलम्

अजेरज च

050

विश्वास-प्रस्तुतिः

बहुलमन्यत्रापि

प्रत्ययाः

इनच्

सि‌.कौ.

कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । द्यतेः यत्परुषि दिनम् । दिवसोऽपि दिनम् ।

मूलम्

बहुलमन्यत्रापि

051

विश्वास-प्रस्तुतिः

द्रुदक्षिभ्यामिनन्

प्रत्ययाः

इनन्

सि‌.कौ.

द्रविणम् । दक्षिणः । दक्षिणा ।

मूलम्

द्रुदक्षिभ्यामिनन्

052

विश्वास-प्रस्तुतिः

अर्तेः किदिच्च

प्रत्ययाः

इनन्

सि‌.कौ.

इरिणं शून्यम् ।

मूलम्

अर्तेः किदिच्च

053

विश्वास-प्रस्तुतिः

वेपितुह्योर्ह्रस्वश्च

प्रत्ययाः

इनन्

सि‌.कौ.

विपिनम् । तुहिनम् ।

मूलम्

वेपितुह्योर्ह्रस्वश्च

054

विश्वास-प्रस्तुतिः

तलिपुलिभ्यां च

प्रत्ययाः

इनन्

सि‌.कौ.

तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु । पुलिनम् ।

मूलम्

तलिपुलिभ्यां च

055

विश्वास-प्रस्तुतिः

गर्वेरत उच्च

प्रत्ययाः

इनन्

सि‌.कौ.

गौरादित्वात् ङीष् । गुर्विणी । गर्भिणी ।

मूलम्

गर्वेरत उच्च

056

विश्वास-प्रस्तुतिः

रुहेश्च

प्रत्ययाः

इनन्

सि‌.कौ.

रोहिणः ।

मूलम्

रुहेश्च

057

विश्वास-प्रस्तुतिः

महेरिनण् च

प्रत्ययाः

इनण्

सि‌.कौ.

चादिनन् । माहिनन् । महिनं राज्यम् ।

मूलम्

महेरिनण् च

058

विश्वास-प्रस्तुतिः

क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च

प्रत्ययाः

क्विप्

सि‌.कौ.

वाक् । प्राट् । श्रीः । स्रवत्यतो घृतादिकमिति स्रूर्यज्ञोपकरणम् । द्रूर्हिरण्यम् । कटप्रूः कामरूपी कीटश्च । जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम् ।

मूलम्

क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च

059

विश्वास-प्रस्तुतिः

आप्नोतेर्ह्रस्वश्च

प्रत्ययाः

क्विप्

सि‌.कौ.

आपः । अपः । अद्भिः । अद्भ्यः ।

मूलम्

आप्नोतेर्ह्रस्वश्च

060

विश्वास-प्रस्तुतिः

परौ व्रजेः षश्च पदान्ते

प्रत्ययाः

क्विप्

सि‌.कौ.

व्रजेः क्विब्दीर्घौ स्तः पदान्ते तु षश्च । परिव्राट् । परिव्राजौ ।

मूलम्

परौ व्रजेः षश्च पदान्ते

061

विश्वास-प्रस्तुतिः

हुवः श्लुवच्च

प्रत्ययाः

क्विप्

सि‌.कौ.

जुहूः ।

मूलम्

हुवः श्लुवच्च

062

विश्वास-प्रस्तुतिः

स्रुवः कः

प्रत्ययाः

सि‌.कौ.

स्रुवः ।

मूलम्

स्रुवः कः

063

विश्वास-प्रस्तुतिः

चिक् च

प्रत्ययाः

चिक्

सि‌.कौ.

इकार उच्चारणार्थः । क इत् कुत्वम् । स्रुवं च स्रुचश्च संमृड्ढि ।

मूलम्

चिक् च

064

विश्वास-प्रस्तुतिः

तनोतेरनश्च वः

प्रत्ययाः

चिक्

सि‌.कौ.

तनोतेश्चिक् प्रत्ययः । अनो वशब्दादेशश्च । त्वक् ।

मूलम्

तनोतेरनश्च वः

065

विश्वास-प्रस्तुतिः

ग्लानुदिभ्यां डौः

प्रत्ययाः

डौ

सि‌.कौ.

ग्लौः । नौः ।

मूलम्

ग्लानुदिभ्यां डौः

066

विश्वास-प्रस्तुतिः

च्विरव्ययम्

प्रत्ययाः

डौ

सि‌.कौ.

डौरित्येव । ग्लौकरोति । [[1.1.39]] «कृन्मेजन्तः» इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्च्व्यन्त एवेति ।

मूलम्

च्विरव्ययम्

067

विश्वास-प्रस्तुतिः

रातेर्डैः

प्रत्ययाः

डै

सि‌.कौ.

राः । रायौ । रायः ।

मूलम्

रातेर्डैः

068

विश्वास-प्रस्तुतिः

गमेर्डोः

प्रत्ययाः

डो

सि‌.कौ.

गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु । बाहुलकाद् द्युतेरपि डोः । द्यौः स्त्री स्वर्गान्तरिक्षयोः ।

मूलम्

गमेर्डोः

069

विश्वास-प्रस्तुतिः

भ्रमेश्च डूः

प्रत्ययाः

डू

सि‌.कौ.

भ्रूः । चाद्गमेः । अग्रेगूः ।

मूलम्

भ्रमेश्च डूः

070

विश्वास-प्रस्तुतिः

दमेर्डोसिः

प्रत्ययाः

डोसि

सि‌.कौ.

दोः । दोषौ ।

मूलम्

दमेर्डोसिः

071

विश्वास-प्रस्तुतिः

पणेरिज्यादेश्च वः

प्रत्ययाः

इजि

सि‌.कौ.

वणिक् । स्वार्थेऽण् । नैगमो वाणिजो वणिक् ।

मूलम्

पणेरिज्यादेश्च वः

072

विश्वास-प्रस्तुतिः

वशेः कित्

प्रत्ययाः

इजि

सि‌.कौ.

उशिगग्नौ घृतेपि च ।

मूलम्

वशेः कित्

073

विश्वास-प्रस्तुतिः

भृञ ऊच्च

प्रत्ययाः

इजि

सि‌.कौ.

भूरिक् भूमिः ।

मूलम्

भृञ ऊच्च

074

विश्वास-प्रस्तुतिः

जसिसहोरुरिन्

प्रत्ययाः

उरिन्

सि‌.कौ.

जसुरिर्व्रज्रम् । सहुरिरादित्यः पृथिवी च ।

मूलम्

जसिसहोरुरिन्

075

विश्वास-प्रस्तुतिः

सुयुरुवृञो युच्

प्रत्ययाः

युच्

सि‌.कौ.

सवश्चन्द्रमाः । यवनः । रवणः । कोकिलः । वरणः ।

मूलम्

सुयुरुवृञो युच्

076

विश्वास-प्रस्तुतिः

अशेरश च

प्रत्ययाः

युच्

सि‌.कौ.

अश्नोतेर्युच् स्यात् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् ।

मूलम्

अशेरश च

077

विश्वास-प्रस्तुतिः

उन्देर्नलोपश्च

प्रत्ययाः

युच्

सि‌.कौ.

ओदनः ।

मूलम्

उन्देर्नलोपश्च

078

विश्वास-प्रस्तुतिः

गमेर्गश्च

प्रत्ययाः

युच्

सि‌.कौ.

गमेर्युच् स्याद्गश्चादेशः । गगनम् ।

मूलम्

गमेर्गश्च

079

विश्वास-प्रस्तुतिः

बहुलमन्यत्रापि

प्रत्ययाः

युच्

सि‌.कौ.

युच् स्यात् । स्यन्दनः । रोचना ।

मूलम्

बहुलमन्यत्रापि

080

विश्वास-प्रस्तुतिः

रञ्जेः क्युन्

प्रत्ययाः

क्युन्

सि‌.कौ.

रजनम् ।

मूलम्

रञ्जेः क्युन्

081

विश्वास-प्रस्तुतिः

भूसूधूभ्रस्जिभ्यश्छन्दसि

प्रत्ययाः

क्युन्

सि‌.कौ.

भुवनम् । सुवन आदित्यः । धवनो वह्निः । निधुवनं सुरतम् । भृज्जनमम्बरीषम् ।

मूलम्

भूसूधूभ्रस्जिभ्यश्छन्दसि

082

विश्वास-प्रस्तुतिः

कॄपॄवृजिमन्दिनिधाञः क्युः

प्रत्ययाः

क्यु

सि‌.कौ.

किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् ।

मूलम्

कॄपॄवृजिमन्दिनिधाञः क्युः

083

विश्वास-प्रस्तुतिः

धृषेर्धिष् च संज्ञायाम्

प्रत्ययाः

क्यु

सि‌.कौ.

धिषणो गुरुः । धिषणा धीः ।

मूलम्

धृषेर्धिष् च संज्ञायाम्

084

विश्वास-प्रस्तुतिः

वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च

प्रत्ययाः

अति

सि‌.कौ.

अतिप्रत्ययान्ताः । पृषु सेचने गुणाभावः पृषन्ति । बृहत् महान् । गमेर्जगादेशः । जगत् ।

मूलम्

वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च

085

विश्वास-प्रस्तुतिः

संश्चत्तृपद्वेहत्

प्रत्ययाः

अति

सि‌.कौ.

एते निपात्यन्ते । पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् । संचिनोतेः सुट् इकारलोपः । संश्चत् कुहकः । तृषत् छत्रम् । विपूर्वाद्धन्तेष्टिलोपः । इत ए च । वेहद्गर्भोपघातिनी ।

मूलम्

संश्चत्तृपद्वेहत्

086

विश्वास-प्रस्तुतिः

छन्दस्यसानच् शुजॄभ्याम्

प्रत्ययाः

असानच्

सि‌.कौ.

शवसानः पन्थाः । जरसानः पुरुषः ।

मूलम्

छन्दस्यसानच् शुजॄभ्याम्

087

विश्वास-प्रस्तुतिः

ऋञ्जिवृद्धिमन्दिसहिभ्यः कित्

प्रत्ययाः

असानच्

सि‌.कौ.

ऋञ्जसानो मेघः । वृधसानः पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च ।

मूलम्

ऋञ्जिवृद्धिमन्दिसहिभ्यः कित्

088

विश्वास-प्रस्तुतिः

अर्तेर्गुणः शुट् च

प्रत्ययाः

असानच्

सि‌.कौ.

अर्शसानोऽग्निः ।

मूलम्

अर्तेर्गुणः शुट् च

089

विश्वास-प्रस्तुतिः

सम्यानच्स्तुवः

प्रत्ययाः

आनच्

सि‌.कौ.

संस्तवानो वाग्मी ।

मूलम्

सम्यानच्स्तुवः

090

विश्वास-प्रस्तुतिः

युधिबुधिदृशिभ्यः किच्च

प्रत्ययाः

आनच्

सि‌.कौ.

युधानः । बुधानः । दृशानो लोकपालकः ।

मूलम्

युधिबुधिदृशिभ्यः किच्च

091

विश्वास-प्रस्तुतिः

हुर्छेः सनो लुक् छलोपश्च

प्रत्ययाः

आनच्

सि‌.कौ.

जुहुराणश्चन्द्रमाः ।

मूलम्

हुर्छेः सनो लुक् छलोपश्च

092

विश्वास-प्रस्तुतिः

श्वितेर्दश्च

प्रत्ययाः

आनच्

सि‌.कौ.

शिश्विदानः पुण्यकर्मा ।

मूलम्

श्वितेर्दश्च

093

विश्वास-प्रस्तुतिः

तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ

प्रत्ययाः

तृन्, तृच्

सि‌.कौ.

शंसेः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तः तौ चानिटौ । शंस्ता स्तोता । शंस्तरौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदात्तेत् । वृक्ये चक्षदानमिति मन्त्रात् । उक्षाणं वा वेहतं वा क्षदन्ते इति ब्राह्मणाच्च । क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ।

मूलम्

तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ

094

विश्वास-प्रस्तुतिः

बहुलमन्यत्रापि

प्रत्ययाः

तृन्, तृच्

सि‌.कौ.

मन् । मन्ता । हन् । हन्ता । इत्यादि ।

मूलम्

बहुलमन्यत्रापि

095

विश्वास-प्रस्तुतिः

नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ

प्रत्ययाः

तृन्, तृच्

सि‌.कौ.

न पतन्त्यनेन नप्ता पौत्रो दौहित्रश्च । नयतेः पुग्गुणश्च । नेष्टा । त्विषेरितोऽत्वम् । त्वष्टा । होता । पोता ऋत्विग्भेदः । भ्राजतेर्जलोपः । भ्राता । जायां माति जामाता । मान पूजायां नलोपः । माता । पातेराकारस्य इत्वम् । पिता । दुहेस्तृच इट् गुणाभावश्च । दुहिता ।

मूलम्

नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ

096

विश्वास-प्रस्तुतिः

सुञ्यसेर्ऋन्

प्रत्ययाः

ऋन्

सि‌.कौ.

स्वसा ।

मूलम्

सुञ्यसेर्ऋन्

097

विश्वास-प्रस्तुतिः

यतेर्वृद्धिश्च

प्रत्ययाः

ऋन्

सि‌.कौ.

याता । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।

मूलम्

यतेर्वृद्धिश्च

098

विश्वास-प्रस्तुतिः

नञि च नन्देः

प्रत्ययाः

ऋन्

सि‌.कौ.

न नन्दति ननान्दा । इह वृद्धिर्नानुवर्तत इत्येके ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सेति शब्दार्णवः ।

मूलम्

नञि च नन्देः

099

विश्वास-प्रस्तुतिः

दिवेर्ऋः

प्रत्ययाः

सि‌.कौ.

देवा देवरः । स्वामिनो देवृ देवरौ ।

मूलम्

दिवेर्ऋः

100

विश्वास-प्रस्तुतिः

नयतेर्डिच्च

प्रत्ययाः

सि‌.कौ.

ना । नरौ नरः ।

मूलम्

नयतेर्डिच्च

101

विश्वास-प्रस्तुतिः

सव्ये स्थश्छन्दसि

प्रत्ययाः

सि‌.कौ.

[[8.3.97]] «अम्बाम्ब…» इत्यत्र ‘स्थास्थिन्स्थूणामुपसंख्यानम्’ । सव्येष्टा सारथिः । सव्येष्टरौ । सव्येष्टरः ।

मूलम्

सव्ये स्थश्छन्दसि

102

विश्वास-प्रस्तुतिः

अर्तिसृधृधम्यश्यवितॄभ्योऽनिः

प्रत्ययाः

अनि

सि‌.कौ.

सरणिः । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकात् रजनिः ।

मूलम्

अर्तिसृधृधम्यश्यवितॄभ्योऽनिः

103

विश्वास-प्रस्तुतिः

आङि शुषेः सनश्छन्दसि

प्रत्ययाः

अनि

सि‌.कौ.

आशुशुक्षणिरग्निर्वातश्च ।

मूलम्

आङि शुषेः सनश्छन्दसि

104

विश्वास-प्रस्तुतिः

कृषेरादेश्च चः

प्रत्ययाः

अनि

सि‌.कौ.

चर्षणिर्जनः ।

मूलम्

कृषेरादेश्च चः

105

विश्वास-प्रस्तुतिः

अदेर्मुट् च

प्रत्ययाः

अनि

सि‌.कौ.

अद्मनिरग्निः ।

मूलम्

अदेर्मुट् च

106

विश्वास-प्रस्तुतिः

वृतेश्च

प्रत्ययाः

अनि

सि‌.कौ.

वर्तनिः । गोवर्धनस्तु चकारान्मुट् वर्त्मनिरित्याह ।

मूलम्

वृतेश्च

107

विश्वास-प्रस्तुतिः

क्षिपेः किच्च

प्रत्ययाः

अनि

सि‌.कौ.

क्षिपणिरायुधम् ।

मूलम्

क्षिपेः किच्च

108

विश्वास-प्रस्तुतिः

अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः

प्रत्ययाः

इसि

सि‌.कौ.

अर्चिर्ज्वाला । इदन्तोऽप्ययम् । अग्नेर्भ्राजन्ते अर्चयः । शोचिर्दीप्तिः । हविः सर्पिः । [[6.4.97]] «इस्मन्…» इति ह्रस्वः । छदिः पटलम् । छर्दिर्वमनव्याधिः । इदन्तोऽपि । छर्द्यतीसारशूलवान् ।

मूलम्

अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः

109

विश्वास-प्रस्तुतिः

बृंहेर्नलोपश्च

प्रत्ययाः

इसि

सि‌.कौ.

बर्हिर्ना कुशशुष्मणोः ।

मूलम्

बृंहेर्नलोपश्च

110

विश्वास-प्रस्तुतिः

द्युतेरिसिन्नादेश्च जः

प्रत्ययाः

इसिन्

सि‌.कौ.

ज्योतिः ।

मूलम्

द्युतेरिसिन्नादेश्च जः

111

विश्वास-प्रस्तुतिः

वसौ रुचेः संज्ञायाम्

प्रत्ययाः

इसिन्

सि‌.कौ.

वसुरोचिर्यज्ञः ।

मूलम्

वसौ रुचेः संज्ञायाम्

112

विश्वास-प्रस्तुतिः

भुवः कित्

प्रत्ययाः

इसिन्

सि‌.कौ.

भुविः समुद्रः ।

मूलम्

भुवः कित्

113

विश्वास-प्रस्तुतिः

सहो धश्च

प्रत्ययाः

इसिन्

सि‌.कौ.

सिधिरनड्वान् ।

मूलम्

सहो धश्च

114

विश्वास-प्रस्तुतिः

पिबतेस्थुक्

प्रत्ययाः

इसिन्

सि‌.कौ.

पाथिश्चक्षुःसमुद्रयोः ।

मूलम्

पिबतेस्थुक्

115

विश्वास-प्रस्तुतिः

जनेरुसिः

प्रत्ययाः

उसि

सि‌.कौ.

जनुर्जननम् ।

मूलम्

जनेरुसिः

116

विश्वास-प्रस्तुतिः

मनेर्धश्छन्दसि

प्रत्ययाः

उसि

सि‌.कौ.

मधुः ।

मूलम्

मनेर्धश्छन्दसि

117

विश्वास-प्रस्तुतिः

अर्तिपॄवपियजितनिधनितपिभ्यो नित्

प्रत्ययाः

उसि

सि‌.कौ.

अरुः । परुर्ग्रन्थिः । वपुः । यजुः । तनुः । तनुषी । तनूंषि । धनुरस्त्रियाम् । धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति । सान्तस्य उदन्तस्य वा रूपम् । तपुः सूर्याग्निशत्रुषु ।

मूलम्

अर्तिपॄवपियजितनिधनितपिभ्यो नित्

118

विश्वास-प्रस्तुतिः

एतेर्णिच्च

प्रत्ययाः

उसि

सि‌.कौ.

