०१

समर्थःपदविधिः॥ २.१.१॥

परिभाषेयम्। यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स सर्वः समर्थो वेदितव्यः। विधीयत इति विधिः। पदानां विधिः पदविधिः। स पुनः समासादिः। समर्थः शक्तः, विग्रहवाक्यार्थाभिधाने यः शक्तः स समर्थो वेदितव्यः। अथ वा समर्थपदाश्रयत्वात् समर्थः। समर्थानां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः। वक्ष्यति- ‘द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः’ (२.१.२४)- कष्टं श्रितः, कष्टश्रितः। समर्थग्रहणं किम्? पश्य देवदत्त कष्टम्, श्रितो विष्णुमित्रो गुरुकुलम्। ‘तृतीया तत्कृतार्थेन गुणवचनेन’ (२.१.३०)- शङ्कुलया खण्डः, शङ्कुलाखण्डः। समर्थग्रहणं किम्? किं त्वं करिष्यसि शङ्कुलया, खण्डो देवदत्त उपलेन। ‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः’ (२.१.३६)- यूपाय दारु, यूपदारु। समर्थग्रहणं किम्? गच्छ त्वं यूपाय, दारु देवदत्तस्य गेहे। ‘पञ्चमी भयेन’ (२.१.३७)- वृकेभ्यो भयम्, वृकभयम्। समर्थग्रहणं किम्? गच्छ त्वं मा वृकेभ्यः, भयं देवदत्तस्य यज्ञदत्तात्। ‘षष्ठी’ (२.२.८)- राज्ञः पुरुषः, राजपुरुषः। समर्थग्रहणं किम्? भार्या राज्ञः, पुरुषो देवदत्तस्य। ‘सप्तमी शौण्डैः’ (२.१.४०)- अक्षेषु शौण्डः, अक्षशौण्डः। समर्थग्रहणं किम्? शक्तस्त्वमक्षेषु, शौण्डः पिबति पानागारे। पदग्रहणं किम्? वर्णविधौ समर्थपरिभाषा मा भूत्। तिष्ठतु दध्यशान त्वं शाकेन। तिष्ठतु कुमारीच्छत्रं हर देवदत्तात्। यणादेशो नित्यश्च तुग् भवति॥

सुबामन्त्रिते पराङ्गवत् स्वरे॥ २.१.२॥

सुबन्तमामन्त्रिते परतः परस्याङ्गवद् भवति, स्वरे स्वरलक्षणे कर्तव्ये। तादात्म्यातिदेशोऽयम्। सुबन्तमामन्त्रितमनुप्रविशति। वक्ष्यति- ‘आमन्त्रितस्य च’ (६.१.१९८)। आमन्त्रितस्यादिरुदात्तो भवति। स ससुप्कस्यापि यथा स्यात्। कुण्डे॑नाटन्। पर॑शुना वृश्चन्। मद्रा॑णां राजन्। कश्मी॑राणां राजन्। सुबिति किम्? पी॒ड्ये पी॑ड्यमान। आमन्त्रित इति किम्? गे॒हे गार्ग्यः॑। परग्रहणं किम्? पूर्वस्य मा भूत्। देव॑दत्त॒ कुण्डे॑नाटन्। अङ्गग्रहणं किम्? यथा मृत्पिण्डीभूतः स्वरं लभेत। उभयोराद्युदात्तत्वं मा भूत्। वत्करणं किम्? स्वाश्रयमपि कार्यं यथा स्यात्। आं कुण्डे॑नाटन्। ‘आम एकान्तरमामन्त्रितमनन्तिके’ (८.१.५५) इत्येकान्तरता भवति। स्वर इति किम्? कूपे सिञ्चन्। चर्म नमन्। षत्वणत्वे (८.३.५९; ८.४.२) प्रति पराङ्गवद् न भवति॥ सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यानमननन्तरत्वात्॥ तीक्ष्ण॑या सूच्या सीव्यन्। तीक्ष्णे॑न परशुना वृश्चन्॥ अव्ययानां प्रतिषेधो वक्तव्यः॥ उ॒च्चैर॑धीयान। नी॒चैर॑धीयान॥

प्राक् कडारात् समासः॥ २.१.३॥

कडारसंशब्दनात् प्राग् यानित ऊर्ध्वमनुक्रमिष्यामः, ते समाससंज्ञा वेदितव्याः। वक्ष्यति- ‘यथासादृश्ये’ (२.१.७)- यथावृद्धं ब्राह्मणानामन्त्रयस्व। प्राग्वचनं संज्ञासमावेशार्थम्। समासप्रदेशाः- ‘तृतीयासमासे’ (१.१.३०) इत्येवमादयः॥

सह सुपा॥ २.१.४॥

सुबिति वर्तते। सुबिति सहेति सुपेति च त्रयमप्यधिकृतं वेदितव्यम्। यदित ऊर्ध्वमनुक्रमिष्यामः, तत्रेदमुपस्थितं द्रष्टव्यम्। वक्ष्यति- ‘द्वितीया श्रिता०’ (२.१.२४) इति। द्वितीयान्तं श्रितादिभिः सह समस्यते। कष्टं श्रितः, कष्टश्रितः। सहग्रहणं योगविभागार्थम्, तिङापि सह यथा स्यात्। अनुव्यचलत्। अनुप्रावर्षत्॥

अव्ययीभावः॥ २.१.५॥

अव्ययीभाव इत्यधिकारो वेदितव्यः। यानित ऊर्ध्वमनुक्रमिष्यामः, अव्ययीभावसंज्ञास्ते वेदितव्याः। वक्ष्यति- ‘यथासादृश्ये’ (२.१.७)- यथावृद्धं ब्राह्मणानामन्त्रयस्व। अन्वर्थसंज्ञा चेयं महती पूर्वपदार्थप्राधान्यमव्ययीभावस्य दर्शयति। अव्ययीभावप्रदेशाः- ‘अव्ययीभावश्च’ (२.४.१८) इत्येवमादयः॥

**अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्द-प्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु॥ २.१.६॥ **

