०४३ संनि=सन्नि (सम्+नि)

अस्

  • {संन्यस्}
  • अस् (असु क्षेपे)।
  • ‘संन्यस्य सर्वकर्माणि संन्यसेदनृणो द्विजः’ (मनु० ६।९५-९६)। प्रव्रजेदित्याह।
  • ‘भरत: शिरसा कृत्वा संन्यासं पादुके ततः’ (रा० २।११५।१५)। संन्यासम्=सद्वस्तुन्यासम्। (तिलकः)।
  • ‘ऋचीके भार्गवे प्रादाद् विष्णुः संन्यासमुत्तमम्’ (रा० १।७५।२२)। सन्न्यासशब्देन न्यास उच्यते। सम्शब्दोऽनर्थकः।
  • ‘संन्यस्य सागरानूपे चचार विपुलं तपः’ (हरि० १।१२।२०)। न्यासरूपेरण स्थापयित्वेत्यर्थः।
  • ‘बृस्यस्तेषां तु संन्यस्ताः’ (भा० शां० १७१।१३)। संन्यस्ताः संनिवेशिताः स्थापिताः।
  • ‘व्रीडादनु देवीमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः’ (कु० ७।६७)। संन्यस्तः=त्यक्तः।
  • ‘कृतसंन्यासा’ (कथा० ४।३६।५)। कृतसमया, श्रितसंवित्का।

काश्

  • {संनिकाश्}
  • काश् (काशृ दीप्तौ)।
  • ‘न सन्निकाशयेद् धर्मं विविक्ते चारजाश्चरेत्’ (भा० आश्व० ४६।२५)। प्रकाशयेदित्यर्थः।

कृष्

  • {संनिकृष्}
  • कृष् (कृष विलेखने)।
  • ‘सन्निकृष्टे च निकृष्टे कष्टं रज्यन्ति कुस्त्रियः’ (कथा० ६४।१२४)। सन्निकृष्टः=समवस्थः=समानास्पदः।
  • ‘सन्निकृष्टानिमान् सर्वान् अनुमन्त्र्य द्विजर्षभान्’ (रा० २।२।०)। सन्निकृष्टान् समीपवर्तिनः।
  • ‘सन्निकृष्टश्च नो वीर जयः शत्रोः पराजयः’ (रा० ३।३०।८)। सन्निहित इत्यर्थः।
  • ‘यस्य नार्तो जनपदः सन्निकर्षगतः सदा’ (भा० शां० ११५।१९)।
  • ‘श्वसतां व शृणोम्येवं गोपुत्राणां प्रतोद्यताम्। वहतां सुमहाभारं सन्निकर्षस्वनम्’ (भा० अनु० ११७।११-१२)। संनिकर्षः=कर्षणम् (अनसः)।
  • ‘न हि सेन्द्रियाणामन्यतमेन स्वरूपस्था सती (क्रिया) कदाचिदपि सन्निकृष्यते’ (नि० १।१।९ दुर्ग०)। सन्निकृष्यते=इन्द्रियसन्निकृर्षेण प्रत्यक्षी क्रियते।
  • ‘दमु’ (ऋक्तन्त्रे० ३।१।९)। अथ वृत्तिः–पदमुकारो न सन्निकृष्यते। न सन्धीयत इत्यर्थः।
  • ‘न युक्तमेवंगुणसन्निकृष्टं विहाय पुत्रम्’ (रा० ४।२०।२२)। गुणैः प्रत्यासन्नं तव सदृशमित्यर्थः।
  • ‘कस्य वा सन्निकर्षात्त्वं प्रविष्टा हृदयं मम’ (भा० शां० ३२०।५८)। संनिकर्षः संकेतः।
  • ‘कर्मणा संनिकर्षाच्च सतां योगः प्रवर्तते’ (याज्ञ० ३।१६०)। सन्निकर्षः सम्बन्ध इति बालक्रीडा।
  • ‘न चापि विद्येत स वीर देशो यस्मिन्भवेत् सोदरसन्निकर्षः’ (रा० ४।२४।२०)। सन्निकर्षः सान्निध्यम्।
  • ‘यस्य नार्तो जनपदः सन्निकर्षगतः सदा’ (भा० शां० ११५।१९)। सन्निकर्षगतः समीपवर्ती।