आयुः । आयुषी ।

मूलम्

एतेर्णिच्च

119

विश्वास-प्रस्तुतिः

चक्षेः शिच्च

प्रत्ययाः

उसि

सि‌.कौ.

चक्षुः ।

मूलम्

चक्षेः शिच्च

120

विश्वास-प्रस्तुतिः

मुहेः किच्च

प्रत्ययाः

उसि

सि‌.कौ.

मुहुरव्ययम् ।

मूलम्

मुहेः किच्च

121

विश्वास-प्रस्तुतिः

बहुलमन्यत्रापि

प्रत्ययाः

उसि

सि‌.कौ.

आचक्षुः । परिचक्षुः ।

मूलम्

बहुलमन्यत्रापि

122

विश्वास-प्रस्तुतिः

कॄगॄशॄवृञ्चतिभ्यः ष्वरच्

प्रत्ययाः

ष्वरच्

सि‌.कौ.

कर्वरो व्याघ्ररक्षसोः । गर्वरोऽहंकारी । शर्वरी रात्रिः । वर्वरः प्राकृतो जनः । चत्वरम् ।

मूलम्

कॄगॄशॄवृञ्चतिभ्यः ष्वरच्

123

विश्वास-प्रस्तुतिः

नौ सदेः

प्रत्ययाः

ष्वरच्

सि‌.कौ.

निपद्वरस्तु जम्बालः । निपद्वरी रात्रिः

मूलम्

नौ सदेः

3

001

विश्वास-प्रस्तुतिः

छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः

प्रत्ययाः

ष्वरच्

सि‌.कौ.

एकादश प्वरच्प्रत्ययान्ता निपात्यन्ते । छिदिर् छद् अनयोस्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्तः । छत्वरो गृहकुञ्जयोः । धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकाः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणं । तीवरो जातिविशेषः । नीवरः परिव्राट् । गाहतेर्ह्रस्वत्वम् । गह्वरम् । कटे वर्षादौ । कट्वरं व्यजनम् । यमेर्दकारः । संयद्वरो नृपः । पदेः संपद्वरः इत्येके ।

मूलम्

छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः

002

विश्वास-प्रस्तुतिः

इण्सिञ्जिदीङुष्यविभ्यो नक्

प्रत्ययाः

नक्

सि‌.कौ.

इनः सूर्ये नृपे पत्यौ । सिनः काणः । जिनोऽर्हन् । दीनः । उष्णः । ऊनः ।

मूलम्

इण्सिञ्जिदीङुष्यविभ्यो नक्

003

विश्वास-प्रस्तुतिः

फेनमीनौ

प्रत्ययाः

नक्

सि‌.कौ.

एतौ निपात्येते । स्फायतेः फेनः । मीनः ।

मूलम्

फेनमीनौ

004

विश्वास-प्रस्तुतिः

कृषेर्वर्णे

प्रत्ययाः

नक्

सि‌.कौ.

कृष्णः ।

मूलम्

कृषेर्वर्णे

005

विश्वास-प्रस्तुतिः

बन्धेर्ब्रधिबुधी च

प्रत्ययाः

नक्

सि‌.कौ.

ब्रध्नः । बुध्नः ।

मूलम्

बन्धेर्ब्रधिबुधी च

006

विश्वास-प्रस्तुतिः

धापॄवस्यज्यतिभ्यो नः

प्रत्ययाः

सि‌.कौ.

धाना भ्रष्टयवे स्त्रियः । पर्णं पत्रम् । पर्णः किंशुकः । वस्नो मूल्ये वेतने च । अजेर्वी । वेनः । अत्न आदित्यः । बाहुलकात् । शृणोतेः श्रोणः पङ्गुः ।

मूलम्

धापॄवस्यज्यतिभ्यो नः

007

विश्वास-प्रस्तुतिः

लक्षेरट् च

प्रत्ययाः

सि‌.कौ.

लक्षेश्चुरादिण्यन्तान्नः स्यात्तस्याडागमश्च । चान्मुडित्येके । लक्षणं लक्ष्मणं नाम्नि चिन्हे च । लक्षणो लक्ष्मणश्च रामभ्राता । लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा ।

मूलम्

लक्षेरट् च

008

विश्वास-प्रस्तुतिः

वनेरिच्चोपधायाः

प्रत्ययाः

सि‌.कौ.

वेन्ना नदी ।

मूलम्

वनेरिच्चोपधायाः

009

विश्वास-प्रस्तुतिः

सिवेष्ठेर्यू च

प्रत्ययाः

सि‌.कौ.

दीर्घोच्चारणसामर्थ्यान्न गुणः । स्यून आदित्यः । बाहुलकात् केवलो नः । ऊठ् । अन्तरङ्गत्वाद्यण् । गुणः । स्योनः ।

मूलम्

सिवेष्ठेर्यू च

010

विश्वास-प्रस्तुतिः

कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित्

प्रत्ययाः

सि‌.कौ.

कर्णः । वर्णः । जर्णश्चन्द्रे च वृक्षे च । सेना । द्रोणः । पन्नो नीचैर्गतिः । अन्नमोदनः । स्वप्नो निद्रा ।

मूलम्

कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित्

011

विश्वास-प्रस्तुतिः

धेट इच्च

प्रत्ययाः

सि‌.कौ.

धेनः सिन्धुर्नदी धेना ।

मूलम्

धेट इच्च

012

विश्वास-प्रस्तुतिः

तृषिशुषिरसिभ्यः कित्

प्रत्ययाः

सि‌.कौ.

तृष्णा । शुष्णः सूर्यो वह्निश्च । रस्नं द्रव्यम् ।

मूलम्

तृषिशुषिरसिभ्यः कित्

013

विश्वास-प्रस्तुतिः

सुञो दीर्घश्च

प्रत्ययाः

सि‌.कौ.

सूना वधस्थानम् ।

मूलम्

सुञो दीर्घश्च

014

विश्वास-प्रस्तुतिः

रमेस्त च

प्रत्ययाः

सि‌.कौ.

रमयतीति रत्नम् ।

मूलम्

रमेस्त च

015

विश्वास-प्रस्तुतिः

रास्नासास्नास्थूणावीणाः

प्रत्ययाः

सि‌.कौ.

रास्ना गन्धद्रव्यम् । सास्ना गोगलकम्बलः । स्थूणा गृहस्तम्भः । वीणा वल्लकी ।

मूलम्

रास्नासास्नास्थूणावीणाः

016

विश्वास-प्रस्तुतिः

गादाभ्यामिष्णुच्

प्रत्ययाः

इष्णुच्

सि‌.कौ.

गेष्णुर्गायनः । देष्णुर्दाता ।

मूलम्

गादाभ्यामिष्णुच्

017

विश्वास-प्रस्तुतिः

कृत्यशूभ्यां क्स्नः

प्रत्ययाः

क्स्न

सि‌.कौ.

कृत्स्नम् । अक्ष्णमखण्डम् ।

मूलम्

कृत्यशूभ्यां क्स्नः

018

विश्वास-प्रस्तुतिः

तिजेर्दीर्घश्च

प्रत्ययाः

क्स्न

सि‌.कौ.

तीक्ष्णम् ।

मूलम्

तिजेर्दीर्घश्च

019

विश्वास-प्रस्तुतिः

श्लिषेरच्चोपधायाः

प्रत्ययाः

क्स्न

सि‌.कौ.

श्लक्ष्णम् ।

मूलम्

श्लिषेरच्चोपधायाः

020

विश्वास-प्रस्तुतिः

यजिमनिशुन्धिदसिजनिभ्यो युच्

प्रत्ययाः

युच्

सि‌.कौ.

यज्युरध्वर्युः। मन्युर्दैन्ये क्रतौ क्रुधि । शुन्ध्युरग्निः । दस्युस्तस्करः । जन्युः शरीरी ।

मूलम्

यजिमनिशुन्धिदसिजनिभ्यो युच्

021

विश्वास-प्रस्तुतिः

भुजिमृङ्भ्याम् युक्त्युकौ

प्रत्ययाः

युक्, त्युक्

सि‌.कौ.

भुज्युर्भाजनम् । मृत्युः ।

मूलम्

भुजिमृङ्भ्याम् युक्त्युकौ

022

विश्वास-प्रस्तुतिः

सर्तेरयुः

प्रत्ययाः

अयु

सि‌.कौ.

सरयुर्नदी । अयूरिति पाठान्तरम् । सरयूः ।

मूलम्

सर्तेरयुः

023

विश्वास-प्रस्तुतिः

पानीविषिभ्यः पः

प्रत्ययाः

सि‌.कौ.

पाति रक्षत्यस्मादात्मानमिति पापम् । तद्योगात्पापः । नेपः पुरोहितः । बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः । वेष्पः पानीयम् ।

मूलम्

पानीविषिभ्यः पः

024

विश्वास-प्रस्तुतिः

च्युवः किच्च

प्रत्ययाः

सि‌.कौ.

च्युपो वक्त्रम् ।

मूलम्

च्युवः किच्च

025

विश्वास-प्रस्तुतिः

स्तुवो दीर्घश्च

प्रत्ययाः

सि‌.कौ.

स्तूपः समुच्छ्रायः ।

मूलम्

स्तुवो दीर्घश्च

026

विश्वास-प्रस्तुतिः

सुशॄभ्यां निच्च

प्रत्ययाः

सि‌.कौ.

चात्कित् । सूपः । बाहुलकादूत्वम् । शूर्पम् ।

मूलम्

सुशॄभ्यां निच्च

027

विश्वास-प्रस्तुतिः

कुयुभ्यां च

प्रत्ययाः

सि‌.कौ.

कुवन्ति मन्ण्डूका अस्मिन् कूपः । युवन्ति बध्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्थम्भः ।

मूलम्

कुयुभ्यां च

028

विश्वास-प्रस्तुतिः

खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः

प्रत्ययाः

सि‌.कौ.

सप्तैते पप्रत्ययान्ता निपात्यन्ते । खनतेर्नकारस्य पत्वम् । खष्पौ क्रोधबलात्कारौ शीलतेर्ह्रस्वः । शिल्पं कौशलम् । शसु हिंसायाम् निपातनात्पत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बधतेः पः । बाष्पो नेत्रजलोष्मणोः । बाष्पं च । रौतेर्दीर्घ । रूपं स्वभावे सौन्दैर्ये । पॄ । पर्पं गृहं बालतृणं पङ्गुपीठं च । तल प्रतिष्ठाकरणे चुरादिणिचो लुक् । तल्पं शय्याट्टदारेषु ।

मूलम्

खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः

029

विश्वास-प्रस्तुतिः

स्तनिह्रुषिपुपिगदिमदिभ्यो णेरित्नुच्

प्रत्ययाः

इत्नुच्

सि‌.कौ.

’अयामन्त-२३११’ इति णेरयादेशः । स्तनयित्नुः । हर्षयित्नुः । पोपयित्नुः गदयित्नुर्वावदूकः । मदयित्नुर्मदिरा ।

मूलम्

स्तनिह्रुषिपुपिगदिमदिभ्यो णेरित्नुच्

030

विश्वास-प्रस्तुतिः

कृहनिभ्यां क्त्नुः

प्रत्ययाः

क्त्नु

सि‌.कौ.

कृत्नुः शिल्पीः । हत्नुर्व्याधिः शस्त्रं च ।

मूलम्

कृहनिभ्यां क्त्नुः

031

विश्वास-प्रस्तुतिः

गमेः सन्वच्च

प्रत्ययाः

क्त्नु

सि‌.कौ.

जिगत्नुः ।

मूलम्

गमेः सन्वच्च

032

विश्वास-प्रस्तुतिः

दाभाभ्यां नुः

प्रत्ययाः

नु

सि‌.कौ.

दानुर्द्ता । भानुः ।

मूलम्

दाभाभ्यां नुः

033

विश्वास-प्रस्तुतिः

वचेर्गश्च

प्रत्ययाः

नु

सि‌.कौ.

वग्नुः ।

मूलम्

वचेर्गश्च

034

विश्वास-प्रस्तुतिः

धेट इच्च

प्रत्ययाः

नु

सि‌.कौ.

धयति सुतानिति धेनुः ।

मूलम्

धेट इच्च

035

विश्वास-प्रस्तुतिः

सुवः कित्

प्रत्ययाः

नु

सि‌.कौ.

सूनुः पुत्रेऽनुजे रवौ ।

मूलम्

सुवः कित्

036

विश्वास-प्रस्तुतिः

जहातेर्द्वेऽन्तलोपश्च

प्रत्ययाः

नु

सि‌.कौ.

जह्नुः ।

मूलम्

जहातेर्द्वेऽन्तलोपश्च

037

विश्वास-प्रस्तुतिः

स्थो णुः

प्रत्ययाः

णु

सि‌.कौ.

स्थाणुः कीले स्थिरे हरे ।

मूलम्

स्थो णुः

038

विश्वास-प्रस्तुतिः

अजिवृरीभ्यो निच्च

प्रत्ययाः

णु

सि‌.कौ.

अजेर्वी । वेणुः । वर्णुर्नददेशभेदयोः । रेणुर्द्वयोः स्त्रियां धूलिः ।

मूलम्

अजिवृरीभ्यो निच्च

039

विश्वास-प्रस्तुतिः

विषेः किच्च

प्रत्ययाः

णु

सि‌.कौ.

विष्णुः ।

मूलम्

विषेः किच्च

040

विश्वास-प्रस्तुतिः

कृदाधारार्चिकलिभ्यः कः

प्रत्ययाः

सि‌.कौ.

बाहुलकान्न कस्येत्संज्ञा । कर्को धवलघोटकः । दाको दाता । धाकोऽनड्वानाधारश्च । राका पौर्णमासी अर्कः । कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि ।

मूलम्

कृदाधारार्चिकलिभ्यः कः

041

विश्वास-प्रस्तुतिः

सृवृभूशुषिमुषिभ्यः कक्

प्रत्ययाः

कक्

सि‌.कौ.

सृक उत्पलवातयोः । वृकः श्वापदकाकयोः । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् ।

मूलम्

सृवृभूशुषिमुषिभ्यः कक्

042

विश्वास-प्रस्तुतिः

शुकवल्कोल्काः

प्रत्ययाः

कक्

सि‌.कौ.

शुभेरन्त्यलीपः । शुकः । वल्कं वल्कलमस्त्रियाम् । उष दाहे । षस्य लः । उल्का ।

मूलम्

शुकवल्कोल्काः

043

विश्वास-प्रस्तुतिः

इण्भीकापाशल्यतिमर्चिभ्यः कन्

प्रत्ययाः

कन्

सि‌.कौ.

एके मुख्यान्यकेवलाः । भेको मण्डूकमेषयोरिति विश्वभेदिन्यौ । काकः । पाकः शिशुः । शल्कं शकलम् । अत्कः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ।

मूलम्

इण्भीकापाशल्यतिमर्चिभ्यः कन्

044

विश्वास-प्रस्तुतिः

नौ हः

प्रत्ययाः

कन्

सि‌.कौ.

जहातेः कन् स्यान्नो । निहाका गोधिका ।

मूलम्

नौ हः

045

विश्वास-प्रस्तुतिः

नौ सदेर्डिच्च

प्रत्ययाः

कन्

सि‌.कौ.

निष्कोऽस्त्री हेम्नि तत्पले ।

मूलम्

नौ सदेर्डिच्च

046

विश्वास-प्रस्तुतिः

स्यमेरीट् च

प्रत्ययाः

कन्

सि‌.कौ.

स्यमीको वल्मिकः वृक्षभेदश्च । इट्ह्रस्व इति केचित् । स्यमिकः ।

मूलम्

स्यमेरीट् च

047

विश्वास-प्रस्तुतिः

अजियुधुनीभ्यो दीर्घश्च

प्रत्ययाः

कन्

सि‌.कौ.

वीकः स्याद्वातपक्षिणोः । यूका । धूको वायुः । नीको वृक्षविशेषः ।

मूलम्

अजियुधुनीभ्यो दीर्घश्च

048

विश्वास-प्रस्तुतिः

ह्रियो रश्च लो वा

प्रत्ययाः

कन्

सि‌.कौ.

ह्रीका ह्लीका त्रपा मता ।

मूलम्

ह्रियो रश्च लो वा

049

विश्वास-प्रस्तुतिः

शकेरुनोन्तोन्त्युनयः

प्रत्ययाः

उन, उन्त, उन्ति, उनि

सि‌.कौ.

उन उन्त उन्ति उनि एते चत्वारः स्युः । शकुनः । शकुन्तः । शकुन्तिः । शकुनिः ।

मूलम्

शकेरुनोन्तोन्त्युनयः

050

विश्वास-प्रस्तुतिः

भुवो झिच्

प्रत्ययाः

झिच्

सि‌.कौ.

भवन्तिर्वर्तमानकालः । बहुलकादवेश्च । अवन्तिः । वदेर्वदन्तिः । किंवदन्ती जनश्रुतिः ।

मूलम्

भुवो झिच्

051

विश्वास-प्रस्तुतिः

कन्युच्क्षिपेश्च

प्रत्ययाः

कन्युच्

सि‌.कौ.

चाद्भुवः । क्षिपण्युर्वसन्त इत्युज्ज्वलदत्तः । भवन्युः स्वामिसूर्ययोः ।

मूलम्

कन्युच्क्षिपेश्च

052

विश्वास-प्रस्तुतिः

अनुङ्नदेश्च

प्रत्ययाः

अनुङ्

सि‌.कौ.

चात्क्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ।

मूलम्

अनुङ्नदेश्च

053

विश्वास-प्रस्तुतिः

कॄवृदारिभ्य उनन्

प्रत्ययाः

उनन्

सि‌.कौ.

करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ।

मूलम्

कॄवृदारिभ्य उनन्

054

विश्वास-प्रस्तुतिः

त्रो रश्च लो वा

प्रत्ययाः

उनन्

सि‌.कौ.

तरुणस्तलुनो युवा ।

मूलम्

त्रो रश्च लो वा

055

विश्वास-प्रस्तुतिः

क्षुधिपिशिमिथिभ्यः कित्

प्रत्ययाः

उनन्

सि‌.कौ.

क्षुधुनो म्लेच्छजातिः । पिशुनः । मिथुनम् ।

मूलम्

क्षुधिपिशिमिथिभ्यः कित्

056

विश्वास-प्रस्तुतिः

फलेर्गुक् च

प्रत्ययाः

उनन्

सि‌.कौ.

फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ।

मूलम्

फलेर्गुक् च

057

विश्वास-प्रस्तुतिः

अशेर्लशश्च

प्रत्ययाः

उनन्

सि‌.कौ.

