०१

एकाचो द्वे प्रथमस्य ॥ ६.१.१॥

अधिकारोऽयम्। एकाच इति च, द्वे इति च, प्रथमस्येति च त्रितयमधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः प्राक् संप्रसारणविधानात् तत्रैकाचः प्रथमस्य द्वे भवत इत्येवं तद् वेदितव्यम्। वक्ष्यति- ‘लिटि धातोरनभ्यासस्य’ (६.१.८) इति। तत्र धातोरवयवस्यानभ्यासस्य प्रथमस्यैकाचो द्वे भवतः। जजागार। पपाच। इयाय। आर। एकाच इति बहुव्रीहिनिर्देशः। एकोऽच् यस्य सोऽयमेकाच् इत्यवयवेन विग्रहः। तत्र समुदायः समासार्थः। अभ्यन्तरश्च समुदायेऽवयवो भवतीति साच्कस्यैव द्विर्वचनं भवति। एवं च पच् इत्यत्र येनैवाचा समुदाय एकाच् तेनैव तदवयवोऽच्शब्दः पशब्दश्च। तत्र पृथगवयवैकाचो न द्विरुच्यन्ते। किं तर्हि ? समुदायैकाजेव। तथा हि सकृच्छास्त्रप्रवृत्त्या सावयवः समुदायोऽनुगृह्यते। पपाचेत्यत्र प्रथमत्वं व्यपदेशिवद्भावात्। इयाय आरेत्यत्रैकाच्त्वमपि व्यपदेशिवद्भावादेव। द्विःप्रयोगश्च द्विर्वचनमिदम्, आवृत्तिसंख्या हि द्वे इति विधीयते। तेन स एव शब्दो द्विरुच्चार्यते, न च शब्दान्तरं तस्य स्थाने विधीयते॥

अजादेर्द्वितीयस्य ॥ ६.१.२॥

प्रथमद्विर्वचनापवादोऽयम्। अजादेर्द्वितीयस्यैकाचो द्विर्वचनमधिक्रियते। अच् आदिर्यस्य धातोस्तदवयवस्य द्वितीयस्यैकाचो द्वे भवतः। अटिटिषति। अशिशिषति। अरिरिषति। अर्तेः ‘स्मिपूङ्रञ्ज्वशां सनि’ (७.२.७४) इतीट् क्रियते। तस्मिन् कृते गुणे च रपरत्वे च ‘द्विर्वचनेऽचि’ (१.१.५९) इति स्थानिवद्भावः प्राप्नोति। तत्र प्रतिविधानं द्विर्वचननिमित्तेऽचीत्युच्यते। न चात्र द्विर्वचनानिमित्तमिट्। किं तर्हि? कार्यी। ‘न च कार्यी निमित्तत्वेनाश्रीयते’। तथा हि क्ङिन्निमित्तयोर्गुणवृद्ध्योः प्रतिषेधो विधीयमानः शयितेत्यत्र न भवति, न हि कार्यिणः शीङो गुणं प्रति निमित्तभाव इति। अत्र केचिदजादेरिति कर्मधारयात् पञ्चमीमिच्छन्ति- अच्चासावादिश्चेत्यजादिः, तस्माद् अजादेरुत्तरस्यैकाचो द्वे भवत इति। तेषां द्वितीयस्येति विस्पष्टार्थं द्रष्टव्यम्॥

न न्द्राः संयोगादयः ॥ ६.१.३॥

द्वितीयस्येति वर्तते। द्वितीयस्यैकाचोऽवयवभूतानां न्द्राणां तदन्तर्भावात् प्राप्तं द्विर्वचनं प्रतिषिध्यते। नकारदकाररेफा द्वितीयैकाचोऽवयवभूताः संयोगादयो न द्विरुच्यन्ते। उन्दिदिषति। अड्डिडिषति। अर्चिचिषति। न्द्रा इति किम् ? ईचिक्षिषते। संयोगादय इति किम् ? प्राणिणिषति। अनितेः ‘उभौ साभ्यासस्य’ (८.४.२१) इति णत्वम्। अजादेरित्येव-दिद्रासति। केचिदजादेरित्यपि पञ्चम्यन्तं कर्मधारयमनुवर्तयन्ति। तस्य प्रयोजनम्- इन्दिद्रीयिषति इति। अजादेरनन्तरत्वाभावद् दकारो द्विरुच्यत एव, नकारो न द्विरुच्यते। इन्द्रमिच्छति इति क्यच्, तदन्ताद् इन्द्रीयितुमिच्छतीति सन्॥ बकारस्याप्ययं प्रतिषेधो वक्तव्यः॥ उब्जिजिषति। यदा बकारोपध उब्जिरुपदिश्यते तदायं प्रतिषेधः। दकारोपधोपदेशे तु न वक्तव्यः। बत्वं तु दकारस्य विधातव्यम्॥ यकारपरस्य रेफस्य प्रतिषेधो न भवतीति वक्तव्यम्॥ अरार्यते। अर्तेः अट्यर्त्यशूर्णोतीनामुपसंख्यानम् (३.१.२२ वा०) इति यङ्। तत्र ‘यङि च’ (७.४.३०) इति गुणः, ततो द्विर्वचनम्॥ ईर्ष्यतेस्तृतीयस्य द्वे भवत इति वक्तव्यम्॥ कस्य तृतीयस्य ? केचिदाहुर्व्यञ्जनस्येति। ईर्ष्यियिषति। अपरे पुनस्तृतीयस्यैकाच इति व्याचक्षते। ईर्ष्यिषिषति॥ कण्ड्वादीनां तृतीयस्यैकाचो द्वे भवत इति वक्तव्यम्॥ कण्डूयियिषति। असूयियिषति॥ वा नामधातूनां तृतीयस्यैकाचो द्वे भवत इति वक्तव्यम्॥ अश्वीयियिषति। अशिश्वीयिषति। अपर आह॥ यथेष्टं नामधातुष्विति वक्तव्यम्॥ पुपुत्रीयिषति। पुतित्रीयिषति। पुत्रीयियिषति। पुपुतित्रीयियिषति। पुत्रीयिषिषति॥

पूर्वोऽभ्यासः ॥ ६.१.४॥

द्वे इति प्रथमान्तं यदनुवर्तते, तदर्थादिह षष्ठ्यन्तं जायते। तत्र प्रत्यासत्तेरस्मिन् प्रकरणे ये द्वे विहिते, तयोर्यः पूर्वोऽवयवः सोऽभ्याससंज्ञो भवति। पपाच। पिपक्षति। पापच्यते। जुहोति। अपीपचत्। अभ्यासप्रदेशास्तु-‘अत्र लोपोऽभ्यासस्य’ (७.४.५८) इत्येवमादयः॥

उभे अभ्यस्तम् ॥ ६.१.५॥

द्वे इति वर्तमान उभेग्रहणं समुदायसंज्ञाप्रतिपत्त्यर्थम्। ये द्वे विहिते, ते उभे अपि समुदिते अभ्यस्तसंज्ञे भवतः। ददति। ददत्। दधतु। उभेग्रहणं किम्? नेनिजतीत्यत्र ‘अभ्यस्तानामादिः’ (६.१.१८९) इति समुदाय उदात्तत्वं यथा स्यात् प्रत्येकं पर्यायेण वा मा भूदिति। अभ्यस्तप्रदेशाः- ‘अभ्यस्तानामादिः’ (६.१.१८९) इत्येवमादयः॥

**जक्षित्यादयः षट् ॥ ६.१.६॥ **

अभ्यस्तमिति वर्तते। जक्ष इत्ययं धातुरित्यादयश्चान्ये षड् धातवोऽभ्यस्तसंज्ञा भवन्ति। सेयं सप्तानां धातूनामभ्यस्तसंज्ञा विधीयते- ‘जक्ष भक्षहसनयोः’ इत्यतः प्रभृति ‘वेवीङ् वेतिना तुल्ये’ इति यावत्। जक्षति। जाग्रति। दरिद्रति। चकासति। शासति। दीध्यते, वेव्यत इत्यत्र ‘अभ्यस्तानामादिः’ (६.१.१८९) इत्येष स्वरः प्रयोजनम्। दीध्यदिति च शतरि व्यत्ययेन संपादिते ‘नाभ्यस्ताच्छतुः’(७.१.७८) इति नुमः प्रतिषेधः॥

तुजादीनां दीर्घोऽभ्यासस्य ॥ ६.१.७॥

तुजादीनामिति प्रकार आदिशब्दः। कश्च प्रकारः ? तुजेर्दीर्घोऽभ्यासस्य न विहितः, दृश्यते च। ये तथाभूतास्ते तुजादयस्तेषामभ्यासस्य दीर्घः साधुर्भवति। तूतु॑जानः॒ (ऋ० १.३.६)। मामहा॒नः (तै० सं० ४.६.३.२)। दाधान। मी॑माय (शौ० सं० ५.११.३)। अ॒न॒ड्वान् दा॑धार। (शौ० सं० ४.११.१)। स तू॑ताव (ऋ० १.९४.२)। दीर्घश्चैषां छन्दसि प्रत्ययविशेष एव दृश्यते, ततोऽन्यत्र न भवति। तुतोज शबलान् हरीन्॥

लिटि धातोरनभ्यासस्य ॥ ६.१.८॥

लिटि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पपाच। पपाठ प्रोर्णुनाव। ‘वाच्य ऊर्णोर्णुवद्भावः०’ (का० ३.१.३६) इति वचनाद् ऊर्णोतेः ‘इजादेः०’ (३.१.३६) इत्याम् न भवति। लिटीति किम् ? कर्ता। हर्ता। धातोरिति किम् ? सस॒वांसो॒ विशृ॑ण्विरे (ऋ० ४.८.६)। इ॒म इन्द्रा॑य सुन्विरे॒ (ऋ० ७.३२.४)। अनभ्यासस्येति किम् ? कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् (ऋ० १.७९.२)। नोनूयतेर्नोनाव। समा॒न्या म॒रुतः॒ संमि॑मिक्षुः (ऋ० १.१६५.१)। लिटि उसन्तः॥ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्॥ यो जा॒गार॒ तमृचः॑ कामयन्ते॒ (ऋ० ५.४४.१४)। दाति॑ प्रि॒याणि॑ (ऋ० ४.८.३) इति॥

सन्यङोः ॥ ६.१.९॥

धातोरनभ्यासस्येति वर्तते। सन्यङोरिति च षष्ठ्यन्तमेतत्। सन्नन्तस्य यङन्तस्य चानभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पिपक्षति। पिपतिषति। अरिरिषति। उन्दिदिषति। यङन्तस्य- पापच्यते। अटाट्यते। यायज्यते। अरार्यते। प्रोर्णोनूयते। अनभ्यासस्येत्येव-जुगुप्सिषते। लोलूयिषते॥

श्लौ ॥ ६.१.१०॥

श्लौ परतोऽनभ्यासस्य धातेरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। जुहोति। बिभेति। जिह्रेति॥

चङि ॥ ६.१.११॥

चङि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। अपीपचत्। अपीपठत्। आटिटत्। आशिशत्। आर्दिदत्। पचादीनां ण्यन्तानां चङि कृते णिलोप उपधाह्रस्वत्वं द्विर्वचनमित्येषां कार्याणां प्रवृत्तिक्रमः। तथा च ‘सन्वल्लघुनि चङ्परे०’ (७.४.९३) इति सन्वद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावाद् न प्रतिषिध्यते। यो ह्यनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावो भवति। न चास्मिन् कार्याणां क्रमेणानादिष्टादचः पूर्वोऽभ्यासो भवतीति। आटिटदिति ‘द्विर्वचनेऽचि’ (१.१.५९) इति स्थानिवद्भावाद् द्वितीयस्यैकाचो द्विर्वचनं भवति॥

दाश्वान् साह्वान् मीढ्वांश्च ॥ ६.१.१२॥

दाश्वान् साह्वान् मीढ्वानित्येते शब्दाश्छन्दसि भाषायां चाविशेषेण निपात्यन्ते। दाश्वानिति ‘दाशृ दाने’ इत्येतस्य धातोः क्वसावद्विर्वचनमनिट्त्वं च निपात्येते। दा॒श्वांसो॑ दा॒शुषः॑ सु॒तम् (ऋ० १.३.७) इति। साह्वानिति ‘षह मर्षणे’ इत्येतस्य परस्मैपदमुपधादीर्घत्वमद्विर्वचनमनिट्त्वं च निपातनात्। साह्वान् बलाहकः। मीढ्वानिति ‘मिह सेचने’ इत्येतस्याद्विर्वचनमनिट्त्वमुपधादीर्घत्वं ढत्वं च निपातनात्। मीढ्व॑स्तो॒काय॒ तन॑याय मृड (ऋ० २.३३.१४)। एकवचनमतन्त्रम् ॥ कृञादीनां के द्वे भवत इति वक्तव्यम्॥ क्रियतेऽनेनेति चक्रम्। चिक्लिदम्। कृञः क्लिदेश्च ‘घञर्थे कविधानम्०’ (३.३.५८. वा०) इति कः प्रत्ययः॥ चरिचलिपतिवदीनां द्वित्वमच्याक्चाभ्यासस्य॥ चरादीनां धातूनामचि प्रत्यये परतो द्वे भवतः। अभ्यासस्यागागमो भवति। अगागमविधानसामर्थ्याच्च हलादिशेषो न भवति। हलादिशेषे हि सत्यागमस्यादेशस्य च विशेषो नास्ति। चराचरः। चलाचलः। पतापतः। वदावदः॥ वेति वक्तव्यम्॥ तेन चरः पुरुषः, चलो रथः, पतं यानम्, वदो मनुष्य इत्येवमाद्यपि सिद्धं भवति ॥ हन्तेर्घत्वं च॥ हन्तेरचि प्रत्यये परतो द्वे भवतोऽभ्यासस्य च हकारस्य च घत्वमाक् चागमो भवति। परस्य ‘ अभ्यासाच्च’ (७.३.५५) इति कुत्वम्। घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् (ऋ० १०.१०३.१)॥ पाटेर्णिलुक् चोक् च दीर्घश्चाभ्यासस्य॥ पाटेरचि परतो द्वे भवतो णिलुक् च भवति। अभ्यासस्य चोगागमो दीर्घश्च भवति। पाटूपटः॥

ष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे ॥ ६.१.१३॥

पुत्र पति इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे ष्यङः संप्रसारणं भवति। यणः स्थान इग् भवतीत्यर्थः। कारीषगन्धीपुत्रः। कारीषगन्धीपतिः। कौमुदगन्धीपुत्रः। कौमुदगन्धी-पतिः। करीषस्येव गन्धोऽस्य, कुमुदस्येव गन्धोऽस्येति बहुव्रीहिः, तत्र ‘उपमानाच्च’ (५.४.१३७) इति गन्धस्येदन्तादेशः। करीषगन्धेरपत्यमित्यण्, तदन्तात् स्त्रियाम् ‘अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे’ (४.१.७८) इति ष्यङ्, ततश्चापि विहिते षष्ठीसमासः, ‘संप्रसारणस्य’ (६.३.१३९) इति दीर्घत्वम्। ष्यङ इति किम् ? इभ्यापुत्रः। क्षत्रियापुत्रः। पुत्रपत्योरिति किम् ? कारीषगन्ध्याकुलम्। कौमुदगन्ध्याकुलम्। तत्पुरुष इति किम् ? कारीषगन्ध्या पतिरस्य ग्रामस्य, कारीषगन्ध्यापतिरयं ग्रामः। ष्यङ इति स्त्रीप्रत्ययग्रहणं ‘न स्त्रीप्रत्यये चानुपसर्जने’ इति प्रत्ययग्रहणपरिभाषया ‘यस्मात् स विहितस्तदादेः०’ इत्येष नियमो नास्ति। तेन परमकारीषगन्ध्यायाः पुत्रः परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिरित्यपि भवति। उपसर्जने तु ष्यङि न भवति- अतिक्रान्ता कारीषगन्ध्यामतिकारीषगन्ध्या, तस्याः पुत्रोऽतिकारीषगन्ध्यापुत्रः, अतिकारीषगन्ध्यापतिः। पुत्रपत्योः केवलयोरुत्तरपदयोरिदं संप्रसारणम्, तदादौ तदन्ते च न भवति- कारीषगन्ध्यापुत्रकुलम्, कारीषगन्ध्यापरमपुत्र इति। ष्यङन्ते च यद्यप्यन्ये यणः सन्ति, तथापि ष्यङ एव संप्रसारणम्- ‘निर्दिश्यमानस्यादेशा भवन्ति’ इति। संप्रसारणमिति चाधिक्रियते ‘विभाषा परेः’ (६.१.४४) इति यावत्॥

बन्धुनि बहुव्रीहौ ॥ ६.१.१४॥

ष्यङः संप्रसारणमित्यनुवर्तते। बन्धुशब्द उत्तरपदे बहुव्रीहौ समासे ष्यङः संप्रसारणं भवति। कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः। कौमुदगन्धीबन्धुः। बहुव्रीहाविति किम् ? कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः। अत्रापि पूर्ववदेव। परमकारीषगन्धीबन्धुरित्यत्र भवति। अतिकारीषगन्ध्याबन्धुरिति च न भवति, तथा कारीषगन्ध्याबन्धुधनः कारीषगन्ध्यापरमबन्धुरिति। बन्धुनीति नपुंसकलिङ्गनिर्देशः शब्दरूपापेक्षया, पुँल्लिङ्गाभिधेयस्त्वयं बन्धुशब्दः॥ मातच्मातृकमातृषु वा॥ ष्यङः संप्रसारणं भवति विभाषया बहुव्रीहावेव। कारीषगन्ध्या मातास्येत्येवं बहुव्रीहौ कृत एतस्मादेवोपसंख्यानात् पक्षे मातृशब्दस्य मातजादेशः। तत्र चित्करणसामर्थ्याद् बहुव्रीहिस्वरमन्तोदात्तत्वं बाधते। मातृमातृकशब्दयोश्च भेदेनोपादानाद् ‘नद्यृतश्च’ (५.४.१५३) इति कबपि विकल्प्यते। कारीषगन्धीमातः, कारीषगन्ध्यामातः। कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः। कारीषगन्धीमाता, कारीषगन्ध्यामाता॥

वचिस्वपियजादीनां किति ॥ ६.१.१५॥

संप्रसारणमिति वर्तते। ष्यङ इति निवृत्तम्। वचि- ‘वच परिभाषणे’ ‘ब्रुवो वचिः’ (२.४.५३) इति च। स्वपि- ‘ञिष्वप् शये’। यजादयो ‘यज देवपूजासंगतिकरणदानेषु’ इत्यतः प्रभृति आगणान्ताः। तेषां वचिस्वपियजादीनां किति प्रत्यये परतः संप्रसारणं भवति। वचि-उक्तः। उक्तवान्। स्वपि-सुप्तः। सुप्तवान्। यज-इष्टः। इष्टवान्। वप-उप्तः। उप्तवान्। वह-ऊढः। ऊढवान्। वस-उषितः। उषितवान्। वेञ्-उतः। उतवान्। व्येञ्- संवीतः। संवीतवान्। ह्वेञ्-आहूतः। आहूतवान्। वद-उदितः। उदितवान्। टुओश्वि- शूनः। शूनवान्। ‘धातोःस्वरूपग्रहणे तत्प्रत्यये कार्यं विज्ञायते’। तेनेह न भवति-वाच्यति, वाचिक इति॥

ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ॥ ६.१.१६॥

‘ग्रह उपादाने’ , ‘ज्या वयोहानौ’, ‘वेञो वयिः’ (२.४.४१), ‘व्यध ताडने’ , ‘वश कान्तौ’, ‘व्यच व्याजीकरणे’, ‘ओव्रश्चू छेदने’, ‘प्रच्छ ज्ञीप्सायाम्’ , ‘भ्रस्ज पाके’ इत्येतेषां धातूनां ङिति प्रत्यये परतश्चकारात् किति च संप्रसारणं भवति। ग्रह-गृहीतः। गृहीतवान्। ङिति-गृह्णाति। जरीगृह्यते। ज्या-जीनः। जीनवान्। ‘ल्वादिभ्यः’ (८.२.४४) इति निष्ठानत्वम्। ङिति-जिनाति। जेजीयते। ‘हलः’ (६.४.२) इति संप्रसारणदीर्घे कृते ‘प्वादीनां०’(७.३.८०) इति ह्रस्वः क्रियते। वयि-लिटि परतो ‘वेञो वयिः’ (२.४.४१) आदेशस्तस्य ङिदभावात् किदेवोदाह्रियते। ऊयतुः। ऊयुः। यद्येवं वयिग्रहणमनर्थकम्, यजादिषु वेञ् पठ्यते। नैवं शक्यम्। लिटि तस्य ‘वेञः’ (६.१.४०) इति प्रतिषेधो वक्ष्यते। तत्र यथैव स्थानिवद्भावाद् वयेर्विधिरेवं प्रतिषेधोऽपि प्राप्नोति? नैष दोषः। ‘लिटि वयो यः’ (६.१.३८) इति यकारस्य संप्रसारणप्रतिषेधाद् वयेर्विधौ ग्रहणं प्रतिषेधे चाग्रहणमनुमास्यते। सत्यमेतत्। एष एवार्थः साक्षाद् निर्देशेन वयेः स्पष्टीक्रियते। व्यध-विद्धः। विद्धवान्। ङिति-विध्यति। वेविध्यते। वश-उशितः। उशितवान्। ङिति-उष्टः। उशन्ति। व्यच-विचितः। विचितवान्। ङिति-विचति। वेविच्यते। व्यचेः कुटादित्वमनसि (१.२.१ वा०) प्रतिपादितम्। तेन सर्वत्राञ्णिति प्रत्यये संप्रसारणं भवति- उद्विचिता। उद्विचितुम्। उद्विचितव्यमिति। व्रश्चेः-वृक्णः। वृक्णवान्। अथ कथमत्र कुत्वम्, ‘व्रश्चभ्रस्ज०’ (८.२.३६) इति हि षत्वेन भवितव्यम् ? ‘निष्ठादेशः षत्वस्वरप्रत्ययविधीड्विधिषु सिद्धो वक्तव्यः’ (८.२.३ वा०)। तत्र षत्वं प्रति नत्वस्य सिद्धत्वाद् झलादिर्निष्ठा न भवति। कुत्वे तु कर्तव्ये तदसिद्धमेवेति प्रवर्तते कुत्वम्। ङिति-वृश्चति। वरीवृश्च्यते। प्रच्छ-पृष्टः। पृष्टवान्। ङिति-पृच्छति। परीपृच्छ्यते। प्रश्नः। नङि तु ‘प्रश्ने चासन्नकाले’ (३.२.११७) इति निपातनादसंप्रसारणम्। भ्रस्ज-भृष्टः। भृष्टवान्। ङिति-भृज्जति। बरीभृज्ज्यते। सकारस्य ‘झलां जश् झशि’ (८.४.५३) इति जश्त्वेन दकारः, ‘स्तोः श्चुना श्चुः’ (८.४.४०) इति श्चुत्वेन जकारः॥

लिट्यभ्यासस्योभयेषाम् ॥ ६.१.१७॥

उभयेषां वच्यादीनां ग्रह्यादीनां च लिटि परतोऽभ्यासस्य संप्रसारणं भवति। वचि-उवाच। उवचिथ। स्वप्-सुष्वाप। सुष्वपिथ। यज-इयाज। इयजिथ। डुवप्-उवाप। उवपिथ। ग्रह्यादीनाम्- तत्र ग्रहेरविशेषः। जग्राह। जग्रहिथ। ज्या-जिज्यौ। जिज्यिथ। वयि-उवाय। उवयिथ। व्यध-विव्याध। विव्यधिथ। वश-उवाश। उवशिथ। व्यच-विव्याच। विव्यचिथ। वृश्चतेः सत्यसति वा योगे नास्ति विशेषः। योगारम्भे तु सति यदि संप्रसारणमकृत्वा हलादिशेषेण (७.४.६०) रेफो निवर्त्यते, तदा वकारस्य संप्रसारणं प्राप्नोति। अथ रेफस्य संप्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते, तदानीमुरदत्वस्य स्थानिवद्भावाद् ‘न संप्रसारणे संप्रसारणम्’ (६.१.३७) इति प्रतिषेधो भवतीत्यस्ति विशेषः। वव्रश्च। वव्रश्चिथ। पृच्छतिभृज्जत्योरविशेषः। अकिदर्थं चेदमभ्यासस्य संप्रसारणं विधीयते। किति हि परत्वाद् धातोः संप्रसारणे कृते ‘पुनः प्रसङ्गविज्ञानाद्०’ द्विवर्चनम्-ऊचतुः, ऊचुरिति। अधिकारादेवोभयेषां ग्रहणे सिद्धे पुनरुभयेषामिति वचनं हलादिशेषम् (७.४.६०) अपि बाधित्वा संप्रसारणमेव यथा स्यादिति। विव्याध॥