कॄ

  • {संनिकॄ}
  • कॄ (कॄ विक्षेपे)।
  • ‘विरहशयने संनिकीर्णेकपार्श्वाम्’ (मेघ० ८७)। संनिकीर्ण निषण्णम्।

गम्

  • {संनिगम्}
  • (गम्लृ गतौ)।
  • ‘यैः संनिगच्छति सर्वांस्तानतिरोचते’ (श० ब्रा० १४।५।१।९)। संगच्छते इत्याह। निशब्दस्य चारितार्थ्याय नितरां सङ्गच्छत इति व्याख्येयम्।

ग्रह्

  • {संनिग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘त्रैलोक्यं संनिगृह्यास्मांस्त्वां च’ (भा० वन० २२६।१९)। सन्निगृह्य=आत्मसात्कृत्य, न्यग्भाव्य, अधिकृत्य।
  • ‘तेजस्तत् संनिजग्राह पुनरेवान्तरात्मनि’ (भा० शां० २५७।१३)। सन्निजग्राह=संजहार।

दृश्

  • {संनिदृश्}
  • दृश् (दृशिर् प्रेक्षणे)।
  • ‘पक्षलम्भो ममायं वः प्रत्यक्षं सन्निदर्शितः’ (रा० ४।६३।१५)।

धा

  • {संनिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि सन्निधत्ते’ (रघु० १३।४४)। सन्निधत्ते आसञ्जयति।
  • ‘तेन (आदित्यः) सर्वान्प्राणान् रश्मिषु सन्निधत्ते’ (प्रश्न० उ० ११६)।
  • ‘दूरादाहृत्य समिधः सन्निदध्याद् विहायसि’ (मनु० २।१८६)। निक्षिपेदित्यर्थः।
  • ‘संनिदधुस्तत्र पाण्डवा आयुधानि’ (भा० आदि० २।२०७)। निचिक्षिपुरित्यर्थः।
  • ‘यथा सम्राडेवाधिकृतान् विनियुङ्क्ते एतान्ग्रामान् एतान्ग्रामानधितिष्ठस्वेत्येवैष प्राणः। इतरान्प्राणान् पृथक् पृथगेव सन्निधत्ते’ (प्रश्न० उ० ३।४)। सन्निधत्ते=प्रेरयति=प्रवर्तयति।
  • ‘ऋषीन् गन्धर्वा उपनिषेदुः, ते ह स्म संनिदधतीदं वाऽत्यरीरिचन्निदमूनमक्रन्निति’ (श० ब्रा० ११।२।३।७)। सन्निदधति=समीक्षन्ते।
  • ‘सङ्ग्रामो वा एष सन्निधीयते यः प्रयाजैर्यजेत’ (श० ब्रा० १।५।३।७)।
