०१

वृद्धिरादैच्॥ १.१.१॥

वृद्धिशब्दः संज्ञात्वेन विधीयते प्रत्येकमादैचां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च। तपरकरणमैजर्थं तादपि परस्तपर इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्गनिवृत्तये। आश्वलायनः। ऐतिकायनः। औपगवः। औपमन्यवः। शालीयः। मालीयः। वृद्धिप्रदेशाः-‘सिचि वृद्धिः परस्मैपदेषु’ (७.२.१) इत्येवमादयः॥

अदेङ् गुणः॥ १.१.२॥

गुणशब्दः संज्ञात्वेन विधीयते प्रत्येकमदेङां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च। तपरकरणं त्विह सर्वार्थम्। तरिता। चेता। स्तोता। पचन्ति। यजन्ति। अहं पचे।  गुणप्रदेशाः-‘मिदेर्गुणः’ (७.३.८२) इत्येवमादयः॥ 

इको गुणवृद्धी॥ १.१.३॥

परिभाषेयं स्थानिनियमार्था। अनियमप्रसङ्गे नियमो विधीयते। वृद्धिगुणौ स्वसंज्ञया शिष्यमाणाविक एव स्थाने वेदितव्यौ। वक्ष्यति-‘सार्वधातुकार्धधातुकयोः’ (७.३.८४) अङ्गस्य गुण इति। स इक एव स्थाने वेदितव्यः। तरति। नयति। भवति। वृद्धिः खल्वपि-अकार्षीत्। अहार्षीत्। अचैषीत्। अनैषीत्। अलावीत्। अस्तावीत्। यत्र गुणवृद्धी स्वसंज्ञया विधीयेते तत्र इक इति एतदुपस्थितं द्रष्टव्यम्। किं कृतं भवति? द्वितीया षष्ठी प्रादुर्भाव्यते। मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेनेग् विशेष्यते। जुसि सार्वधातुकादिगुणेष्विकाङ्गं विशेष्यते। मेद्यति। अबिभयुः। इक इति किम्? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत्-यानम्। ग्लायति। उम्भिता। पुनर्गुणवृद्धिग्रहणं स्वसंज्ञया विधाने नियमार्थम्। इह मा भूत्-द्यौः। पन्थाः। सः। इममिति॥

न धातुलोप आर्धधातुके॥ १.१.४॥

धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्धधातुके तदार्धधातुकं धातुलोपम्, तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः। लोलुवः। पोपुवः। मरीमृजः। लोलूयादिभ्यो यङन्तेभ्यः पचाद्यचि (३.१.१३४) ‘विहिते यङोचि च’ (२.४.७४) इति यङो लुकि कृते तमेवाचमाश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः। धातुग्रहणं किम्? लूञ्-लविता। रेड॑सि (मा०सं० ६.१८)। पर्णं नयेः। अनुबन्धप्रत्ययलोपे मा भूत्। रिषेर्हिंसार्थस्य विच्प्रत्ययलोप उदाहरणं रेडिति। आर्धधातुक इति किम्? त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति (ऋ० ४.५८.३)। सार्वधातुके मा भूत्। इक इत्येव-अभाजि। रागः। बहुव्रीहिसमाश्रयणं किम्? क्नोपयति। प्रेद्धम्॥

क्ङिति च॥ १.१.५॥

निमित्तसप्तम्येषा। क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः। चितः। चितवान्। स्तुतः। स्तुतवान्। भिन्नः। भिन्नवान्। मृष्टः। मृष्टवान्। ङिति खल्वपि-चिनुतः, चिन्वन्ति। मृष्टः, मृजन्ति। गकारोप्यत्र चर्त्वभूतो निर्दिश्यते। ‘ग्लाजिस्थश्च क्स्नुः’ (३.२.१३९)-जिष्णुः। भूष्णुः। इक इत्येव-कामयते। लैगवायनः। मृजेरजादौ संक्रमे विभाषा वृद्धिरिष्यते। संक्रमो नाम गुणवृद्धिप्रतिषेधविषयः। परिमृजन्ति, परिमार्जन्ति। परिमृजन्तु, परिमार्जन्तु। लघूपधगुणस्याप्यत्र प्रतिषेधः। अचिनवमसुनवमित्यादौ लकारस्य सत्यपि ङित्वे यासुटो ङिद्ववचनं ज्ञापकं ङिति यत् कार्यं तल्लकारे ङिति न भवतीति॥