स्वापेश्चङि ॥ ६.१.१८॥

स्वापेरिति स्वपेर्ण्यन्तस्य ग्रहणम्, तस्य चङि परतः संप्रसारणं भवति। असूषुपत्, असूषुपताम्, असूषुपन्। द्विर्वचनात् पूर्वमत्र संप्रसारणम्, तत्र कृते लघूपधगुणः, तस्य णौ चङ्युपधाया ह्रस्वत्वम् (७.४.१) ततो द्विर्वचनम्, ‘दीर्घो लघोः’ (७.४.९४) इति दीर्घत्वम्। चङीति किम्? ॒स्वाप्यते। स्वापितः। कितीति निवृत्तम्, ङितीति केवलमिहानुवर्तत इत्येतद् दुर्विज्ञानम्॥

स्वपिस्यमिव्येञां यङि ॥ ६.१.१९॥

‘ञिष्वप शये’ , ‘स्यमु स्वन ध्वन शब्दे’, ‘व्येञ् संवरणे’ इत्येतेषां धातूनां यङि परतः संप्रसारणं भवति। सोषुप्यते। सेसिम्यते। वेवीयते। यङीति किम् ? स्वप्नक्॥

न वशः ॥ ६.१.२०॥

यङीति वर्तते। वशेर्धातोर्यङि परतः संप्रसारणं न भवति। वावश्यते, वावश्येते, वावश्यन्ते। यङीति किम् ? उष्टः, उशन्ति॥

चायः की ॥ ६.१.२१॥

यङीति वर्तते। ‘चायृ पूजानिशामनयोः’ इत्येतस्य धातोर्यङि परतः कीत्ययमादेशो भवति। चेकीयते, चेकीयेते, चेकीयन्ते। दीर्घोच्चारणं यङ्लुगर्थम्। चेकीतः॥

स्फायः स्फी निष्ठायाम् ॥ ६.१.२२॥

‘स्फायी ओप्यायी वृद्धौ’ इत्यस्य धातोर्निष्ठायां परतः स्फीत्ययमादेशो भवति। स्फीतः। स्फीतवान्। निष्ठायामिति किम् ? स्फातिः। स्फातीभवतीत्येतदपि क्तिन्नन्तस्यैव रूपम्, न निष्ठान्तस्य। निष्ठायामित्येतदधिक्रियते ‘लिड्यङोश्च’ (६.१.२९) इति प्रागेतस्मात् सूत्रात्॥

स्त्यः प्रपूर्वस्य ॥ ६.१.२३॥

निष्ठायामिति वर्तते संप्रसारणमिति च । स्फी इत्येतद् न स्वर्यते। ‘स्त्यै ष्ट्यै शब्दसंघातयोः’ द्वयोरप्येतयोर्धात्वोः स्त्यारूपमापन्नयोः सामान्येन ग्रहणम्। स्त्या इत्येतस्य प्रपूर्वस्य धातोर्निष्ठायां परतः संप्रसारणं भवति। प्रस्तीतः। प्रस्तीतवान्। संप्रसारणे कृते यण्वत्त्वं विहतमिति निष्ठानत्वं न भवति। ‘प्रस्त्योऽन्यतरस्याम् (८.२.५४) इति तु पक्षे मकारः क्रियते। प्रस्तीमः। प्रस्तीमवान्। प्रपूर्वस्येति किम् ? संस्त्यानः। संस्त्यानवान्। प्रस्त्य इत्येव सिद्धे पूर्वग्रहणमिहापि यथा स्यात्- प्रसंस्तीतः। प्रसंस्तीतवान्। तत्कथम् ? प्रपूर्वस्येति षष्ठ्यर्थे बहुव्रीहिः। प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वः, तदवयवस्य स्त्य इति व्यधिकरणे षष्ठ्यौ। तत्र प्रसंस्तीत इत्यत्रापि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति॥

द्रवमूर्तिस्पर्शयोः श्यः ॥ ६.१.२४॥

द्रवमूर्तौ द्रवकाठिन्ये, स्पर्शे च वर्तमानस्य ‘श्यैङ् गतौ’ इत्यस्य धातोर्निष्ठायां परतः संप्रसारणं भवति। शीनं घृतम्। शीना वसा। शीनं मेदः। द्रवावस्थायाः काठिन्यं गतमित्यर्थः। ‘श्योऽस्पर्शे’ (८.२.४७) इति निष्ठानत्वम्। स्पर्शे- शीतं वर्तते। शीतो वायुः। शीतमुदकम्। गुणमात्रे तद्वति चास्य शीतशब्दस्य वृत्तिर्द्रष्टव्या। द्रवमूर्तिस्पर्शयोरिति किम् ? संश्यानो वृश्चिकः॥

प्रतेश्च ॥ ६.१.२५॥

श्य इति वर्तते। प्रतेरुत्तरस्य श्यायतेर्निष्ठायां परतः संप्रसारणं भवति। प्रतिशीनः। प्रतिशीनवान्। द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि यथा स्यादिति सूत्रारम्भः॥

विभाषाभ्यवपूर्वस्य ॥ ६.१.२६॥

श्य इति वर्तते। अभि इव इत्येवंपूर्वस्य श्यायतेर्निष्ठायां विभाषा संप्रसारणं भवति। अभिशीनम्, अभिश्यानम्। अवशीनम्, अवश्यानम्। द्रवमूर्तिस्पर्शविवक्षायामपि विकल्पो भवति। अभिशीनं घृतम्, अभिश्यानं घृतम्। अवशीनं मेदः, अवश्यानं मेदः। अभिशीतो वायुः, अभिश्यानः। अवशीतमुदकम्, अवश्यानमुदकम्। सेयमुभयत्रविभाषा द्रष्टव्या। पूर्वग्रहणस्य च प्रयोजनं समभिश्यानं समवश्यानमित्यत्र मा भूदिति केचिद् व्याचक्षते, न किलायमभ्यवपूर्वः समुदाय इति। योऽत्राभ्यवपूर्वः समुदायस्तदाश्रयो विकल्पः कस्माद् न भवति ? तस्मादत्र भवितव्यमेव । यदि तु नेष्यते ततो यत्नान्तरमास्थेयम् अस्माद् विभाषाविज्ञानाद् व्यवस्थेयम्। पूर्वग्रहणस्य चान्यत् प्रयोजनं वक्तव्यम्॥

शृतं पाके ॥ ६.१.२७॥

विभाषेत्यनुवर्तते। ‘श्रा पाके’ इत्येतस्य धातोर्ण्यन्तस्याण्यन्तस्य च पाकेऽभिधेये क्तप्रत्यये परतः शृभावो निपात्यते विभाषा। शृतं क्षीरम्। शृतं हविः। व्यवस्थितविभाषा चेयम्, तेन क्षीरहविषोर्नित्यं शृभावो भवति। अन्यत्र न भवति- श्राणा यवागूः, श्रपिता यवागूरिति। यदापि बाह्ये प्रयोजके द्वितीयो णिजुत्पद्यते तदापि नेष्यते-श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति। श्रातिरयमकर्मकः कर्मकर्तृविषयस्य पचेरर्थे वर्तते, स ण्यन्तोऽपि प्राकृतं पच्यर्थमाह। तदत्र द्वयोरपि शृतमितीष्यते। शृतं क्षीरं स्वयमेव। शृतं क्षीरं देवदत्तेन। पाकग्रहणं निपातनविषयप्रदर्शनार्थम्, तेन क्षीरहविषोरेव॥

प्यायः पी ॥ ६.१.२८॥

विभाषेत्येव। ‘ओप्यायी वृद्धौ’ इत्यस्य धातोर्निष्ठायां विभाषा पीत्ययमादेशो भवति। पीनं मुखम्। पीनौ बाहू। पीनमुरः। इयमपि व्यवस्थितविभाषैव। तेनानुपसर्गस्य नित्यं भवति, सोपसर्गस्य तु नैव भवति। आप्यानश्चन्द्रामाः। आङ्पूर्वस्यान्धूधसोर्भवत्येव- आपीनोऽन्धुः, आपीनमूध इति॥

लिड्यङोश्च ॥ ६.१.२९॥

विभाषेति निवृत्तम्। प्यायः पीत्येतत् चशब्देनानुकृष्यते। लिटि यङि च परतः प्यायः पीत्ययमादेशो भवति। आपिप्ये, आपिप्याते, आपिप्यिरे। परत्वात् पीभावे कृते ‘पुनः प्रसङ्गविज्ञानाद्०’ द्विर्वचनम्, ‘एरनेकाचो०’ (६.४.८२) इति यणादेशः। यङि- आपेपीयते, आपेपीयेते, आपेपीयन्ते॥

विभाषा श्वेः ॥ ६.१.३०॥

लिड्यङोरिति वर्तते, संप्रसारणमिति च । लिटि यङि च श्वयतेर्धातोर्विभाषा संप्रसारणं भवति। शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। यङि- शोशूयते, शेश्वीयते। तदत्र यङि संप्रसारणमप्राप्तं विभाषा विधीयते, लिटि तु किति यजादित्वाद् नित्यं प्राप्तम्, तत्र सर्वत्र विकल्पो भवतीत्येषोभयत्रविभाषा। यदा च धातोर्न भवति, तदा ‘लिट्यभ्या-सस्योभयेषाम्’ (६.१.१७) इत्यभ्यासस्यापि न भवति॥

णौ च संश्चङोः ॥ ६.१.३१॥

विभाषा श्वेरिति वर्तते। सन्परे चङ्परे च णौ परतः श्वयतेर्धातोर्विभाषा संप्रसारणं भवति। शुशावयिषति, शिश्वाययिषति। चङि- अशूशवत्, अशिश्वयत्। ‘संप्रसारणं संप्रसारणाश्रयं च बलीयो भवति’ इति वचनादन्तरङ्गमपि वृद्ध्यादिकं संप्रसारणेन बाध्यते। कृते तु संप्रसारणे वृद्धिरावादेशश्च। तत ‘ओः पुयण्ज्यपरे’ (७.४.८०) इत्येतद् वचनं ज्ञापकं णौ कृतस्थानिवद्भावस्येति स्थानिवद्भावात् शुशब्दो द्विरुच्यते॥

ह्वः संप्रसारणम् ॥ ६.१.३२॥

णौ च संश्चङोरिति वर्तते। सन्परे चङ्परे च णौ परतो ह्वः संप्रसारणं भवति। जुहावयिषति, जुहावयिषतः, जुहावयिषन्ति। अजूहवत्, अजूहवताम्, अजूहवन्। संप्रसारणस्य बलीयस्त्वात् ‘शाच्छासाह्वाव्यावेपां युक्’ (७.३.३७) इति प्रागेव युग् न भवति। संप्रसारणमिति वर्तमाने पुनः संप्रसारणमित्युक्तं विभाषेत्यस्य निवृत्त्यर्थम्। ह्वः संप्रसारणमभ्यस्तस्येत्येकयोगेन सिद्धे पृथग्योगकरणमनभ्यस्तनिमित्तप्रत्ययव्यवधाने संप्रसारणाभावज्ञापनार्थम्। ह्वायकमिच्छति ह्वायकीयति। ह्वायकीयतेः सन् जिह्वायकीयिषति॥

अभ्यस्तस्य च ॥ ६.१.३३॥

ह्व इति वर्तते, तदभ्यस्तस्य इत्यनेन व्यधिकरणम्- अभ्यस्तस्य यो ह्वयतिः। कश्चाभ्यस्तस्य ह्वयतिः? कारणम्। तेनाभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात् संप्रसारणं भवति। जुहाव। जोहूयते। जुहूषति॥

बहुलं छन्दसि ॥ ६.१.३४॥

ह्व इति वर्तते। छन्दसि विषये ह्वयतेर्धातोर्बहुलं संप्रसारणं भवति। इ॒न्द्रा॒ग्नी…हु॒वे (ऋ० ५.४.६.३)। देवीं सरस्वतीं हुवे। ह्वेञो लट्यात्मनेपदोत्तमैकवचने ‘बहुलं छन्दसि’ (२.४.७३) इति शपो लुकि कृते संप्रसारणमुवङादेशश्च। न च भवति-ह्वयामि मरुतः शिवान्। ह्वया॑मि (विश्वान्)दे॒वान् (ऋ० ७.३.४.८)॥

चायः की ॥ ६.१.३५॥

बहुलं छन्दसीति वर्तते। चायतेर्धातोश्छन्दसि विषये बहुलं कीत्ययमादेशो भवति। वि॒यन्ता॒ न्य१॒॑न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् (ऋ० १.१६४.३८)। लिट्युसि रूपम्। न भवति- अ॒ग्निर्ज्योति॑र्नि॒चाय्य॑ (मा० सं० ११.१)॥

अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्ताः ॥ ६.१.३६॥

छन्दसीति वर्तते। अपस्पृधेथामिति ‘स्पर्ध संघर्षे’ इत्यस्य लङि आथामि द्विर्वचनं रेफस्य संप्रसारणमकारलोपश्च निपातनात्। इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथाम् (ऋ० ६.६९.८)। अस्पर्धेथामिति भाषायाम्। अपर आह- स्पर्धेरपपूर्वस्य लङ््याथामि संप्रसारणमकारलोपश्च निपातनात्। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (६.४.७५) इत्यडागमाभावः। अत्र प्रत्युदाहरणमपास्पर्धेथामिति भाषायाम्। आनृचुरानृहुरिति। ‘अर्च पूजायाम्’ ‘अर्ह पूजायाम्’ ‘अर्ह पूजायाम्’ इत्यनयोर्धात्वोर्लिट्युसि संप्रसारणमकारलोपश्च निपातनात्। ततो द्विर्वचनमुरदत्वम् ‘अत आदेः’ (७.४.७०) इति दीर्घत्वम्। ‘तस्मान्नुड् द्विहलः’ (७.४.७१) इति नुडागमः। य उ॒ग्रा अ॒र्कमा॑नृ॒चुः (ऋ० १.१९.४)। न वसू॑न्यानृ॒हुः (शौ० सं० २.३५.१)। आनर्चुः, आनर्हुरिति भाषायाम्। चिच्युषे। ‘च्युङ् गतौ’ इत्यस्य धातोर्लिटि सेशब्देऽभ्यासस्य संप्रसारणमनिट् च निपातनात्। चिच्यु॒षे (ऋ० ४.३०.२२)। चुच्युविष इति भाषायाम्। तित्याज। ‘त्यज हानौ’ इत्यस्य धातोर्लिट्यभ्यासस्य संप्रसारणं निपात्यते। ति॒त्याज॑ (ऋ० १०.७१.६)। तत्याजेति भाषायाम्। श्राता इति। ‘श्रीञ् पाके’ इत्येतस्य धातोर्निष्ठायां श्राभावः। श्रा॒ता॑स्त॒ इन्द्र॒ सो॑माः॒ (मै० सं० १.९.१)। श्रितमिति। तस्यैव श्रीणातेर्ह्रस्वत्वम्। सोमो॑ गौ॒री अधि॑श्रि॒तः (ऋ० ९.१२.३)। श्रिता नो गृहाः। अनयोः श्राभावश्रिभावयोर्विषयविभागमिच्छन्ति-सोमेषु बहुषु श्राभाव एव, अन्यत्र श्रिभाव इति। सोमादन्यत्र क्वचिदेकस्मिन्नपि श्राभावो दृश्यते। यदि॑ श्रा॒तो जु॒होत॑न॒ (ऋ० १०.१७९.१)। तस्य श्राता इति बहुवचनस्या-विवक्षितत्वादुपसंग्रहो द्रष्टव्यः। आशीराशीर्त इति। तस्यैव श्रीणातेराङ्पूर्वस्य क्विपि निष्ठायां च शीरादेशः, निष्ठायाश्च नत्वाभावो निपातनात्। तामाशीरा दुहन्ति। आशीर्त ऊर्जम्। क्षी॒रैर्म॑ध्य॒त आशी॑र्तः (ऋ० ८.२.९)॥

न संप्रसारणे संप्रसारणम् ॥ ६.१.३७॥

संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न भवति। व्यध -विद्धः। व्यच-विचितः। व्येञ्- संवीतः। एकयोगलक्षणमपि संप्रसारणमत एव वचनात् प्रथमं परस्य यणः क्रियते, पूर्वस्य च प्रसक्तं प्रतिषिध्यते। संप्रसारणमिति वर्तमाने पुनः संप्रसारणग्रहणं विदेशस्थस्यापि संप्रसारणस्य प्रतिषेधो यथा स्यादिति। ‘श्वयुवमघोनामतद्धिते’ (६.४.१३३)- यूनः। यूना। संप्रसारणग्रहणसामर्थ्यादेव पूर्वस्य प्रतिषेधे वक्तव्ये सवर्णदीर्घत्वमेकादेशो न स्थानिवद् भवति। सति वा स्थानिवत्त्वे व्यवधानमेतावदाश्रयिष्यते॥ ऋचि त्रेरुत्तरपदादिलोपश्छन्दसि॥ ऋचि परतस्त्रेः संप्रसारणं भवति, उत्तरपदादिलोपश्च छन्दसि विषये। तिस्र ऋचो यस्मिन् तत् तृचं सूक्तम्, तृचं साम। ‘ऋक्पूरब्धूःपथामानक्षे’ (५.४.७४) इति समासान्तः। छन्दसीति किम् ? त्र्यृचं कर्म॥ रयेर्मतौ बहुलम्॥ रयिशब्दस्य छन्दसि विषये मतौ परतो बहुलं संप्रसारणं भवति। आ रेवानेतु नो विशः। न च भवति- रयि॒मान् पु॑ष्टि॒वर्ध॑नः (मा० सं० ३.४०)॥

लिटि वयो यः ॥ ६.१.३८॥

न संप्रसारणमित्यनुवर्तते। लिटि परतो वयो यकारस्य संप्रसारणं न भवति। उवाय, ऊयतुः, ऊयुः। लिड्ग्रहणमुत्तरार्थम्॥

वश्चास्यान्यतरस्यां किति ॥ ६.१.३९॥

अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवत्यन्यतरस्याम्। ऊवतुः, ऊवुः। ऊयतुः, ऊयुः। कितीति किम् ? उवाय। उवयिथ॥

वेञः ॥ ६.१.४०॥

लिटीत्यनुवर्तते। ‘वेञ् तन्तुसन्ताने’ इत्यस्य धातोर्लिटि परतः संप्रसारणं न भवति। ववौ, ववतुः, ववुः। किति यजादित्वाद् धातोः प्राप्तमकित्यपि ‘लिट््यभ्यासस्योभयेषाम्’ (६.१.१७) इत्यभ्यासस्य, अत उभयं प्रतिषिध्यते॥

ल्यपि च ॥ ६.१.४१॥

वेञ इत्यनुवर्तते। ल्यपि च परतो वेञः संप्रसारणं न भवति। प्रवाय। उपवाय। पृथग्योगकरणमुत्तरार्थम्॥

ज्यश्च ॥ ६.१.४२॥

ल्यपीत्येव। ‘ज्या वयोहानौ’ इत्यस्य धातोर्ल्यपि परतः संप्रसारणं न भवति। प्रज्याय। उपज्याय॥

व्यश्च ॥ ६.१.४३॥

ल्यपीत्येव। ‘व्येञ् संवरणे’ इत्येतस्य धातोर्ल्यपि परतः संप्रसारणं न भवति। प्रव्याय। उपव्याय। योगविभाग उत्तरार्थः॥

विभाषा परेः ॥ ६.१.४४॥

ल्यपि च व्यश्चेत्यनुवर्तते। परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा संप्रसारणं न भवति। परिवीय यूपम्, परिव्याय। संप्रसारणे कृते परपूर्वत्वे ‘ह्रस्वस्य०’ (६.१.७१) इति तुक् प्राप्नोति, स ‘हलः’ (६.४.२) इति दीर्घत्वेन परत्वाद् बाध्यते॥

आदेच उपदेशेऽशिति ॥ ६.१.४५॥

‘धातोः’ (६.१.८) इति वर्तते। एजन्तो यो धातुरुपदेशे तस्याकारादेशो भवति, शिति तु प्रत्यये न भवति। ग्लै-ग्लाता। ग्लातुम्। ग्लातव्यम्। शो- निशाता। निशातुम्। निशातव्यम्। उच इति किम् ? कर्ता। हर्ता। उपदेश इति किम् ? चेता। स्तोता। अशितीति किम् ? ग्लायति। म्लायति। कथं जग्ले, मम्ले ? नैवं विज्ञायते- शकार इद् यस्य सोऽयं शिदिति। किं तर्हि? श एव इत् शित्। तत्र ‘यस्मिन् विधिस्तदादावल्ग्रहणे’ (परि० ३३) इति शिदादौ प्रत्यये प्रतिषेधः। एश् शकारान्तो भवति। अशितीति प्रसज्यप्रतिषेधोऽयम्। तेनैतदात्वमनैमित्तिकं प्रागेव प्रत्ययोत्पत्तेर्भवतीति सुग्लः सुम्ल इति ‘आतश्चोपसर्गे’ (३.१.१३६) इति कप्रत्ययः, सुग्लानः सुम्लान इति ‘आतो युच्’ (३.३.१२८) इत्येवमादि सिद्धं भवतीति। आकाराधिकारस्त्वयं ‘नित्यं स्मयतेः’ (६.१.५७) इति यावत्॥

न व्यो लिटि ॥ ६.१.४६॥

व्येञ् इत्येतस्य धातोर्लिटि परत आकारादेशो न भवति। संविव्याय। संविव्ययिथ। ‘लिट्यभ्यासस्योभयेषाम्’ (६.१.१७) इत्यभ्यासस्य संप्रसारणम्। णलि ‘अचो ञ्णिति’ (७.२.११५) इति वृद्धिः॥

स्फुरतिस्फुलत्योर्घञि ॥ ६.१.४७॥

आदेच इति वर्तते। ‘स्फुर स्फुल चलने’ इत्येतयोर्धात्वोरेचः स्थाने घञि परत आकारादेशो भवति। विस्फारः। विस्फालः। विष्फारः। विष्फालः। ‘स्फुरतिस्फुलत्यो-र्निर्निविभ्यः’ (८.३.७६) इति वा षत्वम्॥

क्रीङ्जीनां णौ ॥ ६.१.४८॥

‘डुक्रीञ् द्रव्यविनिमये’ ‘इङ् अध्ययने’ ‘जि जये’ इत्येतेषां धातूनामेचः स्थाने णौ परत आकारादेशो भवति। क्रापयति। अध्यापयति। जापयति॥

**सिध्यतेरपारलौकिके ॥ ६.१.४९॥ **

णाविति वर्तते। ‘षिधु हिंसासंराध्योः’ इत्यस्य धातोरपारलौकिकेऽर्थे वर्तमानस्यैचः स्थाने णौ परत आकारादेशो भवति। अन्नं साधयति। ग्रामं साधयति। अपारलौकिक इति किम् ? तपस्तापसं सेधयति। स्वान्येवैनं कर्माणि सेधयन्ति । अत्र हि सिध्यतिः पारलौकिके ज्ञानविशेषे वर्तते। तापसः सिध्यति ज्ञानविशेषमासादयति। तं तपः प्रयुङ्क्ते। स च ज्ञानविशेष उत्पन्नः परलोके जन्मान्तरे फलमभ्युदयलक्षणमुपसंहरन् परलोकप्रयोजनो भवति। इह कस्माद् न भवति-अन्नं साधयति, ब्राह्मणेभ्यो दास्यामीति ? सिध्यतेरत्रार्थो निष्पत्तिः। तस्याः प्रयोजनमन्नम्। तस्य यद् दानं तत् पारलौकिकम्, न पुनः सिद्धिरेवेति न आत्वं पर्युदस्यते। साक्षात् परलोकप्रयोजने च सिध्यर्थे कृतावकाशं वचनमेवंविषयं नावगाहते। सिध्यतेरिति श्यना निर्देशः ‘षिधु गत्याम्’ इत्यस्य भौवादिकस्य निवृत्त्यर्थः॥

