१६१ अभ्यनु (अभि+अनु)

ज्ञा

  • {अभ्यनुज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘अतोऽभ्यनुजानातु भवती’ (काद० पृ० २०९)। अनुजानातु, अनुमन्यताम्। अभिर्नार्थे विशेषं करोति।
  • ‘हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत’ (मनु० २।१)। अभ्यनुज्ञातोऽभिमतः स्वस्य प्रियः। तत्र हि स्वरसान्मनोऽभिमुखी भवतीति कुल्लूकः।
  • ‘जामदग्न्याभ्यनुज्ञातमस्त्रे’ (भा० द्रोण० १।४६)। अभ्यनुज्ञातमभिविनीतं शिक्षितम्।
  • ‘यदन्यस्याभ्यनुज्ञाय’ (मनु० ९।७१)। अभ्यनुज्ञाय दातुं प्रतिज्ञाय। न दत्त्वा कस्यचित्कन्याम् इति कुल्लूकधृतः पाठः।
  • ‘अभ्यनुज्ञाप्य सीतां च ययौ स्वं च निवेशनम्’ (रा० २।४।४५)। सीतायै स्वस्मै च मातृभ्यामनुज्ञां दापयित्वेत्यर्थः।

ब्रू

  • {अभ्यनुब्रू}
  • ब्रू (ब्रूञ् व्यक्तायां वाचि)।
  • ‘तदेतदृषिः पश्यन्नभ्यनूवाच’ (ऐ० ब्रा० २।३३)। अभ्यनूवाच तल्लक्षयित्वाऽनुक्रमेणोवाचेत्यर्थः। नार्थोऽभिना। पश्यन्न् इत्यनेन तस्य गतार्थत्वात्।
  • ‘पशूनेवैतदभ्यनूक्तम्’ (श० ब्रा० १।४।१।९)। उक्तोऽर्थः।
  • ‘इति सम्प्रति दिशोऽभ्यनूच्यन्ते’ (श० ब्रा० ८।१।४।२)। शब्दतो लक्ष्यन्त इत्यर्थः।

शास्

  • {अभ्यनुशास्}
  • शास् (शासु अनुशिष्टौ)।
  • ‘हन्ताहमन्यमभ्यनुशासानीति’ (छां० उ० ५।११।३)। अन्यमुपदेष्टारं निर्दिशानीति वाक्यार्थः।

सृ

  • {अभ्यनुसृ}
  • सृ (सृ गतौ)।
  • ‘तामृचीकस्ततो दृष्ट्वा योगेनाभ्यनुसृत्य च’ (हरि० १।२७।२७)। योगेनाभ्यनुसृत्य ध्यानेन ज्ञात्वेत्यर्थः।