  • ‘सन्निधास्ये च ते स्मृतः’ (कथा० ५।५३)। ** संनिधास्ये=उपस्थास्ये।**
  • ‘स चाहं सह सख्या धनमित्रेण तत्र संन्यधिषि’ (दशकु०)। उपास्थिषीत्यर्थः।
  • ‘तनूर्वरुणस्य गृहे संनिदधावहै’ (ऐ० ब्रा० १।२४)। संनिधानं नीचैराधानम्।)
  • ‘नोच्चैः संनिहितो हसेत्’ (भा० वि० ४।८८)। सन्निधौ वर्तमान इत्यर्थः।
  • ‘नवं नेत्राद्वैतं कुवलयदृशः सन्निदधति’ (विद्ध० ४।१४)। सन्निधापयन्ति=उपस्थापयन्ति। इह धाञ् सकर्मकः।
  • ‘वाङ्मूर्तिर्मे देवता सन्निधत्ताम्’ (बालरा० १।१४) सन्निहिता भवतु, सन्निधिं कुरुतादित्यर्थः।
  • ‘देवा वै संग्रामं सन्निधास्यन्तः’ (श० ब्रा० १।२५।१८)। सन्नह्यमानाः, सज्जा भवन्तः।
  • ‘कायः संनिहितापायः’ (हितोप०)। संनिहितः=सन्निकृष्टः।
  • ‘ततो वित्तं विविधं सन्निधाय यथोत्साहं कारयित्वा च कोशम्’ (भा० आश्व १०।३५)। सन्निधाय=संगृह्य=समाहृत्य।
  • ‘पुत्रापेक्षी वञ्च्यते सन्निधाता’ (पञ्च० १।२२)। संनिधाता=संग्रहीता।
  • ‘इह हि शास्त्रे दृष्टान्यष्टादश तीर्थानि राज्ञाम्। तद्यथा-मन्त्रिपुरोहितसन्निधातृ०…’ (तन्त्रा० ३ उपक्रमे)।
  • ‘तस्मादाप्तपुरुषाधिष्ठितः सन्निधाता निचयाननुतिष्ठेत्’ (कौ० अ० २।५।२३)। सन्निधाता समाहर्ता।
  • ‘सन्निधातॄंश्च मोषस्य हन्यात्…’ (मनु० ९।२७८)। सन्निधातॄन्=अवस्थापकान्। मोषश्चौरधनम्।
  • ‘यो महत्यर्थे समुदये स्थितः कदर्यः…संनिधत्ते स्ववेश्मनि’ (को० अ० २।९।२५)। संनिधत्ते संगृह्णाति संचिनोति।
  • ‘भवेत् सर्वौषधीस्नानं सम्यङ् नारी समाचरेत्। तदा पञ्चशरस्यापि सन्निधातृत्वमेष्यति’ (मात्स्य पु० ७०।३४)॥ भवेदिति पूर्वेणान्वयि।

