१५४ उदाङ् (उद्+आङ्)

अय्

  • {उदाय्}
  • अय् (अय गतौ)।
  • ‘सोऽग्नेः कृष्णो रूपं कृत्वोदायत’ (तै० सं० ५।२।६)। उदायत निरायत निरक्रामत्।

  • {उदे}
  • इ (इण् गतौ)।
  • ‘वाचाऽऽहूताः पशव उदायन्ति। वाचाऽऽसिद्धा आवर्तन्ते’ (काठक० ३४।१२)। उदायन्ति उत्थाय यन्ति। आसिद्धाः प्रतिषिद्धाः।
  • ‘उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि’ (अथर्व० ५।३०।११)। उदेहि निष्क्रम्यायाहीत्याह।
  • ‘स (राजा) ह प्रातः सभाग उदेयाय’ (छां० उ० ५।३।६) (गौतमम्)। प्रत्युज्जगामेत्याह। सभागः सभायां स्थितः।
  • ‘उदागां जीव उषसो विभातीः’ (अथर्व० १४।२।४४)। विभातीरुषसः प्रति गृहान्निरक्रामम्।
  • ‘असंवेपमाना अवभृथादुदायन्ति’ (शां० ब्रा० १९।३)। उदायन्ति उत्तरन्ति।
  • ‘तस्य वृत्रस्य शीर्षतो गाव उदायन्’ (तै० सं० २।१।४।५)। उदायन् निरगच्छन् निरक्रामन्।

कृ

  • {उदाकृ}
  • कृ (डुकृञ् करणे)।
  • ‘उद्रुस्रा आकुर्वि हि तिस्र आवः’ (ऋ० १०।६७।४)। (बृहस्पतिः)। उस्रा उदाकः उदाकार्षीत् उदाजीत्, उदकालयत्।
  • ‘ता (गाः) होदाचकार’ (श० ब्रा० १४।६।१।३)। उक्तोऽर्थः।
  • ‘या रोहिणी सा वार्त्रघ्नी, यामिदं राजा सङ्ग्रामं जित्वोदाकुरुते’ (श० ब्रा० ३।३।१।१४)। वशे कुरुते।
  • ‘तासां विलिप्त्यं (=विलिप्तीम्) भीमामुदाकुरुत नारदः’ (अथर्व० १२।४।४१)। उदाकुरुत स्वस्मै पृथक् चकार, वरयामासेत्यर्थः।
  • ‘श्येनो वर्तिकामुदाकुरुते’ (पा० १।३।३२ वृत्तावुदाहरणम्)। अधिकुरुते प्रसहते भर्त्सयते।
  • ‘अथाहुरुदाकृत्या सा वशं चरेत्’ (तै० सं० ७।१।५)। उदाकृतिरुत्सर्जनम्।

ख्या

  • {उदाख्या}
  • ख्या (ख्या प्रकथने)।
  • ‘दश वीर्याण्युदाख्यायाह’ (श० ब्रा० ३।३।३।४)। सस्वरं गणयित्वेत्याह।

चक्ष्

  • {उदाचक्ष्}
  • चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
  • ‘यदध्वर्युरेव गोवीर्याण्युदाचष्टे’ (श० ब्रा० ३।३।३।४)। उच्चैर्ब्रवीतीत्यर्थः।

चर्

  • {उदाचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्’ (ऋ० ७।५५।७)। उदाचरत्, उदञ्चत्, उदतिष्ठत्, निरगच्छत्, प्राभवत्।
  • ‘गुरोरुदाचारेष्वकर्ता स्वैरिकर्माणि’ (आप० ध० १।१।३।१५)। येषु प्रदेशेषु गुरुरुदाचरति पौनःपुन्येन चरति विहरति तेषु।
  • ‘उदाचारेषु चास्यैतानि न कुर्यात्कारयेद्वा’ (आप० ध० १।८।३)। दृष्टिगोचरेषु प्रदेशेष्वित्यर्थः। गुरुसंश्रवे गुरुसन्दर्शे वेति तात्पर्यम्।