मीनातिमिनोतिदीङां ल्यपि च ॥ ६.१.५०॥

आदेच उपदेश इति वर्तते। ‘मीञ् हिंसायाम्’ ‘डुमिञ् प्रक्षेपणे’ ‘दीङ् क्षये’ इत्येतेषां धातूनां ल्यपि विषये, चकारादेचश्च विषये,उपदेश एव प्राक्प्रत्ययोत्पत्तेः ‘अलोऽन्त्यस्य’ (१.१.५२) स्थान आकारादेशो भवति। प्रमाता। प्रमातव्यम्। प्रमातुम्। प्रमाय। निमाता। निमातव्यम्। निमातुम्। निमाय। उपदाता। उपदातव्यम्। उपदातुम्। उपदाय। उपदेश एवात्वविधानादिवर्णान्तलक्षणः प्रत्ययो न भवति, आकारान्तलक्षणश्च भवति। उपदायो वर्तते, ईषदुपदानमिति घञ्युचौ भवतः॥

विभाषा लीयतेः ॥ ६.१.५१॥

ल्यपीति वर्तते, आदेच उपदेश इति च। ‘लीङ् श्लेषणे’ इति दिवादिः, ‘ली श्लेषणे’ इति क्र्यादिस्तयोरुभयोरपि यका निर्देशः स्मर्यते। लीयतेर्धातोर्ल्यपि चैचश्च विषय उपदेश एवालोऽन्त्यस्य स्थाने विभाषा आकारादेशो भवति। विलाता। विलातुम्। विलातव्यम्। विलाय। विलेता। विलेतुम्। विलेतव्यम्। विलीय॥ निमिमीलियां खलचोः प्रतिषेधो वक्तव्यः॥ ईषन्निमयः। निमयो वर्तते। ईषत्प्रमयः। प्रमयो वर्तते। ईषद्विलयः। विलयो वर्तते। अत्र तु लियो व्यवस्थितविभाषाविज्ञानात् सिद्धम्। एवं च प्रलम्भनशालीनी-करणयोश्च णौ नित्यमात्वं भवति। कस्त्वामुल्लापयते। श्येनो वर्तिकामुल्लापयते॥

खिदेश्छन्दसि ॥ ६.१.५२॥

विभाषेति वर्तते। ‘खिद दैन्ये’ इत्यस्य धातोरेचः स्थाने छन्दसि विषये विभाषा आकार आदेशो भवति। चित्तं चखाद। चित्तं चिखेद। छन्दसीति किम् ? चित्तं खेदयति॥

अपगुरो णमुलि ॥ ६.१.५३॥

‘गुरी उद्यमने’ इत्यस्य धातोरपपूर्वस्य णमुलि परत एचः स्थाने विभाषा आकार आदेशो भवति। अपगारमपगारम्, अपगोरमपगोरम्। ‘आभीक्ष्ण्ये णमुल् च’ (३.४.२२) इति णमुल्। अस्यपगारं युध्यन्ते, अस्यपगोरं युध्यन्त इत्यत्र ‘द्वितीयायां च’ (३.४.५३) इति णमुल्॥

चिस्फुरोर्णौ ॥ ६.१.५४॥

चिञ् स्फुर इत्येतयोर्धात्वोर्णौ परत एचः स्थाने विभाषा आकारादेशो भवति। चापयति, चाययति। स्फारयति, स्फोरयति॥

प्रजने वीयतेः ॥ ६.१.५५॥

णाविति वर्तते। ‘वी गतिप्रजनकान्त्यसनखादनेषु’ इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतो विभाषा आकारादेशो भवति। पुरोवातो गाः प्रवापयति, पुरोवातो गाः प्रवाययति। गर्भं ग्राहयतीत्यर्थः। प्रजनो हि जन्मन उपक्रमो गर्भग्रहणम्॥

बिभेतेर्हेतुभये ॥ ६.१.५६॥

णाविति वर्तते,विभाषेति च। हेतुरिह पारिभाषिकः स्वतन्त्रस्य प्रयोजकस्ततो यद् भयम्, स यस्य भयस्य साक्षाद् हेतुः तद्भयं हेतुभयम्। तत्र वर्तमानस्य ‘ञिभी भये’ इत्यस्य धातोर्णौ परतो विभाषाकारादेशो भवति। मुण्डो भापयते, मुण्डो भीषयते। जटिलो भापयते, जटिलो भीषयते। ‘भीस्म्योर्हेतुभये’ (१.३.६८) इत्यात्मनेपदम्। ‘भियो हेतुभये षुक्’ (७.३.४०)। स चात्वपक्षे न भवति। लीभियोरीकारप्रश्लेषनिर्देशादीकारान्तस्य भियः षुग् विधीयते। हेतुभय इति किम् ? कुञ्चिकयैनं भाययति। अत्र हि कुञ्चिकातो भयं करणात्, न हेतोर्देवदत्तात्॥

नित्यं स्मयतेः ॥ ६.१.५७॥

णाविति वर्तते, हेतुभय इति च । नित्यग्रहणाद् विभाषेति निवृत्तम्। ‘ष्मिङ् ईषद्धसने’ इत्यस्य धातोर्हेतुभयेऽर्थे णौ परतो नित्यमाकारादेशो भवति। मुण्डो विस्मापयते। जटिलो विस्मापयते। भय इत्येव-कुञ्चिकयैनं विस्माययति। भयशब्देन धात्वर्थसामान्याद् इह स्मयतेरर्थोऽभिधीयते। न हि मुख्ये भये स्मयतेर्वृत्तिरस्ति॥

सृजिदृशोर्झल्यमकिति ॥ ६.१.५८॥

‘सृज विसर्गे’ ‘दृशिर् प्रेक्षणे’ इत्येतयोर्धात्वोर्झलादावकिति प्रत्यये परतोऽमागमो भवति। स्रष्टा। स्रष्टुम्। स्रष्टव्यम्। द्रष्टा। द्रष्टुम्। द्रष्टव्यम्। लघूपधगुणापवादोऽयममागमः। अस्राक्षीत्। अद्राक्षीत्। ‘सिचि वृद्धिः०’ (७.२.१) अमि कृते भवति, पूर्वं तु बाध्यते। झलीति किम् ? सर्जनम्। दर्शनम्। अकितीति किम्? सृष्टः। दृष्टः। धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानाद् (परि० ८८) इह न भवति- रज्जुसृड्भ्याम्, देवदृग्भ्यामिति॥

अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ॥ ६.१.५९॥

उपदेश इति वर्तते, झल्यमकितीति च। उपदेशेऽनुदात्तस्य धातोर्ऋकारोपधस्य झलादावकिति प्रत्यये परतोऽन्यतरस्याममागमो भवति। त्रप्ता, तर्पिता, तर्प्ता। द्रप्ता, दर्पिता, दर्प्ता। ‘तृप प्रीणने’ ‘दृप हर्षणमोचनयोः’ इत्येतौ रधादी धातू, तयोरिडागमो ‘रधादिभ्यश्च’ (७.२.४५) इति विकल्प्यते। अनुदात्तोपदेशः पुनरमर्थ एव। अनुदात्तस्येति किम् ? वर्ढा। वर्ढुम्। वर्ढव्यम्। ‘वृहू उद्यमने’ इत्ययमुदात्तोपदेश ऊदित्वात् चास्येड् विकल्प्यते। ऋदुपधस्येति किम् ? भेत्ता। छेत्ता। झलीत्येव- तर्पणम्। दर्पणम्। अकितीत्येव- तृप्तः। दृप्तः॥

शीर्षंश्छन्दसि ॥ ६.१.६०॥

शीर्षन्निति शब्दान्तरं शिरःशब्देन समानार्थं छन्दसि विषये निपात्यते, न पुनरयमादेशः शिरःशब्दस्य, सोऽपि हि छन्दसि प्रयुज्यत एव। शीर्ष्णा हि तत्र सोमं क्रीतं हरन्ति। यत्ते शीर्ष्णो दौर्भाग्यम्। छन्दसीति किम् ? शिरः॥

ये च तद्धिते ॥ ६.१.६१॥

शीर्षन्निति वर्तते। आदेशोऽयमिष्यते। स कथम् ? तद्धित इति हि परं निमित्तमुपादीयते, स तदनुरूपां प्रकृतिं शिरःशब्दमाक्षिपति। यकारादौ तद्धिते परतः शिरः शब्दस्य शीर्षन्नादेशो भवति। शीर्षण्यो हि मुख्यो भवति। शीर्षण्यः स्वरः। शिरसि भव इति ‘शरीरावयवाच्च’ (४.३.५५) इति यत्। ‘ये चाभावकर्मणोः’ (६.४.१६८) इति प्रकृतिभावः। तद्धित इति किम् ? शिर इच्छति शिरस्यति॥ वा केशेषु॥ शिरसः शीर्षन्नादेशो वक्तव्यः। शीर्षण्याः केशाः, शिरस्याः केशाः॥

अचि शीर्षः ॥ ६.१.६२॥

आजादौ तद्धिते शिरसः शीर्षशब्द आदेशो भवति। हस्तिशिरसोऽपत्यं हास्तिशीर्षिः। ‘बाह्वादिभ्यश्च’ (४.१.९६) इति इञ्। स्थूलशिरस इदं स्थौलशीर्षम्। शीर्षन्भावे हि ‘अन्’ (६.४.१६७) इति प्रकृतिभावः स्यात्। हास्तिशीर्षिशब्दात् स्त्रियामिञः ‘अणिञोरनार्षयोः०’ (४.१.७८) ष्यङादेशे कृते शीर्षस्य शिरःशब्दग्रहणेन ग्रहणात् शीर्षन्नादेशः प्राप्नोति। तत्र प्रकृतिभावे सति हास्तिशीर्षण्येत्यनिष्टं रूपं स्यात्। इष्यते तु हास्तिशीर्ष्येति। तत् कथम् ? कर्तव्योऽत्र यत्नः। अणिञन्ताद् वा परः प्रत्ययः ष्यङाश्रयितव्यः, तत्र यस्येतिलोपस्य स्थानिवद्भावाद् व्यवधानम्॥

पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु ॥ ६.१.६३॥

पाद दन्त नासिका मास हृदय निशा असृज् यूष दोष यकृत् शकृत् उदक आसन इत्येतेषां शब्दानां स्थाने शस्प्रभृतिप्रत्ययेषु परतः पद् दत् नस् मास् हृद् निश् असन् यूषन् दोषन् यकन् शकन् उदन् आसन् इत्येत आदेशा यथासंख्यं भवन्ति। पद- निपदश्चतुरो जहि। पदा वर्तय गोदुहम्। पादस्य पत्। दत्- या द॒तो धाव॑ते॒ तस्यै॑ श्या॒वद॒न् (तै० सं० २.५.१.७)। नस्-सूक॒रस्त्वा॑ खनन्न॒सा (शौ० सं० २.२७.२)। मास्- मा॒सि (तै० सं० २.५.६.६) त्वा पश्यामि चक्षुषा। हृद्- हृ॒दा पू॒तं मन॑सा जातवेदो॒ (शौ० सं० ४.३९.१०)। निश्- अमावास्यायां निशि (खि० २.१.८) यजेत। असन्- असिक्तोऽस्ना॑ (मै० सं० ३.१५.८) अवरोहति। यूषन्- या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि (ऋ० १.१६२.१३)। दोषन्- यत्ते दो॒ष्णो॑ (मै० सं० ३.१०.३) दौर्भाग्यम्। यकन्-य॒क्नो॑ऽव॒द्यति॒ (मै० सं० ३.१०.३)। शकन्- श॒क्नो (शौ० सं० १२.४.४) अवद्यति। उदन्- उ॒द्नो दि॒व्यस्य॑ (तै० सं० २.४.८.२) नावा ते। आसन्- आस॒नि॑ (ऋ० १.७५.१) किं लभे मधूनि। शस्प्रभृतिष्विति किम् ? पादौ ते प्रतिपीड्यौ। नासिके ते कृशे। केचिदत्र छन्दसीत्यनुवर्तयन्ति। अपरे पुनरविशेषेणेच्छन्ति। तथा हि भाषायामपि पदादयः शब्दाः प्रयुज्यन्ते।

व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्तितस्य च।

व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ॥

(तु०- सुश्रुत चि० २४.४२)

इत्येवमादयः। अन्यतरस्यामित्येतदनुवर्तयन्ति। तेन पादादयोऽपि प्रयुज्यन्ते। शस्प्रभृतिष्विति प्रकारार्थे प्रभृतिशब्द इति ‘शला॑ दोष॑णी’ (काठ० सं० १६.२१) इत्यत्रापि दोषन्नादेशो भवति॥ पदादिषु मांस्पृत्स्नूनामुपसंख्यानम्॥ मांस पृतना सानु इत्येतेषां स्थाने यथासंख्यं मांस् पृत् स्नु इत्येत आदेशा भवन्ति। मां॒स्पच॑न्या उ॒खायाः॒ (ऋ० १.१६२.१३)। मांसपचन्या इति प्राप्ते। पृ॒त्सु मर्त्य॒म् (ऋ० १.२७.७)। पृतनासु मर्त्यमिति प्राप्ते। न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ (मा० सं० १७.१४)। अधि सानुष्विति प्राप्ते॥ नस् नासिकाया यत्तस्क्षुद्रेषु ॥ नासिकाया नस्भावो वक्तव्यो यत् तस् क्षुद्र इत्येतेषु परतः। नस्यम्। नस्तः। (काठ० सं० १२.१०)। नःक्षुद्रः॥ यति वर्णनगरयोर्नेति वक्तव्यम्॥ नासिक्यो वर्णः। नासिक्यं नगरम्॥

धात्वादेः षः सः ॥ ६.१.६४ ॥

धातोरादेः षकारस्य स्थाने सकारादेशो भवति। षह- सहते। षिच- सिञ्चति। धातुग्रहणं किम् ? षोडश। षोडन्। षण्डः। षडिकः। आदेरिति किम् ? कषति। लषति। कृषति। ‘आदेशप्रत्यययोः’(८.३.५९) इत्यत्र षत्वव्यवस्थार्थं षादयो धातवः केचिदुपदिष्टाः। के पुनस्ते ? ये तथा पठ्यन्ते। अथवा लक्षणं क्रियते- अज्दन्त्यपराः सादयः षोपदेशाः स्मिस्विदिस्वदिस्वञ्जिस्वपितयश्च । सृपिसृजिस्तृस्त्यासेक्सृवर्जम्॥ सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः॥ षोडीयति। षण्डीयति। ष्ठीवति। ष्वष्कते। ष्ठिवु इत्यस्य द्वितीयस्थकारष्ठकारश्चेष्यते। तेन तेष्ठीव्यते टेष्ठीव्यत इति चाभ्यासरूपं द्विधा भवति॥

णो नः ॥ ६.१.६५ ॥

धातोरादेरित्यनुवर्तते। धातोरादेर्णकारस्य नकार आदेशो भवति। णीञ्- नयति। णम-नमति। णह- नह्यति। धात्वादेरित्येव- अणति। सुब्धातोरयमपि नेष्यते। णकारमिच्छति णकारीयति। ‘उपसर्गादसमासेऽपि णोपदेशस्य’ (८.४.१४) इत्यत्र णत्वविधेर्व्यवस्थार्थं णादयो धातवः केचिदुपदिश्यन्ते। के पुनस्ते ? ये तथा पठ्यन्ते। अथ वा लक्षणं क्रियते- सर्वे नादयो णोपदेशाः, नृतीनन्दिनर्दिनक्कनाटिनाथृनाधृनृवर्जम्

लोपो व्योर्वलि ॥ ६.१.६६॥

धातोरिति प्रकृतं यत् तद् धात्वादेरिति पुनर्धातुग्रहणाद् निवृत्तम्। तेन धातोरधातोश्च वकारयकारयोर्वलि परतो लोपो भवति। दिव्-दिदिवान्, दिदिवांसौ, दिदिवांसः। ऊयी-ऊतम्। क्नूयी-क्नूतम्। ‘गोधाया ढ्रक्’(४.१.१२९)- गौधेरः। पचेरन्। यजेरन् । वकारस्य- ‘जीवे रदानुक्’ (द॰उ॰ १.१६३)- जीरदानुः। स्रिवेः- आस्रेमाणम्। ‘उणादयो बहुलम्’(३.३.१) इति बहुलवचनात् ‘च्छ्वोः शूडनुनासिके च’ (६.४.१९) इत्यूठ् न भवति। वलीति किम् ? ऊय्यते। क्नूय्यते। पूर्वं लोपग्रहणं किम् ? वेरपृक्त लोपात् पूर्वं वलि लोपो यथा स्यात्। कण्डूयतेः क्विप्-कण्डूः। लोलूयतेः-लोलूः। व्रश्चादीनामुपदेशसामर्थ्याद् वलि लोपो न भवति। वृश्चति। वव्रश्चेत्यत्रापि हि संप्रसारणहलादिः शेषयोर्बहिरङ्गत्वात् प्राप्नोति॥

वेरपृक्त स्य ॥ ६.१.६७॥

लोप इति वर्तते। वेरिति क्विबादयो विशेषाननुबन्धानुत्सृज्य सामान्येन गृह्यन्ते। वेरपृक्त स्य लोपो भवति। ‘ब्रह्मभ्रूणवृत्रेषु क्विप्’ (३.२.८७)- ब्रह्महा। भ्रूणहा। ‘स्पृशोऽनुदके क्विन्’ (३.२.५८)- घृतस्पृक्। तैलस्पृक्। ‘भजो ण्विः’ (३.२.६२)- अर्धभाक् । पादभाक्। तुरीयभाक् । अपृक्तस्येति किम्? ‘वृदृभ्यां विन्’ (प॰ उ॰ ४.५४)- दर्विः। ‘जशस्तजागृभ्यः क्विन्’(प॰ उ॰ ४.५५)-जागृविः॥

हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्त ं हल् ॥ ६.१.६८॥

लोप इति वर्तते। तदिह लौकिकेनार्थेनार्थवत् कर्मसाधनं द्रष्टव्यम्। लुप्यत इति लोपः। हलन्ताद् ङ्यन्तादाबन्तात् च दीर्घात् परं सु ति सि इत्येतदपृक्तं हल् लुप्यते। हलन्तात् सुलोपः-राजा। तक्षा। उखास्रत्। पर्णध्वत्। ङ्यन्तात्-कुमारी। गौरी। शार्ङ्गरवी। आबन्तात्-खट्वा। बहुराजा। कारीषगन्ध्या। हलन्तादेव तिलोपः सिलोपश्च। तत्र तिलोपस्तावत्-अबिभर्भवान्। भृञो लङि तिपि श्लौ ‘भृञामित्’ (७.४.७६) इत्यभ्यासस्येत्त्वम्। अजागर्भवान्। सिलोपः-अभिनोऽत्र। अच्छिनोऽत्र। दस्य रेफः। हल्ङ्याब्भ्य इति किम् ? ग्रामणीः। सेनानीः। दीर्घादिति किम् ? निष्कौशाम्बिः। अतिखट्वः। सुतिसीति किम् ? अभैत्सीत्। तिपा सहचरितस्य सिशब्दस्य ग्रहणात् सिचो ग्रहणं नास्ति। अपृक्त मिति किम्? भिनत्ति। छिनत्ति। हलिति किम् ? बिभेद। चिच्छेद। अथ किमर्थं हलन्तात् सुतिसीनां लोपो विधीयते, संयोगान्तलोपेनैव सिद्धम्? न सिध्यति। राजा तक्षेत्यत्र संयोगान्तलोपस्यासिद्धत्वाद् नलोपो न स्यात्। उखास्रत्, पर्णध्वदित्यत्रापदान्तत्वाद् दत्वं च न स्यात्। अभिनोऽत्रेत्यत्र ‘अतो रोरप्लुतादप्लुते’ (६.१.११३) इत्युत्त्वं न स्यात्। अबिभर्भवानित्यत्र तु ‘रात् सस्य’(८.२.२४) इति नियमात् लोप एव न स्यात्।

संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति।

रात् तु ते नैव लोपः स्याद् धलस्तस्माद् विधीयते॥

एङ्ह्रस्वात् संबुद्धेः ॥ ६.१.६९॥

लोप इति वर्तते, हलिति च। अपृक्त मिति नाधिक्रियते। तथा च पूर्वसूत्रे पुनरपृक्त ग्रहणं कृतम्। एङन्तात् प्रातिपदिकाद् ह्रस्वान्तात् च परो हल् लुप्यते स चेत् संबुद्धेर्भवति। एङन्तात्-हे अग्ने। हे वायो। ह्रस्वान्तात्-हे देवदत्त। हे नदि। हे वधु। हे कुण्ड। कुण्डशब्दाद् ‘अतोऽम्’(७.१.२४) इत्यम्। ‘अमि पूर्वः’ (६.१.१०७) इति पूर्वत्वे कृते हल्मात्रस्य मकारस्य लोपः। हे कतरदित्यत्र डिदयमद्डादेशः, तत्र टिलोपे सति ह्रस्वाभावाद् नास्ति संबुद्धिलोपः। एङ्ग्रहणं क्रियते संबुद्धिगुणबलीयस्त्वात्॥

शेश्छन्दसि बहुलम् ॥ ६.१.७०॥

शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति। या क्षेत्रा। या वना॑ (शौ॰ सं॰ १४.२.७)। यानि॒ क्षेत्रा॑णि (शौ॰ सं॰ १४.२.७)। यानि वनानि॥

ह्रस्वस्य पिति कृति तुक्॥ ६.१.७१॥

पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति। अग्निचित्। सोमसुत्। प्रकृत्य। प्रहृत्य। उपस्तुत्य। ह्रस्वस्येति किम् ? आलूय। ग्रामणीः। पितीति किम् ? कृतम्। हृतम्। कृतीति किम् ? पटुतरः। पटुतमः। ग्रामणि ब्राह्मणकुलमित्यत्र ह्रस्वस्य बहिरङ्गस्यासिद्धत्वात् तुग् न भवति॥

संहितायाम् ॥ ६.१.७२॥

अधिकारोऽयम् ‘अनुदात्तं पदमेकवर्जम्’ (६.१.१५८) इति यावत्। प्रागेतस्मात् सूत्रादित उत्तरं यद् वक्ष्यामः संहितायामित्येवं तद् वेदितव्यम्। वक्ष्यति-‘इको यणचि’ (६.१.७७)- दध्यत्र। मध्वत्र। संहितायामिति किम् ? दधि अत्र। मधु अत्र॥

छे च ॥ ६.१.७३॥

ह्रस्वस्य तुगिति वर्तते। छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति। इच्छति। यच्छति। ह्रस्व एवात्रागमी, न तु तदन्तः। तेन चिच्छिदतुश्चिच्छिदुरित्यत्र तुगभ्यासस्य ग्रहणेन न गृह्यत इति हलादिःशेषेण न निवर्त्यते, नावयवावयवः समुदायावयवो भवतीति॥

आङ्माङोश्च ॥ ६.१.७४॥

तुगित्यनुवर्तते, छ इति च। आङ ो ङित ईषदादिषु चतुर्ष्वर्थेषु वर्तमानस्य, माङ श्च प्रतिषेधवचनस्य छकारे परतस्तुगागमो भवति। ‘पदान्ताद् वा’ (६.१.७६) इति विकल्पे प्राप्ते नित्यं तुगागमो भवति। ईषदर्थे-ईषच्छाया आच्छाया। क्रियायोगे-आच्छादयति। मर्यादाभिविध्योः- आच् छायायाः आच्छायम्। माङ ः खल्वपि-माच् छैत्सीत्। माच् छिदत्। ङिद्विशिष्टग्रहणं किम् ? आ छाया, आच् छाया। प्रमा छन्दः, प्रमाच् छन्दः॥

