२०७ परिनिर् (परि+निर्)

वप्

  • {परिनिर्वप्}
  • वप् (टुवप बीजसन्ताने, बीजसन्तानो बीजविकरणम्)।
  • ‘आतिथ्यमेभ्यः परिनिर्विवप्सोः’ (भट्टि० ३।४२)। निपूःर्वो वपिर्दाने वर्तते। निर्विवप्सुर्निर्वप्तुमिच्छुर्दित्सुः, तस्य।

वा

  • {परिनिर्वा}
  • वा (वा गतिगन्धनयोः)।
  • ‘शाम्यामि परि निर्वामि सुखं मामेति केवलम्’ (भा० शां० १७७।५०)। परिनिर्वामि निर्दुःखो भवामि, निर्वृणोमि।
  • ‘शाम्यामि परिनिर्वामि सुखमासे च केवलम्’ (यो० वा० ३।७५।३, ६(१)। १०२।१४)। उक्तोऽर्थः।