दा

  • {उदादा}
  • दा (डुदाञ् दाने)।
  • ‘उदात्तदन्तानां कुञ्जराणाम्’ (रा० २।१००।१०)। उदात्ता उन्नताः।
  • ‘पुरा क्रूरस्य विसृपो विरप्शिन्नुदादाय पृथिवीं जीवदानुम्’ (वा० सं० १।२८)। उदादाय उत्क्षिप्य उद्गृह्य।
  • ‘एतस्य लोकस्योदात्तये’ (गो० ब्रा० पू० २।२४)। उदात्तय उद्ग्रहणाय।

द्रु

  • {उदाद्रु}
  • द्रु (द्रु गतौ)।
  • ‘प्राङुदाद्रवति’ (श० ब्रा० १२।४।४।७)। उदुह्य उद्गृह्याग्रे सरतीत्यर्थः।

धा

  • {उदाधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘एतस्योत्तरोऽर्धं उदाहिततरो भवति’ (श० ब्रा० ७।५।१।३८)। उदाहिततर उन्नततरः।

नी

  • {उदानी}
  • नी (णीञ् प्रापणे)।
  • ‘अश्वं निक्त्वोदानयति’ (श० ब्रा० १३।४।२।१)। उदानयति निष्क्रमयति।
  • ‘स्नपितान् (अश्वान्) वोदानीतान्’ (श० ब्रा० ५।१।४।५)।
  • ‘तानुन्नेतोदानयेत्’ (अवभृथात्) (लाट्या० श्रौ० ४।४।१३)।
  • ‘नेष्टः पत्नीमुदानय’ (तै० सं० ६।५।८।५, श० ब्रा० ३।८।२।१)।
  • ‘अथैनां प्राचीमुदानयति’ (भा० श्रौ० ७।१३।१०)। पूर्वां दिशम्प्रति प्रणयतीत्यर्थः।
  • ‘ततः प्रतिप्रस्थाता पत्नीमुदानयति’ (आप० श्रौ० ७।६।१८।१)। स्वायतनाद् वेदिसमीपं प्रापयतीत्यर्थः।
  • ‘यज्ञोपवीतिनमप आचमय्य देवयजनमुदानयति’ (बौ० गृ० २।५।७।८)।
  • ‘विनेष्ये वा प्रियान्प्राणान् उदानेष्येऽथवा यशः’ (भट्टि० ८।२१)। आहरिष्यामीत्याह। उन्नमयिष्यामीत्यक्षरार्थः।
  • ‘स पत्नीमुदानेष्यन् पृच्छति केन चरसीति’ (श० ब्रा० २।५।२।२०)। उदानेष्यन् निष्क्रमय्य सहानेष्यन्।

मन्त्र्

  • {उदामन्त्र्}
  • मन्त्र् (मत्रि गुप्तपरिभाषणे)।
  • ‘व्युपतोदव्युपजापव्यभिहासोदामन्त्रणानि गुरोर्वर्जयेत्’ (आप० ध० १।२।८।१५)। उदामन्त्रणमुच्चैः सम्बोधनं यथा बधिरस्य क्रियते।

यम्

  • {उदायम्}
  • यम् (यम उपरमे)।
  • ‘सूर्यस्त्वा मृत्योरुदायच्छतु रश्मिभिः’ (अथर्व० ५।३०।१५)। उदायच्छतु=उद्वहतु उद्गमयतु।
  • ‘उदायंस्त कूपादुदकम्’ (पा० १।२।१५ वृत्तौ प्रत्युदाहरणम्)। उद्धृतवानित्यर्थः। उदायंस्त पादम् इति च तत्रैव। अपकृष्टवानित्यर्थ इति पदमञ्जरी। उदायतेति च सूत्रोदाहरणम्। गन्धनं सूचनम् परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम्। अनेकार्थत्वाद् धातूनां यमिस्तत्र वर्तते। उदाङौ तदर्थस्य द्योतकौ।

