१८३ प्रत्यप (प्रति+अप)

या

  • {प्रत्यपया}
  • या (या प्रापणे, प्रापणमिह गतिः)।
  • ‘स वैक्लव्यं महत् प्राप्य…। तथा पुरुषमानी स प्रत्यपायाद् रथान्तरम्’ (भा० द्रोण० १३१।५८)॥ स्वरथं विहायान्यं रथं प्रत्यपासरदित्यर्थः।

वह्

  • {प्रत्यपवह्}
  • वह् (वह प्रापणे)।
  • ‘…अष्टादश पदानि सः। प्रत्यपोवाह भगवान्…’ (भा० पु० १०।३६।११)॥ प्रत्यपोवाह प्रत्यक् पराणुददित्यर्थः।