नी

  • {संनिनी}
  • नी (णीञ् प्रापणे)।
  • ‘सर्पिर्मधुनी दध्युदके च सन्निनीय’ (शाखा० गृ० १।२४, १।२४, शां० श्रौ० ४।१६।१०)। सन्निनीय=संमिश्र्य

पत्

  • {संनिपत्}
  • पत् (पत्लृ गतौ)।
  • ‘बाणाः संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च’ (भा० भीष्म ५२।६)। समं पेतुरित्याह।
  • ‘ततः संन्यपतन् सर्वे गन्धर्वाः सह’ (भा० वन० २४१।२१)। संन्यपतन्=प्रातिभट्येन समागच्छन्।
  • ‘योग्यत्वे सत्यृताववश्यं संनिपतेत्, असंनिपतन् पुत्रोत्पत्तिं निरुन्धानः प्रत्यवेयात्’ (आप० ध० २।१।१।१७ इत्यत्र हरदत्तः)। संनिपतेत्=संविशेत्, मिथुनी भवेत्।
  • ‘छत्र ध्वजं च समरे शराभ्यां संन्यपातयत्’ (भा० द्रोण० १६७।२७)। संन्यपातयत्=अवापातयत्, प्राभ्रंशयत्।
  • ‘तौ संनिपातयेत्’ (वा.गृ० १६।१)। मिथुनी कुर्यादित्याह।
  • ‘वेदमौर्वीविपञ्चीनां ध्वनयः प्रतिमन्दिरम्। यत्र संनिपतन्तोपि न बाधन्ते परस्परम्’ (बृ० श्लो० सं० १।३)॥ संनिपतन्तः समागच्छन्तः सङ्गच्छमानाः। साकमुत्तिष्ठन्ति इत्यर्थः।
  • ‘धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः’ (मेघ० ५)। सन्निपातः समुदायः।
  • ‘एको हि दोषो गुरणसन्निपाते निमज्जति’ (कु० १।३)। उक्तोऽर्थः।
  • ‘प्राणानां सन्निपाताच्च संनिपातः प्रजायते’ (भा० शां० १८२।१५)। सन्निपातात्=सङ्गमात्।
  • ‘व्यपगतसुखदुःखसंनिपातः’ (यो० वा० ५।७४।९१)। संनिपातः=संसर्गः=संश्लेषः।
  • ‘प्रतीमो हि वयमक्षसंनिपातानन्तरमविविक्तसामान्यविशेषविभागं संमुग्धवस्तुमात्रगोचरमालोचनज्ञानम्’ (शा० दी० १।४)। संनिपातः=संयोगः।
  • ‘संनिपाते परस्य’ (गौ० ध० १।६।४)। युगपत्समवाये, एकत्र मेलने इत्याह।
  • ‘दर्शपूर्णमासयोर्विकृतेश्च सन्निपाते’ (भा० श्रौ० ६।१६।१)। सन्निपाते युगपत् प्राप्तौ।
  • ‘यदृच्छासंनिपाते उपसङ्गृह्य तूष्णीं व्यतिव्रजेत्’ (आप० ध० १।१८।८)। यदृच्छासंनिपाते=समापत्तौ=अतर्किते समागमे। संचिन्त्य तु पार्थेन संनिपातो न नः क्षमः। संग्रामो न युक्त इत्याह।
  • ‘सुमहान्संनिपातोऽभूद् धनञ्जयबृहन्तयोः’ (भा० सभा० २७।८)। उक्तोऽर्थः।
  • ‘स संनिपातस्तुमुलस्तस्य तेषां च भारत’ (भा० द्रोण० १५३।१४)।
  • ‘महता संनिपातेन क्षत्रियान्तकरेग ह’ (भा० सभा० २८।२)।
  • ‘सन्निपातो न मन्तव्यः शक्ये सति कथंचन’ (भा० शां० १०२।२२)। न मन्तव्यः=नैष्टव्यः।
  • ‘देवि ! उरभ्रसंनिपातं पश्यामः’ (माल० १)।
  • ‘न शक्या समाधातुं सन्निपाते महाचमूः’ (भा० भीष्म० ३।७८)। सन्निपातः सङ्घर्षः।
  • ‘मदीयेनाथ नागेन वेगेनापत्य दूरतः। सन्निपातो महान्दत्तो दन्तयोर्वनदन्तिनः’ (वृ० श्लो० सं०)। सन्निपातः=प्रहारः।