दीर्घात् ॥ ६.१.७५॥

छे तुगिति वर्तते। दीर्घात् परो यश्छकारस्तस्मिन् पूर्वस्य तस्यैव दीर्घस्य तुगागमो भवति। ह्रीच्छति। म्लेच्छति। अपचाच्छायते। विचाच्छायते॥

पदान्ताद् वा ॥ ६.१.७६॥

दीर्घात् छे तुगिति वर्तते। पदान्ताद् दीर्घात् परो यश्छकारस्तस्मिन् पूर्वस्य तस्यैव दीर्घस्य पूर्वेण नित्यं प्राप्तो वा तुगागमो भवति। कुटीच्छाया, कुटीछाया। कुवलीच्छाया, कुवलीछाया॥ विश्वजनादीनां छन्दसि वा तुगागमो भवतीति वक्त व्यम्॥ विश्वजनच्छत्रम्। विश्वजनछत्रम्। न च्छायां क॑॑वोऽपरम् (शौ० सं० १३.१.५६)। न छायां करवोऽपरम्॥

इको यणचि ॥ ६.१.७७॥

अचि परत इको यणादेशो भवति। दध्यत्र। मध्वत्र। कर्त्रर्थम्। हर्त्रर्थम्। लाकृतिः॥ इकः प्लुतपूर्वस्य सवर्णदीर्घबाधनार्थं यणादेशो वक्तव्यः॥ भो३ इ इन्द्रम्। भो३यिन्द्रम्। अचीति चायमधिकारः ‘संप्रसारणाच्च’ (६.१.१०८) इति यावत्॥

एचोऽयवायावः ॥ ६.१.७८॥

एचः स्थानेऽचि परतोऽय् अव् आय् आव् इत्येत आदेशा यथासंख्यं भवन्ति। चयनम्। लवनम्। चायकः। लावकः। कयेते। ययेते। वायाववरुणद्धि॥

वान्तो यि प्रत्यये ॥ ६.१.७९॥

योऽयमेचः स्थाने वान्तादेश ओकारस्य अव्, औकारस्याव्, स यकारादौ प्रत्यये परतो भवति। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। नाव्यो ह्रदः। वान्त इति किम् ? रायमिच्छति रैयति। यीति किम् ? गोभ्याम्। नौभ्याम्। प्रत्यय इति किम् ? गोयानम्। नौयानम्॥ गोर्यूतौ छन्दसि॥ गोशब्दस्य यूतौ परतश्छन्दसि विषये वान्तादेशो वक्त व्यः। आ नो॑॑॑ मित्रावरुणा घ्ाृतैर्गव्य॑॑ूतिमुक्षतम् (ऋ० ३.६२.१६)। छन्दसीति किम् ? गोयूतिः॥ अध्वपरिमाणे च॥ गोर्यूतौ परतो वान्तादेशो वक्त व्यः। गव्यूतिमात्रमध्वानं गतः॥

धातोस्तन्निमित्तस्यैव ॥ ६.१.८०॥

एच इति वर्तते, वान्तो यि प्रत्यय इति च। धातोर्य एच् तन्निमित्तो यकारादिप्रत्यय-निमित्तः, तस्य यकारादौ प्रत्यये परतो वान्तादेशो भवति। लव्यम्। पव्यम्। अवश्यलाव्यम्। अवश्यपाव्यम्। धातोरिति किम् ? प्रातिपदिकस्य नियमो मा भूत्। तत्र को दोषः ? बाभ्रव्य इत्यत्रैव स्यात्, इह न स्याद्-गव्यं नाव्यमिति। तन्निमित्तस्येति किम् ? अतन्निमित्तस्य मा भूत्। उपोयते। औयत। लौयमानिः। पौयमानिः। ‘अत इञ्’(४.१.९५)। एवकारकरणं किम् ? धात्ववधारणं यथा स्यात्, तन्निमित्तावधारणं मा भूदिति। तन्निमित्तस्य हि धातोश्चाधातोश्च भवति। बाभ्रव्यः। अवश्यलाव्यम्। लव्यम्॥

क्षय्यजय्यौ शक्यार्थे ॥ ६.१.८१॥

क्षि जि इत्येतयोर्धात्वोर्यति प्रत्यये परतः शक्यार्थे गम्यमान एकारस्यायादेशो निपात्यते। शक्यः क्षेतुं क्षय्यः। शक्यो जेतुं जय्यः। शक्यार्थ इति किम् ? क्षेयं पापम्। जेयो वृषलः॥

क्रय्यस्तदर्थे॥ ६.१.८२॥

क्रीणातेर्धातोस्तदर्थे क्रयार्थं यत् तस्मिन्नभिधेये यति प्रत्यये परतोऽयादेशो निपात्यते। क्रय्यो गौः। क्रय्यः कम्बलः। क्रयार्थं यः प्रसारितः, स उच्यते। तदर्थ इति किम् ? क्रेयं नो धान्यम्, न चास्ति क्रय्यम्॥

भय्यप्रवय्ये चच्छन्दसि ॥ ६.१.८३॥

बिभेतेर्धातोः प्रपूर्वस्य च वी इत्येतस्य यति प्रत्यये परतश्छन्दसि विषयेऽयादेशो निपात्यते। भय्यं किलासीत् (द्र०-काठ० सं० ३३.४)। वत्सतरी प्रवय्या। भय्येति ‘कृत्यल्युटो बहुलम्’ (३.३.११३) इत्यपादाने यत् प्रत्ययः। बिभेत्यस्मादिति भय्यम्। प्रवय्या इति स्त्रियामेव निपातनम्। अन्यत्र प्रवेयमित्येव भवति। छन्दसीति किम् ? भेयम्। प्रवेयम्॥ ह्रदय्या आप उपसंख्यानम्॥ ह्रदय्या आपः। ह्रदे भवाः,‘भवे छन्दसि’ (४.४.११०) यत् प्रत्ययः॥

एकः पूर्वपरयोः ॥ ६.१.८४॥

अधिकारोऽयम्। ‘ख्यत्यात् परस्य’ (६.१.११२) इति प्रागेतस्मात् सूत्रादित उत्तरं यद् वक्ष्यामस्तत्र पूर्वस्य परस्य द्वयोरपि स्थान एकादेशो भवतीत्येतद् वेदितव्यम्। वक्ष्यति-‘आद् गुणः’ (६.१.८७) इति। तत्राचि पूर्वस्यावर्णात् च परस्य स्थान एको गुणो भवति। खट्वेन्द्रः। मालेन्द्रः। पूर्वपरग्रहणं द्वयोरपि युगपदादेशप्रतिपत्त्यर्थम्, एकस्यैव हि स्यात्, नोभे सप्तमीपञ्चम्यौ युगपत् प्रकल्पिके भवत इति। एकग्रहणं पृथगादेशनिवृत्त्यर्थम्, स्थानिभेदाद्धि भिन्नादिषु नत्ववद् द्वावादेशौ स्याताम्॥

अन्तादिवच्च ॥ ६.१.८५॥

एक इति वर्तते, पूर्वपरयोरिति च। एकः पूर्वपरयोरिति योऽयमेकादेशो विधीयते, स पूर्वस्यान्तवद् भवति, परस्यादिवद् भवति। यथा तस्यान्त आदिर्वा तदन्तर्भूतस्तद्ग्रहणेन गृह्यते, तद्वदेकादेशोऽपि तद्ग्रहणेन गृह्यत इत्येषोऽतिदेशार्थः। ब्रह्मबन्धूरित्यत्र ब्रह्मबन्धु इति प्रातिपदिकम्, ऊङित्यप्रातिपदिकम्, तयोः प्रातिपदिकाप्रातिपदिकयोर्य एकादेशः स प्रातिपदिकस्यान्तवद् भवति। यथा शक्यते कर्तुं ‘ङ्याप्प्रातिपदिकात्’ (४.१.१) इति स्वादिविधिः। वृक्षावित्यत्र सुबौकारोऽसुबकारः, तयोः सुबसुपोरेकादेशः सुप आदिवद् भवति। यथा शक्यते वक्तुं सुबन्तं पदम् (१.४.१४) इति। वर्णाश्रयविधावयमन्तादिवद्भावो नेष्यते। तथाहि खट्वाभिरित्यत्रान्तवद्भावाभावाद् ‘अतो भिस ऐस्’ (७.१.९) इति न भवति। ह्वयतेर्जुहावेति संप्रसारणपूर्वत्वस्यादिवद्भावाद् ‘आत औ णलः’ (७.१.३४) इति न भवति। अस्यै अश्वः, अस्या अश्व इति ‘वृद्धिरेचि’ (६.१.८८) इति वृद्धिः, ‘एङ ः पदान्तादति’ (६.१.१०९) इत्यत्र विधावादिवद् न भवति। पूर्वपरसमुदाय एकादेशस्य स्थानी, स हि तेन निवर्त्यते। तत्रावयवयोरानुमानिकं स्थानित्वमिति तदाश्रयं कार्यं स्थानिवद्भावादप्राप्त-मित्यन्तादिवद्भावो विधीयते॥

षत्वतुकोरसिद्धः ॥ ६.१.८६॥

षत्वे तुकि च कर्तव्य एकादेशोऽसिद्धो भवति, सिद्धकार्यं न करोतीत्यर्थः। असिद्धवचन-मादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च। कोऽसिचद् इत्यत्र ‘एङ ः पदान्तादति’ (६.१.१०९) इत्येकादेशस्य परं प्रत्यादिवद्भावादपदादेरिण उत्तरस्यादेशस्य सकारस्य षत्वं प्राप्नोति, तदसिद्धत्वाद् न भवति। कोऽस्य योऽस्य कोऽस्मै योऽस्मै इत्येकादेशस्यासिद्धत्वाद् इणः (८.३.५७) इति षत्वं न भवति। तुग्विधौ-अधीत्य, प्रेत्येत्यत्रैकादेशस्यासिद्धत्वाद् ‘ह्रस्वस्य पिति कृति तुक्’ (६.१.७१) इति तुग् भवति॥ संप्रसारणङीट्सु प्रतिषेधो वक्तव्यः॥ संप्रसारणे-ब्रह्महूषु। परिवीषु। संप्रसारणपूर्वत्वस्यासिद्धत्वात् षत्वं न प्राप्नोति। ङौ - वृक्षेच्छत्रम्, वृक्षे छत्रम्। इटि-अपचेच्छत्रम्, अपचे छत्रम्। आद्गुणस्यासिद्धत्वाद् ह्रस्व-लक्षणो (६.१.७६) नित्योऽत्र तुक् प्राप्नोति, ‘दीर्घात्’ (६.१.७५) ‘पदान्ताद् वा’ (६.१.७६) इति तुग्विकल्प इष्यते॥

आद् गुणः ॥ ६.१.८७॥

अचीत्यनुवर्तते। अवर्णात् परो योऽच् अचि च पूर्वो योऽवर्णः, तयोः पूर्वपरयोरवर्णाचोः स्थान एको गुण आदेशो भवति। तवेदम्। खट्वेन्द्रः। मालेन्द्रः। तवेहते। खट्वेहते। तवोदकम्। खट्वोदकम्। तवर्श्यः। खट्वर्श्यः। तवल्कारः। खट्वल्कारः। ऌकारस्य स्थाने योऽण् तस्य लपरत्वमिष्यते॥

वृद्धिरेचि ॥ ६.१.८८॥

आदिति वर्तते। अवर्णात् परो य एच्, एचि च पूर्वो योऽवर्णः, तयोः पूर्वपरयोरवर्णैचोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणस्यापवादः। ब्रह्मैडका। खट्वैडका। ब्रह्मैतिकायनः। खट्वैतिकायनः। ब्रह्मौदनः। खट्वौदनः। ब्रह्मौपगवः। खट्वौपगवः॥

** एत्येधत्यूठ्सु ॥ ६.१.८९॥**

वृद्धिरेचीति वर्तते, आदिति च। तदेतदेज्ग्रहणमेतेरेव विशेषणम्, न पुनरेधतेः, अव्यभिचारादूठश्चासंभवात्। ‘इण् गतौ’ इत्येतस्मिन् धातावेचि ‘एध वृद्धौ’ इत्येतस्मिन् ऊठि च पूर्वं यदवर्णम्, ततश्च परो योऽच्, तयोः पूर्वपरयोरवर्णाचोः स्थाने वृद्धिरेकादेशो भवति। उपैति। उपैषि। उपैमि। उपैधते। प्रैधते। प्रष्ठौहः। प्रष्ठौहा। प्रष्ठौहे। ऊठ्याद्गुणापवादो वृद्धिर्विधीयते। एत्येधत्योस्त्वेङिपररूपापवादः। ‘ओमाङोश्च’ (६.१.९५) इत्येतत् तु पररूपं न बाध्यते-‘येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति’ (परि॰ ५७) इति, ‘पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते०’(परि० ५९) इति वा। तेनेह न भवति-उप आ इत उपेत इति। एचीत्येव-उप इत उपेतः ॥ अक्षादूहिन्यां वृद्धिर्वक्त व्या॥ अक्षौहिणी॥ स्वादीरेरिण्योर्वृद्धिर्वक्त व्या॥ स्वैरम्। स्वैरिणी ॥ प्रादूढोढ्येषैष्येषु वृद्धिर्वक्त व्या॥ प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः॥ ऋते च तृतीयासमासेऽवर्णाद् वृद्धिर्वक्त व्या॥ सुखेन ऋतः सुखार्तः। दुःखेन ऋतो दुःखार्तः। ऋत इति किम् ? सुखेन इतः सुखेतः। तृतीयेति किम् ? परमर्तः। समास इति किम् ? सुखेनर्तः॥ प्रवत्सतरकम्बलवसनानामृणे वृद्धिर्वक्तव्या ॥ प्र-प्रार्णम्। वत्सतर-वत्सतरार्णम्। कम्बल-कम्बलार्णम्। वसन-वसनार्णम्॥ ऋणदशाभ्यां वृद्धिर्वक्त व्या ॥ ऋणार्णम्। दशार्णम्॥

आटश्च॥ ६.१.९०॥

एचीति निवृत्तम्। अचीत्यनुवर्तते। आटः परो योऽच्, अचि च पूर्वो य आट्, तयोः पूर्वपरयोराडचोः स्थाने वृद्धिरेकादेशो भवति। ऐक्षिष्ट। ऐक्षत। ऐक्षिष्यत। औभीत्। आर्ध्नोत्। औब्जीत्। चकारोऽधिकविधानार्थः, ‘उसि॰’, ‘ओमाङ ोश्च’(६.१.९६,९५) इति पररूपबाधनार्थः। औस्रीयत्। औङ्कारीयत्। आ ऊ ढा ओढा, तामैच्छत् औढीयत्॥

उपसर्गादृति धातौ ॥ ६.१.९१॥

आदित्येव। अवर्णान्तादुपसर्गादृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणापवादः। उपार्च्छति। प्रार्च्छति। उपार्ध्नोति। उपसर्गादिति किम् ? खट्वर्च्छति। मालर्च्छति। प्रगता ऋच्छका अस्माद् देशात् प्रर्च्छको देशः। ‘यत्क्रियायुक्त ाः प्रादयस्तं प्रति गत्युपसर्गसंज्ञकाः’ (महाभाष्य १.७५) इति। ऋतीति किम् ? उप इत उपेतः। तपरकरणं किम् ? उप ॠकारीयति उपर्कारीयति। ‘वा सुप्यापिशलेः’ (६.१.९२) इति विकल्पः स्यात्। उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातुग्रहणं शाकलनिवृत्त्यर्थम्। ‘ऋत्यकः’ (६.१.१२८) इति हि शाकल्यस्य प्रकृतिभावः प्राप्नोति॥

वा सुप्यापिशलेः ॥ ६.१.९२॥

आदित्येव, उपसर्गादृति धाताविति च। सुबन्तावयवे धातावृकारादौ परतोऽवर्णान्तादुपसर्गात् पूर्वपरयोरापिशलेराचार्यस्य मतेन वा वृद्धिरेकादेशो भवति। उपर्षभीयति, उपार्षभीयति। उपल्कारीयति, उपाल्कारीयति। ऋकारऌकारयोः सावर्ण्यविधिः (का० १.१.९) इति ऋतीति ऌकारोऽपि गृह्यते। आपिशलिग्रहणं पूजार्थम्। वेति ह्युच्यत एव॥

औतोऽम्शसोः ॥ ६.१.९३॥

ओतोऽमि शसि च परतः पूर्वपरयोराकार आदेशो भवति। गां पश्य। गाः पश्य। द्यां पश्य। द्याः पश्य। द्योशब्दोऽप्योकारान्त एव विद्यते, ततोऽपि परं सर्वनामस्थानं णिदिष्यते, तेन नाप्राप्तायां वृद्धावयमाकारो विधीयमानस्तां बाधते । अमिति द्वितीयैकवचनं गृह्यते, शसा साहचर्यात्, सुपीति चाधिकारात्। तेनाचिनवमसुनवमित्यत्र न भवति॥

एङि पररूपम् ॥ ६.१.९४॥

आदित्येव, उपसर्गाद् धाताविति च। अवर्णान्तादुपसर्गादेङादौ धातौ पूर्वपरयोः पररूपमेकादेशो भवति। ‘वृद्धिरेचि’(६.१.८८) इत्यस्यापवादः। उपेलयति। प्रेलयति। उपोषति। प्रोषति। केचिद् ‘वा सुप्यापिशलेः’ (६.१.९२) इत्यनुवर्तयन्ति, तत् च वाक्यभेदेन सुब्धातौ विकल्पं करोति। उपेडकीयति, उपैडकीयति। उपोदनीयति, उपौदनीयति॥ शकन्ध्वादिषु पररूपं वक्तव्यम्॥ शक अन्धुः शकन्धुः। कुल अटा कुलटा ॥ सीमन्तः केशेषु॥ सीम्नोऽन्तः सीमन्तः। अन्यत्र सीमान्तः॥ एवे चानियोगे पररूपं वक्त व्यम्॥ इह एव इहेव । अद्य एव अद्येव । अनियोग इति किम् ? इहैव भव, मान्यत्र गाः ॥ ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम् ॥ स्थूल ओतुः स्थूलौतुः, स्थूलोतुः। बिम्बौष्ठी, बिम्बोष्ठी। समास इति किम् ? तिष्ठ देवदत्तौष्ठं पश्य॥ एमन्नादिषु छन्दसि पररूपं वक्त व्यम्॥ अपां त्वा एमन्, अपां॑ त्व॑॑ेमन् (मै॰ सं॰ २.७.१८)। अपां त्वा ओद्मन्, अपां॑ त्वो॑द्म॒न् (मै॰ सं॰ २.७.१८)॥

ओमाङ ोश्च ॥ ६.१.९५॥

आदित्येव । अवर्णान्तादोमि आङि च परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। का ओमित्यवोचत् कोमित्यवोचत्। योमित्यवोचत्। आङि खल्वपि-आ ऊढा ओढा। अद्य ओढा अद्योढा। कदा ओढा कदोढा। तदा ओढा तदोढा। ‘वृद्धिरेचि’ (६.१.८८) इत्यस्यापवादः। इह तु आ ऋश्यात् अर्श्यात्, अद्य अर्श्यात् अद्यर्श्यादिति अकः सवर्णे दीर्घत्वं (६.१.१०१) बाधते॥

उस्यपदान्तात् ॥ ६.१.९६॥

आदित्येव। अवर्णादपदान्तादुसि पूर्वपरयोराद्गुणापवादः पररूपमेकादेशो भवति। भिन्द्या उस् भिन्द्युः। छिन्द्या उस् छिन्द्युः। अदा उस् अदुः। अया उस् अयुः। अपदान्तादिति किम् ? का उस्रा कोस्रा। का उषिता कोषिता। आदित्येव-चक्रुः। अबिभयुः॥

अतो गुणे ॥ ६.१.९७॥

अपदान्तादिति वर्तते। अकारादपदान्ताद् गुणे परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। पचन्ति। यजन्ति। अकः सवर्णे दीर्घस्य (६.१.१०१) अपवादः। पचे,यज इत्यत्र ‘वृद्धिरेचि’ (६.१.८८) इति वृद्धिः प्राप्नोति। अत इति किम् ? यान्ति। वान्ति। गुण इति किम् ? अपचे। अयजे। अपदान्तादित्येव-दण्डाग्रम्। यूपाग्रम्॥

अव्यक्त ानुकरणस्यात इतौ ॥ ६.१.९८॥

अव्यक्तमपरिस्फुटवर्णम्, तदनुकरणं परिस्फुटवर्णमेव। केनचित् सादृश्येन तदव्यक्तमनुकरोति,तस्य योऽच्छब्दस्तस्मादितौ पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। पटत् इति पटिति। घटत् इति घटिति। झटत् इति झटिति। छमत् इति छमिति। अव्यक्तानुकरणस्येति किम्? जगत् इति जगदिति। अत इति किम्? मरट् इति मरडिति। इताविति किम् ? पटत् अत्र पटदत्र॥ अनेकाच इति वक्तव्यम्॥ इह मा भूत्-श्रत् इति श्रदिति। कथं घटदिति गम्भीरमम्बुदैर्नदितमिति ? दकारान्तमेतदनुकरणं द्रष्टव्यम्॥

नाम्रेडितस्यान्त्यस्य तु वा ॥ ६.१.९९॥

अव्यक्त ानुकरणस्यामे्रडितस्य योऽच्छब्द इतौ तस्य पररूपं न भवति, तस्य योऽन्त्यस्तकारस्तस्य वा भवति। पटत्पटदिति, पटत्पटेति करोति। ‘नित्यवीप्सयोः‘(८.१.४) इति द्विर्वचनम्। यदा तु समुदायानुकरणं तदा भवत्येव पूर्वेण पररूपम्-पटत्पटिति करोति॥

नित्यमाम्रेडिते डाचि ॥ ६.१.१००॥

अव्यक्त ानुकरणस्य, अतः, अन्त्यस्येति चानुवर्तते। डाच्परं यदाम्रेडितं तस्मिन् पूर्वस्याव्यक्त ानुकरणस्याच्छब्दस्य योऽन्त्यस्तकारस्तस्य पूर्वस्य परस्य चाद्यस्य वर्णस्य नित्यं पररूपमेकादेशो भवति। पटपटा करोति। दमदमा करोति। पटदित्यस्माद् ‘अव्यक्त ानुकरणाद्॰’ (५.४.५७) इति डाचि विहिते ‘डाचि बहुलम्०’ (८.१.१२ वा०) इति द्विर्वचनम्, तच्च टिलोपात् पूर्वमेवेष्यते॥

अकः सवर्णे दीर्घः ॥ ६.१.१०१॥

अकः सवर्णेऽचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति। दण्डाग्रम्। दधीन्द्रः। मधूदके। होतश्यः। अक इति किम् ? अग्नये। सवर्ण इति किम् ? दध्यत्र। अचीत्येव-कुमारी शेते। ‘नाज्झलौ’ (१.१.१०) इत्यत्र यदजिति प्रत्याहारग्रहणं तत्र ग्रहणकशास्त्रस्यानभिनिर्वृत्तत्वात् सवर्णा न गृह्यन्त इति सवर्णत्वमीकारशकारयोरप्रतिषिद्धम्॥ सवर्णदीर्घत्व ऋति ऋ वा वचनम्॥ ऋति सवर्णे परभूते तत्र ऋ वा भवतीति वक्त व्यम्। होतृ ऋकारो होतृकारः। यदा न ऋ तदा दीर्घ एव होतकारः॥ ऌति ऌ वा वचनम्॥ ऌति सवर्णे परतो ऌ वा भवतीति वक्त व्यम्॥ होतृ ऌकारो होत्ऌकारः, होतकारः। ऋकारऌकारयोः सवर्णसंज्ञाविधिरुक्त ः (का० १.१.९)। दीर्घपक्षे तु समुदायान्तरतमस्य ऌवर्णस्य दीर्घस्याभावात् ॠकारः क्रियते॥