दीधीवेवीटाम् ॥ १.१.६॥

दीधीवेव्योरिटश्च ये गुणवृद्धी प्राप्नुतस्ते न भवतः। आदीध्यनम्। आदीध्यकः। आवेव्यनम्। आवेव्यकः । इटः खल्वपि-कणिता श्वः, रणिता श्वः। वृद्धिरिटो न संभवतीति लघूपधगुणस्यात्र प्रतिषेधः॥

हलोऽनन्तराः संयोगः ॥ १.१.७॥

भिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिता हलः संयोगसंज्ञा भवन्ति। समुदायः संज्ञी। जातौ चेदं बहुवचनम्, तेन द्वयोर्बहूनां च संयोगसंज्ञा सिद्धा भवति। अग्निरिति गनौ। अश्व इति शवौ। कर्ण इति रणौ। इन्द्रश्चन्द्रो मन्द्र इति नदराः। उष्ट्रो राष्ट्रं भ्राष्ट्रमिति षटराः। तिलान्स्त्र्यावपतीति नसतरयाः, नतसतरया वा। हल इति किम्? तितउच्छत्रम्। ‘संयोगान्तस्य लोपः’ (८.२.२३) इति लोपः स्यात्। अनन्तरा इति किम्? पचति। पनसम्। ‘स्कोः संयोगाद्योः०’(८.२.२९) इति लोपः स्यात्। संयोगप्रदेशाः-‘संयोगान्तस्य लोपः’ (८.२.२३) इत्येवमादयः॥

मुखनासिकावचनोऽनुनासिकः ॥ १.१.८॥

मुखसहिता नासिका मुखनासिका, तया च उच्चार्यते वर्णः सोऽनुनासिकसंज्ञो भवति। ‘आङोऽनुनासिकश्छन्दसि’ (६.१.१२६)-अ॒भ्र आँ अ॒पः (ऋ० ५.४८.१)। ग॒भी॒र आँ उग्र॑पुत्रे (ऋ० ८.६७.११)। च न आँ इन्द्रः। मुखग्रहणं किम्? अनुस्वारस्यैव हि स्यात्। नासिकाग्रहणं किम्? कचटतपानां मा भूत्। अनुनासिकप्रदेशाः-‘आङोऽनुनासिकश्छन्दसि’ (६.१.१२६) इत्येवमादयः॥

तुल्यास्यप्रयत्नं सवर्णम् ॥ १.१.९॥

तुल्यशब्दः सदृशपर्यायः । आस्ये भवमास्यम्, ताल्वादिस्थानम्। प्रयतनं प्रयत्नः स्पृष्टतादिर्वर्णगुणः। तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसंज्ञो भवति। चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायामाश्रीयन्ते। स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता चेति। अ अ अ इति त्रयोऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदादष्टादशधा भिद्यन्ते। तथेवर्णः। तथोवर्णः। तथा ऋवर्णः। ऌवर्णस्य दीर्घा न सन्ति। तं द्वादशप्रभेदमाचक्षते। सन्ध्यक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादशप्रभेदानि। अन्तःस्था द्विप्रभेदा रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च। रेफोष्मणां सवर्णा न सन्ति। वर्ग्यो वर्ग्येण सवर्णः। दण्डाग्रम्। खट्वाग्रम्। आस्यग्रहणं किम्? कचटतपानां तुल्यप्रयत्नानां भिन्नस्थानानां मा भूत्। किं च स्यात् ? तर्प्ता, तर्प्तुमित्यत्र ‘झरो झरि सवर्णे’ (८.४.६५) इति पकारस्य तकारे लोपःस्यात् । प्रयत्नग्रहणं किम् ? इचुयशानां तुल्यस्थानानां भिन्नप्रयत्नानां मा भूत् । किं च स्यात् ? अरुश्श्च्योततीत्यत्र ‘झरो झरि सवर्णे’(८.४.६५) इति शकारस्य चकारे लोपः स्यात्॥ ऋकारऌकारयोः सवर्णसंज्ञा वक्तव्या॥ होतृ ऌकारः-होतृृकारः। उभयोर्ऋवर्णस्य ऌवर्णस्य चान्तरतमः सवर्णो दीर्घो नास्तीति ऋकार एव दीर्घो भवति। सवर्णप्रदेशाः-‘अकः सवर्णे दीर्घः’ (६.१.१०१) इत्येवमादयः॥