लशुनम् ।

मूलम्

अशेर्लशश्च

058

विश्वास-प्रस्तुतिः

अर्जेर्णिलुक् च

प्रत्ययाः

उनन्

सि‌.कौ.

अर्जुनः ।

मूलम्

अर्जेर्णिलुक् च

059

विश्वास-प्रस्तुतिः

तृणाख्यायां चित्

प्रत्ययाः

उनन्

सि‌.कौ.

चित्त्वादन्तोदात्तः । अर्जुनं तृणम् ।

मूलम्

तृणाख्यायां चित्

060

विश्वास-प्रस्तुतिः

अर्तेश्च

प्रत्ययाः

उनन्

सि‌.कौ.

अरुणः ।

मूलम्

अर्तेश्च

061

विश्वास-प्रस्तुतिः

अजियमिशीङ्भ्यश्च

प्रत्ययाः

उनन्

सि‌.कौ.

वयुनं देवमन्दिरम् । यमुना । शयुनोऽजगरः ।

मूलम्

अजियमिशीङ्भ्यश्च

062

विश्वास-प्रस्तुतिः

वॄतॄवदिहनिकमिकशिभ्यः सः

प्रत्ययाः

सि‌.कौ.

वर्सः । तर्सः प्लवसमुद्रयोः । वत्सः । वत्सम् । वक्षः । हंसः । कंसोऽस्त्री पानभाजनम् । कक्षं नक्षत्रम् ।

मूलम्

वॄतॄवदिहनिकमिकशिभ्यः सः

063

विश्वास-प्रस्तुतिः

प्लुषेरच्चोपधायाः

प्रत्ययाः

सि‌.कौ.

प्लक्षः ।

मूलम्

प्लुषेरच्चोपधायाः

064

विश्वास-प्रस्तुतिः

मनेर्दीर्घश्च

प्रत्ययाः

सि‌.कौ.

मांसम् ।

मूलम्

मनेर्दीर्घश्च

065

विश्वास-प्रस्तुतिः

अशेर्देवने

प्रत्ययाः

सि‌.कौ.

अक्षः ।

मूलम्

अशेर्देवने

066

विश्वास-प्रस्तुतिः

स्नुव्रश्चिकृत्यृषिभ्यः कित्

प्रत्ययाः

सि‌.कौ.

स्नुषा । वृक्षः । कुत्समुदकम् । ऋक्षं नक्षत्रम् ।

मूलम्

स्नुव्रश्चिकृत्यृषिभ्यः कित्

067

विश्वास-प्रस्तुतिः

ऋषेर्जातौ

प्रत्ययाः

सि‌.कौ.

ऋक्षोऽद्रिभेदे भल्लूके इति च ।

मूलम्

ऋषेर्जातौ

068

विश्वास-प्रस्तुतिः

उन्दिगुथिकुषिभ्यश्च

प्रत्ययाः

सि‌.कौ.

उत्सः प्रस्रवणम् । गुत्सः स्तबकः । उक्षो जठरम् ।

मूलम्

उन्दिगुथिकुषिभ्यश्च

069

विश्वास-प्रस्तुतिः

गृधिपण्योर्दकौ च

प्रत्ययाः

सि‌.कौ.

गुत्सः कामदेवः । पक्षः ।

मूलम्

गृधिपण्योर्दकौ च

070

विश्वास-प्रस्तुतिः

अशेः सरः

प्रत्ययाः

सर

सि‌.कौ.

अक्षरम् ।

मूलम्

अशेः सरः

071

विश्वास-प्रस्तुतिः

वसेश्च

प्रत्ययाः

सर

सि‌.कौ.

वत्सरः ।

मूलम्

वसेश्च

072

विश्वास-प्रस्तुतिः

सपूर्वाच्चित्

प्रत्ययाः

सर

सि‌.कौ.

संवत्सरः ।

मूलम्

सपूर्वाच्चित्

073

विश्वास-प्रस्तुतिः

कृधूमधिभ्यः कित्

प्रत्ययाः

सर

सि‌.कौ.

बाहुलकान्न षत्वम् । कृसरः स्यात्तिलौदनम् । धूसरः । मत्सरः । मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता ।

मूलम्

कृधूमधिभ्यः कित्

074

विश्वास-प्रस्तुतिः

पते रश्च लः

प्रत्ययाः

सर

सि‌.कौ.

पत्सलः पन्थाः ।

मूलम्

पते रश्च लः

075

विश्वास-प्रस्तुतिः

तन्यृषिभ्यां क्सरन्

प्रत्ययाः

क्सरन्

सि‌.कौ.

तसरः सूत्रवेष्टने । ऋक्षरः ऋत्विक् ।

मूलम्

तन्यृषिभ्यां क्सरन्

076

विश्वास-प्रस्तुतिः

पीयुक्कणिभ्यां कालन् ह्रस्वः संप्रसारणं च

प्रत्ययाः

कालन्

सि‌.कौ.

पीयुः सौत्रः । पियालो वृक्षभेदः । कुणालो देशभेदः ।

मूलम्

पीयुक्कणिभ्यां कालन् ह्रस्वः संप्रसारणं च

077

विश्वास-प्रस्तुतिः

कटिकुषिभ्यां काकुः

प्रत्ययाः

काकु

सि‌.कौ.

कटाकुः पक्षी । कुषाकुरग्निः सूर्यश्च ।

मूलम्

कटिकुषिभ्यां काकुः

078

विश्वास-प्रस्तुतिः

सर्तेर्दुक् च

प्रत्ययाः

काकु

सि‌.कौ.

सृदाकुर्वातसरितोः ।

मूलम्

सर्तेर्दुक् च

079

विश्वास-प्रस्तुतिः

वृतेर्वृद्धिश्च

प्रत्ययाः

काकु

सि‌.कौ.

वार्ताकुः । बाहुलकादुकारस्य अत्वम् । वार्ताकम् ।

मूलम्

वृतेर्वृद्धिश्च

080

विश्वास-प्रस्तुतिः

पर्देर्नित्संप्रसारणमल्लोपश्च

प्रत्ययाः

काकु

सि‌.कौ.

पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे ।

मूलम्

पर्देर्नित्संप्रसारणमल्लोपश्च

081

विश्वास-प्रस्तुतिः

सृयुवचिभ्योऽन्युजागूजक्नुचः

प्रत्ययाः

अन्युच्, आगूच्, अक्नुच्

सि‌.कौ.

अन्युच् आगूच् अक्नुच् एते क्रमात्स्युः सरण्युर्मेघवातयोः । यवागूः । वचक्नुर्विप्रवाग्मिनोः ।

मूलम्

सृयुवचिभ्योऽन्युजागूजक्नुचः

082

विश्वास-प्रस्तुतिः

आनकः शीङ्भियः

प्रत्ययाः

आनक

सि‌.कौ.

शयानकोऽजगरः । भयानकः ।

मूलम्

आनकः शीङ्भियः

083

विश्वास-प्रस्तुतिः

आणको लुधुशिघिधाञ्भ्यः

प्रत्ययाः

आणक

सि‌.कौ.

लवाणकं दात्रम् । धवानको वातः । शिङ्घाणकः श्लेष्मा । पृषोदरादित्वात्पक्षे कलोपः । शिङ्घाणं नासिकामले । धाणको दीनारभागः ।

मूलम्

आणको लुधुशिघिधाञ्भ्यः

084

विश्वास-प्रस्तुतिः

उल्मुकदर्विहोमिनः

प्रत्ययाः

मुक्, अवि, मिन्

सि‌.कौ.

उष दाहे । षस्य लः मुकप्रत्ययश्च । उल्मुकं ज्वलदङ्गारम् । दृणातेर्विः । दर्विः । जुहोतेर्मिनिः । होमी ।

मूलम्

उल्मुकदर्विहोमिनः

085

विश्वास-प्रस्तुतिः

ह्रियः कुक् रश्च लो वा

प्रत्ययाः

कुक्

सि‌.कौ.

ह्राकुः । ह्रीकुर्लज्जावान् ।

मूलम्

ह्रियः कुक् रश्च लो वा

086

विश्वास-प्रस्तुतिः

हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन्

प्रत्ययाः

तन्

सि‌.कौ.

दशभ्यस्तन् स्यात् । [[7.2.9]] «तितुत्र …» इति नेट् । हस्तः । मर्तः । गर्तः । एतः कुर्बरः । वातः । दन्तः । अन्तः । लोतः स्यादश्रुचिह्नयोः । पोतो बालवहित्रयोः । धूर्तः । बाहुलकात्तु सेर्दीर्घश्च । तूस्तं पापं । धूलिर्जटा च ।

मूलम्

हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन्

087

विश्वास-प्रस्तुतिः

नञ्याप इट् च

प्रत्ययाः

तन्

सि‌.कौ.

नापितः ।

मूलम्

नञ्याप इट् च

088

विश्वास-प्रस्तुतिः

तनिमृङ्भ्यां किच्च

प्रत्ययाः

तन्

सि‌.कौ.

ततम् । मृतम् ।

मूलम्

तनिमृङ्भ्यां किच्च

089

विश्वास-प्रस्तुतिः

अञ्जिघृसिभ्यः क्तः

प्रत्ययाः

क्त

सि‌.कौ.

अक्तम् । घृतम् । सितम् ।

मूलम्

अञ्जिघृसिभ्यः क्तः

090

विश्वास-प्रस्तुतिः

दुतनिभ्यां दीर्घश्च

प्रत्ययाः

क्त

सि‌.कौ.

दूतः । तातः ।

मूलम्

दुतनिभ्यां दीर्घश्च

091

विश्वास-प्रस्तुतिः

जेर्मुट् चोदात्तः

प्रत्ययाः

क्त

सि‌.कौ.

जीमूतः ।

मूलम्

जेर्मुट् चोदात्तः

092

विश्वास-प्रस्तुतिः

लोष्टपलितौ

प्रत्ययाः

क्त

सि‌.कौ.

लुनातेः क्तः तस्य सुट् धातोर्गुणः । लोष्टम् । पलितम् ।

मूलम्

लोष्टपलितौ

093

विश्वास-प्रस्तुतिः

हृश्याभ्यामितन्

प्रत्ययाः

इतन्

सि‌.कौ.

हरितश्येतौ वर्णभेदौ ।

मूलम्

हृश्याभ्यामितन्

094

विश्वास-प्रस्तुतिः

रुहे रश्च लो वा

प्रत्ययाः

इतन्

सि‌.कौ.

रोहितो मृगमत्स्ययोः । लोहितं रक्तम् ।

मूलम्

रुहे रश्च लो वा

095

विश्वास-प्रस्तुतिः

पिशेः किच्च

प्रत्ययाः

इतन्

सि‌.कौ.

पिशितं मांसम् ।

मूलम्

पिशेः किच्च

096

विश्वास-प्रस्तुतिः

श्रुदक्षिस्पृहिगृहिभ्य आय्यः

प्रत्ययाः

आय्य

सि‌.कौ.

श्रवाय्यो यज्ञपशुः । दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहस्वामी ।

मूलम्

श्रुदक्षिस्पृहिगृहिभ्य आय्यः

097

विश्वास-प्रस्तुतिः

दिधिषाय्यः

प्रत्ययाः

आय्य

सि‌.कौ.

दधातेर्द्वित्वमित्वं षुक् च । मित्र इव यो दिधिषाय्यः ।

मूलम्

दिधिषाय्यः

098

विश्वास-प्रस्तुतिः

वृञ एण्यः

प्रत्ययाः

एण्य

सि‌.कौ.

वरेण्यः ।

मूलम्

वृञ एण्यः

099

विश्वास-प्रस्तुतिः

स्तुवः क्सेय्यश्छन्दसि

प्रत्ययाः

क्सेय्य

सि‌.कौ.

स्तुषेय्यं पुरुवर्पसम् ।

मूलम्

स्तुवः क्सेय्यश्छन्दसि

100

विश्वास-प्रस्तुतिः

राजेरन्यः

प्रत्ययाः

अन्य

सि‌.कौ.

राजन्यो वह्निः ।

मूलम्

राजेरन्यः

101

विश्वास-प्रस्तुतिः

शॄरम्योश्च

प्रत्ययाः

अन्य

सि‌.कौ.

शरण्यम् । रमण्यम् ।

मूलम्

शॄरम्योश्च

102

विश्वास-प्रस्तुतिः

अर्तेर्निच्च

प्रत्ययाः

अन्य

सि‌.कौ.

अरण्यम् ।

मूलम्

अर्तेर्निच्च

103

विश्वास-प्रस्तुतिः

पर्जन्यः

प्रत्ययाः

अन्य

सि‌.कौ.

पृषु सेचने । षस्य जः । पर्जन्यः शक्रमेघयोः ।

मूलम्

पर्जन्यः

104

विश्वास-प्रस्तुतिः

वदेरान्यः

प्रत्ययाः

आन्य

सि‌.कौ.

वदान्यस्त्यागिवाग्मिनोः ।

मूलम्

वदेरान्यः

105

विश्वास-प्रस्तुतिः

अमिनक्षियजिवधिपतिभ्योऽत्रन्

प्रत्ययाः

अत्रन्

सि‌.कौ.

अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं च तनूरुहम् ।

मूलम्

अमिनक्षियजिवधिपतिभ्योऽत्रन्

106

विश्वास-प्रस्तुतिः

गडेरादेश्च कः

प्रत्ययाः

अत्रन्

सि‌.कौ.

कडत्रम् । डलयोरेकत्वस्मरणात् कलत्रम् ।

मूलम्

गडेरादेश्च कः

107

विश्वास-प्रस्तुतिः

वृञश्चित्

प्रत्ययाः

अत्रन्

सि‌.कौ.

वरत्रा चर्ममयी रज्जुः ।

मूलम्

वृञश्चित्

108

विश्वास-प्रस्तुतिः

सुविदेः कत्रः

प्रत्ययाः

कत्र

सि‌.कौ.

सुविदत्रं कुटुम्बकम् ।

मूलम्

सुविदेः कत्रः

109

विश्वास-प्रस्तुतिः

कृतेर्नुम् च

प्रत्ययाः

कत्र

सि‌.कौ.

कृन्तत्रं लाङ्लम् ।

मूलम्

कृतेर्नुम् च

110

विश्वास-प्रस्तुतिः

भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच्

प्रत्ययाः

अतच्

सि‌.कौ.

दशभ्योऽतच्स्यात् । भरतः । मनतो मृत्युः । दर्शत सोमसूर्ययोः । यजतः ऋत्विक् । पर्वतः । पचतोऽग्निः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्णः । हर्यतोऽश्वः ।

मूलम्

भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच्

111

विश्वास-प्रस्तुतिः

पृषिरञ्जिभ्यां कित्

प्रत्ययाः

अतच्

सि‌.कौ.

पृषतो मृगो बिन्दुश्च । रजतम् ।

मूलम्

पृषिरञ्जिभ्यां कित्

112

विश्वास-प्रस्तुतिः

खलतिः

प्रत्ययाः

अतच्

सि‌.कौ.

खलतेः सलोपः अतच्प्रत्ययान्तस्य इत्वं च । खलतिर्निष्केशशिराः ।

मूलम्

खलतिः

113

विश्वास-प्रस्तुतिः

शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः

प्रत्ययाः

अथ

सि‌.कौ.

सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः । गमथः पथिकः पन्थाश्च । वञ्चथो धूर्तः । वन्दीति पाठे वन्द्यते वा वन्दथः स्तोता स्तुत्यश्च । जीवथ आयुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिदमिभ्याम् । शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।

मूलम्

शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः

114

विश्वास-प्रस्तुतिः

भृञश्चित्

प्रत्ययाः

अथ

सि‌.कौ.

भरथो लोकपालः ।

मूलम्

भृञश्चित्

115

विश्वास-प्रस्तुतिः

रुदिविदिभ्यां ङित्

प्रत्ययाः

अथ

सि‌.कौ.

रोदितीति रुदथः शिशुः । वेत्तीति विदथः ।

मूलम्

रुदिविदिभ्यां ङित्

116

विश्वास-प्रस्तुतिः

उपसर्गे वसेः

प्रत्ययाः

अथ

सि‌.कौ.

आवसथो गृहम् । संवसथो ग्रामः ।

मूलम्

उपसर्गे वसेः

117

विश्वास-प्रस्तुतिः

अत्यविचमितमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच्

प्रत्ययाः

असच्

सि‌.कौ.

त्रयोदशभ्योऽसच् स्यात् । अततीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमत्यस्मिन् चमसः सोमपानपात्रम् । ताम्यत्यस्मिन् तमसोऽन्धकारः । नमसः अनुकूलः । रभसो वेगहर्षयोः । लभसो धनं याचकश्च । नभति नभ्यति वा नभस आकाशः । तपसः पक्षी चन्द्रश्च । पतसः पक्षी । पनसः कन्टकिफलः । पणसः पण्यद्रव्यम् । महसं ज्ञानम् ।

मूलम्

अत्यविचमितमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच्

118

विश्वास-प्रस्तुतिः

वेञस्तुट् च

प्रत्ययाः

असच्

सि‌.कौ.

बाहुलकादात्वाभावः । वेतसः ।

मूलम्

वेञस्तुट् च

119

विश्वास-प्रस्तुतिः

वहियुभ्यां णित्

प्रत्ययाः

असच्

सि‌.कौ.

वाहसोऽजगरः । यावसस्तृणसङ्घातः ।

मूलम्

वहियुभ्यां णित्

120

विश्वास-प्रस्तुतिः

वयश्च

प्रत्ययाः

असच्

सि‌.कौ.

वय गतौ । वायसः काकः ।

मूलम्

वयश्च

121

विश्वास-प्रस्तुतिः

दिवः कित्

प्रत्ययाः

असच्

सि‌.कौ.

दिवसम् । दिवसः ।

मूलम्

दिवः कित्

122

विश्वास-प्रस्तुतिः

कॄशॄशलिकलिगर्दिभ्योऽभच्

प्रत्ययाः

अभच्

सि‌.कौ.

करभः । शरभः । शलभः । कलभः । गर्दभः ।

मूलम्

कॄशॄशलिकलिगर्दिभ्योऽभच्

123

विश्वास-प्रस्तुतिः

ऋषिवृषिभ्यां कित्

प्रत्ययाः

अभच्

सि‌.कौ.

ऋषभः । वृषभः ।

मूलम्

ऋषिवृषिभ्यां कित्

124

विश्वास-प्रस्तुतिः

रुषेर्निलुष् च

प्रत्ययाः

अभच्

सि‌.कौ.

रुष हिंसायाम् । अस्मादभच् नित्कित्स्यात लुषादेशश्च । लुषभो मत्तदन्तिनि ।

मूलम्

रुषेर्निलुष् च

125

विश्वास-प्रस्तुतिः

रासिवल्लिभ्यां च

प्रत्ययाः

अभच्

सि‌.कौ.