प्रथमयोः पूर्वसवर्णः ॥ ६.१.१०२॥

अक इति दीर्घ इति वर्तते। प्रथमाशब्दो विभक्तिविशेषे रूढः, तत्साहचर्याद् द्वितीयापि प्रथमेत्युक्त ा। तस्यां प्रथमायां द्वितीयायां च विभक्त ावचि अकः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घ एकादेशो भवति। अग्नी। वायू। वृक्षाः। प्लक्षाः। वृक्षान्। प्लक्षान्। ‘अतो गुणे’ (६.१.९७) इति यदकारे पररूपं तदकः सवर्णे दीर्घत्वमेव बाधते, न तु पूर्वसवर्णदीर्घत्वम्-‘पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते॰’ (परि॰ ५९) इति। अचीत्येव-वृक्षः। प्लक्षः। अक इत्येव-नावौ। पूर्वसवर्णग्रहणं किम् ? अग्नी इत्यत्र पक्षे परसवर्णो मा भूत्। दीर्घग्रहणं किम् ? त्रिमात्रे स्थानिनि त्रिमात्रादेशनिवृत्त्यर्थम्॥

तस्माच्छसो नः पुंसि ॥ ६.१.१०३॥

तस्मात् पूर्वसवर्णदीर्घादुत्तरस्य शसोऽवयवस्य सकारस्य पुंसि नकारादेशो भवति। वृक्षान्। अग्नीन्। वायून्। कर्तन्। हर्तन्। षण्ढकान्। पण्डकान्। स्थूरान्। अररकान् पश्य। सर्व एते पुँल्लिङ्गविशिष्टं स्वार्थं प्रतिपादयन्ति। इह तु चञ्चेव चञ्चा, ‘लुम्मनुष्ये’ (५.३.९८) इति कनो लुपि कृते ‘लुपि युक्त वद् व्यक्ति वचने’(१.२.५१) इति पुंसोऽपि स्त्रीलिङ्गता, तेन नत्वं न भवति-चञ्चाःपश्य, वध्रिकाः पश्येति। तस्मादिति किम् ? एतांश्चरतो गाः पश्य। शस इति किम् ? वृक्षाः। प्लक्षाः। पुंसीति किम् ? धेनूः। बह्वीः। कुमारीः॥

नादिचि ॥ ६.१.१०४॥

अवर्णादिचि पूर्वसवर्णदीर्घो न भवति। वृक्षौ। प्लक्षौ। खट्वे। कुण्डे। आदिति किम् ? अग्नी। इचीति किम् ? वृक्षाः॥

दीर्घाज्जसि च ॥ ६.१.१०५॥

दीर्घात् जसि इचि च परतः पूर्वसवर्णदीर्घो न भवति। कुमार्यौ, कुमार्यः। ब्रह्मबन्ध्वौ, ब्रह्मबन्ध्वः॥

वा छन्दसि ॥ ६.१.१०६॥

दीर्घात् छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्णदीर्घो न भवति। मारुती॑॑श्च॑॑तस्रः (काठ० सं० ११.१०) पिण्डीः। मारुत्यश्चतस्रः पिण्ड्यः। वा॑॑रा॒ही उपा॒न॑॑हा (मै० सं० ४.४.६)। वाराह्यौ उपानह्यौ (लौ० गृ० ३.७)॥

अमि पूर्वः ॥ ६.१.१०७॥

अक इत्येव। अमि परतोऽकः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। वृक्षम्। प्लक्षम्। अग्निम्। वायुम्। पूर्वग्रहणं किम् ? पूर्व एव यथा स्यात्, पूर्वसवर्णोऽन्तरतमो मा भूदिति, कुमारीमित्यत्र हि त्रिमात्रः स्यात्। वा छन्दसीत्येव-शमीं॑ च(काठ० सं० ३६.६), शम्यं च। गौरीं च, गौ॒र्यं॑(ऋ०४.१२.६) च॥

संप्रसारणाच्च ॥ ६.१.१०८॥

पूर्व इत्येव। संप्रसारणादचि परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। यजि-इष्टम्। वपि-उप्तम्। ग्रहि-गृहीतम्। संप्रसारणविधानसामर्थ्याद् विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते। वा छन्दसीत्येव-मित्रावरुणौ यज्यमानः। परपूर्वत्वविधाने सत्यर्थवत् संप्रसारणविधानमिति इष्ट इत्येवमादिषु पूर्वत्वाभावे यणादेशो भवत्येव। अन्तरङ्गे चाचि कृतार्थं वचनमिति बाह्ये पश्चात् संनिपतिते पूर्वत्वं न भवति। शकह्वौ। शकह्वर्थम्॥

एङः पदान्तादति॥ ६.१.१०९॥

एङ् यः पदान्तस्तस्मादति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति। अग्नेऽत्र। वायोऽत्र। अयवादेशयोरयमपवादः। एङ इति किम् ? दध्यत्र। मध्वत्र। पदान्तादिति किम् ? चयनम्। लवनम्। अतीति किम् ? वायो इति। भानो इति। वायविति। भानविति। तपरकरणं किम् ? वायवायाहि॥

ङ सिङसोश्च ॥ ६.१.११०॥

एङ इति वर्तते, अतीति च। एङ उत्तरयोर्ङसिङसोरति परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। अपदान्तार्थ आरम्भः॥

ऋत उत् ॥ ६.१.१११॥

ङसिङसोरित्येव। ऋकारान्तादुत्तरयोर्ङसिङसोरति परतः पूर्वपरयोरुकार एकादेशो भवति। होतुरागच्छति। होतुः स्वम्। द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभतेऽन्यतरव्यपदेशमिति ‘उरण् रपरः’ (१.१.५१) इति रपरत्वमत्र कृत्वा ‘रात् सस्य’ (८.२.२४) इति सलोपः कर्तव्यः॥

ख्यत्यात् परस्य ॥ ६.१.११२॥

ङसिङसोरिति वर्तते, उदिति च। ख्यत्यादिति खिशब्दखीशब्दयोस्तिशब्दती-शब्दयोश्च कृतयणादेशयोरिदं ग्रहणम्, ताभ्यां परस्य ङसिङसोरत उकारादेशो भवति। सख्युरागच्छति। सख्युः स्वम्। पत्युरागच्छति। पत्युः स्वम्। खीशब्दस्योदाहरणम्-सह खेन वर्तत इति सखस्तमिच्छतीति क्यच् सखीयति। सखीयतेः क्विप् सखीः, तस्य ङसिङसोः सख्युरिति। तीशब्दस्यापि-लूनमिच्छति लूनीयति। लूनीयतेः क्विपि लुप्ते, लून्युरागच्छति। लून्युः स्वम्। निष्ठानत्वम् (८.२.४४) ‘पूर्वत्रासिद्धम्’ (८.२.१) इत्यसिद्धम्। विकृतनिर्देशादेवेह न भवति-अतिसखेरागच्छति, सेनापतेरागच्छतीति। सखिशब्दस्य केवलस्य घिसंज्ञा प्रतिषिध्यते न तदन्तस्य॥

अतो रोरप्लुतादप्लुते ॥ ६.१.११३॥

अति, उदिति वर्तते। अकारादप्लुतादुत्तरस्य रो रेफस्य उकारानुबन्धविशिष्टस्याकारेऽप्लुते परत उकारादेशो भवति। वृक्षोऽत्र। प्लक्षोऽत्र। ‘भोभगोअघोअपूर्वस्य योऽशि’ (८.३.१७) इत्यस्मिन् प्राप्त उत्वं विधीयते। रुत्वमप्याश्र्यत्वात् ‘पूर्वत्रासिद्धम्’ (८.२.१) इत्यसिद्धं न भवति। अत इति किम् ? अग्निरत्र। तपरकरणं किम् ? वृक्षा अत्र। सानुबन्धग्रहणं किम् ? स्वरत्र। प्रातरत्र। अतीत्येव-वृक्ष इह। तस्यापि तपरत्वादत्र न भवति-वृक्ष आश्र्तिः। अप्लुतादिति किम् ? सुस्रोत३ अत्र न्वसि। अप्लुत इति किम् ? तिष्ठतु पय अ३श्विन् । अत्र प्लुतस्यासिद्धत्वादुत्वं प्राप्नोतीत्यप्लुतादप्लुत इत्युच्यते ॥

हशि च ॥ ६.१.११४॥

हशि च परतोऽत उत्तरस्य रोरुकारादेशो भवति। पुरुषो याति। पुरुषो हसति। पुरुषो ददाति॥

प्रकृत्यान्तःपादमव्यपरे ॥ ६.१.११५॥

एङ ोऽति इत्येव। एङ इति यत् पञ्चम्यन्तमनुवर्तते, तदर्थादिह प्रथमान्तं भवति। प्रकृतिरिति स्वभावः कारणं वाभिधीयते। अन्तरित्यव्ययमधिकरणभूतं मध्यमाचष्टे। पादशब्देन च ऋक्पादस्यैव ग्रहणमिष्यते, न तु श्लोकपादस्य। अवकारयकारपरेऽति परत एङ् प्रकृत्या भवति। स्वभावेनावतिष्ठते, कारणात्मना वा भवति, न विकारमापद्यते। तौ चेद् निमित्तकार्यिणावन्तः पादमृक्पादमध्ये भवतः। ते अग्रे अश्व॑॑मायुञ्ज॒न् (मा० सं०९.७)। ते अ॑॑स्मिन् ज॒वमाद॑॑धुः (मा० सं० ९.७)। उ॒प॒प्॒रयन्ता॑े॑ अध्व॒रम्(ऋ०१.७४.१)। शिरो॑ अपश्यम्(ऋ०१.१६३.६)। सुजा॑ते॒ अश्व॑सूनृते(ऋ०५.७९.१)। अध्व॑र्यो॒ अदि्॑॑रभिः सु॒तम् (ऋ०९.५१.१)। अन्तः पादमिति किम् ? कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ (ऋ० १.१६५.१)। अव्यपर इति किम् ? त॑े॑ऽवदन् (ऋ०१०.१०९.१)। तेजोऽय॒स्मय॒म् (मा० सं०१२.६३)। एङिति किम् ? अन्व॒ग्निरु॒षसा॒मग्॑॑रमख्य॒त् (शौ० सं० ७.८२.४)। केचिदिदं सूत्रं नान्तःपादमव्यपर इति पठन्ति, ते संहितायामिह यदुच्यते तस्य सर्वस्य प्रतिषेधं वर्णयन्ति॥

अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ॥ ६.१.११६॥

अव्यात् अवद्यात् अवक्रमुः अव्रत अयम् अवन्तु अवस्यु इत्येतेषु वकारयकारपरेऽप्यति परतोऽन्तः पादमेङ् प्रकृत्या भवति। अ॒ग्निः प्॑॑रथ॒मो वस॑ु॑भिर्नो अव्या॒त् (तै० सं० २.१.११.२)। मि॑॑त्रमहो अव॒द्यात् (ऋ० ४.४.१५)। माशि॑वासो॒ अव॑॑क्रमुः (ऋ० ७.३२.२७)। ते ना॑े॑ अव्रताः। शा॑॑तवा॒रो अ॒यं म॒णिः (शौ० सं० १९.३६.५)। ते ना॑े॑ अवन्तु पि॒तरः॒ (ऋ० १०.१५.१)। कु॒शि॒कासा॑े॑ अव॒स्यव॑ः॑ (ऋ० ३.४२.९)॥

यजुष्युरः ॥ ६.१.११७॥

उरःशब्द एङन्तो यजुषि विषयेऽति प्रकृत्या भवति। उरो अन्तरिक्षम् । अपरे ‘यजुष्युरो’ इति सूत्रं पठन्ति, उकारान्तमुरुशब्दं संबुद्ध्यन्तमधीयते। त इदमुदाहरन्ति-उरो॑े॑ अन्तरिक्षे स॒जूः (तै० सं० १.३.८.१) इति। यजुषि पादानामभावादनन्तःपादार्थं वचनम्॥

आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे ॥ ६.१.११८॥

यजुषीत्येव। आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दा अम्बे अम्बाले इत्येतौ च यावम्बिकेशब्दात् पूर्वौ यजुषि पठितौ तेऽति परतः प्रकृत्या भवन्ति। आपा॑े॑ अ॒स्मान्मा॒तर॑ः॑ शुन्धयन्तु (मा० सं० ४.२)। जुषा॒णो अ॒प्तुराज्य॑॑स्य (मा० सं० ५.३५)। वृष्णा॑े॑ अ॒शुभ्यां॒ गभ॑॑स्तिपूतः (मा० सं० ७.१)। वर्षि॑ष्ठे॒ अधि॒नाके॒ (तै० सं० १.१.८.२)। अम्बे॒ अम्बा॒ले अम्बि॑॑के। यजुषीदमीदृशमेव पठ्यते। अस्मादेव निपातनाद् ‘अम्बार्थनद्योर्ह्रस्वः’ (७.३.१०७) इति ह्रस्वत्वं न भवति॥

अङ्ग इत्यादौ च ॥ ६.१.११९॥

अङ्गशब्दे य एङ् तदादौ चाकारे यः पूर्वः स यजुषि विषयेऽति प्रकृत्या भवति। ऐन्द्रः प्राणो अङ्गेअङ्गे अदीध्यत् । एे॒न्द्रः प्॒राणो अङ्ग॑े॑अङ्गे॒ नि दी॑॑ध्यत् (मा० सं० ६.२०)। ऐन्द्रः प्राणो अङ्गेअङ्गे अशोचिषम्॥

अनुदात्ते च कुधपरे ॥ ६.१.१२०॥

यजुषीत्येव। अनुदात्ते चाति कवर्गधकारपरे परतो यजुषि विषय एङ् प्रकृत्या भवति। अ॒यं ना॑े॑ अ॒ग्निः(मा० सं० ५.३७)। अयं सो अध्वरः। अनुदात्त इति किम् ? अधोऽग्रे। अग्रशब्द आद्युदात्तो निपात्यते। कुधपर इति किम् ? सोऽयमग्निः सहस्रियः (तु०-मा० सं० १५.२१)॥

अवपथासि च ॥ ६.१.१२१॥

यजुषीत्येव। अनुदात्त इति चशब्देनानुकृष्यते। अवपथाःशब्देऽनुदात्तेऽकारादौ परतो यजुषि विषय एङ् प्रकृत्या भवति। त्री रुद्रेभ्यो अवपथाः (काठ० सं० ३०.६.३२)। वपेर्लङि थासि ‘तिङ्ङतिङः’ (८.१.२८) इति निघातेनानुदात्तत्वम्। अनुदात्त इत्येव-यद्रुद्रेभ्योऽवपथाः। ‘निपातैर्यद्यदिहन्त॰’ (८.१.३०) इति निघातः प्रतिषिध्यते॥

सर्वत्र विभाषा गोः ॥ ६.१.१२२॥

सर्वत्र छन्दसि भाषायां चाति परतो गोरेङ् प्रकृत्या भवति विभाषा। गोऽग्रम्, गो अग्रम्। छन्दसि-अप॑॑शवो॒ वा अ॒न्ये गो॑॑अ॒श्वेभ्य॑ः॑ प॒शवो॑॑ गोअ॒श्वान् (तै० सं० ५.२.९४)॥

अवङ् स्फोटायनस्य ॥ ६.१.१२३॥

अतीति निवृत्तम्। अचीत्येतत्त्वनुवर्तत एव। अचि परतो गोः स्फोटायनस्याचार्यस्य मतेनावङादेशो भवति। गवाग्रम्, गोऽग्रम्। गवाजिनम्, गोऽजिनम्। गवौदनम्, गवोदनम्। गवोष्ट्रम्, गवुष्ट्रम्। आद्युदात्तश्चायमादेशो निपात्यते, स निपातनस्वरो बहुव्रीहौ प्रकृतिस्वरविधाने भवति। गावो अग्रमस्य गवा॑॑ग्र इति। अन्यत्र तु समासान्तोदात्तत्वेन बाध्यते। स्फोटायनग्रहणं पूजार्थम्, विभाषेत्येव हि वर्तते। व्यवस्थितविभाषेयम्, तेन गवाक्ष इत्यत्र नित्यमवङ् भवति॥

इन्द्रे च नित्यम् ॥ ६.१.१२४॥

इन्द्रशब्दस्थेऽचि परतो गोर्नित्यमवङादेशो भवति। गवेन्द्रः। गवेन्द्रयज्ञस्वरः॥

प्लुतप्रगृह्या अचि ॥ ६.१.१२५॥

प्लुताश्च प्रगृह्याश्चाचि प्रकृत्या भवन्ति। देवदत्त३ अत्र न्वसि। यज्ञदत्त३ इदमानय। आश्रयादत्र प्लुतः सिद्धः। प्रगृह्याः-अग्नी इति। वायू इति। खट्वे इति। माले इति। अचीत्यनुवर्तमाने पुनरज्ग्रहणमादेशनिमित्तस्याचः परिग्रहार्थम्। तेनेह न भवति-जानु उ अस्य रुजति, जान्वस्य रुजति। प्रगृह्यादुकारात् परस्याकारस्य सवर्णदीर्घत्वं प्रत्यनिमित्तत्वादत्र प्रकृतिभावो न भवति। नित्यग्रहणमिहानुवर्तते। प्लुतप्रगृह्याणां नित्यमयमेव प्रकृतिभावो यथा स्याद् ‘इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च’ (६.१.१२७) इत्येतन् मा भूदिति॥

आङोऽनुनासिकश्छन्दसि ॥ ६.१.१२६॥

आङोऽचि परतः संहितायां छन्दसि विषयेऽनुनासिकादेशो भवति, स च प्रकृत्या भवति। अ॒भ्र आँ अ॒पः (ऋ० ५.४८.१)। ग॑॑भी॒र आँ उग्॑॑रपुत्रे॒ जिघां॑सतः (ऋ० ८.६७.११)। केचिदाङोऽनुनासिकश्छन्दसि बहुलमित्यधीयते। तेनेह न भवति-इन्द्रो बाहुभ्यामातरत्। आ अतरत्॥

इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ॥ ६.१.१२७॥

इकोऽसवर्णेऽचि परतः शाकल्यस्याचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्येकः स्थाने भवति। दधि अत्र, दध्यत्र। मधु अत्र, मध्वत्र। कुमारि अत्र, कुमार्यत्र। किशोरि अत्र, किशोर्यत्र। इक इति किम् ? खट्वेन्द्रः। असवर्ण इति किम् ? कुमारीन्द्रः। शाकल्यस्य ग्रहणं पूजार्थम्। आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः॥ सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्त व्यः॥ सिति-अ॒यं ते॒ योनि॑॑र्ऋ॒त्वियः॒ (ऋ॰ ३.२९.१०)। नित्यसमासे-व्याकरणम्। कुमार्यर्थम्॥ ईषाअक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्त व्यर्म्॥ इ॒षा अक्षा॑े॑ हिर॒ण्ययः॑ (ऋ० ८.५.२९)। का ई॑मरे पिशङ्गि॒ला (मा॰ सं॰ २३.५५)। पथा अगमन्॥

ऋत्यकः ॥ ६.१.१२८॥

शाकल्यस्य ह्रस्वश्चेत्येतदनुवर्तते। ऋकारे परतः शाकल्यस्याचार्यस्य मतेनाकः प्रकृत्या भवन्ति, ह्रस्वश्च तस्याकः स्थाने भवति। खट्व ऋश्यः। माल ऋश्यः। कुमारि ऋश्यः। होतृ ऋश्यः। ऋतीति किम् ? खट्वेन्द्रः। अक इति किम् ? वृक्षावृश्यः। सवर्णार्थमनिगर्थं च वचनम्॥

अप्लुतवदुपस्थिते ॥ ६.१.१२९॥

उपस्थितं नामानार्ष इतिकरणः, समुदायादवच्छिद्य पदं येन स्वरूपेऽवस्थाप्यते। तस्मिन् परतः प्लुतोऽप्लुतवद् भवति। प्लुतकार्यं प्रकृतिभावं न करोति। सुश्लोक३ इति सुश्लोकेति। सुमङ्गल३ इति सुमङ्गलेति। वत्करणं किम् ? अप्लुत इत्युच्यमाने प्लुत एव प्रतिषिध्यते। तत्र को दोषः ? प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात्। अग्नी३ इति। वायू३ इति॥

ई३ चाक्रवर्मणस्य ॥ ६.१.१३०॥

ई३कारः प्लुतोऽचि परतश्चाक्रवर्मणस्याचार्यस्य मतेनाप्लुतवद् भवति। अस्तु हीत्यब्रूताम्। अस्ति हि३ इत्यब्रूताम्। चिनु हीदम्। चिनु हि३ इदम्। चाक्रवर्मणग्रहणं विकल्पार्थम्, तदुपस्थिते निवृत्त्यर्थम् अनुपस्थिते प्राप्त्यर्थमित्युभयत्रविभाषेयम्। ईकारादन्यत्राप्ययमप्लुतवद्भाव इष्यते। वशा३ इयं वशेयम्॥

दिव उत् ॥ ६.१.१३१॥

‘एङः पदान्तादति’ (६.१.१०९) इत्यतः पदग्रहणमनुवर्तते। दिव इति प्रातिपदिकं गृह्यते न धातुः, सानुबन्धकत्वात्। दिवः पदस्योकारादेशो भवति। दिवि कामो यस्य द्युकामः। द्युमान्। विमलद्यु दिनम्। द्युभ्याम्, द्युभिः। निरनुबन्धकग्रहणात् (परि॰ ८१) इह न भवति-अक्षद्यूभ्याम्, अक्षद्यूभिरिति। तपरकरणमूठो निवृत्त्यर्थं द्युभ्याम्, द्युभिरिति। अत्र हि परत्वादूठ् प्राप्नोति। पदस्येति किम् ? दिवौ, दिवः॥

एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ॥ ६.१.१३२॥

एतत्तदौ यावककारौ नञ्समासे न वर्तते तयोर्यः सुशब्दः, कश्च तयोः सुशब्दः ? यस्तदर्थेन संबद्धः, तस्य संहितायां विषये हलि परतो लोपो भवति। एष ददाति। स ददाति। एष भुङ्क्ते। स भुङ्क्ते। एतत्तदोरिति किम् ? यो ददाति। यो भुङ्क्ते। सुग्रहणं किम् ? एतौ गावौ चरतः। अकोरिति किम् ? एषको ददाति। सको ददाति। ‘तन्मध्यपतितस्तद्ग्रहणेन गृह्यते’ इति रूपभेदेऽपि साकच्कावेतत्तदावेव भवतः। अनञ्समास इति किम् ? अनेषो ददाति। असो ददाति। उत्तरपदार्थप्रधानत्वाद् नञ्समासस्यैतत्तदोरेवात्र संबद्धः सुशब्दः। हलीति किम् ? एषोऽत्र। सोऽत्र॥

स्यश्छन्दसि बहुलम् ॥ ६.१.१३३॥

स्य इत्येतस्य छन्दसि हलि परतो बहुलं सोर्लोपो भवति। उ॒त स्य वा॒जी क्ष्ि॑ा॑प॒णिं त॑ु॑रण्यति ग्री॒वायां॑॑ ब॒द्धो अ॑॑पि क॒क्ष अा॒सनि॑॑ (ऋ० ४.४०.४)। ए॒ष स्य त॑े॑ पवत इन्द्॒र सोम॑ः॑ (ऋ० ९.९७.४६)। न च भवति-यत्र स्यो निपतेत्॥

सोऽचि लोपे चेत् पादपूरणम् ॥ ६.१.१३४॥

स इत्येतस्याचि परतः सुलोपो भवति, लोपे सति चेत् पादः पूर्यते। सेदु॒ राजा॑ क्षयति चर्षणी॒नाम् (ऋ० १.३२.१५)। सौष॑धी॒रनु॑रुध्यसे (ऋ० ८.४३.९)। लोपे चेत् पादपूरणमिति किम् ? स इव व्याघ्रो भवेत्। अचीति विस्पष्टार्थम्। पादग्रहणेनात्र श्लोकपादस्यापि ग्रहणं केचिदिच्छन्ति। तेनेदमपि सिद्धं भवति।