सुप् सुपेति च वर्तते। विभक्त्यादिष्वर्थेषु यदव्ययं वर्तते, तत् समर्थन सुबन्तेन सह समस्यते, अव्ययीभावश्च समासो भवति। वचनग्रहणं प्रत्येकं संबध्यते। विभक्तिवचने तावत्- स्त्रीष्वधिकृत्य कथा प्रवर्तते, अधिस्त्रि। अधिकुमारि। सप्तम्यर्थ यदव्ययं तद् विभक्तिवचनम्। समीपवचने- कुम्भस्य समीपम्, उपकुम्भम्। उपमणिकम्। समृद्धिर्ऋद्धेराधिक्यम्। समृद्धिर्मद्राणाम्, सुमद्रम्, सुमगधं वर्तते। व्यृद्धिर्ऋद्धेरभावः। गवदिकानामृद्धेरभावः, दुर्गवदिकम्, दुर्यवनं वर्तते। अर्थाभावो वस्तुनोऽभावः। अभावो मक्षिकाणाम्, निर्मक्षिकम्,निर्मशकं वर्तते। अत्ययो भूतत्वमतिक्रमः। अतीतानि हिमानि अतिहिमम्, निर्हिमम्, निःशीतं वर्तते। असंप्रति- उपभोगस्य वर्तमानकालप्रतिषेधः। अतितैसृकम्। तैसृकमाच्छादनम्, तस्यायमुपभोगकालो न भवतीत्यर्थः। शब्दप्रादुर्भावः प्रकाशता शब्दस्य इतिपाणिनि। तत्पाणिनि। पाणिनिशब्दो लोके प्रकाशत इत्यर्थः। पश्चात्- अनुरथं पादातम्। रथानां पश्चादित्यर्थः। यथा - यथार्थे यदव्ययं वर्तते तत् समस्यते। योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं चेति यथार्थाः। योग्यतायाम्- अनुरूपम्। रूपयोग्यं भवतीत्यर्थः। वीप्सायाम्-अर्थमर्थं प्रति प्रत्यर्थम्। पदार्थानतिवृत्तौ- यथाशक्ति। आनुपूर्व्यमनुक्रमः-अनुज्येष्ठं प्रविशन्तु भवन्तः। ज्येष्ठानुपूर्व्येण भवन्तः प्रविशन्त्वित्यर्थः। यौगपद्यमेककालता। सचक्रं धेहि। युगपच्चक्रं धेहीत्यर्थः। सादृश्यं तुल्यता। किमर्थमिदमुच्यते, यथार्थ इत्येव सिद्धम्? गुणभूतेऽपि सादृश्ये यथा स्यात्। सदृशः किख्या सकिखि। संपत्तिरनुरूप आत्मभावः समृद्धेरन्यः-सब्रह्म बाभ्रवाणाम्। सक्षत्रं शालङ्कायनानाम्। साकल्यमशेषता-सतृणमभ्यवहरति। सबुसम्। न किंचिदभ्यवहार्यं परित्यजतीत्ययमर्थोऽधिकार्थवचनेन प्रतिपाद्यते। अन्तवचने-अन्त इति परिग्रहापेक्षया समाप्तिरुच्यते। साग्नि अधीते। सेष्टि, सपशुबन्धम्। पशुबन्धान्तमधीत इत्यर्थः। इयं समाप्तिरसकलेऽप्यध्ययने भवतीति साकल्यात् पृथगुच्यते॥

यथासादृश्ये॥ २.१.७॥

यथेत्येतदव्ययमसादृश्ये वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। यथावृद्धं ब्राह्मणानामन्त्रयस्व। येये वृद्धाः, यथावृद्धम्। यथाध्यापकम्। असादृश्य इति किम्? यथा देवदत्तस्तथा यज्ञदत्तः। यथार्थे यदव्ययमिति पूर्वेणैव सिद्धे समासे वचनमिदं सादृश्यप्रतिषेधार्थम्॥

यावदवधारणे॥ २.१.८॥

यावदित्येतदव्ययमवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। अवधारणमियत्तापरिच्छेदः। यावदमत्रं ब्राह्मणानामन्त्रयस्व। यावन्ति पात्राणि संभवन्ति पञ्च षड् वा तावत आमन्त्रयस्व। अवधारण इति किम्? यावद् दत्तं तावद् भुक्तम्। नावधारयामि कियद् मया भुक्तमिति॥

सुप् प्रतिना मात्रार्थे॥ २.१.९॥

मात्रा बिन्दुः, स्तोकम्, अल्पमिति पर्यायाः। मात्रार्थे वर्तमानेन प्रतिना सह सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति। अस्त्यत्र किंचित् शाकम्, शाकप्रति। सूपप्रति। मात्रार्थ इति किम्? वृक्षं प्रति विद्योतते विद्युत्। सुबिति वर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थम्॥

अक्षशलाकासंख्याः परिणा॥ २.१.१०॥

अक्षशब्दः शलाकाशब्दः संख्याशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति। कितवव्यवहारे समासोऽयमिष्यते। पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति, तत्र यदा सर्व उत्तानाः पतन्त्यवाञ्चो वा तदा पातयिता जयति, तस्यैवैतस्य विपातोऽन्यथापाते सति जायते। अक्षेणेदं न तथा वृत्तं यथा पूर्वं जये, अक्षपरि। शलाकापरि। एकपरि। द्विपरि। त्रिपरि। परमेण चतुष्परि। पञ्चसु त्वेकरूपासु जय एव भविष्यति।

	अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तत्।

	कितवव्यवहारे च  एकत्वेऽक्षशलाकयोः॥

विभाषा॥ २.१.११॥

विभाषेत्ययमधिकारो वेदितव्यः। यदित ऊर्ध्वमनुक्रमिष्यामः, तद् विभाषा भवति। वक्ष्यति- ‘अपपरिबहिरञ्चवः पञ्चम्या’ (२.१.१२)-अपत्रिगर्तं वृष्टो देवः। अप त्रिगर्तेभ्यः॥

अपपरिबहिरञ्चवः पञ्चम्या॥ २.१.१२॥

अप परि बहिस् अञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति। अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः। परित्रिगर्तम्, परित्रिगर्तेभ्यः। बहिर्ग्रामम्, बहिर्ग्रामात्। प्राग्ग्रामम्, प्राग् ग्रामात्। बहिःशब्दयोगे पञ्चमीभावस्यैतदेव ज्ञापकम्॥

आङ् मर्यादाभिविध्योः॥ २.१.१३॥

आङित्येतद् मर्यादायामभिविधौ च वर्तमानं पञ्चम्यन्तेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात्। अभिविधौ-आकुमारं यशः पाणिनेः, आ कुमारेभ्यः॥

लक्षणेनाभिप्रती आभिमुख्ये॥ २.१.१४॥

लक्षणं चिह्नम्, तद्वाचिना सुबन्तेन सहाभिप्रती शब्दावाभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति। अभ्यग्नि शलभाः पतन्ति, अग्निमभि। प्रत्यग्नि, अग्निं प्रति। अग्निं लक्ष्यीकृत्य अभिमुखं पतन्तीत्यर्थः। लक्षणेनेति किम्? स्रुघ्नं प्रतिगतः। प्रतिनिवृत्त्य स्रुघ्नमेवाभिमुखं गतः। अभिप्रती इति किम्? येनाग्निस्तेन गतः। आभिमुख्य इति किम्? अभ्यङ्का गावः। प्रत्यङ्का गावः। नवाङ्का इत्यर्थः॥