रासभः । वल्लभः ।

मूलम्

रासिवल्लिभ्यां च

126

विश्वास-प्रस्तुतिः

जॄविशिभ्यां झच्

प्रत्ययाः

झच्

सि‌.कौ.

जरन्तो महिषः । वेशन्तः पल्वलम् ।

मूलम्

जॄविशिभ्यां झच्

127

विश्वास-प्रस्तुतिः

रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि

प्रत्ययाः

झच्

सि‌.कौ.

रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जीवन्त औषधम् । प्राणन्तो वायुः । षित्वान्ङीष् । रोहन्ती ।

मूलम्

रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि

128

विश्वास-प्रस्तुतिः

तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च

प्रत्ययाः

झच्

सि‌.कौ.

दशभ्यो झच् स्यात्स च षित् । तरन्तः समुद्रः । तरन्ती नौक । भवन्तः कालः । वहन्तो वायुः । वसन्तः ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटादित्वान्मित्त्वं ह्रस्वः । [[6.4.55]] «अयामन्ता…» इति णेरयः । गण्डयन्तो जलदः । मण्डयन्तो भूषणम् । जयन्तः शक्रपुत्रः । नन्दयन्तो नन्दकः ।

मूलम्

तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च

129

विश्वास-प्रस्तुतिः

हन्तेर्मुट् हि च

प्रत्ययाः

झच्

सि‌.कौ.

हेमन्तः ।

मूलम्

हन्तेर्मुट् हि च

130

विश्वास-प्रस्तुतिः

भन्देर्नलोपश्च

प्रत्ययाः

झच्

सि‌.कौ.

भदन्तः प्रव्रजितः ।

मूलम्

भन्देर्नलोपश्च

131

विश्वास-प्रस्तुतिः

ऋच्छेररः

प्रत्ययाः

अर

सि‌.कौ.

ऋच्छरा वेश्या । बाहुलकाज्जर्जरझर्झरादयः ।

मूलम्

ऋच्छेररः

132

विश्वास-प्रस्तुतिः

अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित्

प्रत्ययाः

अर

सि‌.कौ.

षड्भ्योऽरश्चित् स्यात् । अररं कपाटम् । कमरः कामुकः । भ्रमरः । चमरः । देवरः । वासरः ।

मूलम्

अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित्

133

विश्वास-प्रस्तुतिः

कुवः क्ररन्

प्रत्ययाः

क्ररन्

सि‌.कौ.

कुररः पक्षिभेदः ।

मूलम्

कुवः क्ररन्

134

विश्वास-प्रस्तुतिः

अङ्गिमदिमन्दिभ्य आरन्

प्रत्ययाः

आरन्

सि‌.कौ.

अङ्गारः । मदारो वराहः । मन्दारः ।

मूलम्

अङ्गिमदिमन्दिभ्य आरन्

135

विश्वास-प्रस्तुतिः

गडेः कड च

प्रत्ययाः

आरन्

सि‌.कौ.

कडारः ।

मूलम्

गडेः कड च

136

विश्वास-प्रस्तुतिः

शृङ्गारभृङ्गारौ

प्रत्ययाः

आरन्

सि‌.कौ.

शॄभृञ्भ्यामारन्नुम् गुक् ह्रस्वश्च । शृङ्गारो रसः । भृङ्गारः कनकालुका ।

मूलम्

शृङ्गारभृङ्गारौ

137

विश्वास-प्रस्तुतिः

कञ्जिमृजिभ्यां चित्

प्रत्ययाः

आरन्

सि‌.कौ.

कञ्जिः सौत्रो धातुः । कञ्जारो मयूरः । मार्जारः ।

मूलम्

कञ्जिमृजिभ्यां चित्

138

विश्वास-प्रस्तुतिः

कमेः किदुच्चोपधायाः

प्रत्ययाः

आरन्

सि‌.कौ.

चिदित्यनुवृत्तेरन्तोदात्तः । कुमारः ।

मूलम्

कमेः किदुच्चोपधायाः

139

विश्वास-प्रस्तुतिः

तुषारादयश्च

प्रत्ययाः

आरन्

सि‌.कौ.

तुषारः । कासारः । सहार आम्रभेदः ।

मूलम्

तुषारादयश्च

140

विश्वास-प्रस्तुतिः

दीङो नुट् च

प्रत्ययाः

आरन्

सि‌.कौ.

दीनारः सुवर्णाभरणम् ।

मूलम्

दीङो नुट् च

141

विश्वास-प्रस्तुतिः

सर्तेरपः षुक् च

प्रत्ययाः

अप

सि‌.कौ.

सर्षपः ।

मूलम्

सर्तेरपः षुक् च

142

विश्वास-प्रस्तुतिः

उषिकुटिदलिकचिखजिभ्यः कपन्

प्रत्ययाः

कपन्

सि‌.कौ.

उषपो वह्निसूर्ययोः । कुटपो मानभाण्डम् । दलपः प्रहरणम् । कचपं शाकपत्रम् । खजपं घृतम् ।

मूलम्

उषिकुटिदलिकचिखजिभ्यः कपन्

143

विश्वास-प्रस्तुतिः

क्वणेः संप्रसारणं च

प्रत्ययाः

कपन्

सि‌.कौ.

कुणपम् ।

मूलम्

क्वणेः संप्रसारणं च

144

विश्वास-प्रस्तुतिः

कपश्चाक्रवर्मणस्य

प्रत्ययाः

कप

सि‌.कौ.

स्वरे भेदः ।

मूलम्

कपश्चाक्रवर्मणस्य

145

विश्वास-प्रस्तुतिः

विटपपिष्टपविशिपोलपाः

प्रत्ययाः

कप

सि‌.कौ.

चत्वारोऽमी कपन् प्रत्ययान्ताः । विट शब्दे । विटपः । विशतेरादेः पः । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्वम् । विशिपं मन्दिरम् । वलतेः संप्रसारणम् । उलपं कोमलं तृणम् ।

मूलम्

विटपपिष्टपविशिपोलपाः

146

विश्वास-प्रस्तुतिः

वृतेस्तिकन्

प्रत्ययाः

तिकन्

सि‌.कौ.

वर्तिका ।

मूलम्

वृतेस्तिकन्

147

विश्वास-प्रस्तुतिः

कृतिभिदिलतिभ्यः कित्

प्रत्ययाः

तिकन्

सि‌.कौ.

कृत्तिका भित्तिका भित्तिः । लत्तिका गोधा ।

मूलम्

कृतिभिदिलतिभ्यः कित्

148

विश्वास-प्रस्तुतिः

इष्यशिभ्यां तकन्

प्रत्ययाः

तकन्

सि‌.कौ.

इष्टका । अष्टका ।

मूलम्

इष्यशिभ्यां तकन्

149

विश्वास-प्रस्तुतिः

इणस्तशन्तशसुनौ

प्रत्ययाः

तशन्, तशसुन्

सि‌.कौ.

एतशो ब्राह्मणः । स एव एतशाः ।

मूलम्

इणस्तशन्तशसुनौ

150

विश्वास-प्रस्तुतिः

वीपतिभ्यां तनन्

प्रत्ययाः

तनन्

सि‌.कौ.

वी गत्यादौ । वेतनम् । पत्तनम् ।

मूलम्

वीपतिभ्यां तनन्

151

विश्वास-प्रस्तुतिः

दॄदलिभ्यां भः

प्रत्ययाः

सि‌.कौ.

दर्भः । ’दल्भः स्यादृषिचक्रयोः’ ।

मूलम्

दॄदलिभ्यां भः

152

विश्वास-प्रस्तुतिः

अर्तिगॄभ्यां भन्

प्रत्ययाः

भन्

सि‌.कौ.

अर्भः । गर्भः ।

मूलम्

अर्तिगॄभ्यां भन्

153

विश्वास-प्रस्तुतिः

इणः कित्

प्रत्ययाः

भन्

सि‌.कौ.

इभः ।

मूलम्

इणः कित्

154

विश्वास-प्रस्तुतिः

असिसञ्जिभ्यां क्थिन्

प्रत्ययाः

क्थिन्

सि‌.कौ.

अस्थि । सक्थि ।

मूलम्

असिसञ्जिभ्यां क्थिन्

155

विश्वास-प्रस्तुतिः

प्लुषिकुषिशुषिभ्यः क्सिः

प्रत्ययाः

क्सि

सि‌.कौ.

प्लुक्षिर्वह्निः । कुक्षिः । शुक्षिर्वातः ।

मूलम्

प्लुषिकुषिशुषिभ्यः क्सिः

156

विश्वास-प्रस्तुतिः

अशेर्नित्

प्रत्ययाः

क्सि

सि‌.कौ.

अक्षि ।

मूलम्

अशेर्नित्

157

विश्वास-प्रस्तुतिः

इषेः क्सुः

प्रत्ययाः

क्सु

सि‌.कौ.

इक्षुः ।

मूलम्

इषेः क्सुः

158

विश्वास-प्रस्तुतिः

अवितॄस्तॄतन्त्रिभ्यः ईः

प्रत्ययाः

सि‌.कौ.

अवीर्नारी रजस्वला । तरीर्नौः । स्तरीर्धूमः । तन्त्रीर्वीणादेर्गुणः ।

मूलम्

अवितॄस्तॄतन्त्रिभ्यः ईः

159

विश्वास-प्रस्तुतिः

यापोः किद्द्वे च

प्रत्ययाः

सि‌.कौ.

ययीरश्वः । पपीः स्यात्सोमसूर्ययोः ।

मूलम्

यापोः किद्द्वे च

160

विश्वास-प्रस्तुतिः

लक्षेर्मुट् च

प्रत्ययाः

सि‌.कौ.

लक्ष्मीः

मूलम्

लक्षेर्मुट् च

4

001

विश्वास-प्रस्तुतिः

वातप्रमीः

प्रत्ययाः

सि‌.कौ.

वातशब्दे उपपदे माधातोरीप्रत्ययः स च कित् । वातप्रमीः

मूलम्

वातप्रमीः

002

विश्वास-प्रस्तुतिः

ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः

प्रत्ययाः

कत्निच्, यतुच्, अलिच्, इष्ठुच्, इष्ठच्, इसन्, स्यन्, इथिन्, उलि, अस् , आस्, आनुक्

सि‌.कौ.

द्वादशभ्यः क्रमात्स्युः । अर्तेः कत्निच् यण् । बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताङ्गुलिः । तनोतेर्यतुच् । तन्यतुर्वायू रात्रिश्च । अञ्जेरलिच् । अञ्जलिः । वनेरिष्ठुच् । वनिष्ठुः स्थविरान्त्रम् । अञ्जेरिष्ठच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽग्रमांसम् । मदेः स्यन् । मत्स्यः । अतेरिथिन् । अतिथिः । अङ्गेरुलिः । अङ्गुलिः । कौतेरसः । कवसः । अच इत्येके । कवचम् । यौतेरासः । यवासो दुरालभा । कृशेरानुक् । कृशानुः ।

मूलम्

ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः

003

विश्वास-प्रस्तुतिः

श्रः करन्

प्रत्ययाः

करन्

सि‌.कौ.

उत्तरसूत्रे किद्ग्रहणादिह ककारस्य नेत्वम् । शर्करा ।

मूलम्

श्रः करन्

004

विश्वास-प्रस्तुतिः

पुषः कित्

प्रत्ययाः

करन्

सि‌.कौ.

पुष्करम् ।

मूलम्

पुषः कित्

005

विश्वास-प्रस्तुतिः

कलश्च

प्रत्ययाः

कल

सि‌.कौ.

पुष्कलम् ।

मूलम्

कलश्च

006

विश्वास-प्रस्तुतिः

गमेरिनिः

प्रत्ययाः

इनि

सि‌.कौ.

गमिष्यतीति गमी ।

मूलम्

गमेरिनिः

007

विश्वास-प्रस्तुतिः

आङि णित्

प्रत्ययाः

इनि

सि‌.कौ.

आगामी ।

मूलम्

आङि णित्

008

विश्वास-प्रस्तुतिः

भुवश्च

प्रत्ययाः

इनि

सि‌.कौ.

भावी ।

मूलम्

भुवश्च

009

विश्वास-प्रस्तुतिः

प्रे स्थः

प्रत्ययाः

इनि

सि‌.कौ.

प्रस्थायी ।

मूलम्

प्रे स्थः

010

विश्वास-प्रस्तुतिः

परमे कित्

प्रत्ययाः

इनि

सि‌.कौ.

परमेष्ठी ।

मूलम्

परमे कित्

011

विश्वास-प्रस्तुतिः

मन्थः

प्रत्ययाः

इनि

सि‌.कौ.

मन्थतेरिनिः कित्स्यात् । कित्त्वान्नकारलोपः । मन्थाः मन्थानौ मन्थानः ।

मूलम्

मन्थः

012

विश्वास-प्रस्तुतिः

पतः स्थ च

प्रत्ययाः

इनि

सि‌.कौ.

पन्थाः । पन्थानौ ।

मूलम्

पतः स्थ च

013

विश्वास-प्रस्तुतिः

खजेराकः

प्रत्ययाः

आक

सि‌.कौ.

खजाकः पक्षी ।

मूलम्

खजेराकः

014

विश्वास-प्रस्तुतिः

बलाकादयश्च

प्रत्ययाः

आक

सि‌.कौ.

बलाका । शलाका । पताका ।

मूलम्

बलाकादयश्च

015

विश्वास-प्रस्तुतिः

पिनाकादयश्च

प्रत्ययाः

आक

सि‌.कौ.

पातेरित्वम् नुम् च । क्लीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः । तड आघाते । तडाकः ।

मूलम्

पिनाकादयश्च

016

विश्वास-प्रस्तुतिः

कषिदूषिभ्यामीकन्

प्रत्ययाः

ईकन्

सि‌.कौ.

कषिका पक्षिजातिः । दूषिका नेत्रयोर्मलम् ।

मूलम्

कषिदूषिभ्यामीकन्

017

विश्वास-प्रस्तुतिः

अनिहृषिभ्याम् किच्च

प्रत्ययाः

ईकन्

सि‌.कौ.

अनीकम् । हृषीकम् ।

मूलम्

अनिहृषिभ्याम् किच्च

018

विश्वास-प्रस्तुतिः

चङ्कणः कङ्कणश्च

प्रत्ययाः

ईकन्

सि‌.कौ.

कण शब्दे । अस्माद्यङ्लुगन्तादीकन् धातोः कङ्कणादेशश्च । घन्टिकायां कङ्कणीका सैव प्रतिसरापि च ।

मूलम्

चङ्कणः कङ्कणश्च

019

विश्वास-प्रस्तुतिः

शॄपॄवृञां द्वेरुक् चाभ्यासश्च

प्रत्ययाः

ईकन्

सि‌.कौ.

शर्करीको हिंस्रः । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेशः ।

मूलम्

शॄपॄवृञां द्वेरुक् चाभ्यासश्च

020

विश्वास-प्रस्तुतिः

पर्फरीकादयश्च

प्रत्ययाः

ईकन्

सि‌.कौ.

स्फुर स्फुरणे अस्मादीकन् धातोः पर्फरादेशः । पर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झर्झरीकं शरीरम् । तित्तिडीको वृषभेदः । <= चरेर्नुम् च => (गणसूत्रम् 199) । चञ्चरीको भ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका । पुणतेः । पुन्डरीकं वादित्रम् । पुन्डरीको व्याघ्रोऽग्निर्दिग्गजश्च ।

मूलम्

पर्फरीकादयश्च

021

विश्वास-प्रस्तुतिः

ईषः किद्ध्रस्वश्च

प्रत्ययाः

ईकन्

सि‌.कौ.

इषीका शलाका ।

मूलम्

ईषः किद्ध्रस्वश्च

022

विश्वास-प्रस्तुतिः

ऋजेश्च

प्रत्ययाः

ईकन्

सि‌.कौ.

ऋजिकः उपहतः ।

मूलम्

ऋजेश्च

023

विश्वास-प्रस्तुतिः

सर्तेर्नुम् च

प्रत्ययाः

ईकन्

सि‌.कौ.

सृणिका लाला ।

मूलम्

सर्तेर्नुम् च

024

विश्वास-प्रस्तुतिः

मृडः कीकच्कङ्कणौ

प्रत्ययाः

कीकच्, कङ्कण

सि‌.कौ.

मृडीको मृगः । मृडङ्कणः शिशुः ।

मूलम्

मृडः कीकच्कङ्कणौ

025

विश्वास-प्रस्तुतिः

अलीकादयश्च

प्रत्ययाः

कीकच्

सि‌.कौ.

कीकजन्ता निपात्यन्ते । अल भूषणादौ । अलीकं मिथ्या । विपूर्वाद्व्यलीकं विप्रियं खेदश्च । वलीकं पटलप्रान्ते इत्यादि ।

मूलम्

अलीकादयश्च

026

विश्वास-प्रस्तुतिः

कॄतॄभ्यामीषन्

प्रत्ययाः

ईषन्

सि‌.कौ.

करीषोऽस्त्री शुष्कगोमये । करीषः तरीता ।

मूलम्

कॄतॄभ्यामीषन्

027

विश्वास-प्रस्तुतिः

शॄपॄभ्यां किच्च

प्रत्ययाः

ईषन्

सि‌.कौ.

शिरीषः । पुरीषम् ।

मूलम्

शॄपॄभ्यां किच्च

028

विश्वास-प्रस्तुतिः

अर्जेर्ऋज च

प्रत्ययाः

ईषन्

सि‌.कौ.

ऋजीषं पिष्टपचनम् ।

मूलम्

अर्जेर्ऋज च

029

विश्वास-प्रस्तुतिः

अम्बरीषः

प्रत्ययाः

ईषन्

सि‌.कौ.

अयं निपात्यते । अबि शब्दे । अम्बरीषः पुमान् भाष्ट्रम् ।

मूलम्

अम्बरीषः

030

विश्वास-प्रस्तुतिः

कॄशॄपॄकटिपटिशौटिभ्य ईरन्

प्रत्ययाः

ईरन्

सि‌.कौ.

करीरो वंशाङ्कुरः । शरीरम् । परीरम् । फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कन्टकः कामश्च । शौटीरस्त्यागिवीरयोः ब्राह्म्णादित्वात् ष्यञ् । शौटीर्यम् ।

मूलम्

कॄशॄपॄकटिपटिशौटिभ्य ईरन्

031

विश्वास-प्रस्तुतिः

वशेः कित्

प्रत्ययाः

ईरन्

सि‌.कौ.

वशीरम् ।

मूलम्

वशेः कित्

032

विश्वास-प्रस्तुतिः

कशेर्मुट् च

प्रत्ययाः

ईरन्

सि‌.कौ.