सैष दाशरथी रामः सैष राजा युधिष्ठिरः।

सैष कर्णो महात्यागी सैष भीमो महाबलः॥

सुट् कात् पूर्वः ॥ ६.१.१३५॥

अधिकारोऽयम्, ‘पारस्करप्रभृतीनि च संज्ञायाम्’ (६.१.१५७) इति यावत्। इत उत्तरं यद् वक्ष्यामस्तत्र सुडिति कात् पूर्व इति चैतदधिकृतं वेदितव्यम्। वक्ष्यति-‘संपर्युपेभ्यः करोतौ भूषणे’ (६.१.१३७)। संस्कर्ता। संस्कर्तुम्। संस्क र्तव्यम्। कात् पूर्वग्रहणं सुटोऽभक्त त्वज्ञापनार्थम्। तथाहि संस्कृषीष्ट संस्क्रियत इति संयोगादिलक्षणाविड्गुणौ न भवतः। ‘तिङ्ङतिङः’ (८.१.२८) इति निघातोऽपि तर्हि न प्राप्नोति, सुटा व्यवहितत्वात् ? ‘स्वरविधौ व्यञ्जनमविद्यमानवद्॰’ इति वचनाद् नास्ति व्यवधानम्। संचस्करतुः, संचस्करुरिति गुणः कथम् ? ‘तन्मध्यपतितस्तद्ग्रहणेन गृह्यते’ इति। संयोगोपधग्रहणं च ‘ऋतश्च संयोगादेर्गुणः’ (७.४.१०) इत्यत्र कर्तव्यम्। टित्करणं सुट्स्तुस्वञ्जाम् (८.३.७०) इत्यत्र विशेषणार्थम्॥

अडभ्यासव्यवायेऽपि ॥ ६.१.१३६॥

अड्व्यवायेऽभ्यासव्यवायेऽपि सुट् कात् पूर्वो भवति। समस्करोत्। समस्कार्षीत्। संचस्कार। परिचस्कार। किमर्थं पुनरिदमुच्यते, ‘पूर्वं धातुरुपसर्गेण युज्यते’ इति तत्र धातूपसर्गयोः कार्यमन्तरङ्गमिति पूर्वं सुट् क्रियते पश्चादडभ्यासौ ? अभक्त श्च सुडित्युक्त म् ततः सकारादुत्तरावडभ्यासावनिष्टे देशे स्याताम्। एतस्मिंस्तु सत्यत एव वचनात् कृतयोरडभ्यासयोस्तद्व्यवायेऽपि सुट् कात् पूर्वः क्रियत इति सिद्धमिष्टं भवति॥

सम्पर्युपेभ्यः करोतौ भूषणे ॥ ६.१.१३७॥

सम् परि उप इत्येतेभ्यो भूषणार्थे करोतौ परतः सुट् कात् पूर्वो भवति। सँस्स्कर्ता। सँस्स्कर्तुम्। सँस्स्कर्तव्यम्। अत्र ‘संपुंकानां सत्वम्’ (८.३.५ वा०) इति समो मकारस्य सकारः, पूर्वस्य चाकारस्यानुनासिकः। परिष्कर्ता। परिष्कर्तुम्। परिष्कर्तव्यम्। सुट्स्तुस्वञ्जाम् (८.३.७०) इति षत्वम्। उपस्कर्ता। उपस्कर्तुम्। उपस्कर्तव्यम्। भूषण इति किम् ? उपकरोति। संपूर्वस्य क्वचिदभूषणेऽपि सुडिष्यते, संस्कृतमन्नमिति॥

समवाये च ॥ ६.१.१३८॥

समवायः समुदायः, तस्मिंश्चार्थे करोतौ संपर्युपेभ्यः कात् पूर्वः सुडागमो भवति। तत्र नः संस्कृतम्। तत्र नः परिष्कृतम्। तत्र न उपस्कृतम्। समुदितमित्यर्थः॥

उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु ॥ ६.१.१३९॥

सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः। विकृतमेव वैकृतम्। प्रज्ञादित्वादण् (५.४.३८)। गम्यमानार्थस्य वाक्यस्य स्वरूपेणोपादानं वाक्यस्याध्याहारः। एतेष्वर्थेषु गम्यमानेषु करोतौ धातौ परत उपात् सुट् कात् पूर्वो भवति। प्रतियत्ने तावत्-एधोदकस्योपस्कुरुते। काण्डं गुडस्य उपस्कु रु ते। वैकृते-उपस्कृतं भुङ्क्ते। उपस्कृतं गच्छति। वाक्याध्याहारे-उपस्कृतं जल्पति। उपस्कृतमधीते। एतेष्विति किम्? उपकरोति॥

**किरतौ लवने ॥ ६.१.१४०॥ **

उपादित्येव। उपादुत्तरस्मिन् किरतौ धातौ लवनविषये सुट् कात् पूर्वो भवति। उपस्कारं मद्रका लुनन्ति। उपस्कारं काश्मीरका लुनन्ति। विक्षिप्य लुनन्तीत्यर्थः। णमुलत्र वक्तव्यः। लवन इति किम्? उपकिरति देवदत्तः॥

हिंसायां प्रतेश्च ॥ ६.१.१४१॥

किरतावित्येव। उपात् प्रतेश्चोत्तरस्मिन् किरतौ सुट् कात् पूर्वो भवति हिंसायां विषये। उपस्कीर्णं हं ते वृषल भूयात्। प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयाद् यथा हिंसामनुबध्नातीत्यर्थः। हिंसायामिति किम् ? प्रतिकीर्णम्॥

अपाच्चतुष्पाच्छकुनिष्वालेखने ॥ ६.१.१४२॥

किरतावित्येव। अपादुत्तरस्मिन् किरतौ चतुष्पाच्छकुनिषु यदालेखनं तस्मिन् विषये सुट् कात् पूर्वो भवति। अपस्किरते वृषभो हृष्टः। अपस्किरते कुक्कुटो भक्ष्यार्थी। अपस्किरते श्वा आश्रयार्थी। आलिख्य विक्षिपतीत्यर्थः। चतुष्पाच्छकुनिष्विति किम्? अपकिरति देवदत्तः॥ हर्षजीविकाकुलायकरणेष्विति वक्त व्यम्॥ इह मा भूत्-अपकिरति श्वा ओदनपिण्डमाशितः। हर्षजीविकाकुलायकरणेष्वेव किरतेरात्मनेपदस्योपसंख्यानम् (१.३.२१ वा०)॥

कुस्तुम्बुरूणि जातिः ॥ ६.१.१४३॥

कुस्तुम्बुरूणीति सुट् निपात्यते, जातिश्चेद् भवति। कुस्तुम्बुरुर्नामौषधि-जातिर्धान्यकम् । तत्फलान्यपि कुस्तुम्बुरूणि। सूत्रनिर्देशे नपुंसकलिङ्गमविवक्षितम्। जातिरिति किम् ? कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि। तुम्बुरुशब्देनात्र तिन्दुकीफलान्युच्यन्ते, समासेन तेषां कुत्सा॥

अपरस्पराः क्रियासातत्ये॥ ६.१.१४४॥

अपरस्परा इति सुट् निपात्यते क्रियासातत्ये गम्यमाने। अपरस्पराः सार्था गच्छन्ति। सन्ततमविच्छेदेन गच्छन्तीत्यर्थः। क्रियासातत्य इति किम् ? अपरपराः सार्था गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः। नात्र गमनस्य सातत्यं प्रबन्धो विवक्षितः। किमिदं सातत्यमिति ? सततस्य भावः सातत्यम्। कथं सततम् ? समस्तते विकल्पेन मकारलोपो विधीयते।

लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि।

समो वा हितततयोर्मांसस्य पचि युड्घञोः॥

गोष्पदं सेवितासेवितप्रमाणेषु ॥ ६.१.१४५॥

गोष्पदमिति सुट् निपात्यते, तस्य च षत्वं सेवितेऽसेविते प्रमाणे च विषये। गोष्पदो देशः। गावः पद्यन्ते यस्मिन् देशे, स गोभिः सेवितो देशो गोष्पद इत्युच्यते। असेविते-अगोष्पदान्यरण्यानि। असेविते। गोष्पदशब्दो न संभवतीत्यगोष्पदशब्दार्थं निपातनम्। यद्येवं नार्थ एतेन, गोष्पदप्रतिषेधादगोष्पदं भविष्यति ? सत्यमेतत्, यत्र तु सेवितप्रसङ्गोऽस्ति तत्रैव स्यादगोष्पदमिति, यत्र त्वत्यन्तासंभव एव तत्र न स्याद्-अगोष्पदान्यरण्यानीति। असेवितग्रहणात् तत्रापि भवति। यानि हि महान्त्यरण्यानि येषु गवामत्यन्तासंभवस्तान्येवमुच्यन्ते। प्रमाणे-गोष्पदमात्रं क्षेत्रम्। गोष्पदपूरं वृष्टो देवः। नात्र गोष्पदं स्वार्थप्रतिपादनार्थमुपादीयते। किं तर्हि? क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्ताम्। सेवितासेवितप्रमाणेष्विति किम्? गोः पदं गोपदम्॥

आस्पदं प्रतिष्ठायाम् ॥ ६.१.१४६॥

आत्मयापनाय स्थानं प्रतिष्ठा, तस्यामास्पदमिति सुट् निपात्यते। आस्पदमनेन लब्धम्। प्रतिष्ठायामिति किम् ? आ पदात् आपदम्॥

आश्चर्यमनित्ये॥ ६.१.१४७॥

अनित्यतया विषयभूतया अद्भुतत्वमिह लक्ष्यते, तस्मिन्नाश्चर्यं निपात्यते। ‘चरेराङि चागुरौ’ (३.१.१०० वा०) इति यत्प्रत्यये कृते निपातनात् सुट्। आश्चर्यं यदि स भुञ्जीत। आश्चर्यं यदि सोऽधीयीत। चित्रमद्भुतमित्यर्थः। अनित्य इति किम् ? आचर्यं कर्म शोभनम्॥

वर्चस्केऽवस्करः ॥ ६.१.१४८॥

कुत्सितं वर्चो वर्चस्कमन्नमलम्, तस्मिन्नभिधेयेऽवस्कर इति निपात्यते। अवपूर्वस्य किरतेः कर्मणि ‘ॠदोरप्’ (३.३.५७) इत्यप्, निपातनात् सुट्। अवकीर्यत इत्यवस्करोऽन्नमलम्। तत्संबन्धाद् देशोऽपि तथोच्यते। वर्चस्क इति किम् ? अवकरः॥

अपस्करो रथाङ्गम् ॥ ६.१.१४९॥

अपस्कर इति निपात्यते रथाङ्गं चेद् भवति। अपपूर्वात् किरतेः ‘ॠदोरप्’ (३.३.५७) इत्यप्, निपातनात् सुट्। अपस्करो रथावयवः। रथाङ्गमिति किम् ? अपकरः॥

विष्किरः शकुनिर्विकिरो वा॥ ६.१.१५०॥

विष्किर इति किरतेर्विपूर्वस्य ‘इगुपधज्ञाप्रीकिरः कः’ (३.१.१३५) इति कप्रत्यये विहिते सुट् निपात्यते शकुनिश्चेद् भवति। विकिरशब्दाभिधेयो वा शकुनिर्भवति।

सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते।

विष्किरो वा शकुनाविति वा ग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणमिह तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत्॥

ह्रस्वाच् चन्द्रोत्तरपदे मन्त्रे ॥ ६.१.१५१॥

चन्द्रशब्द उत्तरपदे ह्रस्वात् परः सुडागमो भवति मन्त्रविषये। सुश्च॑न्द्॒र (ऋ॰ ५.६.५) युष्मान्। ह्रस्वादिति किम् ? सूर्याचन्द्र॒मसा॑विव (ऋ॰ ५.५१.१५)। मन्त्र इति किम् ? सुचन्द्रा पौर्णमासी। उत्तरपदं समास एव भवतीति प्रसिद्धम्, तत इह न भवति-शु॒क्रम॑सि च॒न्द्रम॑सि (मा॰ सं॰ ४.१८)॥

प्रतिष्कशश्च कशेः ॥ ६.१.१५२॥

‘कश गतिशासनयोः’ इत्येतस्य धातोः प्रतिपूर्वस्य पचाद्यचि कृते सुट् निपात्यते, तस्यैव षत्वम्। ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः। वार्तापुरुषः, सहायः, पुरोयायी वा प्रतिष्कश इत्यभिधीयते। कशेरिति किम् ? प्रतिगतः कशां प्रतिकशोऽश्वः। अत्र यद्यपि कशेरेव कशाशब्दस्तथापि कशेरिति धातोरुपादानं तदुपसर्गस्य प्रतेः प्रतिपत्त्यर्थम्। तेन धात्वन्तरोपसर्गाद् न भवति॥

प्रस्कण्वहरिश्चन्द्रावृषी॥ ६.१.१५३॥

प्रस्कण्वो हरिश्चन्द्र इति सुट् निपात्यत ऋषी चेदभिधेयौ भवतः। प्रस्कण्व ऋषिः। हरिश्चन्द्र ऋषिः। हरिश्चन्द्रग्रहणममन्त्रार्थम्। ऋषी इति किम् ? प्रकण्वो देशः। हरिचन्द्रो माणवकः॥

मस्करमस्करिणौ वेणुपरिव्राजकयोः ॥ ६.१.१५४॥

मस्कर मस्करिन् इत्येतौ यथासंख्यं वेणौ परिव्राजके च निपात्येते। मकरशब्दो ह्यव्युत्पन्नं प्रातिपदिकम्, तस्य वेणावभिधेये सुट् निपात्यते, परिव्राजके त्विनिरपि। मस्करो वेणुः। मस्करी परिव्राजकः। वेणुपरिव्राजकयोरिति किम् ? मकरो ग्राहः। मकरी समुद्रः। केचित् पुनरत्र माङ्युपपदे करोतेः करणेऽच्प्रत्ययमपि निपातयन्ति, माङश्च ह्रस्वत्वं सुट् च। मा क्रियते येन प्रतिषिध्यते, स मस्करो वेणुः। वेणुग्रहणं च प्रदर्शनार्थमन्यत्रापि भवति-मस्करो दण्ड इति। परिव्राजकेऽपि माङ्युपपदे करोतेस्ताच्छील्य इनिर्निपात्यते, माङो ह्रस्वत्वं सुट् च तथैव। माकरणशीलो मस्करी कर्मापवादित्वात् परिव्राजक उच्यते। स ह्येवमाह-मा कुरूत कर्माणि, शान्तिर्वः श्रेयसीति॥

कास्तीराजस्तुन्दे नगरे ॥ ६.१.१५५॥

कास्तीर अजस्तुन्द इत्येतौ शब्दौ निपात्येते नगरेऽभिधेये। ईषत्तीरमस्य, अजस्येव तुन्दमस्येति व्युत्पत्तिरेव क्रियते, नगरं तु वाच्यमेतयोः। कास्तीरं नाम नगरम्। अजस्तुन्दं नाम नगरम्। नगर इति किम् ? कातीरम्। अजतुन्दम्॥

कारस्करो वृक्षः ॥ ६.१.१५६॥

कारस्कर इति सुट् निपात्यते वृक्षश्चेद् भवति। कारं करोतीति ‘दिवाविभानिशाप्रभाभास्कारान्ता॰’ (३.२.२१) इति टप्रत्ययः। कारस्करो वृक्षः। वृक्ष इति किम् ? कारकरः। केचिदिदं सूत्रं नाधीयते, पारस्करप्रभृतिष्वेव कारस्करो वृक्ष इति पठन्ति॥

पारस्करप्रभृतीनि च संज्ञायाम् ॥ ६.१.१५७॥

पारस्करप्रभृतीनि च शब्दरूपाणि निपात्यन्ते संज्ञायां विषये। पारस्करो देशः कारस्करो वृक्षः। रथस्पा नदी। किष्कुः प्रमाणम्। किष्किन्धा गुहा। तद्बृहतोः। करपत्योश्चोरदेवतयोः सुट् तलोपश्च (ग॰ सू॰ १६३)। तस्करश्चोरः। बृहस्पतिर्देवता। चोरदेवतयोरिति किम् ? तत्करः। बृहत्पतिः। संज्ञाग्रहणादुपाधिपरिग्रहे सिद्धे गणे चोरदेवताग्रहणं प्रपञ्चार्थम्। प्रात्तुम्पतौ गवि कर्तरि (ग॰ सू॰ १६४)। तुम्पतौ धातौ प्रशब्दात् परस्सुट् भवति गवि कर्तरि। प्रस्तुम्पति गौः। गवीति किम् ? प्रतुम्पति वनस्पतिः। पारस्करप्रभृतिराकृतिगणः। अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः। प्रायश्चित्तम्। प्रायश्चित्तिः। यदुक्त ं ‘प्रायस्य चित्तिचित्तयोः सुडस्कारो वा’ (महाभाष्य ३.९६) इति, तत् संगृहीतं भवति॥

अनुदात्तं पदमेकवर्जम्॥ ६.१.१५८॥

परिभाषेयं स्वरविधिविषया। यत्रान्यः स्वर उदात्तः स्वरितो वा विधीयते, तत्रानुदात्तं पदमेकं वर्जयित्वा भवतीत्येतदुपस्थितं द्रष्टव्यम्। अनुदात्ताच्कमनुदात्तम्। कः पुनरेको वर्ज्यते ? यस्यासौ स्वरो विधीयते। वक्ष्यति-‘धातोः’ (६.१.१६२) अन्त उदात्तो भवतीति। गो॒पा॒यति॑। धू॒पा॒याति॑। धातोरन्त्यमचं वर्जयित्वा परिशिष्टमनुदात्तं भवति। धातुस्वरं श्नास्वरो बाधते। लु॒नाति॑। पु॒ना॒ति॑। श््नास्वरं तस्स्वरः। लु॒नी॒तः। पु॒नी॒तः। तस्स्वरमाम्स्वरः। लु॒नी॒त॒स्त॒राम्। पु॒नी॒त॒स्त॒राम्।

आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च।

पृथक्स्वरनिवृत्त्यर्थमेकवर्जं पदस्वरः॥

आगमस्य-‘चतुरनडुहोरामुदात्तः’ (७.१.९८) च॒त्वारः॑। अ॒न॒ड्वाहः॑। आगमस्वरः प्रकृतिस्वरं बाधते। विकारस्य-अ॒स्थनि॑, द॒धनि॑ इत्यनङ्स्वरः प्रकृतिस्वरं बाधते। प्रकृतेः - गो॒पा॒यति॑। धू॒पा॒याति॑। प्रकृतिस्वरः प्रत्ययस्वरं बाधते। प्रत्ययस्य- क॒र्तव्य॑म्। ह॒र्तव्य॑म्। प्रत्ययस्वरः प्रकृतेः स्वरस्य बाधकः। परनित्यान्तरङ्गापवादैः स्वरैर्व्यवस्था सतिशिष्टेन च । यो हि यस्मिन् सति शिष्यते, स तस्य बाधको भवति। तथाहि-गोपायतीत्यत्र धातुस्वरापवादः प्रत्ययस्वरस्तेनैव धातुस्वरेण प्रत्ययान्तस्य धातोः सतिशिष्टत्वाद् बाध्यते। का॒र्ष्णो॒त्त॒रा॒स॒ङ्ग॒पु॒त्र इत्यत्र च समासस्वरापवादो बहुव्रीहिस्वरः सतिशिष्टेन समासान्तोदात्तत्वेन बाध्यते। विकरणस्वरस्तु सतिशिष्टोऽपि सार्वधातुकस्वरं न बाधते। लु॒नी॒त इति तस एव स्वरो भवति॥ विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यम्॥ अति॑स्र इत्यत्र ‘तिसृभ्यो जसः’ (६.१.१६६) इति सतिशिष्टोऽपि विभक्ति -स्वरो नञ्स्वरेण बाध्यते॥ विभक्ति निमित्तस्वराच्च नञ्स्वरो बलीयानिति वक्तव्यम्॥ अच॑त्वारः, अन॑नड्वाह इति। यस्य विभक्तिर्निमित्तमामः, तस्य यदुदात्तत्वं तद् नञ्स्वरेण बाध्यते। पदग्रहणं किम् ? देव॑दत्त॒ गाम॒भ्याज॑ शु॒क्लाम् इति वाक्ये हि प्रतिपदं स्वरः पृथग् भवति। परिमाणार्थं चेदं पदग्रहणं पदाधिकारस्य निवृतिं करोति। तेन प्रागेव पदव्यपदेशात् स्वरविधिसमकालमेव शिष्टस्यानुदात्तत्वं भवति । तथा च कुवल्या विकारः कौव॑लम् इत्यत्रानुदात्तादिलक्षणोऽञ् सिद्धो भवति। तथा गर्भिणीशब्दश्चानुदात्तादिलक्षणस्याञो बाधनार्थं भिक्षादिषु पठ्यते। कुवलगर्भशब्दावाद्युदात्तौ॥

कर्षात्वतो घञोऽन्त उदात्तः॥ ६.१.१५९॥

कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तो भवति। क॒र्षः। पा॒कः। त्या॒गः। रा॒गः। दा॒यः। धा॒यः। ’ञ्नित्यादिर्नित्यम्’ (६.१.१९७) इत्यस्यापवादः। कर्ष इति विकृतनिर्देशः कृषतेर्निवृत्त्यर्थः। तौदादिकस्य घञन्तस्य कर्ष॑ इत्याद्युदात्त एव भवति॥

उञ्छादीनां च॥ ६.१.१६०॥

उञ्छ इत्येवमादीनामन्त उदात्तो भवति। उ॒ञ्छः। म्ले॒च्छः। ज॒ञ्जः। ज॒ल्पः। एते घञन्ता इति ञित्स्वरः प्राप्तः। ज॒पः व्य॒ध इत्यबन्तौ, तयोर्धातुस्वरः प्राप्तः। केचित् तु व॒ध इति पठन्ति। यु॒गः। युजेर्घञन्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनमिदमिष्यते। कालविशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगोऽन्यत्र हि योग॑ एव भवति। ग॒रो दूष्ये (ग० सू० १६५) अबन्तः। गरशब्दोऽबन्तः स दूष्य एवान्तोदात्तः। ग॒रो विषम्। अन्यत्राद्युदात्त एव। वेगवेदवेष्टबन्धाः करणे (ग० सू० १६६)। ‘हलश्च’ (३.३.१२१) इति घञन्ता एते करणेऽन्तोदात्ता भवन्ति। भाव आद्युदात्ता एव। स्तुयुद्रुवश्छन्दसि (ग० सू० १६७)। उपसमस्तार्थमेतत्। प॒रि॒ष्टुत्। सं॒युत्। प॒रि॒द्रुत्। व॒र्त॒निः स्तोत्रे (ग० सू० १६८)। स्तोत्रं साम। तत्स्थो वर्तनिशब्दोऽन्तोदात्तो भवति, अन्यत्र मध्योदात्तः। श्वभ्रे द॒रः (ग० सू० १६९) श्वभे्रऽभिधेये दरशब्दोऽन्तोदात्तोऽन्यत्राबन्तत्वादाद्युदात्तः। साम्बतापौ भावगर्हायाम् (ग० सू० १७०)। अन्तोदात्तौ, अन्यत्राद्युदात्तौ। उत्तमशश्वत्तमौ सर्वत्र (ग० सू० १७१)। केचित् तु भावगर्हायामित्यत्राप्यनुवर्तयन्ति। भक्षमन्थभोगदेहाः (ग० सू० १७२ )। एते घञन्ताः। भक्षिर्ण्यन्तोऽपि घञन्त एव, ‘एरच्’ (३.३.५६) अण्यन्तानामिति वचनात्॥