अनुर्यत्समया ॥ २.१.१५॥

समया समीपम्। अनुर्यस्य समीपवाची, तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुवनमशनिर्गतः। अनुरिति किम्? वनं समया। यत्समयेति किम्? वृक्षमनु विद्योतते विद्युत्। ‘अव्ययं विभक्तिसमीप०’ (२.१.६) इत्येव सिद्धे पुनर्वचनं विभाषार्थम्॥

यस्य चायामः॥ २.१.१६॥

लक्षेणेनेति वर्तते। आयामो दैर्घ्यम्। अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुगङ्गं वाराणसी। अनुयमुनं मथुरा। यमुनायामेन मथुरायामो लक्ष्यते। आयाम इति किम्? वृक्षमनु विद्योतते विद्युत्॥

तिष्ठद्गुप्रभृतीनि च॥ २.१.१७॥

तिष्ठद्ग्वादयः समुदाया एव निपात्यन्ते। तिष्ठद्गुप्रभृतीनि शब्दरूपाण्यव्ययीभावसंज्ञकानि भवन्ति। तिष्ठद्गु कालविशेषः। तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालः। खलेयवादीनि प्रथमान्तानि विभक्त्यन्तरेण नैव संबध्यन्तेऽन्यपदार्थे च काले वर्तन्ते। चकारोऽवधारणार्थः। अपरः समासो न भवति परमतिष्ठद्ग्विति॥ तिष्ठद्गु। वहद्गु। आयातीगवम्। खलेयवम्। खलेबुसम्। लूनयवम्। लूयमानयवम्। पूतयवम्। पूयमानयवम्। संहृतयवम्। संह्रियमाणयवम्। संहृतबुसम्। संह्रियमाणबुसम्। एते कालशब्दाः। समभूमि। समपदाति। सुषमम्। विषमम्। निष्षमम्। दुष्षमम्। अपरसमम्। आयातीसमम्। प्राह्णम्। प्ररथम्। प्रमृगम्। प्रदक्षिणम्। अपरदक्षिणम्। संप्रति। असंप्रति। पापसमम्। पुण्यसमम्। इच् कर्मव्यतिहारे (ग०सू० १७)- दण्डादण्डि। मुसलामुसलि॥

पारे मध्ये षष्ठ्या वा॥ २.१.१८॥

षष्ठीसमासे प्राप्ते तदपवादोऽव्ययीभाव आरभ्यते। वावचनात् षष्ठीसमासोऽपि पक्षेऽभ्यनुज्ञायते। पारमध्यशब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति। तत्सन्नियोगेन चानयोरेकारान्तत्वं निपात्यते। पारं गङ्गायाः, पारेगङ्गम्। मध्यं गङ्गायाः, मध्येगङ्गम्। षष्ठीसमासपक्षे-गङ्गापारम्। गङ्गामध्यम्। महाविभाषया वाक्यविकल्पः क्रियते॥

संख्या वंश्येन ॥ २.१.१९॥

विद्यया जन्मना वा प्राणिनामेकलक्षणसंतानो वंश इत्यभिधीयते। तत्र भवो वंश्यः तद्वाचिना सुबन्तेन सह संख्या समस्यते, अव्ययीभावश्च समासो भवति। द्वौ मुनी व्याकरणस्य वंश्यौ, द्विमुनि व्याकरणस्य। त्रिमुनि व्याकरणस्य। यदा तु विद्यया तद्वतामभेदविवक्षा तदा सामानाधिकरण्यं भवति। द्विमुनि व्याकरणम्, त्रिमुनि व्याकरणमिति। जन्मना- एकविंशतिभारद्वाजम्॥

नदीभिश्च॥ २.१.२०॥

संख्येत्यनुवर्तते। नदीवचनैः शब्दैः सह संख्या समस्यते, अव्ययीभावश्च समासो भवति। समाहारे चायमिष्यते। सप्तगङ्गम्। द्वियमुनम्। पञ्चनदम्। सप्तगोदावरम्॥

अन्यपदार्थे च संज्ञायाम्॥ २.१.२१॥

संख्येति निवृत्तम्, नदीग्रहणमनुवर्तते। नदीभिः सह सुबन्तमन्यपदार्थे वर्तमानं संज्ञायां विषये समस्यते, अव्ययीभावश्च समासो भवति। विभाषाधिकारेऽपि नित्यसमास एवायम्। नहि वाक्येन संज्ञा गम्यते। उन्मत्तगङ्गं नाम देशः। लोहितगङ्गम्। कृष्णगङ्गम्। शनैर्गङ्गम्। अन्यपदार्थ इति किम्? कृष्णवेण्णा। संज्ञायामिति किम्? शीघ्रगङ्गो देशः॥

तत्पुरुषः॥ २.१.२२॥

तत्पुरुष इति संज्ञाधिक्रियते प्राग् बहुव्रीहेः (२.२.२३)। यानित ऊर्ध्वमनुक्रमिष्यामः, तत्पुरुषसंज्ञास्ते वेदितव्याः। वक्ष्यति- ‘द्वितीया श्रितातीतपतित०’ (२.१.२४) इति- कष्टश्रितः। पूर्वाचार्यसंज्ञा चेयं महती, तदङ्गीकरणमुपाधेरपि तदीयस्य परिग्रहार्थम्- उत्तरपदार्थप्रधानस्तत्पुरुष इति। तत्पुरुषप्रदेशाः- ‘तत्पुरुषे कृति बहुलम्’ (६.३.१४) इत्येवमादयः ॥

द्विगुश्च॥ २.१.२३॥

द्विगुश्च समासस्तत्पुरुषसंज्ञो भवति। द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजनम्। पञ्चराजम्। दशराजम्। द्व्यहः। त्र्यहः। पञ्चगवम्। दशगवम्॥

द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः॥ २.१.२४॥

सुप् सुपेति वर्तते, तस्य विशेषणमेतद् द्वितीया श्रितादयश्च। द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। कष्टं श्रितः, कष्टश्रितः। नरकश्रितः। अतीत- कान्तारमतीतः, कान्तारातीतः। पतित- नरकं पतितः, नरकपतितः। गत- ग्रामं गतः, ग्रामगतः। अत्यस्त- तरङ्गानत्यस्त, तरङ्गात्यस्तः। तुहिनात्यस्तः। प्राप्त- सुखं प्राप्तः, सुखप्राप्तः। आपन्न- सुखमापन्नः, सुखापन्नः। दुःखापन्नः॥ श्रितादिषु गमिगाम्यादीनामुपसंख्यानम्॥ ग्रामं गमी, ग्रामगमी। ग्रामं गामी, ग्रामगामी। ओदनं बुभुक्षुः, ओदनबुभुक्षुः॥