  • ‘ऋतौ च संनिपातो दारेणानुव्रतम्’ (आप० ध० २।१।१।१७)। संनिपातः=संभवः, व्यवायः, मिथुनीभावः, मैथुनम्।
  • यावत् सम्पातं चैव सह शय्या’ (आप० ध० २।१।१।२१)।
  • ‘सवर्णायामन्यपूर्वायां सकृत् सन्निपाते पादः पततीत्युपदिशन्ति’ (आप० ध० २।२७।११)। उक्तोऽर्थः।
  • ‘न सन्निपतितं धर्म्यमुपभोगं यदृच्छया। प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम्’ (भा० शां० १७९।२४)॥ संनिपतितमुपनतम्, स्वगोचरं गतम्।
  • ‘राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्’ (रा० ३।२७।१)। संनिपत्य त्वरया तत्समीपं गत्वा।
  • ‘संनिपत्य प्रकृतिभिर्मातृगुप्तोऽभ्यषिच्यत’ (राज० ३।२३९)। समेत्येत्यर्थः। संनिपत्योपकारकः=सद्यः साक्षाद्वाऽनुग्राहकः साधको वा।
  • ‘रुमण्वता तु तक्षाणः सन्निपात्य प्रचोदिताः’ (बृ० श्लो० सं० ५।१९६)। संनिपात्य=एकीकृत्य समानाय्य।
  • ‘अथ स राजा पौरजानपदान् संनिपात्य’ (अवदा० यज्ञजा०)। उक्तोऽर्थः।
  • ‘तस्य विद्यागुरून्योनिसम्बन्धांश्च संनिपात्य सर्वाण्युदकादीनि प्रेतकर्म्माणि कुर्युः’ (गौ० ध० ३।२।२)। संनिपात्य=एकत्र समवेतान्कृत्वा।
  • ‘स संनिपात्यावरजान्’ (रघु० १४।३६)। उक्तोऽर्थः।
  • ‘त्वत्कृते हि मया वीर राजानः संनिपातिताः’ (भा० वन० ५६।३)। संनिपातिताः=समानायिताः।
  • ‘मन्त्रान्तैः कर्मादिः सान्निपात्योऽभिधानात्’ (का० श्रौ० १।३।५)। सन्निपात्यः। छान्दसो दीर्घः। सम्बन्धनीय इत्यर्थः। मन्त्रमुच्चार्य तत्समाप्तिकाल एव यागादिक्रियानुष्ठेयेत्याह।
  • ‘इत्येतस्मिन्सनिपातिनो गुणा एकैकशोप्यन्यत्र दुर्लभाः’ (दशकु०)। सनिपातिनः=समवायिनः=समुदायिनः।
  • ‘संनिपत्य महातेजास्तांश्च सर्वान् वनौकसः’ (रा० ६।९१।२)। संनिपत्य सङ्गम्य।
  • ‘संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत्’ (भा० शां० ८७।२६)। स्वविषये तेषु स्वायत्तेषु ग्रामेषु संनिपत्य गत्वा।
  • ‘संभवति च सन्निपत्योपकारित्वे आरादुपकारित्वं नाश्रयितुं युक्तम्’ (मी० १०।१।११ सूत्रे कुतूहलवृत्तौ)। सन्निपत्य साध्येनोत्तमं संश्लिष्य संगत्य सन्निकृष्य। सामीप्यसम्बन्धेनेति यावत्।
  • ‘वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः’ (रा० ५।५२।१५)। लक्षणसन्निपातो दूतयोग्याङ्कनसम्बन्धः।
  • ‘अप्रधानकालं सकृदसंनिपातात्’ (का० श्रौ० १।७।१४)। संनिपातः सम्बन्धः केनचित्कर्मणा।
  • ‘आकम्प्राग्रैः केतुभिः संनिपातं तारोदीर्णग्रै वनादं वजन्तः’ (शिशु० १८।३७)। सन्निपातः सङ्घर्षः, स्पर्धा।
  • ‘तयोर्देवासुरसमः संनिपातो महानभूत्’ (भा० वि० ५९।२)। सन्निपातः समागमः सङ्ग्रामः।