या

  • {उदाया}
  • या (या प्रापणे)।
  • ‘सभामुदायाति’ (कौ० सू० १७।२३)। उच्चलति, उत्थाय यातीत्यर्थः।

यु

  • {उदायु}
  • यु (यु मिश्रणामिश्रणयोः)।
  • ‘मेक्षणेन त्रिः प्रदक्षिणमुदायौति’ (कौ० सू० २।११)। ऊर्ध्वमीषन्मिश्रयतीत्याह।
  • ‘पृथङ् मेक्षणाभ्यां प्रदक्षिणमुदायुवन्’ (गो० गृ० ४।१।४)। उक्तोऽर्थः।

रुह्

  • {उदारुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘पृथिव्या अहमुदन्तरिक्षमारुहम्’ (वा० सं० १७।६७, अथर्व० १८।१।६१)। उच्छब्दो नार्थेऽन्तरं करोति। आरुक्षमित्येवार्थः।

वह्

  • {उदावह्}
  • वह् (वह प्रापणे)।
  • ‘ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत्’ (भा० उ० १८०।१५)। उदावहत्=निरवहत्।
  • ‘आजानेया बलिनः साधु दान्ता महाबलाः शूरमुदावहन्ति’ (भा० वन० २७०।१०)। उदावहन्ति अपवाहयन्ति।
  • ‘यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन्’ (भा० द्रोण० २३।२७)।
  • ‘नाकुलिं शतानीकं शालपुष्पनिभा हयाः। आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन्’ (भा० द्रोण० २१।३०)॥
  • ‘दत्तास्तुम्बुरुणा दिव्याः शिखण्डिनमुदावहन्’ (भा० द्रोण० २३।२०)। उक्तोऽर्थः।
  • ‘भगिनीं वासुदेवस्य सुभद्रां भद्रभाषिणीं भार्यामुदावहत्’ (भा० आदि० ९५।७८)। उपायच्छत, पर्यणयतेत्यर्थः।
  • ‘नकुलस्तु चैद्यां करेणुमतीं नाम भार्यामुदावहत्’ (भा० आदि० ९५।७९)। उक्तोऽर्थः। अत्रार्थ उभयोरुदाङोः प्रयोगो विरलः, केवलस्योवस्तु बहुलः। एष व्यवहारः।
  • ‘गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत्’ (भा० पु० १०।७१।२)। उक्तोऽर्थः।

वृत्

  • {उदावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘उदिता गान्धर्वमावीवृताम’ (अथर्व० १४।२।३६)। उदावीवृताम निरगमयाम बहिरकुर्म।
  • ‘स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत्’ (सुश्रुत० २।५१६।९)। उदावर्तयति श्लेष्मादि त्याजयति। उदावर्त इति मलमूत्रवायुनिः सरणरोधकरो रोगविशेषो भवति। उदावर्तेति स्त्रियां कृच्छ्रिणी फेनिला रजोमुक्तिः स्त्रीणाम्।
  • ‘स्रोतांस्युदावर्तयति’ (वायुः) (माधव० २७।१४)। उदावर्तयति आवृणोति।

शंस्

  • {उदाशंस्}
  • शंस् (आङः शसि इच्छायाम्)।
  • ‘यद्वै सवासा अरण्यं नोदाशंसते निधाय वै तद्वासोऽतिमुच्यते।’ (श० ब्रा० ५।२।३।५)। अरण्यं न कामयत इत्याह। उच्छब्दो नार्थे विशेषं करोति।
  • ‘व्रतचर्यां वा नोदाशंसीत’ (आप० श्रौ० ९।१।४।७९)। न शक्ष्यामि कर्तुमित्युदीक्ष्य नाशंसीत नेच्छेदित्यर्थ इति रुद्रदत्तः।

