व्युत्पत्तयः

जिज्ञासा

जिज्ञासा

सन्नन्त-धातु-सिद्धिः

ज्ञा भूवादयो धातवः १.३.१ (धातु-संज्ञा-विधानम्)
ज्ञा + सन् धातोः कर्मणः समान-कर्तृकाद् इच्छायां वा ३.१.७ (सनो विधानम्)
ज्ञा + सन् सनाद्यन्ता धातवः ३.१.३२ (समुदायम् प्रति धातु-संज्ञा-विधानम्)
ज्ञा + सन् हलन्त्यम् १.३.३ (नकारम् प्रति इत्-संज्ञा)
ज्ञा + स तस्य लोपः १.३.९ (इत्-लोपः)
ज्ञा + स ज्ञाश्रुस्मृदृशां सनः १.३.५७ (धातवे आत्मनेपदित्व-विधानम्)
ज्ञा + स एकाच उपदेशेऽनुदात्तात् ७.२.१० (इट्-आगमाभावः)
ज्ञा + ज्ञा + स सन्-यङोः ६.१.९ (धातोर् द्वित्त्वम्)
ज्ञा + ज्ञा + स पूर्वोऽभ्यासः ६.१.४ (प्रथमस्य +अभ्यास-संज्ञा)
जा + ज्ञा + स हलादिः शेषः ७.४.६० (अभ्यासय् आदिमो हि हल् शिष्यते)
+ ज्ञा + स ह्रस्वः ७.४.५९ (अभ्यासस्य ह्रस्वीभावः)
जि + ज्ञा + स सन्यतः ७.४.७९ (अभ्यासे ऽकारस्य स्थानय् इकारः)

अ-प्रत्यय-विधानम्

जि + ज्ञा + स + अ प्रत्ययात् ३.३.१०२ (प्रत्ययान्ताद् धातोर् अ-प्रत्यय-विधानम्, स्त्र्यर्थे)

स्त्री-प्रत्यय-योजनम्

जि + ज्ञा + स + अ + टाप् अजाद्यतष्टाप् ४.१.४ (स्त्रियां टाप्-विधानम्)
जि + ज्ञा + स + अ + टाप् हलन्त्यम् १.३.३ (पकारस्येत्-संज्ञा)
जि + ज्ञा + स + अ + टाप् चुटू १.३.७ (टकारस्येत्-संज्ञा)
जि + ज्ञा + स + अ + तस्य लोपः १.३.९ (इतोर् लोपः)
जि + ज्ञा + स + अ + आ कृत्तद्धितसमासाश्च (“प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्” इति परिभाषा च) १.२.४६ (प्रातिपदिक-संज्ञा)

सन्धि-कार्यम्

जि + ज्ञा + स + + आ आर्धधातुकं शेषः ३.४.११४ (अ-प्रत्ययस्यार्धधातुकत्वम्)
जि + ज्ञा + स + अ + आर्धधातुकं शेषः ३.४.११४ (आ-प्रत्ययस्यार्धधातुकत्वम्)
जि + ज्ञा + स् + अ + आ अतो लोपः ६.४.४८ (आर्धधातुके परे ऽकारस्य लोपः)
जि + ज्ञा + स् + आ अतो लोपः ६.४.४८ (आर्धधातुके परे ऽकारस्य लोपः)
जि + ज्ञा + स् + आ अज्झनगमां सनि ६.४.१६ (अङ्गस्य दीर्घता, इडागमाभावे)
जि + ज्ञा + स् + आ य्-अचि भम् १.४.१८ (अङ्गस्य भ-संज्ञा)

जिज्ञासा