काश्मीरो देशः ।

मूलम्

कशेर्मुट् च

033

विश्वास-प्रस्तुतिः

कृञ उच्च

प्रत्ययाः

ईरन्

सि‌.कौ.

कुरीरं मैथुनम् ।

मूलम्

कृञ उच्च

034

विश्वास-प्रस्तुतिः

घसेः किश्च

प्रत्ययाः

ईरन्

सि‌.कौ.

क्षीरम् ।

मूलम्

घसेः किश्च

035

विश्वास-प्रस्तुतिः

गभीरगम्भीरौ

प्रत्ययाः

ईरन्

सि‌.कौ.

गभेर्भः पक्षे नुम् च ।

मूलम्

गभीरगम्भीरौ

036

विश्वास-प्रस्तुतिः

विषा विहा

प्रत्ययाः

सि‌.कौ.

स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्ययः । विषा बुद्धिः । विहा स्वर्गः । अव्यये इमे ।

मूलम्

विषा विहा

037

विश्वास-प्रस्तुतिः

पच एलिमच्

प्रत्ययाः

एलिमच्

सि‌.कौ.

पचेलिमो वह्निरव्योः ।

मूलम्

पच एलिमच्

038

विश्वास-प्रस्तुतिः

शीङो धुक्लक्वलञ्वालनः

प्रत्ययाः

धुक्, लक्, वलञ्, वालन्

सि‌.कौ.

चत्वारः प्रत्ययाः स्युः । शीधु मद्यम् । शीलं स्वभावः । शैवलः शेवालम् । बाहुलकाद्वस्य पोऽपि । शेवालं शैवलो न स्त्री शेपालो जलनीलिका ।

मूलम्

शीङो धुक्लक्वलञ्वालनः

039

विश्वास-प्रस्तुतिः

मॄकणिभ्यामूकोकणौ

प्रत्ययाः

ऊक, ऊकण्

सि‌.कौ.

मरूंको मृगः । काणूकः काकः ।

मूलम्

मॄकणिभ्यामूकोकणौ

040

विश्वास-प्रस्तुतिः

वलेरूकः

प्रत्ययाः

ऊक

सि‌.कौ.

वलूकः पक्षी उत्पलमूलं च ।

मूलम्

वलेरूकः

041

विश्वास-प्रस्तुतिः

उलूकादयश्च

प्रत्ययाः

ऊक

सि‌.कौ.

वलेः संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता । भल्लूकः । <= शमेर्बुक् च=> (गणसूत्र 200) । शम्बूको जलशुक्तिः ।

मूलम्

उलूकादयश्च

042

विश्वास-प्रस्तुतिः

शलिमन्डिभ्यामूकण्

प्रत्ययाः

ऊकण्

सि‌.कौ.

शालूकं कन्दविशेषः । मण्डूकः ।

मूलम्

शलिमन्डिभ्यामूकण्

043

विश्वास-प्रस्तुतिः

नियो मिः

प्रत्ययाः

मि

सि‌.कौ.

नेमिः ।

मूलम्

नियो मिः

044

विश्वास-प्रस्तुतिः

अर्तेरूच्च

प्रत्ययाः

मि

सि‌.कौ.

ऊर्मिः ।

मूलम्

अर्तेरूच्च

045

विश्वास-प्रस्तुतिः

भुवः कित्

प्रत्ययाः

मि

सि‌.कौ.

भूमिः ।

मूलम्

भुवः कित्

046

विश्वास-प्रस्तुतिः

अश्नोते रश् च

प्रत्ययाः

मि

सि‌.कौ.

रश्मिः किरणो रज्जुश्च ।

मूलम्

अश्नोते रश् च

047

विश्वास-प्रस्तुतिः

दल्मिः

प्रत्ययाः

मि

सि‌.कौ.

दल विशरणे । दल्मिरिन्द्रायुधम् ।

मूलम्

दल्मिः

048

विश्वास-प्रस्तुतिः

वीज्याज्यरिभ्यो निः

प्रत्ययाः

नि

सि‌.कौ.

बाहुलकाण्णत्वम् । वेणिः स्यात्केशविन्यासः प्रवेणी च स्त्रियामुभे । ज्यानिः । जूर्णिः ।

मूलम्

वीज्याज्यरिभ्यो निः

049

विश्वास-प्रस्तुतिः

सृवृषिभ्यां कित्

प्रत्ययाः

नि

सि‌.कौ.

सृणिरङ्कुशः । वृष्णिः क्षत्रियमेषयोः ।

मूलम्

सृवृषिभ्यां कित्

050

विश्वास-प्रस्तुतिः

अङ्गेर्नलोपश्च

प्रत्ययाः

नि

सि‌.कौ.

अग्निः ।

मूलम्

अङ्गेर्नलोपश्च

051

विश्वास-प्रस्तुतिः

वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्

प्रत्ययाः

नि

सि‌.कौ.

वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः । हानिः । तूर्णिः । बाहुलकान्म्लानिः ।

मूलम्

वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्

052

विश्वास-प्रस्तुतिः

घृणिपृश्निपार्ष्णिचूर्णिभूर्णि

प्रत्ययाः

नि

सि‌.कौ.

एते पञ्च निपात्यन्ते । घृणिः किरणः । स्पृशतेः सलोपः पृश्निरल्पशरीरः । पृषेर्वृद्धिश्च । पार्ष्णिः पादतलम् । चरेरुपधाया उत्वम् । चूर्णिः कपर्दकशतम् । बिभर्तेरुत्वम् । भूर्णिर्धरणी ।

मूलम्

घृणिपृश्निपार्ष्णिचूर्णिभूर्णि

053

विश्वास-प्रस्तुतिः

वृदृभ्यां विन्

प्रत्ययाः

विन्

सि‌.कौ.

वर्विर्घस्मरः । दर्विः ।

मूलम्

वृदृभ्यां विन्

054

विश्वास-प्रस्तुतिः

जॄशॄस्तॄजागृभ्यः क्विन्

प्रत्ययाः

क्विन्

सि‌.कौ.

जीर्विः पर्शुः । शीर्विर्हिंस्रः । स्तीर्विरध्वर्युः । जागृविर्नृपः ।

मूलम्

जॄशॄस्तॄजागृभ्यः क्विन्

055

विश्वास-प्रस्तुतिः

दिवो द्वे दीर्घश्चाभ्यासस्य

प्रत्ययाः

क्विन्

सि‌.कौ.

दीदिविः स्वर्गमोक्षयोः ।

मूलम्

दिवो द्वे दीर्घश्चाभ्यासस्य

056

विश्वास-प्रस्तुतिः

कृविघृष्विछविस्थविकिकीदिवि

प्रत्ययाः

क्विन्

सि‌.कौ.

कृविस्तन्तुवायद्रव्यम् । घृष्विर्वराहः । छास्थोर्ह्रस्वत्वं च । छविर्दीप्तिः । स्थविस्तन्तुवायः । दीव्यतेः किकीपूर्वात् किकीदिविश्चाषः । बाहुलकाद्ध्रस्वदीर्घयोर्विनिमयः । चाषेण किकीदीविना ।

मूलम्

कृविघृष्विछविस्थविकिकीदिवि

057

विश्वास-प्रस्तुतिः

पातेर्डतिः

प्रत्ययाः

डति

सि‌.कौ.

पतिः ।

मूलम्

पातेर्डतिः

058

विश्वास-प्रस्तुतिः

शकेर्ऋतिन्

प्रत्ययाः

ऋतिन्

सि‌.कौ.

शकृत् ।

मूलम्

शकेर्ऋतिन्

059

विश्वास-प्रस्तुतिः

अमेरतिः

प्रत्ययाः

अति

सि‌.कौ.

अमतिः कालः ।

मूलम्

अमेरतिः

060

विश्वास-प्रस्तुतिः

वहिवस्यर्तिभ्यश्चित्

प्रत्ययाः

अति

सि‌.कौ.

वहतिः पवनः । वसतिर्गृहयामिन्योः । अरतिः क्रोधः ।

मूलम्

वहिवस्यर्तिभ्यश्चित्

061

विश्वास-प्रस्तुतिः

अञ्चेः को वा

प्रत्ययाः

अति

सि‌.कौ.

अङ्कतिः । अञ्चतिर्वातः ।

मूलम्

अञ्चेः को वा

062

विश्वास-प्रस्तुतिः

हन्तेरंह च

प्रत्ययाः

अति

सि‌.कौ.

हन्तेरतिः स्यादंहादेशश्च धातोः । हन्ति दुरितमनया अंहतिर्दानम् प्रादेशनं निर्वपणमपवर्जनमंहतिः ।

मूलम्

हन्तेरंह च

063

विश्वास-प्रस्तुतिः

रमेर्नित्

प्रत्ययाः

अति

सि‌.कौ.

रमतिः कालकामयोः ।

मूलम्

रमेर्नित्

064

विश्वास-प्रस्तुतिः

सूङः क्रिः

प्रत्ययाः

क्रि

सि‌.कौ.

सूरिः ।

मूलम्

सूङः क्रिः

065

विश्वास-प्रस्तुतिः

अदिशदिभूशुभिभ्यः क्रिन्

प्रत्ययाः

क्रिन्

सि‌.कौ.

अद्रिः । शद्रिः । शर्करा । भूरि प्रचुरम् । शुभ्रिर्ब्रह्मा ।

मूलम्

अदिशदिभूशुभिभ्यः क्रिन्

066

विश्वास-प्रस्तुतिः

वङ्क्र्यादयश्च

प्रत्ययाः

क्रिन्

सि‌.कौ.

क्रिन्नन्ता निपात्यन्ते । वङ्क्रिर्वाद्यभेदो गृहदारु पार्श्वास्थि च । वप्रिः क्षेत्रम् । अंह्रिरङ्घ्रिश्च चरणः । तदिः सौत्रो धातुः । तन्द्रिर्मोहः बाहुलकाद्गुणः । भेरिः ।

मूलम्

वङ्क्र्यादयश्च

067

विश्वास-प्रस्तुतिः

राशदिभ्यां त्रिप्

प्रत्ययाः

त्रिप्

सि‌.कौ.

रात्रिः शन्त्रिः । कुञ्जरः ।

मूलम्

राशदिभ्यां त्रिप्

068

विश्वास-प्रस्तुतिः

अदेस्त्रिनिश्च

प्रत्ययाः

त्रिन्

सि‌.कौ.

चात्त्रिप् । अन्त्री । अन्त्रिणौ । अन्त्रिणः । अन्त्रिः । अन्त्री । अन्त्रयः ।

मूलम्

अदेस्त्रिनिश्च

069

विश्वास-प्रस्तुतिः

पतेरत्रिन्

प्रत्ययाः

अत्रिन्

सि‌.कौ.

पतत्रिः पक्षी ।

मूलम्

पतेरत्रिन्

070

विश्वास-प्रस्तुतिः

मृकणिभ्यामीचिः

प्रत्ययाः

ईचि

सि‌.कौ.

मरीचिः कणीचिः पल्लवो निनादश्च ।

मूलम्

मृकणिभ्यामीचिः

071

विश्वास-प्रस्तुतिः

श्वयतेश्चित्

प्रत्ययाः

ईचि

सि‌.कौ.

श्वयीचिर्व्याधिः ।

मूलम्

श्वयतेश्चित्

072

विश्वास-प्रस्तुतिः

वेञो डिच्च

प्रत्ययाः

ईचि

सि‌.कौ.

वीचिस्तरङ्गः । नञ्समासे अवीचिर्नरकभेदः ।

मूलम्

वेञो डिच्च

073

विश्वास-प्रस्तुतिः

ऋहनिभ्यामूषन्

प्रत्ययाः

ऊषन्

सि‌.कौ.

अरूषः सूर्यः । हनूषो राक्षसः ।

मूलम्

ऋहनिभ्यामूषन्

074

विश्वास-प्रस्तुतिः

पुरः कुषन्

प्रत्ययाः

कुषन्

सि‌.कौ.

पुर अग्रगमने । पुरुषः । [[6.3.137]] «अन्येषामपि –» इति दीर्घः । पूरुषः ।

मूलम्

पुरः कुषन्

075

विश्वास-प्रस्तुतिः

पॄनहिकलिभ्य उषच्

प्रत्ययाः

उषच्

सि‌.कौ.

परुषम् । नहुषः । कलुषम् ।

मूलम्

पॄनहिकलिभ्य उषच्

076

विश्वास-प्रस्तुतिः

पीयेरूषन्

प्रत्ययाः

ऊषन्

सि‌.कौ.

पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्गुणे पेयूषोऽभिनवं पयः ।

मूलम्

पीयेरूषन्

077

विश्वास-प्रस्तुतिः

मस्जेर्नुम् च

प्रत्ययाः

ऊषन्

सि‌.कौ.

मञ्जूषा ।

मूलम्

मस्जेर्नुम् च

078

विश्वास-प्रस्तुतिः

गडेश्च

प्रत्ययाः

ऊषन्

सि‌.कौ.

गण्डूषः । गण्डूषा ।

मूलम्

गडेश्च

079

विश्वास-प्रस्तुतिः

अर्तेररुः

प्रत्ययाः

अरु

सि‌.कौ.

अररुः शत्रुः । अररू । अररवः ।

मूलम्

अर्तेररुः

080

विश्वास-प्रस्तुतिः

कुटः किच्च

प्रत्ययाः

अरु

सि‌.कौ.

कुटरुर्वस्त्रगृहम् । कित्वप्रयोजनं चिन्त्यम् ।

मूलम्

कुटः किच्च

081

विश्वास-प्रस्तुतिः

शकादिभ्योऽटन्

प्रत्ययाः

अटन्

सि‌.कौ.

शकटोऽस्त्रियाम् । शकिर्गत्यर्थः । कङ्कटः सन्नाहः । देवटः शिल्पी । करट इत्यादि ।

मूलम्

शकादिभ्योऽटन्

082

विश्वास-प्रस्तुतिः

कृकदिकडिकटिभ्योऽम्बच्

प्रत्ययाः

अबच्

सि‌.कौ.

करम्बं व्यामिश्रम् । कदिकडी सौत्रौ । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम् ।

मूलम्

कृकदिकडिकटिभ्योऽम्बच्

083

विश्वास-प्रस्तुतिः

कदेर्णित्पक्षिणि

प्रत्ययाः

अबच्

सि‌.कौ.

कादम्बः कलहंसः ।

मूलम्

कदेर्णित्पक्षिणि

084

विश्वास-प्रस्तुतिः

कलिकर्द्योरमः

प्रत्ययाः

अम

सि‌.कौ.

कलमः । कर्दमः ।

मूलम्

कलिकर्द्योरमः

085

विश्वास-प्रस्तुतिः

कुणिपुल्योः किन्दच्

प्रत्ययाः

किन्दच्

सि‌.कौ.

कुण शब्दोपकरणयोः । कुणिन्दः शब्दः । पुलिन्दो जातिविशेषः ।

मूलम्

कुणिपुल्योः किन्दच्

086

विश्वास-प्रस्तुतिः

कुपेर्वा वश्च

प्रत्ययाः

किन्दच्

सि‌.कौ.

कुपिन्दकुविन्दौ तन्तुवाये ।

मूलम्

कुपेर्वा वश्च

087

विश्वास-प्रस्तुतिः

नौ षञ्जेर्घथिन्

प्रत्ययाः

घथिन्

सि‌.कौ.

निषङ्गथिरालिङ्गकः ।

मूलम्

नौ षञ्जेर्घथिन्

088

विश्वास-प्रस्तुतिः

उद्यर्तेश्चित्

प्रत्ययाः

घथिन्

सि‌.कौ.

उदरथिः समुद्रः ।

मूलम्

उद्यर्तेश्चित्

089

विश्वास-प्रस्तुतिः

सर्तेर्णिच्च

प्रत्ययाः

घथिन्

सि‌.कौ.

सारथिः ।

मूलम्

सर्तेर्णिच्च

090

विश्वास-प्रस्तुतिः

खर्जिपिञ्जादिभ्य ऊरोलचौ

प्रत्ययाः

ऊर्, उलच्

सि‌.कौ.

खर्जूरः । कर्पूरः । वल्लूरं शुष्कमांसम् । पिञ्जूलं कुशवर्तिः । <= लङ्गेर्वृद्धिश्च => (गणसूत्रम् 201) । लाङ्गूलम् । कुसूलः । <= तमेर्बुग्वृद्धिश्च => (गणसूत्रम् 202) । ताम्बूलम् । <= शृणातेर्दुग्वृद्धिश्च => (गणसूत्रम् 203) । शार्दूलः । <= दुक्वोः कुक्च => (गणसूत्रम् 204) । दुकूलम् । कुकूलम् ।

मूलम्

खर्जिपिञ्जादिभ्य ऊरोलचौ

091

विश्वास-प्रस्तुतिः

कुवश्चट् दीर्घश्च

प्रत्ययाः

चट्

सि‌.कौ.

कूची चित्रलेखनिका ।

मूलम्

कुवश्चट् दीर्घश्च

092

विश्वास-प्रस्तुतिः

समीणः

प्रत्ययाः

चट्

सि‌.कौ.

समीचः समुद्रः । समीची हरिणी ।

मूलम्

समीणः

093

विश्वास-प्रस्तुतिः

सिवेष्टेरू च

प्रत्ययाः

चट्

सि‌.कौ.

सूचो दर्भाङ्कुरः । सूची ।

मूलम्

सिवेष्टेरू च

094

विश्वास-प्रस्तुतिः

शमेर्बन्

प्रत्ययाः

बन्

सि‌.कौ.

शम्बो मुसलम् ।

मूलम्

शमेर्बन्

095

विश्वास-प्रस्तुतिः

उल्बादयश्च

प्रत्ययाः

बन्

सि‌.कौ.

बन्नन्ता निपात्यन्ते । उच समवाये । चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशयः । शुल्बं ताम्रम् । बिम्बम् ।

मूलम्

उल्बादयश्च

096

विश्वास-प्रस्तुतिः

स्थः स्तोऽम्बजबकौ

प्रत्ययाः

अम्बज्, अबक

सि‌.कौ.

तिष्ठतेरम्बच् अबक एतौ स्तस्तादेशश्च । स्तम्बो गुच्छस्तृणादिनः । स्तबकः पुष्पगुच्छः ।

मूलम्

स्थः स्तोऽम्बजबकौ

097

विश्वास-प्रस्तुतिः

शाशपिभ्यां ददनौ

प्रत्ययाः

द, दन्

सि‌.कौ.

शादो जम्बालशष्पयोः ।

मूलम्

शाशपिभ्यां ददनौ

098

विश्वास-प्रस्तुतिः

अब्दादयश्च

प्रत्ययाः

द, दन्

सि‌.कौ.