स्वयं क्तेन॥ २.१.२५॥

स्वयमेतदव्ययमात्मनेत्यस्यार्थे वर्तते, तस्य द्वितीयया सह संबन्धो नोपपद्यत इति द्वितीयाग्रहणमुत्तरार्थमनुवर्तते। स्वयमित्येतत्सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। स्व॒यंधौ॑तौ पादौ। स्व॒यंवि॑लीनमाज्यम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति॥

खट्वा क्षेपे॥ २.१.२६॥

खट्वाशब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति। क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषाधिकारेऽपि नित्यसमास एवायम्, नहि वाक्येन क्षेपो गम्यते। खट्वारोहणं चेह विमार्गप्रस्थानस्योपलक्षणम्। सर्व एवाविनीतः खट्वारूढ इत्युच्यते। खट्वारूढो जाल्मः। खट्वाप्लुतः। अपथप्रस्थित इत्यर्थः। क्षेप इति किम्? खट्वामारूढः॥

सामि॥ २.१.२७॥

सामीत्येतदव्ययमर्धशब्दपर्यायः, तस्यासत्त्ववाचित्वाद् द्वितीयया नास्ति संबन्धः। तत् सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। सा॒मिकृत॑म्। सा॒मिपी॑तम्। सा॒मिभु॑क्तम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति॥

**काला ः॥ २.१.२८॥ **

द्वितीया क्तेनेति वर्तते। कालवाचिनः शब्दा द्वितीयान्ताः क्तान्तेन सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति। अनत्यन्तसंयोगार्थं वचनम्। काला इति न स्वरूपविधिः। षण्मुहूर्ताश्चराचराः। ते कदाचिदहर्गच्छन्ति कदाचिद् रात्रिम्। अहरतिसृता मूहूर्ताः। अहस्संक्रान्ताः। रात्र्यतिसृता मुहूर्ताः। रात्रिसंक्रान्ताः। मासप्रमितश्चन्द्रमाः। मासं प्रमातुमारब्धः प्रतिपच्चन्द्रमा इत्यर्थः॥

अत्यन्तसंयोगे च॥ २.१.२९॥

काला इति वर्तते, क्तेनेति निवृत्तम्। अत्यन्तसंयोगः कृत्स्नसंयोगः, कालस्य स्वेन संबन्धिना व्याप्तिः। कालवाचिनः शब्दा द्वितीयान्ता अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति। मुहूर्तं सुखम्, मूहूर्तसुखम्। सर्वरात्रकल्याणी। सर्वरात्रशोभना॥

तृतीया तत्कृतार्थेन गुणवचनेन॥ २.१.३०॥

सुप् सुपेति वर्तते, तस्य विशेषणमेतत्। तृतीयान्तं सुबन्तं गुणवचनेनार्थशब्देन च सह समस्यते, तत्पुरुषश्च समासो भवति। कीदृशेन गुणवचनेन? तत्कृतेन तदर्थकृतेन, तृतीयान्तार्थकृतेनेति यावत्। शङ्कुलया खण्डः, शङ्कुलाखण्डः। किरिणा काणः, किरिकाणः। अर्थशब्देन- धान्येनार्थः, धान्यार्थः। तत्कृतेनेति किम्? अक्ष्णा काणः। गुणवचनेनेति किम्? गोभिर्वपावान्॥

पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः॥ २.१.३१॥

पूर्व सदृश सम ऊनार्थ कलह निपुण मिश्र श्लक्ष्ण इत्येतैः सह तृतीयान्तं समस्यते, तत्पुरुषश्च समासो भवति। अस्मादेव वचनात् पूर्वादिभिर्योगे तृतीया भवति, हेतौ वा द्रष्टव्या। मासेन पूर्वः, मासपूर्वः। संवत्सरपूर्वः। सदृश-मातृसदृशः। पितृसदृशः। सम-मातृसमः। पितृसमः। ऊनार्थ-माषोनम्। कार्षापणोनम्। माषविकलम्। कार्षापण-विकलम्। कलह-असिकलहः। वाक्कलहः। निपुण- वाग्निपुणः। आचारनिपुणः। मिश्र- गुडमिश्रः। तिलमिश्रः। श्लक्ष्ण- आचारश्लक्ष्णः॥ पूर्वादिष्ववरस्योपसंख्यानम्॥ मासेनावरः, मासावरः। संवत्सरावरः॥

कर्तृकरणे कृता बहुलम्॥ २.१.३२॥

तृतीयेति वर्तते। कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह समस्यते बहुलम्, तत्पुरुषश्च समासो भवति। सर्वोपाधिव्यभिचारार्थं बहुलग्रहणम्। कर्तरि-अहिना हतः, अहिहतः। करणे-नखैर्निर्भिन्नः, नखनिर्भिन्नः। परशुना छिन्नः, परशुच्छिन्नः। कर्तृकरण इति किम्? भिक्षाभिरुषितः। बहुलग्रहणं किम्? दात्रेण धान्यं लूनवान्, परशुना छिन्नवान् इह समासो न भवति। पादहारकः, गलेचोपक इति च भवति॥

कृत्यैरधिकार्थवचने॥ २.१.३३॥

स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनमधिकार्थवचनम्। कर्तृकरणयोर्या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यतेऽधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति। कर्ता- काकपेया नदी। श्वलेह्यः कूपः। करणम्- बाष्पच्छेद्यानि तृणानि। कण्टकसंचेय ओदनः। पूर्वस्यैवायं प्रपञ्चः॥ कृत्यग्रहणे यण्ण्यतोर्ग्रहणं कर्तव्यम्॥ इह मा भूत्- काकैः पातव्या इति॥

अन्नेन व्यञ्जनम्॥ २.१.३४॥

तृतीयेति वर्तते। व्यञ्जनवाचि तृतीयान्तमन्नवाचिना सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति। संस्कार्यमन्नम्, संस्कारकं व्यञ्जनम्। दध्ना उपसिक्त ओदनः, दध्योदनः। क्षीरौदनः। वृत्तौ क्रियाया अन्तर्भावादन्नव्यञ्जनयोः सामर्थ्यम्॥

भक्ष्येण मिश्रीकरणम्॥ २.१.३५॥

मिश्रीकरणवाचि तृतीयान्तं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। खरविशदमभ्यवहार्यं भक्ष्यम्, तस्य संस्कारकं मिश्रीकरणम्। गुडेन मिश्रा धानाः, गुडधानाः। गुडपृथुकाः। वृत्तौ क्रियाया अन्तर्भावात् पूर्वोत्तरपदयोः सामर्थ्यम्॥