अनुदात्तस्य च यत्रोदात्तलोपः ॥ ६.१.१६१॥

उदात्त इति वर्तते। यस्मिन्ननुदात्ते परत उदात्तो लुप्यते तस्यानुदात्तस्यादिरुदात्तो भवति। कु॒मा॒र्र इ॒ कु॒मा॒री। कुमारशब्दोऽन्तोदात्तस्तस्य ङीप्यनुदात्त उदात्तो लुप्यते। अनुदात्तो ङीब् उदात्तः। ‘भस्य टेर्लोपः’ (७.१.८८)। प॒थः प॒था। प॒थे। पथिन्शब्दोऽन्तोदात्तः। ‘कुमुदनडवेतसेभ्यो ड्मतुप् ’ (४.२.८७)। कु॒मु॒द्वान्। न॒ड्वान्। वे॒त॒स्वान्। कुमुदादयोऽन्तोदात्ताः। ड्मतुबनुदात्तः। अनुदात्तस्येति किम्? प्रासङ्गं वहति प्रा॒स॒ङ्ग्यः॑। प्रासङ्गशब्दस्थाथादिस्वरेणान्तोदात्तः (६.२.१४४)। तस्य यति ‘तित् स्वरितम्’ (६.१.१८५) इति स्वरित उदात्तो लुप्यते। नैतदस्ति, स्वरिते हि विधीयमाने परिशिष्टमनुदात्तम् तत् कुत उदात्तलोपः? तदेतदनुदात्तग्रहणमादेरनुदात्तस्योदात्तार्थम्। अन्त इति हि प्रकृतत्वादन्तस्य स्यात्। मा हि धु॒क्षाता॑म्। मा हि धु॒क्षाथा॑म्। यत्रेति किम् ? भा॒र्ग॒वः, भा॒र्ग॒वौ, भृग॑वः। प्राक् सुबुत्पत्तेर्गोत्रप्रत्ययस्य लुक्। उदात्तग्रहणं किम् ? बैदी॑। और्वी॑॥

धातोः ॥ ६.१.१६२॥

अन्त इत्येव । धातोरन्त उदात्तो भवति। पच॑ति। पठ॑ति। ऊ॒र्णोति॑। गो॒पा॒यति॑ । याति॑॥

चितः ॥ ६.१.१६३॥

चितोऽन्त उदात्तो भवति। ‘भञ्जभासमिदो घुरच्’ (३.२.१६१)- भ॒ङ्गु॒रम्। भा॒सुरम्। मे॒दु॒रम्। ‘आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्’ (२.४.७०)-कु॒ण्डि॒नाः। चिति प्रत्यये प्रकृ तिप्रत्ययसमुदायस्यान्त उदात्त इष्यते। ब॒हु॒प॒टवः॑। उच्चकैः॥

तद्धितस्य ॥ ६.१.१६४॥

चित इत्येव। चितस्तद्धितस्यान्त उदात्तो भवति। ‘गोत्रे कुञ्जादिभ्यश्च्फञ्’ (४.१.९८)-कौ॒ञ्जा॒यनाः। भा॒ैञ्जा॒य॒नाः। किमर्थमिदम् ? परमपि ञित्स्वरं बाधित्वान्तो दात्तत्वमेव यथा स्यादिति॥

कितः ॥ ६.१.१६५॥

तद्धितस्येत्येव। तद्धितस्य कितोऽन्त उदात्तो भवति। ‘नडादिभ्यः फक् ’ (४.१.९९) ना॒डा॒य॒नः। चा॒रा॒य॒णः। ‘प्राग्वहतेष्ठक्’ (४.४.१)- आ॒क्षि॒कः। शा॒ला॒कि॒कः॥

तिसृभ्यो जसः ॥ ६.१.१६६॥

तिसृभ्य उत्तरस्य जसोऽन्त उदात्तो भवति। ति॒स्रस्ति॑ष्ठन्ति। ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य’ (८.२.४) इत्यस्यापवादः। शसि ‘उदात्तयणो हल्पूर्वात्’ (६.१.१७४) इति सिद्धेऽन्यत्र बहुवचने ‘षट्त्रिचतुर्भ्यो हलादिः’ (६.१.१७९) इति विधानात् जसेव लभ्यत इति जस्ग्रहणमुपसमस्तार्थमेक इच्छन्ति। अ॒ति॒ति॒स्रा॑ै इत्यत्र स्वरो मा भूदिति॥

चतुरः शसि ॥ ६.१.१६७॥

चतुरः शसि परतोऽन्त उदात्तो भवति। च॒तुरः॑ पश्य। चतस्रादेश आद्युदात्तनिपातनाद् यणादेशस्य च पूर्वविधौ स्थानिवत्त्वादयं स्वरो न भवति-चत॑स्रः पश्येति॥

सावेकाचस्तृतीयादिर्विभक्ति ः ॥ ६.१.१६८॥

साविति सप्तमीबहुवचनस्य सुशब्दस्य ग्रहणम्। तत्र सौ य एकाच् तस्मात् परा तृतीयादिर्विभक्तिरुदात्ता भवति। वा॒चा, वा॒ग्भ्याम् वा॒ग्भिः। वा॒ग्भ्यः। या॒ता, या॒द्भ्याम्, या॒द्भिः। साविति किम्? राज्ञा॑। राज्ञे॑। एकाच इति किम् ? हरि॑णा। गि॒रिणा॑। राज॑सु। तृतीयादिरिति किम् ? वाचा॑ै। वाचः॑। विभक्तिरिति किम् ? वाक्त॑रा। वाक्त॑मा। सप्तमीबहुवचनस्य ग्रहणादिह न भवति- त्वया॑, त्वयि॑ इति॥

अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ॥ ६.१.१६९॥

एकाच इति वर्तते, तृतीयादिर्विभक्तिरिति च । नित्यशब्दः स्वर्यते। तेन नित्याधिकारविहितः समासः पर्युदस्यते। नित्यसमासादन्यत्रानित्यसमासे यदुत्तरपदमन्तोदात्तमेकाच्च तस्मात् परा तृतीयादिर्विभक्तिरन्यतरस्यामुदात्ता भवति। प॒र॒म॒वा॒चा, प॒र॒म॒वाचा॑। प॒र॒म॒वा॒चे,प॒र॒म॒वा॒चे॑। प॒र॒म॒त्व॒चा, प॒र॒म॒त्वचा॑। प॒र॒म॒त्व॒चे, प॒र॒म॒त्वचे॑। यदा विभक्तिरुदात्ता न भवति, तदा समासान्तोदात्तत्वमेव। अन्तोदात्तादिति किम् ? अवा॑चा। सुवा॑चा। सुत्व॑चा। तत्पुरुषोऽयम्। तत्र ‘तत्पुरुषे’ तुल्यार्थतृतीयासप्तम्युपमानाव्यय० (६.२.२)इति पूर्वपदप्रकृतिस्वरः। उत्तरपदग्रहणमेकाच्त्वेनोत्तरपदं विशेषयितुम्,अन्यथा हि समास-विशेषणमेतत् स्यात्। तत्र शुन ऊ र्क, श्वो॒र्जा इत्यत्रैवायं विधिः स्यात्। अनित्यसमास इति किम् ? अ॒ग्िनचिता॑। सो॒म॒सुता॑। ‘उपपदमतिङ्’ (२.२.१९) इत्ययं नित्याधिकारे समासो विधीयते। तत्र ‘गतिकारकोपपदात् कृत्’ (६.२.१३९) इत्युत्तरपदप्रकृतिस्वरेण चित् शब्द उदात्तः। यस्तु विग्रहाभावेन नित्यसमासस्तत्र भवत्येव विकल्पः। अ॒वाचा॑ ब्राह्मणेन,सु॒वाचा॑ ब्राह्मणेनेति। बहुव्रीहौ ‘नञ्सुभ्याम्’ (६.२.१६२) इत्युत्तरपदान्तोदात्तत्वं भवति॥

अञ्चेश्छन्दस्यसर्वनामस्थानम् ॥ ६.१.१७०॥

अञ्चे परासर्वनामस्थानविभक्ति रुदात्ता भवति छन्दसि विषये। इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ (ऋ० १.८४.१३)। ‘चौ’ (६.१.२२२) इति पूर्वपदान्तोदात्तत्वं प्राप्तम्। तृतीयादिरिति वर्तमाने शसोऽपि परिग्रहार्थमसर्वनामस्थानग्रहणम्। इहापि यथा स्यात्-प्॒रती॒चो बा॒हून् प्रति॑ भङ्ध्येषाम् (ऋ० १०.८७.४) इति॥

ऊडिदंपदाद्यप्पुम्रैद्युभ्यः॥ ६.१.१७१॥

ऊठ् इदम् पदादि अप् पुम् रै दिव् इत्येतेभ्योऽसर्वनामस्थानविभक्ति रुदात्ता भवति। ऊठ्-प्र॒ष्ठा॒ैहः। प्॒रष्ठा॒ैहा। ऊठ्युपधाग्रहणं कर्तव्यम्, इह मा भूत्-अ॒क्ष॒द्युवा॑, अ॒क्ष॒द्युवे॑। इदम्- आ॒भ्याम्। ए॒भिः। अन्तोदात्तादित्यधिकारादन्वादेशे न भवति। अथो आ॒भ्यां॒ निपुणमधीतमिति। पदादयः ‘पद्दन्नोमास्०’ (६.१.६३) इत्येवमादयो निश्पर्यन्ता इह गृह्यन्ते। नि प॒दश्च॒तुरो॑ जहि। या द॒तो धाव॑ते (तै० सं० २.५.१.७)। असन्प्रभृतिभ्यो विभक्ति रनुदात्तैव भवति। ग्री॒वायां॑ ब॒द्धो अ॑पि क॒क्ष आ॒सनि॑ (ऋ० ४.४०.४)। मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म् (ऋ० १०.६८.८)। अप्-अ॒पः प॑श्य। अ॒द्भिः। अ॒द्भ्यः। पुम्-पुं॒सः। पु॒म्भ्याम्। पु॒म्भयः। पुं॒सा। पुं॒से। रै-रा॒यः प॑श्य। रा॒भ्याम्। रा॒भिः। दिव्-दि॒वः पश्य। दि॒वा। दि॒वे॥

अष्टनो दीर्घात् ॥ ६.१.१७२॥

अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति। अ॒ष्टा॒भिः। अ॒ष्टा॒भ्यः। अ॒ष्टा॒सु। घृतादिपाठादष्टन्शब्दोऽन्तोदात्तः, तत्र ‘झल्युपोत्तमम्’(६.१.१८०) इत्यस्यापवादो विभक्तेरेवोदात्तत्वं विधीयते। दीर्घादिति किम् ? अष्टसु प्रक्रमेषु ब्राह्मणोऽग्नीनादधीत (तु०-कपि० कठ सं० ६.८)। इदमेव दीर्घग्रहणमष्टन आत्वविकल्पं ज्ञापयति, कृतात्वस्य च षट्संज्ञां ज्ञापयति। अन्यथा ह्यात्वपक्षे सावकाशोऽष्टनः स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यत इति किं दीर्घग्रहणेन॥

शतुरनुमो नद्यजादी॥ ६.१.१७३॥

अन्तोदात्तादिति वर्तते। अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात् पर नद्यजादिर्वि-भक्ति रसर्वनामस्थानमुदात्ता भवति। तु॒द॒ती। नु॒द॒ती। लु॒न॒ती। पु॒न॒ती। तु॒द॒ता। नु॒द॒ता। लु॒न॒ता। पु॒न॒ता। अनुम इति किम्? तु॒दन्ती॑। नु॒दन्ती॑। अत्राप्यदुपदेशादिति लसार्वधातुकानुदात्तत्वे (६.१.१८६) एकादेशः, तस्य ‘एकादेश उदात्तेनोदात्तः’ (८.२.५) इत्युदात्तत्वम्, तस्य पूर्वत्रासिद्धत्वं (८.२.१) नेष्यत इति शत्रन्तमन्तोदात्तं भवति। नद्यजादी इति किम् ? तु॒दद्भ्या॑म्। नु॒दद्भ्या॑म्। तु॒दद्भिः॑। अन्तोदात्तादित्येव-दद॑ती। दध॑तः। ‘अभ्यस्तानामादिः’ (६.१.१८९) इत्याद्युदात्तावेतौ॥ बृहन्महतोरुपसंख्यानम्॥ बृ॒ह॒ती। म॒ह॒ती। बृ॒ह॒ता। म॒ह॒ता॥

उदात्तयणो हल्पूर्वात्॥ ६.१.१७४॥

उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात् परा नदी अजाद्यसर्वनामस्थानविभक्तिरुदात्ता भवति। क॒र्त्री। ह॒र्त्री। प्॒रल॒वि॒त्री। प्॒रस॒वि॒त्री। क॒र्त्रा। ह॒र्त्रा। प्॒रल॒वि॒त्रा। प्॒रस॒वि॒त्रा। तृजन्ता एतेऽन्तोदात्ताः। उदात्तग्रहणं किम् ? कर्त्री॑। हर्त्री॑। कर्त्रा॑। हर्त्रा॑। तृन्नन्तोऽयमाद्युदात्तः हल्पूर्वादिति किम् ? ब॒हु॒ति॒त॒वा॑ ब्राह्मण्या॥ नकारग्रहणं कर्तव्यम्॥ वा॒क्प॒त्नी इयं कन्या॥

नोङ्धात्वोः॥ ६.१.१७५॥

ऊङो धातोश्च य उदात्तयण् हल्पूर्वः, तस्मात् परा तृतीयादिर्विभक्तिर्नोदात्ता भवति। ब्र॒ह्म॒ब॒न्ध्वा॑। ब्र॒ह्म॒ब॒न्ध्वे॑। वी॒र॒ब॒न्ध्वा॑। वी॒र॒ब॒न्ध्वे॑। ऊङ् प्रत्ययस्वरेणोदात्तः। तेन सह य एकादेशः सोऽप्युदात्त इति उदात्तयण्वकारः, तस्मादुदात्तत्वे प्रतिषिद्धे ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य’ (८.२.४) इति विभक्तिः स्वर्यते। धातुयणः खल्वपि-स॒कृ॒ल्ल्वा॑। स॒कृ॒ल्ल्वे॑। ख॒ल॒प्वे॑। क्विबन्तस्य कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तस्य ‘ओः सुपि’ (६.४.८३) इति यणादेशः॥

ह्रस्वनुड्भ्यां मतुप् ॥ ६.१.१७६॥

अन्तोदात्तादित्येव। ह्रस्वान्तादन्तोदात्ताद् नुटश्च परो मतुब् उदात्तो भवति। अ॒ग्नि॒मान्। वा॒यु॒मान्। क॒र्तृ॒मान्। ह॒र्तृ॒मान्। नुटःखल्वपि-अ॒क्ष॒ण्वता॑। शी॒र्ष॒ण्वता॑। अन्तोदात्तादित्येव-वसु॑मान् (तै० सं० १.६.६.२)। वसुशब्द आद्युदात्तः, तस्माद् मतुब् अनुदात्त एव भवति। अत्र च ‘स्वरविधौ व्यञ्जनमविद्यमानवद्०’ इत्येषा परिभाषा नाश्रीयते नुड्ग्रहणात्, तेन म॒रुत्वा॑न् इत्यत्र न भवति ॥ रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्॥ आ रे॒वान्॥ त्रेश्च प्रतिषेधो वक्त व्यः॥ त्रिव॑तीर्याज्यानुवाक्या भवन्ति (काठ० सं० ११.१) इति॥

नामन्यतरस्याम् ॥ ६.१.१७७॥

ह्रस्वग्रहणमनुवर्तते, मतुब्ग्रहणं च । तेन मतुपा ह्रस्वो विशेष्यते। मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तादन्यतरस्यां नाम् उदात्तो भवति। अ॒ग्नी॒नाम्, अ॒ग्नीना॑म्। वा॒यू॒नाम्, वा॒यूना॑म्। क॒र्तृृ॒णाम् ,क॒र्तृृणा॑म्। मतुपा ह्रस्वविशेषणं किम्? भूतपूर्वेऽपि ह्रस्वे यथा स्यात्। अन्यथा हि साम्प्रतिक एव स्यात्-ति॒सृ॒णां च॒त॒सृ॒णामिति। सनुट्कस्य ग्रहणं किम् ? धे॒न्वाम्। श॒क॒ट्याम्। ‘उदात्तयणो हल्पूर्वात्’ (६.१.१७४) इत्ययमन्तोदात्तः। ह्रस्वादित्येव-कु॒मा॒रीणा॑म्। अन्तोदात्तादित्येव-त्रपू॑णाम्। वसू॑नाम्॥

ङ्याश्छन्दसि बहुलम् ॥ ६.१.१७८॥

ङ्यन्ताच्छन्दसि विषये नामुदात्तो भवति बहुलम्। दे॒व॒से॒नाना॑मभिभञ्जती॒नाम् (ऋ० १०.१०३.८)। ब॒ह्वी॒नां पि॒ता (ऋ० ६.७५.५)। न च भवति-न॒दीनां॑ पारे। जय॑न्तीनां म॒रुतः॑(ऋ० १०.१०३.८)॥

षट्त्रिचतुर्भ्यो हलादिः॥ ६.१.१७९॥

अन्तोदात्तादित्येतद् निवृत्तम्। षट्संज्ञकेभ्यस्त्रि चतुर् इत्येताभ्यां च परा हलादिर्विभक्तिरुदात्ता भवति। ष॒ड्भिः। ष॒ड्भ्यः। प॒ञ्चा॒नाम् (तै० सं० १.६.१.२)। ष॒ण्णाम्। स॒प्ता॒नाम् (ऋ० ८.२८.५)। त्रि-त्रि॒भिः (ऋ० १.३४.११)। त्र्िाभ्यः। त्र॒या॒णाम् (तै० सं० ३.४.३.८)। चतुर्-च॒तु॒र्णाम् (ऋ० ८.७४.१३)। हलादिरिति किम्? चत॑स्रः (ऋ० १.६२.६) पश्य॥

झल्युपोत्तमम् ॥ ६.१.१८०॥

षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पद उपोत्तममुदात्तं भवति। त्रिप्रभृतीनामन्त्यमुत्तमम्, तत्समीपे च यत् तदुपोत्तमम्। प॒ञ्चभिः॒ (तै० सं० ५.२.७.५) तपस्तपति। स॒प्तभिः॑ परान् जयति। ति॒सृभि॑श्च॒ वह॑से त्रिं॒शता॑ (शौ० सं० ७.४.१)। च॒तुर्भिः॒ (मा० सं० २३.१३)। झलीति किम् ? प॒ञ्चा॒नाम् (तै० सं० १.६.१.२)। स॒प्ता॒नाम् (ऋ० ८.२८.५)। उपोत्तममिति किम् ? ष॒ड्भिः (ऋ० २.१८.४)। ष॒ड्भ्यः (तै० सं० ७.२.१३.१) ॥

विभाषा भाषायाम् ॥ ६.१.१८१॥

षट्त्रिचतुर्भ्यो या झलादिर्विभक्ति स्तदन्ते पद उपोत्तममुदात्तं भवति विभाषा भाषायां विषये। प॒ञ्चभिः॑, प॒ञ्च॒भिः। स॒प्तभिः॑, स॒प्त॒भिः। ति॒सृभिः॑ ति॒सृ॒भिः। च॒तुर्भिः॑, च॒तु॒र्भिः॥

न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः ॥ ६.१.१८२॥

गो श्वन् साववर्णः सौ प्रथमैकवचने यदवर्णान्तं राड् अङ् क्रुङ् कृद् इत्येतेभ्यो यदुक्तं तद् न भवति। गवा॑। गवे॑। गोभ्या॑मिति। ‘सावेकाचस्तृतीयादिर्विभक्ति ः’ (६.१.१६८) इति प्राप्तिः प्रतिषिध्यते। सु॒गुना॑।सु॒गवे॑। सु॒गुभ्या॑म्। ‘अन्तोदात्तादुत्तरपदात्०’ (६.१.१६९) इति प्राप्तिः। श्वन्-शुना॑। शुने॑। श्वभ्या॑म्। प॒र॒म॒शुना॑। प॒र॒म॒शुने॑। प॒र॒म॒श्वभ्या॑म्। पूर्ववत् प्राप्तिः। साववर्णः-सौ प्रथमैकवचने यदवर्णान्तं तस्य ग्रहणम्। येभ्यः॑। तेभ्यः॑। केभ्यः॑। राट्-राजतिः क्विबन्तः, राजा॑। प॒र॒म॒राजः॑। अङ्-अञ्चतिः क्विन्नन्तस्तस्य सनकारस्य ग्रहणं विषया-वधारणार्थम्, यत्रास्य नलोपो नास्ति तत्र प्रतिषेधो यथा स्यात्। ‘नाञ्चेः पूजायाम्’ (६.४.३०) इति प्रतिषिध्यते नलोपः। प्राञ्चा॑। प्राङ्भ्या॑म् । नलोपविषये तु भवत्येव विभक्ते रुदात्तत्वम्। प्रा॒चा। प्रा॒चे। प्रा॒ग्भ्याम्। क्रुङ् क्विन्नन्त एव। क्रुञ्चा॑। प॒र॒म॒क्रुञ्चा॑। कृत्-करोतिः कृतिर्वा क्विबन्तः। कृता॑ प॒र॒म॒कृता॑॥

दिवो झल् ॥ ६.१.१८३॥

दिवः परा झलादिर्विभक्ति र्नोदात्ता भवति। द्युभ्या॑म्। द्युभिः॑। ‘सावेकाचः०’ (६.१.१६८) इति ‘ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः’ (६.१.१७१) इति वा प्राप्तिः प्रतिषिध्यते। झलीति किम्? दि॒वा॥

नृ चान्यतरस्याम्॥ ६.१.१८४॥

नृ इत्येतस्मात् परा झलादिर्विभक्तिरन्यतरस्यां नोदात्ता भवति। नृभ्या॑म्। नृभिः॑ (ऋ० १०.१४७.४)। नृभ्यः॒ (ऋ० १.४३.२)। नृषु॒ (ऋ० १.१८०.८)। झलित्येव-न्रा। न्रे॥

तित् स्वरितम्॥ ६.१.१८५॥

तित् स्वरितं भवति। सन्नन्ताद् यत्-चि॒की॒र्ष्य॑म्। जि॒ही॒र्ष्य॑म्। ‘ऋहलोर्ण्यत्’ (३.१.१२४)- का॒र्य॑म्। हा॒र्य॑म्। प्रत्ययाद्युदात्तस्यापवादः॥

तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः॥ ६.१.१८६॥

तासेरनुदात्तेतो ङितोऽकारान्तोपदेशात् च शब्दात् परं लसार्वधातुकमनुदात्तं भवति ह्नुङ् इङ् इत्येताभ्यां परं वर्जयित्वा। तासेस्तावत्-क॒र्ता, क॒र्तारा॑ै,क॒र्तारः॑। प्रत्यय-स्वरापवादोऽयम्। अनुदात्तेतः- आस-आस्ते॑। वस-वस्ते॑। ङित्-षूङ्-सूते॑। शीङ्-शेते॑। अदुपदेशात्-तु॒दतः॑। नु॒दतः॑। पच॑तः। पठ॑तः। अनुबन्धस्यानैकान्तिकत्वात् (परि० ४) अकारान्तोपदेश एव शप्। पच॑मानः। यज॑मानः। यद्यत्र मुक् अकारमात्रस्य स्यात् ,तदा लसार्वधातुकमदुपदेशादनन्तरमिति सिद्धो निघातः। अथाकारान्तस्याङ्गस्य, तथापि लसार्वधातुकानुदात्तत्वे कर्तव्ये बहिरङ्गत्वादसिद्धः इति सिद्धम्। चित्स्वरोऽप्यनेन लसार्वधातुकानुदात्तत्वेन परत्वाद् बाध्यते। तास्यादिभ्य इति किम् ? चि॒नु॒तः। चि॒न्वन्ति॑। ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य। उपदेशग्रहणं किम् ? इह च यथा स्यात्-पचा॑वः, पचा॑म इति। इह च मा भूत्-ह॒तः, ह॒थ इति। लग्रहणं किम् ? कतीह प॒च॒मा॒नाः। सार्वधातुकमिति किम् ? शि॒श्ये, शि॒श्याते॑, शि॒श्ियरे। अह्न्विङोरिति किम् ? ह्नु॒ते। यद॑धी॒ते॥