शब्दः । अवतीत्यशब्दः । <= कौतेर्नुम् च => (गणसूत्रम् 205) । कुन्दः ।

मूलम्

अब्दादयश्च

099

विश्वास-प्रस्तुतिः

वलिमलितनिभ्यः कयन्

प्रत्ययाः

कयन्

सि‌.कौ.

वलयम् । मलयः । तनयः ।

मूलम्

वलिमलितनिभ्यः कयन्

100

विश्वास-प्रस्तुतिः

वृह्रोः षुग्दुकौ च

प्रत्ययाः

कयन्

सि‌.कौ.

वृषयः आश्रयः । हृदयम् ।

मूलम्

वृह्रोः षुग्दुकौ च

101

विश्वास-प्रस्तुतिः

मिपीभ्यां रुः

प्रत्ययाः

रु

सि‌.कौ.

मेरुः । पेरुः सूर्यः । बाहुलकात् पिबतेरपि । संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः ।

मूलम्

मिपीभ्यां रुः

102

विश्वास-प्रस्तुतिः

जत्र्वादयश्च

प्रत्ययाः

रु

सि‌.कौ.

जत्रु जत्रुणी । अश्रु । अश्रुणी ।

मूलम्

जत्र्वादयश्च

103

विश्वास-प्रस्तुतिः

रुशातिभ्यां क्रुन्

प्रत्ययाः

क्रुन्

सि‌.कौ.

रुरुर्मृगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाद्ध्रस्वत्वम् ।

मूलम्

रुशातिभ्यां क्रुन्

104

विश्वास-प्रस्तुतिः

जनिदाच्युसृवृमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्नण्क्निन्शक्स्यढडटाटचः

प्रत्ययाः

इत्वन्, त्वन्, त्नण्, क्निन्, शक्, स्य, ढ, डट्, आटच्

सि‌.कौ.

जनित्वौ मातापितरौ । दात्वो दाता । च्यौत्नो गन्ता अण्डजः क्षीणपुण्यश्च । सृणिरङ्कुरशश्चन्द्रः सूर्यो वायुश्च । वृशः आर्द्रकं मूलकं च । मत्स्यः । षण्ढः । डित्वाट्टिलोपः । नमतीति नटः शैलूषः । बिभर्ति भरटः कुलालो भृतकश्च ।

मूलम्

जनिदाच्युसृवृमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्नण्क्निन्शक्स्यढडटाटचः

105

विश्वास-प्रस्तुतिः

अन्येभ्योऽपि दृश्यन्ते

प्रत्ययाः

इत्वन्, त्वन्, त्नण्, क्निन्, शक्, स्य, ढ, डट्, आटच्

सि‌.कौ.

पेत्वममृतम् भृशम् ।

मूलम्

अन्येभ्योऽपि दृश्यन्ते

106

विश्वास-प्रस्तुतिः

कुसेरुम्भोमेदेताः

प्रत्ययाः

उम्भ, उम, ईद, इत

सि‌.कौ.

कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितो जनपदः ।

मूलम्

कुसेरुम्भोमेदेताः

107

विश्वास-प्रस्तुतिः

सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः

प्रत्ययाः

असि

सि‌.कौ.

सनोतेरसिप्रत्यय उपधावृद्धिः । सानसिर्हिरण्यम् । वृञो नुक् च । वर्णसिर्जलम् । पॄ पर्णसिर्जलग्रहणम् । तड आघाते तण्डुलाः । अकि लक्षणे उशच् । अङ्कुशः । चषेरालच् । चषालो यूपकटकः । इल्वलो दैत्यभेदः । पल्वलम् । ञिधृषा । ऋकारश्च इकारः । धिष्ण्यम् । शलेर्यः शल्यम् । वा पुंसि शल्यं शङ्कुर्ना ।

मूलम्

सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः

108

विश्वास-प्रस्तुतिः

मूशक्यबिभ्यः क्लः

प्रत्ययाः

क्ल

सि‌.कौ.

मूलम् । शक्लः प्रियंवदे । अम्ब्लो रसः । बाहुलकादमेः । अम्लः ।

मूलम्

मूशक्यबिभ्यः क्लः

109

विश्वास-प्रस्तुतिः

माछाससिभ्यो यः

प्रत्ययाः

सि‌.कौ.

माया । छाया । सस्यम् । बाहुलकात्सुनोतेः । सव्यं दक्षिणवामयोः ।

मूलम्

माछाससिभ्यो यः

110

विश्वास-प्रस्तुतिः

जनेर्यक्

प्रत्ययाः

यक्

सि‌.कौ.

[[6.4.43]] «ये विभाषा» । जन्यं युद्धम् । जाया भार्या ।

मूलम्

जनेर्यक्

111

विश्वास-प्रस्तुतिः

अघ्न्यादयश्च

प्रत्ययाः

यक्

सि‌.कौ.

यगन्ता निपात्यन्ते । हन्तेर्युक् अडागम उपधालोपश्च । अघ्न्या माहेयी । अघ्न्यः प्रजापतिः । कनी दीप्तौ । कन्या । बवयोरैक्यम् । वन्ध्याः ।

मूलम्

अघ्न्यादयश्च

112

विश्वास-प्रस्तुतिः

स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्

प्रत्ययाः

वनिप्

सि‌.कौ.

स्नावा रसिकः । मद्वा शिवः । पद्वा पन्थाः । अर्वा तुरङ्गगर्ह्ययोः । पर्वा ग्रन्थिः प्रस्तावश्च । शक्का हस्ती । ङीब्रौ । शक्करी अङ्गुलिः ।

मूलम्

स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्

113

विश्वास-प्रस्तुतिः

शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप्

प्रत्ययाः

क्वनिप्

सि‌.कौ.

शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः । जित्वा जेता । क्षित्वा वायुः । सृत्वा प्रजापतिः । धृत्वा विष्णुः ।

मूलम्

शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप्

114

विश्वास-प्रस्तुतिः

ध्याप्योः संप्रसारणं च

प्रत्ययाः

क्वनिप्

सि‌.कौ.

धीवा कर्मकरः । पीवा स्थूलः ।

मूलम्

ध्याप्योः संप्रसारणं च

115

विश्वास-प्रस्तुतिः

अदेर्ध च

प्रत्ययाः

क्वनिप्

सि‌.कौ.

अध्वा ।

मूलम्

अदेर्ध च

116

विश्वास-प्रस्तुतिः

प्र ईरशदोस्तुट् च

प्रत्ययाः

क्वनिप्

सि‌.कौ.

प्रेर्त्वा प्रशत्वा च सागरः । प्रेत्वरी प्रशत्वरी च नदी ।

मूलम्

प्र ईरशदोस्तुट् च

117

विश्वास-प्रस्तुतिः

सर्वधातुभ्य इन्

प्रत्ययाः

इन्

सि‌.कौ.

पचिरग्निः । तुडिः । तुण्डिः । वलिः । वटिः । यजिः । देवयजिः । काशत इति काशिः । यतिः । मल्लिः । केलिः । मसी परिणामे । मसिः । बाहुलकाद्गुणः । कोटिः । हेलिः । बोधिः । नन्दिः । कलिः ।

मूलम्

सर्वधातुभ्य इन्

118

विश्वास-प्रस्तुतिः

हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च

प्रत्ययाः

इन्

सि‌.कौ.

हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः । पेषिर्वज्रम् । रोहिर्व्रती । वर्तिः । वेदिः । छदिश्छेत्ता । कीर्तिः ।

मूलम्

हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च

119

विश्वास-प्रस्तुतिः

इगुपधात्कित्

प्रत्ययाः

इन्

सि‌.कौ.

कृषिः । ऋषिः । शुचिः । लिपिः । बाहुलकाद्बत्वे लिबिः । तूल निष्कर्षे । तूलिः । तूली कूर्चिका ।

मूलम्

इगुपधात्कित्

120

विश्वास-प्रस्तुतिः

भ्रमेः संप्रसारणं च

प्रत्ययाः

इन्

सि‌.कौ.

भृमिर्वातः । बाहुलकाद्भ्रमिः ।

मूलम्

भ्रमेः संप्रसारणं च

121

विश्वास-प्रस्तुतिः

क्रमितमिशतिस्तम्भामत इच्च

प्रत्ययाः

इन्

सि‌.कौ.

क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि । तिमिर्मत्स्यभेदः । शितिर्मेचकशुक्लयोः । स्तिम्भिः समुद्रः ।

मूलम्

क्रमितमिशतिस्तम्भामत इच्च

122

विश्वास-प्रस्तुतिः

मनेरुच्च

प्रत्ययाः

इन्

सि‌.कौ.

मुनिः ।

मूलम्

मनेरुच्च

123

विश्वास-प्रस्तुतिः

वर्णेर्बलिश्चाहिरण्ये

प्रत्ययाः

इन्

सि‌.कौ.

वर्णिः सौत्रः । अस्य बलिरादेशः । करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् । हिरण्ये तु वर्णिः सुवर्णम् ।

मूलम्

वर्णेर्बलिश्चाहिरण्ये

124

विश्वास-प्रस्तुतिः

वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ्

प्रत्ययाः

इञ्

सि‌.कौ.

वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजिः । राजी । व्राजिर्वातालिः । सादिः सारथिः । निघातिर्लोहघातिनी । वाशिरग्निः । वादिर्विद्वान् । वारिर्गजबन्धनी । जले तु क्लीबम् । बाहुलकाद्वारिः पथिकसंहतौ ।

मूलम्

वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ्

125

विश्वास-प्रस्तुतिः

नहो भश्च

प्रत्ययाः

इञ्

सि‌.कौ.

नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियाम् । पुंस्यपीति केचित् ।

मूलम्

नहो भश्च

126

विश्वास-प्रस्तुतिः

कृषेर्वृद्धिश्छन्दसि

प्रत्ययाः

इञ्

सि‌.कौ.

कार्षिः ।

मूलम्

कृषेर्वृद्धिश्छन्दसि

127

विश्वास-प्रस्तुतिः

श्रः शकुनौ

प्रत्ययाः

इञ्

सि‌.कौ.

शारिः । शारिका ।

मूलम्

श्रः शकुनौ

128

विश्वास-प्रस्तुतिः

कृञ उदीचां कारुषु

प्रत्ययाः

इञ्

सि‌.कौ.

कारिः शिल्पी ।

मूलम्

कृञ उदीचां कारुषु

129

विश्वास-प्रस्तुतिः

जनिघसिभ्यामिण्

प्रत्ययाः

इण्

सि‌.कौ.

जनिर्जननम् । घासिर्भक्ष्यमग्निश्च ।

मूलम्

जनिघसिभ्यामिण्

130

विश्वास-प्रस्तुतिः

अज्यतिभ्यां च

प्रत्ययाः

इण्

सि‌.कौ.

आजिः संग्रामः । आतिः पक्षी ।

मूलम्

अज्यतिभ्यां च

131

विश्वास-प्रस्तुतिः

पादे च

प्रत्ययाः

इण्

सि‌.कौ.

पदाजिः । पदातिः ।

मूलम्

पादे च

132

विश्वास-प्रस्तुतिः

अशिपणाय्यो रुडायलुकौ च

प्रत्ययाः

इण्

सि‌.कौ.

अशे रुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः ।

मूलम्

अशिपणाय्यो रुडायलुकौ च

133

विश्वास-प्रस्तुतिः

वातेर्डिच्च

प्रत्ययाः

इण्

सि‌.कौ.

विः पक्षी । स्त्रियां वीत्यपि ।

मूलम्

वातेर्डिच्च

134

विश्वास-प्रस्तुतिः

प्रे हरतेः कूपे

प्रत्ययाः

इण्

सि‌.कौ.

प्रहिः कूपः ।

मूलम्

प्रे हरतेः कूपे

135

विश्वास-प्रस्तुतिः

नौ व्यो यलोपः पूर्वस्य च दीर्घः

प्रत्ययाः

इण्

सि‌.कौ.

व्येञ इण् स्याद् यलोपश्च नेर्दीर्घः । नीविः । नीवी वस्त्रग्रन्थौ मूलधने च ।

मूलम्

नौ व्यो यलोपः पूर्वस्य च दीर्घः

136

विश्वास-प्रस्तुतिः

समाने ख्यः स चोदात्तः

प्रत्ययाः

इण्

सि‌.कौ.

समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात्स च डिच्च यलोपश्च समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा ।

मूलम्

समाने ख्यः स चोदात्तः

137

विश्वास-प्रस्तुतिः

आङि श्रिहनिभ्यां ह्रस्वश्च

प्रत्ययाः

इण्

सि‌.कौ.

इण् स्यात्स च डित् आङो ह्रस्वश्च । स्त्रियः पाल्यश्रिकोटयः । सर्पे वृत्रासुरेऽप्यहिः ।

मूलम्

आङि श्रिहनिभ्यां ह्रस्वश्च

138

विश्वास-प्रस्तुतिः

अच इः

प्रत्ययाः

सि‌.कौ.

रविः । पविः । तरिः । कविः । अरिः । अलिः ।

मूलम्

अच इः

139

विश्वास-प्रस्तुतिः

खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च

प्रत्ययाः

सि‌.कौ.

खनिः । कषिर्हिंस्रः । अजिः । असिः । वसिर्वस्त्रम् । वनिरग्निः । सनिर्भक्तिर्दानं च । ध्वनिः । ग्रन्थिः । चरिः पशुः ।

मूलम्

खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च

140

विश्वास-प्रस्तुतिः

वृतेश्छन्दसि

प्रत्ययाः

सि‌.कौ.

वर्तिः ।

मूलम्

वृतेश्छन्दसि

141

विश्वास-प्रस्तुतिः

भुजेः किच्च

प्रत्ययाः

सि‌.कौ.

भुजिः ।

मूलम्

भुजेः किच्च

142

विश्वास-प्रस्तुतिः

कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च

प्रत्ययाः

सि‌.कौ.

इः कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाणः । शिरिः शलभो हन्ता च । पुरिर्नगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः ।

मूलम्

कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च

143

विश्वास-प्रस्तुतिः

कुडिकम्प्योर्नलोपश्च

प्रत्ययाः

सि‌.कौ.

कुडि दाहे । कुडिर्देहः । कपिः ।

मूलम्

कुडिकम्प्योर्नलोपश्च

144

विश्वास-प्रस्तुतिः

सर्वधातुभ्यो मनिन्

प्रत्ययाः

मनिन्

सि‌.कौ.

क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् । [[6.4.97]] «इस्मन्…» इति ह्रस्वः । छद्म । सुत्रामा ।

मूलम्

सर्वधातुभ्यो मनिन्

145

विश्वास-प्रस्तुतिः

बृंहेर्नोच्च

प्रत्ययाः

मनिन्

सि‌.कौ.

नकारस्याकारः । ब्रह्म तत्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः ।

मूलम्

बृंहेर्नोच्च

146

विश्वास-प्रस्तुतिः

अशिशकिभ्यां छन्दसि

प्रत्ययाः

मनिन्

सि‌.कौ.

अश्मा । शक्मा ।

मूलम्

अशिशकिभ्यां छन्दसि

147

विश्वास-प्रस्तुतिः

हृभृधृसृस्तृशॄभ्य इमनिच्

प्रत्ययाः

इमनिच्

सि‌.कौ.

हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरिमा प्रसवः ।

मूलम्

हृभृधृसृस्तृशॄभ्य इमनिच्

148

विश्वास-प्रस्तुतिः

जनिमृङ्भ्यामिमनिन्

प्रत्ययाः

इमनिन्

सि‌.कौ.

जनिमा जन्म । मरिमा मृत्युः ।

मूलम्

जनिमृङ्भ्यामिमनिन्

149

विश्वास-प्रस्तुतिः

वेञः सर्वत्र

प्रत्ययाः

इमनिन्

सि‌.कौ.

छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः । अर्धर्चादिः । सामनी वेमनी इति वृत्तिः ।

मूलम्

वेञः सर्वत्र

150

विश्वास-प्रस्तुतिः

नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन्

प्रत्ययाः

मनिन्

सि‌.कौ.

सप्त अमी निपात्यन्ते । म्नायतेऽनेनेति नाम । सिनोतेर्दीर्घः । सीमा सीमानौ । सीमानः । पक्षे डाप् । सीमे सीमाः । व्येञोऽन्त्यस्योत्वं गुणः । व्योम । रौतेः । रोम । लोम । पाप्मा पापम् । ध्याम परिमाणं तेजश्च ।

मूलम्

नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन्

151

विश्वास-प्रस्तुतिः

मिथुने मनिः

प्रत्ययाः

मनि

सि‌.कौ.

उपसर्गक्रियासंबन्धो मिथुनम् । स्वरार्थमिदम् । सुशर्मा ।

मूलम्

मिथुने मनिः

152

विश्वास-प्रस्तुतिः

सातिभ्यां मनिन्मनिणौ

प्रत्ययाः

मनिन्, मनिण्

सि‌.कौ.

स्यति । साम । सामनी । आत्मा ।

मूलम्

सातिभ्यां मनिन्मनिणौ

153

विश्वास-प्रस्तुतिः

हनिमशिभ्यां सिकन्

प्रत्ययाः

सिकन्

सि‌.कौ.

हंसिका हंसयोषिति । मक्षिका ।

मूलम्

हनिमशिभ्यां सिकन्

154

विश्वास-प्रस्तुतिः

कोररन्

प्रत्ययाः

अरन्

सि‌.कौ.

कवरः ।

मूलम्

कोररन्

155

विश्वास-प्रस्तुतिः

गिर उडच्

प्रत्ययाः

उडच्

सि‌.कौ.

गरुडः ।

मूलम्

गिर उडच्

156

विश्वास-प्रस्तुतिः

इन्देः कमिन्नलोपश्च

प्रत्ययाः

कमिन्

सि‌.कौ.

इदम् ।

मूलम्

इन्देः कमिन्नलोपश्च

157

विश्वास-प्रस्तुतिः

कायतेर्डिमिः

प्रत्ययाः

डिमि

सि‌.कौ.

किम् ।

मूलम्

कायतेर्डिमिः

158

विश्वास-प्रस्तुतिः

सर्वधातुभ्यः ष्ट्रन्

प्रत्ययाः

ष्ट्रन्

सि‌.कौ.

वस्त्रम् । अस्त्रम् । शस्त्रम् । [[6.4.97]] «इस्मन्…» इति ह्रस्वत्वम् । छादनाच्छत्रम् ।

मूलम्

सर्वधातुभ्यः ष्ट्रन्

159

विश्वास-प्रस्तुतिः

भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च

प्रत्ययाः

ष्ट्रन्

सि‌.कौ.