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः॥ २.१.३६॥

सुप् सुपेति वर्तते,तस्य विशेषणमेतत्। तदिति सर्वनाम्ना चतुर्थ्यन्तस्यार्थः परामृश्यते। तस्मै इदं तदर्थम्। तदर्थ अर्थ बलि हित सुख रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। तदर्थेन प्रकृतिविकारभावे समासोऽयमिष्यते। यूपाय दारु, यूपदारु। कुण्डलाय हिरण्यम्, कुण्डलहिरण्यम्। इह न भवति- रन्धनाय स्थाली, अवहन-नायोलूखलमिति। चतुर्थी चास्मादेव ज्ञापकात् तादर्थ्ये भवति॥ अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या॥ ब्राह्मणार्थं पयः। ब्राह्मणार्था यवागूः। बलि-कुबेराय बलिः, कुबेरबलिः। महाराजबलिः। हित-गोहितम्। अश्वहितम्। सुख- गोसुखम्। अश्वसुखम्। रक्षित-गोरक्षितम्। अश्वरक्षितम्॥

पञ्चमी भयेन॥ २.१.३७॥

सुप् सुपेति वर्तते, तस्य विशेषणमेतत्। पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति। वृकेभ्यो भयम्, वृकभयम्। चौरभयम्। दस्युभयम्॥ भयभीतभीतिभीभिरिति वक्तव्यम्॥ वृकेभ्यो भीतः, वृकभीतः। वृकभीतिः। वृकभीः। पूर्वस्यैवायं बहुलग्रहणस्य प्रपञ्चः। तथा च ग्रामनिर्गतः अधर्मजुगुप्सुरित्येवमादि सिद्धं भवति॥

**अपेतापोढमुक्तपतितापत्रस्तैरल्पशः॥ २.१.३८॥ **

अपेत अपोढ मुक्त पतित अपत्रस्त इत्येतैः सह पञ्चम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। अपेत-सुखापेतः। अपोढ-कल्पनापोढः। मुक्त-चक्रमुक्तः। पतित-स्वर्गपतितः अपत्रस्त-तरङ्गापत्रस्तः। अल्पश इति समासस्याल्पविषयतामाचष्टे। अल्पा पञ्चमी समस्यते, न सर्वा। प्रासादात् पतितः, भोजनादपत्रस्त इत्येवमादौ न भवति। ‘कर्तृकरणे कृता बहुलम्’ (२.१.३२) इत्यस्यैवायं प्रपञ्चः॥

स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन॥ २.१.३९॥

स्तोक अन्तिक दूर इत्येवमर्थाः शब्दाः कृच्छ्रशब्दश्च पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। स्तोक- स्तोकान्मुक्तः। अन्तिक- अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान्मुक्तः। कृच्छ्राल्लब्धः। ‘पञ्चम्याः स्तोकादिभ्यः’ (६.३.२) इत्यलुक्॥ शतसहस्रौ परेणेति वक्तव्यम्॥ शतात् परे, परश्शताः। सहस्रात् परे परस्सहस्राः। राजदन्तादित्वात् परनिपातः। निपातनात्। सुडागमः॥

सप्तमी शौण्डैः॥ २.१.४०॥

सप्तम्यन्तं शौण्डादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। अक्षेषु शौण्डः, अक्षशौण्डः। अक्षधूर्तः। अक्षकितवः॥ शौण्ड। धूर्त। कितव। व्याड। प्रवीण। संवीत। अन्तर्। अन्तश्शब्दस्त्वत्राधिकरणप्रधान एव पठ्यते। अधि। पटु। पण्डित। कुशल। चपल। निपुण। वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादक्षादिष्वधिकरणे सप्तमी॥

सिद्धशुष्कपक्वबन्धैश्च॥ २.१.४१॥

सप्तमीति वर्तते। सिद्ध शुष्क पक्व बन्ध इत्येतैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। सांकाश्यसिद्धः। काम्पिल्यसिद्धः। शुष्क-आतपशुष्कः। छायाशुष्कः। पक्व-स्थालीपक्वः। कुम्भीपक्वः। बन्ध- चक्रबन्धः। बहुलग्रहणस्यैवायमुदाहरणप्रपञ्चः॥

ध्वाङ्क्षेण क्षेपे॥ २.१.४२॥

ध्वाङ्क्षेणेत्यर्थग्रहणम्। ध्वाङ्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति, क्षेपे गम्यमाने। तीर्थे ध्वाङ्क्ष इव, तीर्थध्वाङ्क्षः। अनवस्थित इत्यर्थः। तीर्थकाकः। तीर्थवायसः। क्षेप इति किम्? तीर्थे ध्वाङ्क्षस्तिष्ठति॥

कृत्यैर्ऋणे॥ २.१.४३॥

सप्तमीति वर्तते। कृत्यप्रत्ययान्तैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति, ऋणे गम्यमाने। यत्प्रत्ययान्तेनैव समास इष्यते। मासे देयमृणम्, मासदेयम्। संवत्सरदेयम्। त्र्यहदेयम्। ऋणग्रहणं नियोगोपलक्षणार्थम्। तेनेहापि समासो भवति- पूर्वाह्णे गेयं साम, पूर्वाह्णगेयम्। प्रातरध्येयोऽनुवाकः। ऋण इति किम्? मासे देया भिक्षा॥

संज्ञायाम्॥ २.१.४४॥

संज्ञायां विषये सप्तम्यन्तं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। संज्ञा समुदायोपाधिः। तेन नित्यसमास एवायम्, नहि वाक्येन संज्ञा गम्यते। अरण्येतिलकाः। अरण्येमाषाः। वनेकिंशुकाः। वनेबिल्वकाः। कूपेपिशाचकाः। ‘हलदन्तात् सप्तम्याः संज्ञायाम्’ (६.३.९) इत्यलुक्॥

क्तेनाहोरात्रावयवाः॥ २.१.४५॥

अहरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूर्वाह्णकृतम्। अपराह्णकृतम्। पूर्वरात्रकृतम्। अपररात्रकृतम्। अवयवग्रहणं किम्? एतत् तु ते दिवा वृत्तं रात्रौ वृत्तं च द्रक्ष्यसि। अहनि भुक्तम्, रात्रौ वृत्तम्। बहुलग्रहणाद् रात्रिवृत्तम्, संध्यागर्जितमित्यादयः॥

तत्र॥ २.१.४६॥

तत्रेत्येतत् सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। तत्रभुक्तम्। तत्रकृतम्। तत्रपीतम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति॥