बन्ध्

  • {संनिबन्ध्}
  • बन्ध् (बन्ध बन्धने)।
  • ‘संसारे संनिबद्धानां निगडच्छेदकर्तरी (ब्रह्मवै० पु०)।
  • ‘भरते संनिबद्धाः स्मः सौनिके पशवो यथा’ (रा० २।४८।२५)। संनिबद्धाः सन्दिताः, सन्दानिताः, शृङ्खलिताः।

युज्

  • {संनियुज्}
  • युज् (युजिर् योगे)।
  • ‘ततो मां विषये ह्यद्य व्यसने संनियोक्ष्यति’ (मार्क० पु० ९९।२०)। निपातयिष्यतीत्याह। संनियोगशिष्टानामेकतरापाये तदितरस्याप्यपाय: (परिभाषा)। संनियोगः=एकक्रियान्वयः।
  • ‘तासां संनियोगमेकैकं हरिवल्लभा’ (हरि० २।७६।१९)। संनियोगं दिव्यवस्त्राभरणादिकम्।

रुध्

  • {संनिरुध्}
  • रुध् (रुधिर् आवरणे)।
  • ‘यद्यपि न सन्तिरुध्यते दुःखं तथापि तदभिभवः शक्यः कर्तुम्’ (साङ्ख्य त० का० १ व्याख्यायाम् )। सन्निरुध्यते=उच्छिद्यते।
  • ‘श्रुतिश्च सन्निरुध्यते पुरा तवेह’ (भा० शां० ३२१।३९)।
  • ‘कामक्रोधस्य लोभस्य सन्निरुद्धस्य मेधया’ (हरि० ३।१८।५)।

वप्

  • {संनिवप्}
  • वप् (डुवप बीजसन्ताने)।
  • ‘न तु धर्मसन्निवापः स्यात्’ (आप० १।२८।२०)। एकस्मिन्धर्मे सहान्वयः सन्निवापः।
  • ‘अथैनौ संनिवपति’ (श० ब्रा० ७।१।१।६८)। ससमग्निना संयुनक्ति।
  • ‘नानाग्नीनां संनिवापं वर्जयेत्’ (आप० ध० २।५।१२।१०)। संनिवापः=समावेशनम्।

विश्

  • {संनिविश्}
  • विश् (विश प्रवेशने)।
  • ‘यादृशैः संनिविशते यादृशांश्चोपसेवते’ (भा० (भा० उ० ३६।१३)। संनिविशते=सहास्ते, संगच्छते।
  • ‘उदात्तानुदात्तसंनिवेशात्स्वरितः’ (अपि० शि० ८।२२)। संनिवेशः=मेलनम्।
  • ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदि संनिविष्टः’ (कठ० उ० ६।१७)। सनिविष्टः=स्थितः।
  • ‘स्वसंनिवेशाद्व्यतिलङ्घिनि’ (रघु० ६।१९)। सनिवेशः स्थानम्। संनिवेशो निकर्षणम् (अमरः)।
  • ‘देशं कालं तथा स्थानं संनिवेशं तथैव च’ (याज्ञ० )। इत्यत्र विश्वरूपाचार्येण स्थानं पत्तनादिकं तत्रैव दिग्विभागपरिच्छिन्नानि कियन्त्यपि गृहाणि सम्यङ् निविष्टानि संनिवेश इत्युक्तम्।
  • ‘विनाद्भिरप्सु वाप्यार्तः शारीरं संनिवेश्य च’ (मनु० ११।२०२)। शारीरं मूत्रं पुरीषं वा। संनिवेश्य=समुत्सृज्य।
  • ‘आख्याति ते प्रियतमस्य हि संनिवेशम्’ (मृच्छ० ५।३३)। सनिवेशम्=निवेशं निवेशनं गृहम्।

वृत्

  • {संनिवृत्}
  • वृत् (वतु वर्तने)।
  • ‘समानः संनिवर्तयेत्’ (हरि० १।८०।५८)। अशितपीतादिकं समी कुर्यात्। यथास्थानं प्रापयेदित्यर्थः।
  • ‘अन्ये सम्बन्धिनो विप्र मृत्युना संनिवर्तिताः’ (मार्क० पु० ७६।३३)। प्रतिप्रेषिता इत्याह।
  • ‘संनिवर्त्यानुजान्सर्वान्’ (भा० वि० १।७)। संनिवर्त्य=एकत्रानीय संगमय्य। अत्र वर्ततिर्गत्यर्थः। न च पुनरावर्तत इति प्रयोगदर्शनात्।

सृज्

  • {संनिसृज्}
  • सृज् (सृज विसर्गे)।
  • ‘भरते संनिकृष्टाः स्मः सौनिके पशवो यथा’ (रा० २।४८।२८)॥ संन्निकृष्टा निक्षिप्ताः।

सद्

  • {संनिसद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘द्वौ संनिषद्य यन्मन्त्रयेते’ (अथर्व० ४।१६।२)। संनिषद्य=उपोपविश्य।