आदिः सिचोऽन्यतरस्याम्॥ ६.१.१८७॥

उदात्त इति वर्तते। सिजन्तस्यान्यतरस्यामादिरुदात्तो भवति। मा हि कार्ष्टा॑म्, मा हि का॒र्ष्टाम्। एकोऽत्राद्युदात्तः, अपरोऽन्तोदात्तः। मा हि लावि॑ष्टाम्, मा हि ला॒विष्टा॑म्। एकोऽत्राद्युदात्तः, अपरो मध्योदात्तः। सिचश्चित्करणादागमानुदात्तत्वं हि बाध्यते॥ सिच आद्युदात्तत्वेऽनिटः पित पक्ष उदात्तत्वं वक्त व्यम् ॥ मा हि का॒र्षम्, मा हि कार्ष॑म्। अनिट इति किम् ? मा हि ला॒विष॑म् । मध्योदात्त एवाद्युदात्ताभावपक्षे भवति॥

स्वपादिहिंसामच्यनिटि॥ ६.१.१८८॥

लसार्वधातुकग्रहणं यदनुवर्तते, तदच्यनिटीति संबन्धादिह सप्तम्यन्तमुपजायते। स्वपादिरा वृत्करणात्। स्वपादीनां हिंसेश्चाजादावनिटि लसार्वधातुके परतोऽन्यतरस्यामादिरुदात्तो भवति। स्वप॑न्ति, स्वप॒न्ति॑। श्वस॑न्ति, श्व॒सन्ति॑। हिंसेः खल्वपि-हिंस॑न्ति, हिं॒सन्ति॑। प्रत्ययस्वरेण पक्षे मध्योदात्तः। अचीति किम् ? स्व॒प्यात्। हिं॒स्यात्। अनिटीति किम् ? स्व॒पि॒तः। श्व॒सि॒तः। ङित्यजादावयं विधिरिष्यते। इह न भवति-स्वपा॑नि। हि॒नसा॑नि॥

अभ्यस्तानामादिः॥ ६.१.१८९॥

अभ्यस्तानामजादावनिटि लसार्वधातुके परत आदिरुदात्ता भवति। दद॑ति। दद॑तु। दध॑ति। दध॑तु। जक्ष॑ति। जक्ष॑तु। जाग्॑रति। जाग्र॑तु। अचीत्येव-द॒द्यात्। अनिटीत्येव -ज॒क्षि॒तः। आदिरिति वर्तमाने पुनरादिग्रहणं नित्यार्थम् ॥

अनुदात्ते च॥ ६.१.१९०॥

अविद्यमानोदात्ते च लसार्वधातुके परतोऽभ्यस्तानामादिरुदात्तो भवति। अनजाद्यर्थ आरम्भः। ददा॑ति। जहा॑ति। दधा॑ति। जिही॑ते। मिमी॑ते। (तै० सं० ६.१.९.६)। अनुदात्त इति बहुव्रीहिनिर्देशो लोपयणादेशार्थः। मा हि स्म दधा॑त्। दधा॒त्यत्र॑॥

सर्वस्य सुपि॥ ६.१.१९१॥

सर्वशब्दस्य सुपि परत आदिरुदात्तो भवति। सर्वः॑, सर्वौ॑, सर्वे॑। सुपीति किम् ? स॒र्वत॑रः। स॒र्वत॑मः। प्रत्ययलक्षणेनाप्ययं स्वर इष्यते-सर्व॑स्तोमः (तै० सं० ५.४.१२.३) इति॥ सर्वस्वरोऽनकच्कस्येति वक्त व्यम्॥ स॒र्व॒कः। चित्स्वरेणान्तोदात्तो भवति ॥

भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वं पिति ॥ ६.१.१९२॥

भी ह्री भृ हु मद जन धन दरिद्रा जागृ इत्येतेषामभ्यस्तानां लसार्वधातुके पिति प्रत्ययात् पूर्वमुदात्तं भवति। बि॒भेति॑। जि॒ह्रेति॑। बि॒भर्ति॑ (तै० आ० ३.११.४)। जु॒होति॑ (तै० ब्रा० २.१.३.८)। म॒मत्तु॑ नः॒ परि॑ज्मा (तै० सं० २.१.११.१)। मदेः ‘बहुलं छन्दसि’ (२.४.७३) इति विकरणस्य श्लुः। ज॒जन॒दिन्द्॑रम् (तै० आ० ३.२.१)। ‘जन जनने’ इत्यस्य पञ्चमे लकारे रूपम्। ‘धन धान्ये’ इत्यस्य पञ्चमे लकारे द॒धन॒त् (तै० ब्रा० २.८.३.५)। द॒रि॒द्राति॑। जा॒गर्ति॑। भ्यादीनामिति किम्? ददा॑ति। पितीति किम् ? दरि॑द्रति॥

लिति ॥ ६.१.१९३॥

लिति प्रत्ययात् पूर्वमुदात्तं भवति। चि॒कीर्ष॑कः। जि॒हीर्ष॑कः। भौ॒रि॒किवि॑धम्। भा॒ैलि॒किवि॑धम्। ऐ॒षु॒का॒रिभ॑क्तम्॥

आदिर्णमुल्यन्यतरस्याम् ॥ ६.१.१९४॥

णमुलि परतोऽन्यतरस्यामादिरुदात्तो भवति। लोलू॑यंलोलूयम्, लोलूयं॑लोलूयम्। पोपू॑यंपोपूयम्, पो॒पूयं॑पोपूयम्। आम्रेडितानुदात्तत्वे (८.१.३) कृते पूर्वो लोलूयंशब्द एकत्राद्युदात्तः, अपरत्र लित्स्वरेण मध्योदात्तः॥

अचः कर्तृयकि ॥ ६.१.१९५॥

उपदेश इति वर्तते। अजन्ता ये उपदेशे धातवस्तेषां कर्तृयक्यन्यतरस्यामादिरुदात्तो भवति। लूय॑ते केदारः स्वयमेव, लू॒यते॑ केदारः स्वयमेव। स्तीर्य॑ते केदारः स्वयमेव, स्ती॒र्यते॑ केदारः स्वयमेव। यदाद्युदात्तत्वं न भवति, तदा लसार्वधातुकनिघाते कृ ते यक एव स्वरो भवति। जनादीनामुपदेश एवात्वं द्रष्टव्यम्। तत्राप्ययं स्वर इष्यते। जाय॑ते, जा॒यते॑ स्वयमेव। साय॑ते, सा॒यते॑ स्वयमेव। खाय॑ते,खा॒यते॑ स्वयमेव। अच इति किम् ? भि॒द्यते॑ स्वयमेव। कर्तृग्रहणं किम् ? लू॒यते॑ केदारो देवदत्तेन॥

थलि च सेटीडन्तो वा ॥ ६.१.१९६॥

सेटि थलि इट् वा उदात्तो भवति, अन्तो वा आदिर्वान्यतरस्याम्। लु॒ल॒विथ॑। लु॒ल॒वि॒थ। लुल॑विथ। लु॒लवि॑थ। यदा नैते त्रयः स्वराः, तदा ‘लिति’ (६.१.१९३) प्रत्ययात् पूर्वमुदात्तं भवति। तेनैते चत्वारः स्वराः पर्यायेण भवन्ति। सेटीति किम् ? य॒याथ॑। ‘लिति’ (६.१.१९३) प्रत्ययात् पूर्वमुदात्तमित्ययमेवात्र स्वरो भवति॥

ञ्नित्यादिर्नित्यम् ॥ ६.१.१९७॥

ञिति निति च नित्यमादिरुदात्तो भवति। ‘गर्गादिभ्यो यञ्’ (४.१.१०५)-गार्ग्यः॑। वात्स्यः॑। ‘वासुदेवार्जुनाभ्यां वुन्’ (४.३.९८)-वासु॑देवकः। अर्जु॑नकः। प्रत्ययस्वरापवादोऽयं योगः। प्रत्ययलक्षणमत्र नेष्यते, तेन ग॒र्गाः, बि॒दाः, च॒ञ्चा इत्यत्र यञि कनि च लुप्ते न भवति॥

आमन्त्रितस्य च ॥ ६.१.१९८॥

आमन्त्रितस्यादिरुदात्तो भवति। देव॑दत्त, देव॑दत्तौ, देव॑दत्ताः। अत्र ‘कारकाद्दत्तश्रुतयोरेवाशिषि’ (६.२.१४८) इति प्राप्तिर्बाध्यते। लुमतापि लुप्ते प्रत्ययलक्षणमत्रेष्यते। सर्पि॑रागच्छ, सप्ता॑गच्छतेति॥

पथिमथोः सर्वनामस्थाने ॥ ६.१.१९९॥

पथिमथिशब्दावौणादिकाविनिप्रत्ययान्तौ प्रत्ययस्वरेणान्तोदात्तौ, तयोः सर्वनामस्थाने परत आदिरुदात्तो भवति। पन्थाः॑, पन्था॑नौ, पन्था॑नः। मन्थाः॑, मन्था॑नौ, मन्था॑नः। सर्वनामस्थान इति किम् ? प॒थः पश्य। म॒थः पश्य। उदात्तनिवृत्तिस्वरेणान्तोदात्तो भवति। प्रत्ययलक्षणमत्रापि नेष्यते। प॒थिपि्॑रय इत्यत्र पूर्वपदप्रकृतिस्वरेणान्तोदात्तः पथिशब्दः॥

अन्तश्च तवै युगपत्॥ ६.१.२००॥

तवैप्रत्ययान्तस्यान्तश्चशब्दादादिश्च युगपदुदात्तौ भवतः। कर्त॒वै। हर्त॒वै। प्रत्ययाद्युदात्तत्वापवादः। युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम्। एकवर्जमिति वचनाद्यौगपद्यं न स्यात्॥

क्षयो निवासे॥ ६.१.२०१॥

क्षयशब्दो निवासेऽभिधेय आद्युदात्तो भवति। क्षियन्ति निवसन्त्यस्मिन्निति क्षयः। ‘पुंसि संज्ञायां घः प्रायेण’ (३.३.११८) इति घप्रत्ययान्तस्य प्रत्ययस्वरः प्राप्तः। क्षये॑ (ऋ० १०.११८.१) जागृहि प्रपश्यन्। निवास इति किम् ? क्ष॒यो वर्तते दस्यूनाम्। ‘एरच्’ (३.३.५६) इत्ययमजन्तः॥

जयः करणम्॥ ६.१.२०२॥

जयशब्दः करणवाची आद्युदात्तो भवति। जयन्ति तेनेति जयः। ‘पुंसि संज्ञायां घः प्रायेण’ (३.३.११८) इति घस्तस्य प्रत्ययस्वरः प्राप्तः। जयोऽश्वः॑। करणमिति किम् ? ज॒यो वर्तते ब्राह्मणानाम्। अत्रापि ‘एरच्’ (३.३.५६) इत्ययमजन्तः॥

वृषादीनां च॥ ६.१.२०३॥

वृष इत्येवमादीनामादिरुदात्तो भवति। वृषः॑। जनः॑। ज्वरः॑। ग्रहः॑। हयः॑। गयः॑। एते सर्वे पचाद्यच्प्रत्ययान्ताः। गय इत्यत्र गायतेर्निपातनादेत्वम्। नयः॑। तयः॑। अयः॑। अंशः॑। वेदः॑। अशः॑। दवः॑। एतेऽपि तथैवाच्प्रत्ययान्ताः। सूदः॑। इगुपधात् (३.१.१३५) इति कप्रत्ययान्तः। गुहा॑ भिदादिरङ्प्रत्ययान्तः (३.३.१०४)। शमरणौ संज्ञायां संमतौ भावकर्मणोः (ग० सू० १७३)। शमो॑ भावे, रणः॑ कर्मण्यजन्तावेतौ निपातनाद् भावकर्मणोर्भवतः। मन्त्रः॑ पचाद्यजन्तः। शान्तिः॑ इति क्तिजन्तः। कामः॑। यामः॑। घञन्तावेतौ। आरा॑ धारा॑ कारा॑ भिदादयः। वहो॑ गोचरादिषु घप्रत्ययान्तः। कल्पः॑ अजन्तः। पादो॑ घञन्तः। तत्र क्वचित् प्रत्ययस्वरः प्राप्तः, क्वचित् ‘कर्षात्वतो घञोऽन्त उदात्तः’ (६.१.१५९) इति। वृषादिराकृतिगणः। अविहितमाद्युदात्तत्वं वृषादिषु द्रष्टव्यम्॥

संज्ञायामुपमानम्॥ ६.१.२०४॥

उपमानशब्दः संज्ञायामाद्युदात्तो भवति। चञ्चा॑। वर्ध्रि॑का। खर॑कुटी। दासी॑। उपमानशब्दा एते उपमेयस्य संज्ञाः। तत्र ‘इवे प्रतिकृतौ’ (५.३.९६) इति यः कन्, तस्य ‘लुम्मनुष्ये’ (५.३.९८) इति लुप्। यद्येवं किमर्थमिदमुच्यते प्रत्ययलक्षणेन सिद्धमाद्युदात्तत्वम् ? एतदेव ज्ञापयति क्वचिदिह स्वरविधौ प्रत्ययलक्षणं न भवतीति। तथा च पूर्वत्रोदाहृतम् (६.१.१९७)। संज्ञायामिति किम् ? अ॒ग्निर्माणवकः। उपमानमिति किम् ? दे॒व॒द॒त्तः॥

निष्ठा च द्व्यजनात्॥ ६.१.२०५॥

निष्ठान्तं च द्व्यच् संज्ञायां विषय आद्युदात्तं भवति, स चेदादिराकारो न भवति। दत्तः॑। गुप्तः॑। बुद्धः॑। प्रत्ययस्वरापवादः। निष्ठेति किम् ? दे॒वः। भी॒मः। द्व्यजिति किम् ? चि॒न्ति॒तः। र॒क्षि॒तः। अनादिति किम् ? त्रा॒तः। आ॒प्तः। संज्ञायामिति किम् ? कृ॒तम्। हृ॒तम्॥

शुष्कधृष्टौ॥ ६.१.२०६॥

आदिरुदात्त इति वर्तते। शुष्क धृष्ट इत्येतावाद्युदात्तौ भवतः। शुष्कः॑। धृष्टः॑। असंज्ञार्थ आरम्भः॥

आशितः कर्ता॥ ६.१.२०७॥

आशितशब्दः कर्तृवाची आद्युदात्तो भवति। आशि॑तो देवदत्तः। अशेरयमाङ्पूर्वादविवक्षिते कर्मणि कर्तरि क्त ः। तत्र ‘थाथघञ्०’ (६.२.१४४) इति प्राप्तः स्वरो बाध्यते। कर्तरीति किम् ? आ॒शि॒तमन्नम्। आ॒शि॒तं देवदत्तेन। पूर्वत्र कर्मणि क्तः, उत्तरत्र भावे॥

रिक्ते विभाषा॥ ६.१.२०८॥

रिक्त शब्दे विभाषादिरुदात्तो भवति। रिक्त॑ ः, रि॒क्त ः। संज्ञायां ‘निष्ठा च द्व्यजनात्’ (६.१.२०५) इत्यनेन पूर्वविप्रतिषेधेन नित्यमाद्युदात्तः॥

जुष्टार्पिते चच्छन्दसि॥ ६.१.२०९॥

जुष्ट अर्पित इत्येते शब्दरूपे छन्दसि विषये विभाषा आद्युदात्ते भवतः। जुष्टः॑, जु॒ष्टः। अर्पि॑तः, अ॒र्पि॒तः। छन्दसीति किम् ? भाषायां प्रत्ययस्वरेणान्तोदात्तावेतौ॥

नित्यं मन्त्रे॥ ६.१.२१०॥

जुष्ट अर्पित इत्येते शब्दरूपे मन्त्रविषये नित्यमाद्युदात्ते भवतः। जुष्टं॑ देवानाम्। अर्पि॑तं पितृणाम्। पूर्वेणात्र विकल्पः प्राप्तः। केचिदत्र जुष्ट इत्येतदेवानुवर्तयन्ति। अर्पितशब्दस्य विभाषा मन्त्रेऽपीच्छन्ति। अन्तोदात्तोऽपि ह्ययं मन्त्रे पठ्यते। तस्मि॑न्त्सा॒कं त्रि॑श॒ता न शं॒कवो॑ऽर्पि॒ताः (ऋ० १.१६४.४८) इति॥

युष्मदस्मदोर्ङसि॥ ६.१.२११॥

युष्मदस्मदी मदिक्प्रत्ययान्ते अन्तोदात्ते, तयोर्ङसि परत आदिरुदात्तो भवति। तव॑ स्वम्। मम॑ स्वम् ॥

ङयि च॥ ६.१.२१२॥

युष्मदस्मदोरिति वर्तते, आदिरुदात्त इति च। ङे इत्येतस्मिंश्च परतो युष्मदस्मदोरादिरुदात्तो भवति। तुभ्य॑म् (ऋ० २.३६.१)। मह्य॑म् (ऋ० १०.१२८.२)। पृथग्योगकरणं यथासंख्यशङ्कानिवृत्त्यर्थम्॥

यतोऽनावः॥ ६.१.२१३॥

‘निष्ठा च द्व्यजनात्’ (६.१.२०५) इत्यतो द्व्यज्ग्रहणमनुवर्तते। यत्प्रत्ययान्तस्यद्व्यच आदिरुदात्तो भवति, न चेद् नौशब्दात् परो भवति। ‘अचो यत्’ (३.१.९७) चेय॑म्। जेय॑म्। ‘शरीरावयवाद् यत्’ (५.१.६)-कण्ठ्य॑म्। ओष्ठ्य॑म्। ‘तित्स्वरितम्’ (६.१.१८५) इत्यस्यापवादः। अनाव इति किम् ? ना॒व्य॑म्। द्व्यच इत्येव-चि॒की॒र्ष्य॑म्। ल॒ला॒ट्य॑म्॥

ईडवन्दवृशंसदुहां ण्यतः॥ ६.१.२१४॥

ईड वन्द वृ शंस दुह् इत्येतेषां यो ण्यत् तदन्तस्यादिरुदात्तो भवति। ईड्य॑म्। वन्द्य॑म्। वार्य॑म्। शंस्य॑म्। दोह्या॑ धेनुः। द्व्यनुबन्धकत्वाद् ण्यतो यद्ग्रहणेन ग्रहणं नास्तीति ‘तित् स्वरितम्’ (६.१.१८५) इत्येतत् प्राप्तम्। वार्यमिति ‘वृङ् संभक्त ौ’ इत्यस्यायं ण्यत्। क्यब्विधौ हि वृञ एव ग्रहणमिष्यते॥

विभाषा वेण्विन्धानयोः॥ ६.१.२१५॥

वेणु इन्धान इत्येतयोर्विभाषा आदिरुदात्तो भवति। वेणुः॑, वे॒णुः। इन्धा॑नः, इ॒न्धा॒नः, इ॒न्धानः॑। वेणुशब्दोऽयम् ‘अजिवृरीभ्यो निच्च’ (प० उ० ३.३८) इति णुप्रत्ययान्तो नित्त्वाद् नित्यमाद्युदात्तः प्राप्तः। इन्धानशब्दोऽपि यदा चानशन्तस्तदा चित्त्वादन्तोदात्तः। अथ शानजन्तस्तदा लसार्वधातुकानुदात्तत्वे कृत उदात्तनिवृत्तिस्वरेण मध्योदात्तः। तदेवमिन्धाने सर्वथाप्राप्तमाद्युदात्तत्वं पक्षे विधीयते। वेणुरिव वेणुरित्युपमानं यदा संज्ञा भवति, तदा ‘संज्ञायामुपमानम्’ (६.१.२०४) इति नित्यमाद्युदात्तत्वमिष्यते॥

त्यागरागहासकुहश्वठक्रथानाम्॥ ६.१.२१६॥

त्याग राग हास कुह श्वठ क्रथ इत्येतेषां विभाषादिरुदात्तो भवति। त्यागः॑, त्या॒गः। रागः॑, रा॒गः। हासः॑, हा॒सः। एते घञन्तास्तेषां पक्षे ‘कर्षात्वतो घञोऽन्त उदात्तः’ (६.१.१५९) इत्युदात्तत्वमेव भवति। कुहः॑, कु॒हः। श्वठः॑, श्व॒ठः। क्रथः॑, क्र॒थः। एते पचाद्यजन्ताः॥

उपोत्तमं रिति॥ ६.१.२१७॥

रिदन्तस्योपोत्तममुदात्तं भवति। त्रिप्रभृतीनामन्त्यमुत्तमम्, तस्य समीपे यत् तदुपोत्तमम्। क॒र॒णीय॑म्। ह॒र॒णीय॑म्। प॒टु॒जा॒तीयः॑। मृ॒दु॒जा॒तीयः॑। प्रत्ययस्वरापवादोऽयम्॥

चङ्यन्यतरस्याम्॥ ६.१.२१८॥

चङन्तेऽन्यतरस्यामुपोत्तममुदात्तं भवति। मा हि ची॒क॒रता॑म् मा हि ची॒कर॑ताम्। ‘न माङ्योगे’ (६.४.७४) इत्यटि प्रतिषिद्धे ‘हि च’ (८.१.३४) इति निघातेऽदुपदेशादिति लसार्वधातुकानुदात्तत्वे (६.१.१८६) कृते चङ एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तो भवति। उपोत्तमग्रहणाद् द्व्यचो न भवति। मा हि द॒धत्॥

मतोः पूर्वमात् संज्ञायां स्त्रियाम्॥ ६.१.२१९॥

मतोः पूर्व आकार उदात्तो भवति, तत् चेद् मत्वन्तं स्त्रीलिङ्गे संज्ञा भवति। उ॒दु॒म्ब॒राव॑ती। पु॒ष्क॒राव॑ती। वी॒र॒णाव॑ती। श॒राव॑ती। ‘शरादीनां च’ (६.३.१२०) इति दीर्घः। आदिति किम् ? इ॒क्षु॒मती॑। द्॒रुम॒वती॑। संज्ञायामिति किम् ? खट्वा॑वती। स्त्रियामिति किम् ? शरा॑वान्। मतोरिति किम् ? ग॒वा॒दिनी॑॥

अन्तोऽवत्याः ॥ ६.१.२२०॥

संज्ञायामित्येव। अवतीशब्दान्तस्य संज्ञायामन्त उदात्तो भवति। अ॒जि॒र॒व॒ती। ख॒दि॒र॒व॒ती। हं॒स॒व॒ती। का॒र॒ण्ड॒व॒ती। ङीपः पित्त्वादनुदात्तत्वं प्राप्तम्। अवत्या इति किमुच्यते, न वत्या इत्येवमुच्येत ? नैवं शक्यम्, इहापि स्यात्-राज॑वती। स्वरविधौ नलोपस्यासिद्धत्वाद् नायमवतीशब्दः। वत्वं पुनराश्रयात् सिद्धम्॥

ईवत्याः ॥ ६.१.२२१॥

ईयतीशब्दान्तस्यान्त उदात्तो भवति स्त्रियां संज्ञायां विषये। अ॒ही॒व॒ती। कृ॒षी॒व॒ती। मु॒नी॒व॒ती॥

चौ॥ ६.१.२२२॥

चावित्यञ्चतिर्लुप्तनकारो गृह्यते। तस्मिन् परतः पूर्वस्यान्त उदात्तो भवति। द॒धीचः॑ पश्य। द॒धीचा॑। द॒धीचे॑। म॒धूचः॑ पश्य। म॒धूचा॑। म॒धूचे॑। उदात्तनिवृत्तिस्वरापवादोऽयम्॥ चावतद्धित इति वक्त व्यम्॥ दा॒धी॒चः। मा॒धू॒चः। प्रत्ययस्वर एवात्र भवति॥

समासस्य ॥ ६.१.२२३॥

समासस्यान्त उदात्तो भवति। रा॒ज॒पु॒रु॒षः। ब्रा॒ह्म॒ण॒क॒म्ब॒लः। क॒न्या॒स्व॒नः। प॒ट॒ह॒श॒ब्दः। न॒दी॒घो॒षः। रा॒ज॒पृ॒षत्। ब्रा॒ह्म॒ण॒स॒मित्। ‘स्वरविधौ व्यञ्जनमविद्यमानवद्०’इति हलन्तेऽप्यन्तोदात्तत्वं भवति। नानापदस्वरस्यापवादः॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य प्रथमः पादः॥