क्षेपे॥ २.१.४७॥

क्षेपो निन्दा। क्षेपे गम्यमाने सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। अवतप्तेनकुलस्थितं तवैतत्। चापलमेतत् तव, अनवस्थितत्वं तवैतदित्यर्थः। उदकेविशीर्णम्। प्रवाहेमूत्रितम्। भस्मनिहुतम्। निष्फलं यत् क्रियते तदेवमुच्यते। ‘तत्पुरुषे कृति बहुलम्’ (६.३.१४) इत्यलुक्॥

पात्रेसमितादयश्च॥ २.१.४८॥

समुदाया एव निपात्यन्ते। पात्रेसमितादयः शब्दास्तत्पुरुषसंज्ञा भवन्ति क्षेपे गम्यमाने। ये चात्र क्तान्तेन सह समासाः, तेषां पूर्वेणैव सिद्धे पुनः पाठो युक्तारोह्यादिपरिग्रहार्थः, पूर्वपदाद्युदात्तत्वं यथा स्यादिति। युक्तारोह्यादिषु (६.२.८१) हि ‘पात्रेसमितादयश्च’ (ग०सू० १७४) इति पठ्यते। पात्रेसमिताः। पात्रेबहुलाः। अवधारणेन क्षेपो गम्यते, पात्र एव समिताः, न पुनः क्वचित् कार्य इति। उदुम्बरमशकादिषूपमया क्षेपः। मातरिपुरुष इति प्रतिषिद्धसेवनेन। पिण्डीशूरादिषु निरीहतया। अव्यक्तत्वाच्चाकृतिगणोऽयम्॥ पात्रेसमिताः। पात्रेबहुलाः। उदुम्बरमशकाः। उदरक्रिमिः। कूपकच्छपः। कृपचूर्णकः। अवटकच्छपः। कूपमण्डूकः।कुम्भमण्डूकः। उदपानमण्डूकः। नगरकाकः। नगरवायसः। मातरिपुरुषः। पिण्डीशूरः। पितरिशूरः। गेहेशूरः। गेहेनर्दी। गेहेक्ष्वेडी। गेहेविजिती। गेहेव्याडः। गेहेमेही। गेहेदाही। गेहेदृप्तः। गेहेधृष्टः। गर्भेतृप्तः। आखनिकबकः। गोष्ठेशूरः। गोष्ठेविजिती। गोष्ठेक्ष्वेडी। गोष्ठेपटुः। गोष्ठेपण्डितः। गोष्ठेप्रगल्भः। कर्णेटिट्टिभः। कर्णेटिरिटिरा। कर्णेचुरचुरा। चकारोऽवधारणार्थः, तेन समासान्तरं न भवति-परमपात्रेसमिता इति॥

पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन॥ २.१.४९॥

सुप् सुपा इति वर्तते, तस्य विशेषणमेतत्। पूर्वकाल एक सर्व जरत् पुराण नव केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। भिन्नप्रवृत्तिनिमित्तप्रयुक्तस्य शब्दस्यैकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्। पूर्वकाल इत्यर्थनिर्देशः, परिशिष्टानां स्वरूपग्रहणम्। पूर्वकालोऽपरकालेन समस्यते। स्नातानुलिप्तः। कृष्टसमीकृतम्। दग्धप्ररूढम्। एकशाटी। एकभिक्षा। सर्वदेवाः। सर्वमनुष्याः। जरद्धस्ती। जरद्गृष्टिः। जरद्वृत्तिः। पुराणान्नम्। पुराणावसथम्। नवान्नम्। नवावसथम्। केवलान्नम्। समानाधिकरणेनेति किम्? एकस्याः शाटी॥

दिक्संख्ये संज्ञायाम्॥ २.१.५०॥

समानाधिकरणेन इत्या पादसमाप्तेरनुवर्तते। दिग्वाचिनः शब्दाः संख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति संज्ञायां विषये। पूर्वेषुकामशमी। अपरेषुकामशमी। संख्या-पञ्चाम्राः। सप्तर्षयः। संज्ञायमिति किम्? उत्तरा वृक्षाः। पञ्च ब्राह्मणाः॥

तद्धितार्थोत्तरपदसमाहारे च॥ २.१.५१॥

दिक्संख्ये इत्यनुवर्तते। तद्धितार्थे विषय उत्तरपदे च परतः समाहारे चाभिधेये दिक्संख्ये समानाधिकरणेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। तद्धितार्थे तावत्-पूर्वस्यां शालायां भवः-‘दिक्पूर्वपदादसंज्ञायां ञः’ (४.२.१०७)-पौर्वशालः। आपरशालः। उत्तरपदे- पूर्वशालाप्रियः। अपरशालाप्रियः। समाहारे दिक्शब्दो न संभवति। संख्या तद्धितार्थे-पाञ्चनापितिः। पञ्चकपालः। उत्तरपदे- पञ्चगवधनः। दशगवधनः। समाहारे-पञ्चपूली। दशपूली। पञ्चकुमारि। दशकुमारि। ‘स नपुंसकम्’ (२.४.१७) इति नपुंसकत्वम्, ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ (१.२.४७) इति ह्रस्वत्वम्॥

संख्यापूर्वो द्विगुः॥ २.१.५२॥

तद्धितार्थोत्तरपदसमाहारे चेत्यत्र यः संख्यापूर्वः समासः स द्विगुसंज्ञो भवति। तद्धितार्थे तावत्- पञ्चसु कपालेषु संस्कृतः, पञ्चकपालः, दशकपालः। ‘संस्कृतं भक्षाः’ (४.२.१६) इतीहाण्, तस्य ‘द्विगोर्लुगनपत्ये’ (४.१.८८) इति लुक्। उत्तरपदे-पञ्चनावप्रियः। ‘नावो द्विगोः’ (५.४.९९) इति समासान्तो भवति। समाहारे-पञ्चपूली। ‘द्विगोः’ (४.१.२१) इति ङीब् भवति। द्विगुप्रदेशाः ‘द्विगोः’ (४.१.२१) इत्येवमादयः॥

कुत्सितानि कुत्सनैः॥ २.१.५३॥

कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। शब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते। ‘विशेषणं विशेष्येण०’ (२.१.५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। वैयाकरणखसूचिः। निष्प्रतिभ इत्यर्थः। याज्ञिककितवः। अयाज्ययाजनतृष्णापर उच्यते। मीमांसकदुर्दुरूढो नास्तिकः। कुत्सितानीति किम्? वैयाकरणश्चौरः। नह्यत्र वैयाकरणत्वं कुत्स्यते। कुत्सनैरिति किम्? कुत्सितो ब्राह्मणः॥

पापाणके कुत्सितैः॥ २.१.५४॥

पापाणकशब्दौ कुत्सनाभिधायिनौ, तयोः पूर्वेण समासे परनिपातः प्राप्तः, पूर्वनिपातार्थमिदमारभ्यते। पाप अणक एते सुबन्ते कुत्सितवचनैस्सह समस्येते, तत्पुरुषश्च समासो भवति। पापनापितः। पापकुलालः। अणकनापितः। अणककुलालः॥