भ्राष्ट्रः । गात्रं शकटम् । नान्त्रं स्तोत्रम् । हान्त्रं मरणम् । वैष्ट्रं विष्टपम् । आष्ट्रमाकाशम् ।

मूलम्

भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च

160

विश्वास-प्रस्तुतिः

दिवेर्द् युच्च

प्रत्ययाः

ष्ट्रन्

सि‌.कौ.

द्यौत्रम् ।

मूलम्

दिवेर्द् युच्च

161

विश्वास-प्रस्तुतिः

उषिखनिभ्यां कित्

प्रत्ययाः

ष्ट्रन्

सि‌.कौ.

उष्ट्रः । खात्रं खनित्रं जलाधारश्च ।

मूलम्

उषिखनिभ्यां कित्

162

विश्वास-प्रस्तुतिः

सिविमुच्योष्टेरू च

प्रत्ययाः

ष्ट्रन्

सि‌.कौ.

सूत्रम् । मूत्रम् ।

मूलम्

सिविमुच्योष्टेरू च

163

विश्वास-प्रस्तुतिः

अमिचिमिदिशसिभ्यः क्त्रः

प्रत्ययाः

क्त्र

सि‌.कौ.

आन्त्रम् । दित्रम् । मित्रम् । शस्त्रम् ।

मूलम्

अमिचिमिदिशसिभ्यः क्त्रः

164

विश्वास-प्रस्तुतिः

पुवो ह्रस्वश्च

प्रत्ययाः

क्त्र

सि‌.कौ.

पुत्रः ।

मूलम्

पुवो ह्रस्वश्च

165

विश्वास-प्रस्तुतिः

स्त्यायतेर्डट्

प्रत्ययाः

डट्

सि‌.कौ.

स्त्री ।

मूलम्

स्त्यायतेर्डट्

166

विश्वास-प्रस्तुतिः

गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः

प्रत्ययाः

त्र

सि‌.कौ.

गोत्रं स्यान्नामवंशयोः । गोत्रा प्रुथिवी । धर्त्रं गृहम् । वेत्रम् । पक्त्रम् । वक्त्रम् । यन्त्रम् । सन्त्रम् । क्षन्त्रम् ।

मूलम्

गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः

167

विश्वास-प्रस्तुतिः

हुयामाश्रुभसिभ्यस्त्रन्

प्रत्ययाः

त्रन्

सि‌.कौ.

होत्रम् । यात्रा । मात्रा । श्रोत्रम् । भस्त्रा ।

मूलम्

हुयामाश्रुभसिभ्यस्त्रन्

168

विश्वास-प्रस्तुतिः

गमेरा च

प्रत्ययाः

त्रन्

सि‌.कौ.

गात्रम् ।

मूलम्

गमेरा च

169

विश्वास-प्रस्तुतिः

दादिभ्यच्छन्दसि

प्रत्ययाः

त्रन्

सि‌.कौ.

दात्रम् । पात्रम् ।

मूलम्

दादिभ्यच्छन्दसि

170

विश्वास-प्रस्तुतिः

भूवादिगॄभ्यो णित्रन्

प्रत्ययाः

णित्रन्

सि‌.कौ.

भावित्रम् । वादित्रम् । गादित्रमोदनम् ।

मूलम्

भूवादिगॄभ्यो णित्रन्

171

विश्वास-प्रस्तुतिः

चरेर्वृत्ते

प्रत्ययाः

णित्रन्

सि‌.कौ.

चारित्रम् ।

मूलम्

चरेर्वृत्ते

172

विश्वास-प्रस्तुतिः

अशित्रादिभ्य इत्रोत्रौ

प्रत्ययाः

इत्र, उत्र

सि‌.कौ.

अशित्रम् । वहित्रम् । धरित्री मही । त्रैङ् एवमादिभ्य उत्रः । तोत्रं प्रहरणम् । वृञ् वरुत्रं प्रावरणम् ।

मूलम्

अशित्रादिभ्य इत्रोत्रौ

173

विश्वास-प्रस्तुतिः

अमेर्द्विषति चित्

प्रत्ययाः

इत्र

सि‌.कौ.

अमित्रः शत्रुः ।

मूलम्

अमेर्द्विषति चित्

174

विश्वास-प्रस्तुतिः

आः समिण्निकशिभ्याम्

प्रत्ययाः

सि‌.कौ.

संपूर्वादिणो निपूर्वात्कषेश्च आ स्यात् । स्वरादित्वादव्ययत्वम् । समया । निकषा ।

मूलम्

आः समिण्निकशिभ्याम्

175

विश्वास-प्रस्तुतिः

चित्तेः कणः कश्च

प्रत्ययाः

कण

सि‌.कौ.

बाहुलकादगुणः । चिक्कणं मसृणं स्निग्धम् ।

मूलम्

चित्तेः कणः कश्च

176

विश्वास-प्रस्तुतिः

सूचेः स्मन्

प्रत्ययाः

स्मन्

सि‌.कौ.

सूक्ष्मम् ।

मूलम्

सूचेः स्मन्

177

विश्वास-प्रस्तुतिः

पातेर्डुम्सुन्

प्रत्ययाः

डुम्सुन्

सि‌.कौ.

पुमान् ।

मूलम्

पातेर्डुम्सुन्

178

विश्वास-प्रस्तुतिः

रुचिभुजिभ्यां किष्यन्

प्रत्ययाः

किष्यन्

सि‌.कौ.

रुचिष्यमिष्टम् । भुजिष्यो दासः ।

मूलम्

रुचिभुजिभ्यां किष्यन्

179

विश्वास-प्रस्तुतिः

वसेस्तिः

प्रत्ययाः

ति

सि‌.कौ.

वस्तिर्नाभेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहुलकात् शासः शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शकन्ध्वादिः ।

मूलम्

वसेस्तिः

180

विश्वास-प्रस्तुतिः

सावसेः

प्रत्ययाः

ति

सि‌.कौ.

स्वस्ति । स्वरादिपाठादव्ययत्वम् ।

मूलम्

सावसेः

181

विश्वास-प्रस्तुतिः

वौ तसेः

प्रत्ययाः

ति

सि‌.कौ.

वितस्तिः ।

मूलम्

वौ तसेः

182

विश्वास-प्रस्तुतिः

पदिप्रथिभ्यां नित्

प्रत्ययाः

ति

सि‌.कौ.

पत्तिः । प्रथितिः ।

मूलम्

पदिप्रथिभ्यां नित्

183

विश्वास-प्रस्तुतिः

तितुत्रेष्वग्रहादीनामितीट् दृणातेर्ह्रस्वश्च

प्रत्ययाः

ति

सि‌.कौ.

दृतिः ।

मूलम्

तितुत्रेष्वग्रहादीनामितीट् दृणातेर्ह्रस्वश्च

184

विश्वास-प्रस्तुतिः

कॄतॄकृपिभ्यः कीटन्

प्रत्ययाः

कीटन्

सि‌.कौ.

किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः ।

मूलम्

कॄतॄकृपिभ्यः कीटन्

185

विश्वास-प्रस्तुतिः

रुचिवचिकुचिकुटिभ्यः कितच्

प्रत्ययाः

कितच्

सि‌.कौ.

रुचितमिष्टम् । उचितम् । कुचितं परिमितम् । कुटितं कुटिलम् ।

मूलम्

रुचिवचिकुचिकुटिभ्यः कितच्

186

विश्वास-प्रस्तुतिः

कुटिकुषिभ्यां क्मलन्

प्रत्ययाः

क्मलन्

सि‌.कौ.

कुड्मलम् । कुष्मलम् ।

मूलम्

कुटिकुषिभ्यां क्मलन्

187

विश्वास-प्रस्तुतिः

कुषेर्लश्च

प्रत्ययाः

क्मलन्

सि‌.कौ.

कुल्मलं पापम् ।

मूलम्

कुषेर्लश्च

188

विश्वास-प्रस्तुतिः

सर्वधातुभ्योऽसुन्

प्रत्ययाः

असुन्

सि‌.कौ.

चेतः । सरः । पयः । सदः ।

मूलम्

सर्वधातुभ्योऽसुन्

189

विश्वास-प्रस्तुतिः

रपेरत एच्च

प्रत्ययाः

असुन्

सि‌.कौ.

रेपोऽवद्यम् ।

मूलम्

रपेरत एच्च

190

विश्वास-प्रस्तुतिः

अशेर्देवने युट् च

प्रत्ययाः

असुन्

सि‌.कौ.

देवने स्तुतौ । यशः ।

मूलम्

अशेर्देवने युट् च

191

विश्वास-प्रस्तुतिः

उब्जेर्बले बलोपश्च

प्रत्ययाः

असुन्

सि‌.कौ.

ओजः ।

मूलम्

उब्जेर्बले बलोपश्च

192

विश्वास-प्रस्तुतिः

श्वेः सम्प्रसारणं च

प्रत्ययाः

असुन्

सि‌.कौ.

शवः । शवसी । बालपर्यायोऽयम् ।

मूलम्

श्वेः सम्प्रसारणं च

193

विश्वास-प्रस्तुतिः

श्रयतेः स्वाङ्गे शिरः किच्च

प्रत्ययाः

असुन्

सि‌.कौ.

श्रयतेः शिरआदेशोऽसुन् किच्च । शिरः । शिरसी ।

मूलम्

श्रयतेः स्वाङ्गे शिरः किच्च

194

विश्वास-प्रस्तुतिः

अर्तेरुच्च

प्रत्ययाः

असुन्

सि‌.कौ.

उरः ।

मूलम्

अर्तेरुच्च

195

विश्वास-प्रस्तुतिः

व्याधौ शुट्

प्रत्ययाः

असुन्

सि‌.कौ.

अर्शो गुदव्याधिः ।

मूलम्

व्याधौ शुट्

196

विश्वास-प्रस्तुतिः

उदके नुट् च

प्रत्ययाः

असुन्

सि‌.कौ.

अर्तेरसुन् स्यात्तस्य च नुट् । अर्णः । अर्णसी ।

मूलम्

उदके नुट् च

197

विश्वास-प्रस्तुतिः

इण आगसि

प्रत्ययाः

असुन्

सि‌.कौ.

एनः ।

मूलम्

इण आगसि

198

विश्वास-प्रस्तुतिः

रिचेर्धने घिच्च

प्रत्ययाः

असुन्

सि‌.कौ.

चात्प्रत्ययस्य नुट् । घित्त्वात्कुत्वम् । रेक्णः सुवर्णम् ।

मूलम्

रिचेर्धने घिच्च

199

विश्वास-प्रस्तुतिः

चायतेरन्ने ह्रस्वश्च

प्रत्ययाः

असुन्

सि‌.कौ.

चनो भक्तम् ।

मूलम्

चायतेरन्ने ह्रस्वश्च

200

विश्वास-प्रस्तुतिः

वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च

प्रत्ययाः

असुन्

सि‌.कौ.

वर्पो रूपम् । शेपो गुह्यम् ।

मूलम्

वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च

201

विश्वास-प्रस्तुतिः

स्रुरीभ्यां तुट् च

प्रत्ययाः

असुन्

सि‌.कौ.

स्रोतः । रेतः ।

मूलम्

स्रुरीभ्यां तुट् च

202

विश्वास-प्रस्तुतिः

पातेर्बले जुट् च

प्रत्ययाः

असुन्

सि‌.कौ.

पाजः । पाजसी ।

मूलम्

पातेर्बले जुट् च

203

विश्वास-प्रस्तुतिः

उदके थुट् च

प्रत्ययाः

असुन्

सि‌.कौ.

पाथः ।

मूलम्

उदके थुट् च

204

विश्वास-प्रस्तुतिः

अन्ने च

प्रत्ययाः

असुन्

सि‌.कौ.

पाथो भक्तम् ।

मूलम्

अन्ने च

205

विश्वास-प्रस्तुतिः

अदेर्नुम् धौ च

प्रत्ययाः

असुन्

सि‌.कौ.

अदेर्भक्ते वाच्येऽसुन् नुमागमो धादेशश्च । अन्धोऽन्नम् ।

मूलम्

अदेर्नुम् धौ च

206

विश्वास-प्रस्तुतिः

स्कन्देश्च स्वाङ्गे

प्रत्ययाः

असुन्

सि‌.कौ.

स्कन्दः । स्कन्दसी ।

मूलम्

स्कन्देश्च स्वाङ्गे

207

विश्वास-प्रस्तुतिः

आपः कर्माख्यायाम्

प्रत्ययाः

असुन्

सि‌.कौ.

कर्माख्यायां ह्रस्वो नुट् च वा । अप्नः । अपः । बाहुलकात् । आपः । आपसी ।

मूलम्

आपः कर्माख्यायाम्

208

विश्वास-प्रस्तुतिः

रूपे जुट् च

प्रत्ययाः

असुन्

सि‌.कौ.

अब्जो रूपम् ।

मूलम्

रूपे जुट् च

209

विश्वास-प्रस्तुतिः

उदके नुम्भौ च

प्रत्ययाः

असुन्

सि‌.कौ.

अम्भः ।

मूलम्

उदके नुम्भौ च

210

विश्वास-प्रस्तुतिः

नहेर्दिवि भश्च

प्रत्ययाः

असुन्

सि‌.कौ.

नभः ।

मूलम्

नहेर्दिवि भश्च

211

विश्वास-प्रस्तुतिः

इण आग अपराधे च

प्रत्ययाः

असुन्

सि‌.कौ.

आगः पापापराधयोः ।

मूलम्

इण आग अपराधे च

212

विश्वास-प्रस्तुतिः

अमेर्हुक्च

प्रत्ययाः

असुन्

सि‌.कौ.

अंहः ।

मूलम्

अमेर्हुक्च

213

विश्वास-प्रस्तुतिः

रमेश्च

प्रत्ययाः

असुन्

सि‌.कौ.

रंहः ।

मूलम्

रमेश्च

214

विश्वास-प्रस्तुतिः

देशे ह च

प्रत्ययाः

असुन्

सि‌.कौ.

रमन्तेऽस्मिन् रहः ।

मूलम्

देशे ह च

215

विश्वास-प्रस्तुतिः

अञ्च्यञ्जियुजिभृजिभ्यः कुञ्च

प्रत्ययाः

असुन्

सि‌.कौ.

एभ्योऽसुन् कवर्गश्चान्तादेशः । अङ्कश्चिह्नशरीरयोः । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः ।

मूलम्

अञ्च्यञ्जियुजिभृजिभ्यः कुञ्च

216

विश्वास-प्रस्तुतिः

भूरञ्जिभ्यां कित्

प्रत्ययाः

असुन्

सि‌.कौ.

भुवः । रजः ।

मूलम्

भूरञ्जिभ्यां कित्

217

विश्वास-प्रस्तुतिः

वसेर्णित्

प्रत्ययाः

असुन्

सि‌.कौ.

वासो वस्त्रम् ।

मूलम्

वसेर्णित्

218

विश्वास-प्रस्तुतिः

चन्देरादेश्च छः

प्रत्ययाः

असुन्

सि‌.कौ.

छन्दः ।

मूलम्

चन्देरादेश्च छः

219

विश्वास-प्रस्तुतिः

पचिवचिभ्यां सुट् च

प्रत्ययाः

असुन्

सि‌.कौ.

पक्षसी तु स्मृतौ पक्षौ । वक्षो हृदयम् ।

मूलम्

पचिवचिभ्यां सुट् च

220

विश्वास-प्रस्तुतिः

वहिहाधाञ्भ्यश्छन्दसि

प्रत्ययाः

असुन्

सि‌.कौ.

वक्षाः अनड्वान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयोः ’आतो युक् – ७-३-३३’ इति युक् । शोणा धृष्णू नृवाहसा । श्रोता हवं गृणतः स्तोमवाहाः । विश्वो विहायाः । वाजम्भरो विहायाः । देवो न यः पृथिवीं विश्वधायाः । अधारयत् पृथिवीं विश्वधायसम् । धर्णसिं भूरिधायसमित्यादिः ।

मूलम्

वहिहाधाञ्भ्यश्छन्दसि

221

विश्वास-प्रस्तुतिः

इण आसिः

प्रत्ययाः

आसि

सि‌.कौ.

अयाः वह्निः । स्वरादिपाठादव्ययत्वम् ।

मूलम्

इण आसिः

222

विश्वास-प्रस्तुतिः

मिथुनेऽसिः पूर्ववच्च सर्वम्

प्रत्ययाः

असि

सि‌.कौ.

उपसर्गविशिष्टो धातुर्मिथुनं तन्नासुनोऽपवादोऽसिः । स्वरार्थः ।

मूलम्

मिथुनेऽसिः पूर्ववच्च सर्वम्

223

विश्वास-प्रस्तुतिः

नञि हन एह च

प्रत्ययाः

असि

सि‌.कौ.

अनेहाः । अनेहसौ ।

मूलम्

नञि हन एह च

224

विश्वास-प्रस्तुतिः

विधाञो वेध च

प्रत्ययाः

असि

सि‌.कौ.

विदधातीति वेधाः ।

मूलम्

विधाञो वेध च

225

विश्वास-प्रस्तुतिः

नुवो धुट् च

प्रत्ययाः

असि

सि‌.कौ.

नोधाः ।

मूलम्

नुवो धुट् च

226

विश्वास-प्रस्तुतिः

गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च

प्रत्ययाः

असि

सि‌.कौ.

असिः स्यात् । सुतपाः । जातवेदाः । [[6.2.139]] «गतिकारकोपदात् कृत्» इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् ।

मूलम्

गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च

227

विश्वास-प्रस्तुतिः

चन्द्रे मो डित्

प्रत्ययाः

असि

सि‌.कौ.

चन्द्रोपपदान्माङोऽसिः स्यात्स च डित् । चन्द्रमाः ।

मूलम्

चन्द्रे मो डित्

228

विश्वास-प्रस्तुतिः

वयसि धाञः

प्रत्ययाः

असि

सि‌.कौ.

वयोधास्तरुणः ।

मूलम्

वयसि धाञः

229

विश्वास-प्रस्तुतिः

पयसि च

प्रत्ययाः

असि

सि‌.कौ.

पयोधाः समुद्रो मेघश्च ।

मूलम्

पयसि च

230

विश्वास-प्रस्तुतिः

पुरसि च

प्रत्ययाः

असि

सि‌.कौ.

पुरोधाः ।

मूलम्

पुरसि च

231

विश्वास-प्रस्तुतिः

पुरूरवाः

प्रत्ययाः

असि

सि‌.कौ.

पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते ।

मूलम्

पुरूरवाः

232

विश्वास-प्रस्तुतिः

चक्षेर्बहुलं शिच्च

प्रत्ययाः

असि

सि‌.कौ.

नृचक्षाः ।

मूलम्

चक्षेर्बहुलं शिच्च

233

विश्वास-प्रस्तुतिः

उषः कित्

प्रत्ययाः

असि

सि‌.कौ.