सृ

  • {उदासृ}
  • सृ (सृ गतौ)।
  • ‘उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानम्’ (पा० ३।२।७८) सूत्रे काशिकायाम् उदासारिण्यः प्रत्यासारिण्य इत्युदाहरणे।

स्था

  • {उदास्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • द्वारपालेप्युदास्थित इति वैजयन्ती। उदास्थितः प्रतीहार इति स्वामिनाऽमरोद्घाटने समुद्धृतो दुर्गकोषः। भग्नप्रव्रज्याव्रतो यतिरप्युदास्थित उच्यते। आह च कौटिल्यः–प्रव्रज्याप्रत्यवसितः प्रजाशौचयुक्त उदास्थितः (कौ० अ० १।११।७)। कृत्स्नं चाष्टविधं कर्मेत्यादि (७।१५४) मानवं शास्त्रं व्याचक्षाणः कुल्लूक आह–प्रव्रज्यारुढपतित उदास्थित इति। इत्थम्भूतः परिव्राजकपूर्वश्चारकर्मणि नियुज्यत इत्यन्यदेतत्।

हृ

  • {उदाहृ}
  • हृ (हृञ् हरणे)।
  • ‘त्वां कामिनो मदनदूतिमुदाहरन्ति’ (विक्रम० ४।११)। मदनदूतीति नाम्ना व्यपदिशन्तीत्यर्थः।
  • ‘उदाजहार द्रुपदात्मजा गिरः’ (कि० १।२७)। उदाजहार व्याजहार उच्चारयामास उदीरयामास।
  • ‘भोजनवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति’ (माल० २)। उदाहरन्ति प्रवदन्ति।
  • ‘त्वमुदाह्रियस्व कथमन्यथा जनैः’ (शिशु० १५।२९)। उदाह्रियस्व व्यपदिश्येथाः। संभावनायां लोट्।
  • ‘वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर’ (रा० १।६२।१९)। उदाहर स्तुहि (स्तुवीहि)।
  • ‘यदेव मित्रं गुरुभारमावहेत् तदेव सुस्निग्धमुदाहरेद् बुधः’ (भा० शां० १२०।५५)॥ उदाहरेत् प्रशंसेत्।
  • ‘यत्ते प्रथमं राजन्मन्वन्तरमुदाहृतम्’ (हरि० १।७।११)। उदाहृतमुपवर्णितम्।
  • ‘तत्तेऽनुपूर्व्या वक्ष्यामि भीष्मेणोदाहृतं यथा’ (हरि० १।१६।८)। उदाहृतमाख्यातम्। उपोद्धात उदाहार इत्यमरः।
  • ‘समूलधातमघ्नन्तः परान्नोद्यन्ति मानिनः। प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः’ (शिशु० २।३३)॥ उदाहरणं निदर्शनं दृष्टान्तः। प्रध्वंसितमन्धतमसं येन स रविः।
  • ‘जयोदाहरणं बाह्वोर्गापयामास किन्नरान्’ (रघु० ४।७८)। गीतविशेषो जयशब्दोपक्रमः स्तुतिपरो जयोदाहरणम्।
  • ‘अथाङ्गिरसमग्रगण्यमुदाहरणवस्तुषु’ (कु० ६।६५)। कथाप्रसङ्गेष्वित्यर्थः।
  • ‘ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः’ (विक्रम० २।४६)। उदाहरणं दोषप्रख्यापनम्, उपन्यासः।
  • ‘यत्तृतीयं छदिर्हविर्धानयोरुदाह्रियते’ (तै० सं० ६।२।९)। उदाह्रियते उपर्याह्रियते।
  • ‘अथ हास्य वेदमुपशृण्वतः त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्। उदाहरणे जिह्वाच्छेदः’ (गौ० ध० १२।४)। उदाहरणमुच्चारणम्।