उपमानानि सामान्यवचनैः॥ २.१.५५॥

उपमीयतेऽनेनेत्युपमानम्। उपमानवाचीनि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। उपमानोपमेययोः साधारणो धर्मः सामान्यम्, तद्विशिष्टोपमेयवचनैरयं समासः। शस्त्रीव श्यामा,शस्त्रीश्यामा देवदत्ता। कुमुदश्येनी। हंसगद्गदा। न्यग्रोधपरिमण्डला। उपमानानीति किम्? देवदत्ता श्यामा। सामान्यवचनैरिति किम्? फाला इव तण्डुलाः। पर्वता इव बलाहकाः॥

उपमितं व्याघ्रादिभिः सामान्याप्रयोगे॥ २.१.५६॥

उपमेयमुपमितम्, तद्वाचि सुबन्तं व्याघ्रादिभिः सामर्थ्याद् उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति, न चेत् सामान्यवाची शब्दः प्रयुज्यते। ‘विशेषणं विशेष्येण०’ (२.१.५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः। पुरुषसिंहः। सामान्याप्रयोग इति किम्? पुरुषोऽयं व्याघ्र इव शूरः॥ व्याघ्र। सिंह। ऋक्ष। ऋषभ। चन्दन। वृक्ष। वृष। वराह। हस्तिन्। कुञ्जर। रुरु। पृषत। पुण्डरीक। बलाहक। आकृतिगणश्चायम्, तेनेदमपि भवति-मुखपद्मम्। मुखकमलम्। करकिसलयम्। पार्थिवचन्द्र इत्येवमादि॥

विशेषणं विशेष्येण बहुलम्॥ २.१.५७॥

भेदकं विशेषणम, भेद्यं विशेष्यम्। विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति। नीलोत्पलम्। रक्तोत्पलम्। बहुलवचनं व्यवस्थार्थम्। क्वचिन्नित्यसमास एव। कृष्णसर्पः। लोहितशालिः। क्वचिन्न भवत्येव-रामो जामदग्न्यः। अर्जुनः कार्तवीर्यः। क्वचिद् विकल्पः-नीलमुत्पलम्, नीलोत्पलम्। विशेषणमिति किम्? तक्षकः सर्पः। विशेष्येणेति किम्? लोहितस्तक्षकः॥

पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च॥ २.१.५८॥

पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूर्वपुरुषः। अपरपुरुषः। प्रथमपुरुषः। चरमपुरुषः। जघन्यपुरुषः। समानपुरुषः। मध्यपुरुषः। मध्यमपुरुषः। वीरपुरुषः। पूर्वस्यैवायं प्रपञ्चः॥

श्रेण्यादयः कृतादिभिः॥ २.१.५९॥

श्रेण्यादयः सुबन्ताः कृतादिभिः समानाधिकरणैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति॥ श्रेण्यादिषु च्व्यर्थवचनम्॥ अश्रेणयः श्रेणयः कृताः, श्रेणिकृताः। एककृताः। श्रेण्यादयः पठ्यन्ते। कृतादिराकृतिगणः। च्व्यन्तानां तु ‘कुगतिप्रादयः’ (२.२.१८) इत्यनेन नित्यसमासः। श्रेणीकृताः॥ श्रेणि। एक। पूग। कुण्ड। राशि। विशिख। निचय। निधान। इन्द्र। देव। मुण्ड। भूत। श्रवण। वदान्य। अध्यापक। अभिरूपक। ब्राह्मण। क्षत्रिय। पटु। पण्डित। कुशल। चपल। निपुण। कृपण इति श्रेण्यादिः॥ कृत। मित। मत। भूत। उक्त। समाज्ञात। समाम्नात। समाख्यात। संभावित। अवधारित। निराकृत। अवकल्पित। उपकृत। उपाकृत इति कृतादिः॥

क्तेन नञ्विशिष्टेनानञ्॥ २.१.६०॥

नञैव विशेषो यस्य सर्वमन्यत् प्रकृत्यादिकं तुल्यम्, तद् नञ्विशिष्टम्, तेन नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सहानञ् क्तान्तं समस्यते, तत्पुरुषश्च समासो भवति। कृतं च तदकृतं च, कृताकृतम्। भुक्ताभुक्तम्। पीतापीतम्। उदितानुदितम्। नुडिटौ तद्भक्तत्वान्नैव भेदकौ। अशितानशितेन जीवति। क्लिष्टाक्लिशितेन वर्तते॥ कृतापकृतादीनामुपसंख्यानम्॥ कृतापकृतम्। भुक्तविभुक्तम्। पीतविपीतम्। गतप्रत्यागतम्। यातानुयातम्। क्रयाक्रयिका। पुटापुटिका। फलाफलिका। मानोन्मानिका॥ समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च॥ शाकप्रधानः पार्थिवः, शाकपार्थिवः। कुतपसौश्रुतः। अजातौल्वलिः॥

सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः॥ २.१.६१॥

सत् महत् परम उत्तम उत्कृष्ट इत्येते पूज्यमानैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूज्यमानैरिति वचनात् पूजावचनाः सदादयो विज्ञायन्ते। सत्पुरुषः। महापुरुषः। परमपुरुषः। उत्तमपुरुषः। उत्कृष्टपुरुषः। पूज्यमानैरिति किम्? उत्कृष्टो गौः कर्दमात्॥

**वृन्दारकनागकुञ्जरैः पूज्यमानम्॥ २.१.६२॥ **

वृन्दारक नाग कुञ्जर इत्येतैः सह पूज्यमानवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति। पूज्यमानमिति वचनाद् वृन्दारकादयः पूजावचना गृह्यन्ते। गोवृन्दारकः। अश्ववृन्दारकः। गोनागः। अश्वनागः। गोकुञ्जरः। अश्वकुञ्जरः। पूज्यमानमिति किम्? सुषीमो नागः॥

कतरकतमौ जातिपरिप्रश्ने॥ २.१.६३॥

कतरकतमौ जातिपरिप्रश्ने वर्तमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। कतरकठः । कतरकालापः। कतमकठः। कतमकालापः। ननु कतमशब्दस्तावज् जातिपरिप्रश्न एव व्युत्पादितः, कतरशब्दोऽपि साहचर्यात् तदर्थवृत्तिरेव ग्रहीष्यते, किं जातिपरिप्रश्नग्रहणेन? एवं तर्ह्येतज् ज्ञापयति-कतमशब्दोऽन्यत्रापि वर्तत इति। तथा च प्रत्युदाहरणम्, कतरो भवतोर्देवदत्तः। कतमो भवतां देवदत्तः॥