उषः ।

मूलम्

उषः कित्

234

विश्वास-प्रस्तुतिः

दमेरुनसिः

प्रत्ययाः

उनसि

सि‌.कौ.

सप्तार्चिर्दमुनाः ।

मूलम्

दमेरुनसिः

235

विश्वास-प्रस्तुतिः

अङ्गतेरसिरिरुडागमश्च

प्रत्ययाः

असि

सि‌.कौ.

अङ्गिराः ।

मूलम्

अङ्गतेरसिरिरुडागमश्च

236

विश्वास-प्रस्तुतिः

सर्तेरप्पूर्वादसिः

प्रत्ययाः

असि

सि‌.कौ.

अप्सराः । प्रायेणायं भूम्नि । अप्सरसः ।

मूलम्

सर्तेरप्पूर्वादसिः

237

विश्वास-प्रस्तुतिः

विदिभुजिभ्यां विश्वे

प्रत्ययाः

असि

सि‌.कौ.

विश्ववेदाः । विश्वभोजाः ।

मूलम्

विदिभुजिभ्यां विश्वे

238

विश्वास-प्रस्तुतिः

वशेः कनसिः

प्रत्ययाः

कनसि

सि‌.कौ.

सम्प्रसारणम् । उशनाः

मूलम्

वशेः कनसिः

5

001

विश्वास-प्रस्तुतिः

अदि भुवो डुतच्

प्रत्ययाः

डुतच्

सि‌.कौ.

अद्भुतम् ।

मूलम्

अदि भुवो डुतच्

002

विश्वास-प्रस्तुतिः

गुधेरूमः

प्रत्ययाः

ऊम

सि‌.कौ.

गोधूमः ।

मूलम्

गुधेरूमः

003

विश्वास-प्रस्तुतिः

मसेरूरन्

प्रत्ययाः

ऊरन्

सि‌.कौ.

मसूरः। प्रथमे पादे असेरुरन्मसेश्चेत्यत्र व्याख्यातः ।

मूलम्

मसेरूरन्

004

विश्वास-प्रस्तुतिः

स्थः किच्च

प्रत्ययाः

ऊरन्

सि‌.कौ.

स्थूरो मनुष्यः ।

मूलम्

स्थः किच्च

005

विश्वास-प्रस्तुतिः

पातेरतिः

प्रत्ययाः

अति

सि‌.कौ.

पातिः स्वामी । संपातिः पक्षिराजः ।

मूलम्

पातेरतिः

006

विश्वास-प्रस्तुतिः

वातेर्नित्

प्रत्ययाः

अति

सि‌.कौ.

वातिरादित्यसोमयोः ।

मूलम्

वातेर्नित्

007

विश्वास-प्रस्तुतिः

अर्तेश्च

प्रत्ययाः

अति

सि‌.कौ.

अरतिरुद्वेगः ।

मूलम्

अर्तेश्च

008

विश्वास-प्रस्तुतिः

तृहेः क्नो हलोपश्च

प्रत्ययाः

क्न

सि‌.कौ.

तृणम् ।

मूलम्

तृहेः क्नो हलोपश्च

009

विश्वास-प्रस्तुतिः

वुञ्लुठितनिताडिभ्य उलच् तण्डश्च

प्रत्ययाः

उलच्

सि‌.कौ.

व्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः ।

मूलम्

वुञ्लुठितनिताडिभ्य उलच् तण्डश्च

010

विश्वास-प्रस्तुतिः

दंसेष्टटनौ न आ च

प्रत्ययाः

ट, टन्

सि‌.कौ.

दासः सेवकशूद्रयोः ।

मूलम्

दंसेष्टटनौ न आ च

011

विश्वास-प्रस्तुतिः

दंशेश्च

प्रत्ययाः

ट, टन्

सि‌.कौ.

दाशो धीवरः ।

मूलम्

दंशेश्च

012

विश्वास-प्रस्तुतिः

उदि चेर्डैसिः

प्रत्ययाः

डैसि

सि‌.कौ.

स्वरादिपाठादव्ययत्वम् । उच्चैः ।

मूलम्

उदि चेर्डैसिः

013

विश्वास-प्रस्तुतिः

नौ दीर्घश्च

प्रत्ययाः

डैसि

सि‌.कौ.

नीचैः ।

मूलम्

नौ दीर्घश्च

014

विश्वास-प्रस्तुतिः

सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः

प्रत्ययाः

क्त

सि‌.कौ.

रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यात् । कित्वादनुनासिकलोपः । सूरत उपशान्तो दयालुश्च ।

मूलम्

सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः

015

विश्वास-प्रस्तुतिः

पूञो यण् णुक् ह्रस्वश्च

प्रत्ययाः

यत्

सि‌.कौ.

यत्प्रत्ययः । पुण्यम् ।

मूलम्

पूञो यण् णुक् ह्रस्वश्च

016

विश्वास-प्रस्तुतिः

स्रंसेः शिः कुट् किश्च

प्रत्ययाः

यत्

सि‌.कौ.

स्रंसतेः शिरादेशः यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् ।

मूलम्

स्रंसेः शिः कुट् किश्च

017

विश्वास-प्रस्तुतिः

अर्तेः क्युरुच्च

प्रत्ययाः

क्यु

सि‌.कौ.

उरणो मेषः ।

मूलम्

अर्तेः क्युरुच्च

018

विश्वास-प्रस्तुतिः

हिंसेरीरन्नीरचौ

प्रत्ययाः

ईरन् , ईरच्

सि‌.कौ.

हिंसीरो व्याघ्रदुष्टयोः ।

मूलम्

हिंसेरीरन्नीरचौ

019

विश्वास-प्रस्तुतिः

उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च

प्रत्ययाः

अल्, अच्

सि‌.कौ.

उदरम् ।

मूलम्

उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च

020

विश्वास-प्रस्तुतिः

डित् खनेर्मुट् स चोदात्तः

प्रत्ययाः

अल्, अच्

सि‌.कौ.

अच् अल् च डित्स्याद्धातोर्मुट् स चोदात्तः । मुखम् ।

मूलम्

डित् खनेर्मुट् स चोदात्तः

021

विश्वास-प्रस्तुतिः

अमेः सन्

प्रत्ययाः

सन्

सि‌.कौ.

अंसः ।

मूलम्

अमेः सन्

022

विश्वास-प्रस्तुतिः

मुहेः खो मूर्च

प्रत्ययाः

सि‌.कौ.

मूर्खः ।

मूलम्

मुहेः खो मूर्च

023

विश्वास-प्रस्तुतिः

नहेर्हलोपश्च

प्रत्ययाः

सि‌.कौ.

नखः ।

मूलम्

नहेर्हलोपश्च

024

विश्वास-प्रस्तुतिः

शीङो ह्रस्वश्च

प्रत्ययाः

सि‌.कौ.

शिखा ।

मूलम्

शीङो ह्रस्वश्च

025

विश्वास-प्रस्तुतिः

माङ ऊखो मय् च

प्रत्ययाः

ऊख

सि‌.कौ.

मयूखः ।

मूलम्

माङ ऊखो मय् च

026

विश्वास-प्रस्तुतिः

कलिगलिभ्यां फगस्योच्च

प्रत्ययाः

फक्

सि‌.कौ.

कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः ।

मूलम्

कलिगलिभ्यां फगस्योच्च

027

विश्वास-प्रस्तुतिः

स्पृशेः श्वण्शुनौ पृ च

प्रत्ययाः

श्वण् , शुन्

सि‌.कौ.

श्वण्शुनौ प्रत्ययौ पृ इत्यादेशः । पार्श्वोऽस्त्री कक्षयोरधः । पर्शुरायुधम् ।

मूलम्

स्पृशेः श्वण्शुनौ पृ च

028

विश्वास-प्रस्तुतिः

श्मनि श्रयतेर्डुन्

प्रत्ययाः

डुन्

सि‌.कौ.

श्मन्शब्दो मुखवाची । मुखमाश्रयत इति श्मश्रुः ।

मूलम्

श्मनि श्रयतेर्डुन्

029

विश्वास-प्रस्तुतिः

अश्र्वादयश्च

प्रत्ययाः

डुन्

सि‌.कौ.

अश्रु नयनजलम् ।

मूलम्

अश्र्वादयश्च

030

विश्वास-प्रस्तुतिः

जनेष्टन् लोपश्च

प्रत्ययाः

टन्

सि‌.कौ.

जटा ।

मूलम्

जनेष्टन् लोपश्च

031

विश्वास-प्रस्तुतिः

अच् तस्य जङ्घ च

प्रत्ययाः

अच्

सि‌.कौ.

तस्य जनेः जङ्घादेशः स्यादच्च । जङ्घा ।

मूलम्

अच् तस्य जङ्घ च

032

विश्वास-प्रस्तुतिः

हन्तेः शरीरावयवे द्वे च

प्रत्ययाः

अच्

सि‌.कौ.

जघनम् । पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ।

मूलम्

हन्तेः शरीरावयवे द्वे च

033

विश्वास-प्रस्तुतिः

क्लिशेरन् लो लोपश्च

प्रत्ययाः

अन्

सि‌.कौ.

लकारस्य लोपः । केशः ।

मूलम्

क्लिशेरन् लो लोपश्च

034

विश्वास-प्रस्तुतिः

फलेरितजादेश्च पः

प्रत्ययाः

इतच्

सि‌.कौ.

पलितम् ।

मूलम्

फलेरितजादेश्च पः

035

विश्वास-प्रस्तुतिः

कृञादिभ्यः संज्ञायाम् वुन्

प्रत्ययाः

वुन्

सि‌.कौ.

करकः । करका । कटकः । नरकम् । नरकः । नरको नारकोऽपि चेति द्विरूपकोशः । सरकं गगनम् । कोरकः कोरकं च ।

मूलम्

कृञादिभ्यः संज्ञायाम् वुन्

036

विश्वास-प्रस्तुतिः

चीकयतेराद्यन्तविपर्ययश्च

प्रत्ययाः

वुन्

सि‌.कौ.

कीचको वंशभेदः ।

मूलम्

चीकयतेराद्यन्तविपर्ययश्च

037

विश्वास-प्रस्तुतिः

पचिमच्योरिच्चोपधायाः

प्रत्ययाः

वुन्

सि‌.कौ.

पेचकः । मेचकः ।

मूलम्

पचिमच्योरिच्चोपधायाः

038

विश्वास-प्रस्तुतिः

जनेररष्ठ च

प्रत्ययाः

अर

सि‌.कौ.

जठरम् ।

मूलम्

जनेररष्ठ च

039

विश्वास-प्रस्तुतिः

वचिमनिभ्यां चिच्च

प्रत्ययाः

अर

सि‌.कौ.

वठरो मूर्खः । मठरो मुनिशौण्डयोः । बिदादित्वान्माठरः। गर्गादित्वान्माठर्यः ।

मूलम्

वचिमनिभ्यां चिच्च

040

विश्वास-प्रस्तुतिः

ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च

प्रत्ययाः

अल्, अच्

सि‌.कौ.

ऊर्दरः शूररक्षसोः ।

मूलम्

ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च

041

विश्वास-प्रस्तुतिः

कृदरादयश्च

प्रत्ययाः

अल्

सि‌.कौ.

कृदरः । कुसूलः । मृदरं विलसत् । सृदरः सर्पः ।

मूलम्

कृदरादयश्च

042

विश्वास-प्रस्तुतिः

हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे

प्रत्ययाः

युन्

सि‌.कौ.

घातनो मारकः ।

मूलम्

हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे

043

विश्वास-प्रस्तुतिः

क्रमिगमिक्षमिभ्यस्तुन् वृद्धिश्च

प्रत्ययाः

तुन्

सि‌.कौ.

क्रान्तुः पक्षी । गान्तुः पथिकः । क्षान्तुर्मशकः ।

मूलम्

क्रमिगमिक्षमिभ्यस्तुन् वृद्धिश्च

044

विश्वास-प्रस्तुतिः

हर्यतेः कन्यन् हिर च

प्रत्ययाः

कन्यन्

सि‌.कौ.

कन्यन् प्रत्ययः । हिरण्यम् ।

मूलम्

हर्यतेः कन्यन् हिर च

045

विश्वास-प्रस्तुतिः

कृञः पासः

प्रत्ययाः

पास

सि‌.कौ.

कर्पासः । बिल्वादित्वात्कार्पासं वस्त्रम् ।

मूलम्

कृञः पासः

046

विश्वास-प्रस्तुतिः

जनेस्तु रश्च

प्रत्ययाः

तु

सि‌.कौ.

जर्तुर्हस्ती योनिश्च ।

मूलम्

जनेस्तु रश्च

047

विश्वास-प्रस्तुतिः

ऊर्णोतेर्डः

प्रत्ययाः

सि‌.कौ.

ऊर्णा ।

मूलम्

ऊर्णोतेर्डः

048

विश्वास-प्रस्तुतिः

दधातेर्यत् नुट् च

प्रत्ययाः

यत्

सि‌.कौ.

धान्यम् ।

मूलम्

दधातेर्यत् नुट् च

049

विश्वास-प्रस्तुतिः

जीर्यतेः क्रिन् रश्च वः

प्रत्ययाः

क्रिन्

सि‌.कौ.

जिव्रिः स्यात्कलपक्षिणोः । बहुलकात् [[8.2.77]] «हलि च» इति दीर्घो न ।

मूलम्

जीर्यतेः क्रिन् रश्च वः

050

विश्वास-प्रस्तुतिः

मव्यतेर्यलोपो मश्चापतुट् चालः

प्रत्ययाः

आल

सि‌.कौ.

मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य । ममापतालो विषये ।

मूलम्

मव्यतेर्यलोपो मश्चापतुट् चालः

051

विश्वास-प्रस्तुतिः

ऋजेः कीकन्

प्रत्ययाः

कीकन्

सि‌.कौ.

ऋजीक इन्द्रो धूमश्च ।

मूलम्

ऋजेः कीकन्

052

विश्वास-प्रस्तुतिः

तनोतेर्डउः सन्वच्च

प्रत्ययाः

डउ

सि‌.कौ.

तितउः । पुंसि क्लीबे ।

मूलम्

तनोतेर्डउः सन्वच्च

053

विश्वास-प्रस्तुतिः

अर्भकपृथुकपाका वयसि

प्रत्ययाः

वुन्, कुकन्, कन्

सि‌.कौ.

ऋधु वृद्धो । अतो वुन् । भकारश्चान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् ।

मूलम्

अर्भकपृथुकपाका वयसि

054

विश्वास-प्रस्तुतिः

अवद्यावमाधमार्वरेफाः

प्रत्ययाः

यत्, अम, वन्

सि‌.कौ.

कुत्सिते वदेर्नञि यत् । अवद्यम् । अवतेरमः । वस्य पक्षे धः । अवमः । अधमः । अर्तेर्वन् । अर्वा । रिफतेस्तौदादिकादेः । रेफः ।

मूलम्

अवद्यावमाधमार्वरेफाः

055

विश्वास-प्रस्तुतिः

लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः

प्रत्ययाः

त, र

सि‌.कौ.

तरौ प्रत्ययौ क्रमात् स्तो धातोर्ह्रस्वः प्रत्ययस्य पुट् । लिप्तं श्लिष्टम् । रिप्रं कुत्सितम् ।

मूलम्

लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः

056

विश्वास-प्रस्तुतिः

क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च

प्रत्ययाः

कन्

सि‌.कौ.

क्लिशेः कन् स्यात् उपाधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । कित्वफलं चिन्त्यम् ।

मूलम्

क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च

057

विश्वास-प्रस्तुतिः

अश्नोतेराशुकर्मणि वरट् च

प्रत्ययाः

वरट्

सि‌.कौ.

चकारादुपधाया ईत्वम् । ईश्वरः ।

मूलम्

अश्नोतेराशुकर्मणि वरट् च

058

विश्वास-प्रस्तुतिः

चतेरुरन्

प्रत्ययाः

उरन्

सि‌.कौ.

चत्वारः ।

मूलम्

चतेरुरन्

059

विश्वास-प्रस्तुतिः

प्राततेररन्

प्रत्ययाः

अरन्

सि‌.कौ.

प्रातः ।

मूलम्

प्राततेररन्

060

विश्वास-प्रस्तुतिः

अमेस्तुट् च

प्रत्ययाः

अरन्

सि‌.कौ.

अन्तर्मध्यम् ।

मूलम्

अमेस्तुट् च

061

विश्वास-प्रस्तुतिः

दहेर्गो लोपो दश्च नः

प्रत्ययाः

सि‌.कौ.

गप्रत्ययो धातोरन्तस्य लोपो दकारस्य नकारः । नगः ।

मूलम्

दहेर्गो लोपो दश्च नः

062

विश्वास-प्रस्तुतिः

सिचेः संज्ञायां हनुमौ कश्च

प्रत्ययाः

सि‌.कौ.

सिञ्चतेः कप्रत्ययो हकारादेशो नुम् च स्यात् । सिंहः ।

मूलम्

सिचेः संज्ञायां हनुमौ कश्च

063

विश्वास-प्रस्तुतिः

व्याङि घ्रातेश्च जातौ

प्रत्ययाः

सि‌.कौ.

कप्रत्ययः स्यात् । व्याघ्रः ।

मूलम्

व्याङि घ्रातेश्च जातौ

064

विश्वास-प्रस्तुतिः

हन्तेरच् घुर च

प्रत्ययाः

अच्

सि‌.कौ.

घोरम् ।

मूलम्

हन्तेरच् घुर च

065

विश्वास-प्रस्तुतिः

क्षमेरुपधालोपश्च

प्रत्ययाः

अच्

सि‌.कौ.

चादच् । क्ष्मा ।

मूलम्

क्षमेरुपधालोपश्च

066

विश्वास-प्रस्तुतिः

तरतेर्ड्रिः

प्रत्ययाः

ड्रि

सि‌.कौ.

त्रयः । त्रीन् ।

मूलम्

तरतेर्ड्रिः

067

विश्वास-प्रस्तुतिः

ग्रहेरनिः

प्रत्ययाः

अनि

सि‌.कौ.

ग्रहणिः ङीष् । ग्रहणी व्याधिभेदः ।

मूलम्

ग्रहेरनिः

068

विश्वास-प्रस्तुतिः

प्रथेरमच्

प्रत्ययाः

अमच्

सि‌.कौ.

प्रथमः ।

मूलम्

प्रथेरमच्

069

विश्वास-प्रस्तुतिः

चरेश्च

प्रत्ययाः

अमच्

सि‌.कौ.

चरमः ।

मूलम्

चरेश्च

070

विश्वास-प्रस्तुतिः

मङ्गेरलच्

प्रत्ययाः

अलच्

सि‌.कौ.

मङ्गलम् ।

मूलम्

मङ्गेरलच्