१०६ व्यभि (वि+अभि)

चर्

  • {व्यभिचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘न सत्तां पदार्थो व्यभिचरति’ (यो० सू० ३।१७ भाष्ये)। व्यभिचरति लङ्घते (वृक्ष इत्युक्तेऽस्तीति गम्यते)। सेयमाकृतिर्न व्यभिचरति शीलम्। न व्यभिचरति न जहाति। शीलनान्तरीयका भवतीत्यर्थः। न जातु धूमो व्यभिचरति वह्निम्। न वह्निं विरहय्य वर्तते। वह्न्यभावे नास्तीत्यर्थः।
  • ‘ते मां यथा व्यभिचरन्ति नित्यम्’ (भा० आदि० ७६।५२)। मामभिद्रुह्यन्ति, मयि विरुद्धमाचरन्ति।
  • ‘अधुना स्वामिनोऽपि व्यभिचरितं’ (त्वया) (तन्त्रा० १।१६)। स्वामिनमहासीः, ततः पराचीनोऽभूरित्यर्थः।
  • ‘अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः’ (मनु० ९।१०१)। अव्यभीचारः=अव्यभिचारः। उपसर्गाद् घञ्यमनुष्ये बहुलम् (पा० ६।३।१२२) इति दीर्घः। अव्यभिचारोऽवियोगः।
  • ‘पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम’ (भा० आदि० ६।२)। व्यभिधारोऽपचारो व्यतिक्रमो दोषः।
  • ‘यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः’ (कु० ५।५६)। अव्यभिचारि ऐकान्तिकम्, अविप्लुतार्थम्।
  • ‘रन्ध्रोपनिपातिनोऽनर्था इति यदुच्यते तदव्यभिचारि वचः’ (शा० ६)। उक्तोऽर्थः।
  • ‘पर्वसु हि रक्षःपिशाचा व्यभिचारवन्तो भवन्ति’ (बौ० ध० १।११।२१।२१)। विविधं गच्छन्ति विविधं च भक्षयन्ति। स्त्र्यभिगमनमांसाशनवन्तो भवन्तीति गोविन्दस्वामी विवरणकारः।
  • ‘देवाश्च वा असुराश्च व्यभ्यचरन्त’ (काठ० १०।७,२५।९)। परस्परं विरुद्धमाचरन्नित्यर्थः।
  • ‘तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत्’ (कौ० अ० १।१।३)। नातिक्रमयेत्, त्याजयेत्।
  • ‘न सा व्यभिचरेन्मयि’ (कथा० ३७।१७६)। मनसा वाचा कर्मणा पुमन्तरगमनं व्यभिचारः, अतिलङ्घनम्। अन्यत्र पत्यादि र्व्यभिचारस्य कर्म श्रूयते न त्वधिकरणम्।
  • ‘इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति’ (ब्र० सू० शां० भा० २।२।१०)। व्याभिचारयति व्यभिचारमस्याचष्टे।

हस्

  • {व्यभिहस्}
  • हस् (हसे हसने)।
  • ‘व्युपतोदव्युपजपव्यभिहास–’ (आप० ध० १।८१५)। व्यभिहास आभिमुख्येन हासः।