किं क्षेपे॥ २.१.६४॥

किमित्येतत् क्षेपे गम्यमाने सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। किंराजा, यो न रक्षति। किंसखा, योऽभिद्रुह्यति। किंगौः, यो न वहति। ‘किमः क्षेपे’ (५.४.७०) इति समासान्तो न भवति। क्षेप इति किम्? को राजा पाटलिपुत्रे॥

पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रिया-ध्यापकधूर्तैर्जातिः॥ २.१.६५॥

उभयव्यञ्जना पोटेत्यभिधीयते। गृष्टिरेकवारप्रसूता। धेनुः प्रत्यग्रप्रसूता। वशा वन्ध्या। वेहद् गर्भपातिनी। बष्कयणी तरुणवत्सा। पोटादिभिः सह जातिवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति। इभपोटा। इभयुवतिः। अग्निस्तोकः। उदश्वित्कतिपयम्। गोगृष्टिः। गोधेनुः। गोवशा। गोवेहत्। गोबष्कयणी। कठप्रवक्ता। कठश्रोत्रियः। कठाध्यापकः। कठधूर्तः। जातिरिति किम्? देवदत्तः प्रवक्ता। धूर्तग्रहणमकुत्सार्थम्॥

प्रशंसावचनैश्च॥ २.१.६६॥

जातिरिति वर्तते। जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति। रूढिशब्दाः प्रशंसावचना गृह्यन्ते मतल्लिकादयः। ते चाविष्टलिङ्गत्वादन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादाना एव समानाधिकरणा भवन्ति। गोप्रकाण्डम्। अश्वप्रकाण्डम्। गोमतल्लिका। अश्वमतल्लिका। गोमचर्चिका। अश्वमचर्चिका। जातिरिति किम्? कुमारी मतल्लिका॥

युवा खलतिपलितवलिनजरतीभिः॥ २.१.६७॥

खलत्यादिभिः समानाधिकरणैः सह युवशब्दः समस्यते, तत्पुरुषश्च समासो भवति। जरतीभिरिति स्त्रीलिङ्गनिर्देशः ‘प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्’ इति ज्ञापनार्थः। युवा खलतिः, युवखलतिः। युवतिः खलती, युवखलती। युवा पलितः, युवपलितः। युवतिः पलिता, युवपलिता। युवा वलिनः, युववलिनः। युवतिर्वलिना, युववलिना। युवा जरन्, युवजरन्। युवतिर्जरती, युवजरती॥

कृत्यतुल्याख्या अजात्या॥ २.१.६८॥

कृत्यप्रत्ययान्तास्तुल्यपर्यायाश्च सुबन्ता अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। भोज्योष्णम्। भोज्यलवणम्। पानीयशीतम्। तुल्याख्याः-तुल्यश्वेतः। तुल्यमहान्। सदृशश्वेतः। सदृशमहान्। अजात्येति किम्? भोज्य ओदनः॥

वर्णो वर्णेन॥ २.१.६९॥

वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति। कृष्णसारङ्गः। लोहितसारङ्गः। कृष्णशबलः। लाहितशबलः। अवयवद्वारेण कृष्णशब्दः समुदाये वर्तमानः समानाधिकरणो भवति॥

कुमारः श्रमणादिभिः॥ २.१.७०॥

कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। येऽत्र स्त्रीलिङ्गाः पठ्यन्ते श्रमणा, प्रव्रजिता, कुलटेत्येवमादयः, तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते। ये तु पुँल्लिङ्गा अध्यापकोऽभिरूपकः पण्डित इति, तैरुभयथा ‘प्रातिपदिग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्’ इति। कुमारी श्रमणा, कुमारश्रमणा॥ श्रमणा। प्रव्रजिता। कुलटा। गर्भिणी। तापसी। दासी। बन्धकी। अध्यापक। अभिरूपक। पण्डित। पटु। मृदु। कुशल। चपल। निपुण॥

चतुष्पादो गर्भिण्या॥ २.१.७१॥

चतुष्पाद्वाचिनः सुबन्ता गर्भिणीशब्देन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। गोगर्भिणी। अजगर्भिणी॥ चतुष्पाज्जातिरिति वक्तव्यम्॥ इह मा भूत्-कालाक्षी गर्भिणी। स्वस्तिमती गर्भिणी। चतुष्पाद इति किम्? ब्राह्मणी गर्भिणी॥

**मयूरव्यंसकादयश्च॥ २.१.७२॥ **

समुदाया एव निपात्यन्ते। मयूरव्यंसकादयः शब्दास्तत्पुरुषसंज्ञा भवन्ति। चकारोऽवधारणार्थः, परममयूरव्यंसक इति समासान्तरं न भवति। मयूरव्यंसकः। छात्रव्यंसकः। काम्बोजमुण्डः। यवनमुण्डः। छन्दसि-हस्तेगृह्य। पादेगृह्य। लाङ्गलेगृह्य। पुनर्दाय। एहीडादयोऽन्यपदार्थ (ग०सू० १८)। एहीडम्, एहियवं वर्तते। एहिवाणिजा क्रिया। अपेहिवाणिजा। प्रेहिवाणिजा। एहिस्वागता। अपेहिस्वागता। प्रेहिस्वागता। एहिद्वितीया। अपेहिद्वितीया। इहवितर्का। प्रोहकटा। अपोहकटा। प्रोहकर्दमा। अपोहकर्दमा। उद्धरचूडा। आहरचेला। आहरवसना। आहरवनिता। कृन्तविचक्षणा। उद्धरोत्सृजा। उद्धमविधमा। उत्पचविपचा। उत्पतनिपता। उच्चावचम्। उच्चनीचम्। अचितोपचितम्। अवचितपराचितम्। निश्चप्रचम्। अकिंचनम्। स्नात्वाकालकः। पीत्वास्थिरकः। भुक्त्वासुहितः। प्रोष्यपापीयान्। उत्पत्यपाकला। निपत्यरोहिणी। निषण्णश्यामा। अपेहिप्रसवा। इहपञ्चमी। इहद्वितीया। जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति (ग०सू० १९)। जहिजोडः। उज्जहिजोडः। जहिस्तम्बः। उज्जहिस्तम्बः। आख्यातमाख्यातेन क्रियासातत्ये (ग०सू०२०)। अश्नीतपिबता। पचतभृज्जता। खादतमोदता। खादतवमता। खादताचमता। आहरनिवपा। आवपनिष्किरा। उत्पचविपचा। भिन्धिलवणा। छिन्धिविचक्षणा। पचलवणा। पचप्रकूटा। अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः ॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्यप्रथमःपादः॥