नाज्झलौ ॥ १.१.१०॥

अच्च हल् च अज्झलौ। तुल्यास्यप्रयत्नावपि अज्झलौ परस्परं सवर्णसंज्ञौ न भवतः। अवर्णहकारौ-दण्डहस्तः। इवर्णशकारौ-दधि शीतम् । सवर्णदीर्घत्वं न भवति। वैपाशो मत्स्यः। आनडुहं चर्मेति ‘यस्येति च’ (६.४.१४८) इति लोपो न भवति॥

ईदूदेद्द्विवचनं प्रगृह्यम् ॥ १.१.११॥

ईत् ऊत् एत् इत्येवमन्तं द्विवचनं शब्दरूपं प्रगृह्यसंज्ञं भवति। अग्नी इति। वायू इति। माले इति। पचेते इति। पचेथे इति। ईदूदेदिति किम्? वृक्षावत्र। प्लक्षावत्र। द्विवचनमिति किम्? कुमार्यत्र। किशोर्यत्र। तपरकरणमसंदेहार्थम् । प्रगृह्यप्रदेशाः-‘ प्लुतप्रगृह्या अचि’ (६.१.१२५) इत्येवमादयः। ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः।

मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम (महाभारत १२.१७७.१२)।

दम्प॑तीव (ऋ०२.३९.२)। जम्पतीव। रोदसीव॥

अदसो मात् ॥ १.१.१२॥

अदसः सम्बन्धी यो मकारस्तस्मात् पर ईदूदेतः प्रगृह्यसंज्ञा भवन्ति। अमी अत्र। अमी आसते। अमू अत्र। अमू आसाते। एकारस्य नास्त्युदाहरणम् । अदस इति किम् ? शम्यत्र। दाडिम्यत्र । मादिति किम् ? अमुकेऽत्र॥

शे॥ १.१.१३॥

शे इत्येतत् प्रगृह्यसंज्ञं भवति। किमिदं शे इति ? सुपामादेशश्छन्दसि (७.१.३९)। न यु॒ष्मे वा॑जबन्धवः (ऋ०८.६.८.१९)। अ॒स्मे इ॑न्द्राबृहस्पती (ऋ०४.४९.४)। युष्मे इति। अस्मे इति। त्वे रायः॒, मे रायः॒ (मा०सं०४.२२)। त्वे इति। मे इति। छान्दसमेतदेवैकमुदाहरणम् अ॒स्मे इ॑न्द्राबृहस्पती इति। अत्र तथा पाठात्। इतरत् तु लौकिकमनुकरणम् । युष्मे इति। अस्मे इति। त्वे इति। मे इति॥

निपात एकाजनाङ्॥ १.१.१४॥

एकश्चासावच्चेत्येकाच् । निपातो य एकाच् आङ्वर्जितःस प्रगृह्यसंज्ञो भवति। अ अपेहि। इ इन्द्रं पश्य। उ उत्तिष्ठ। आ एवं नु मन्यसे । आ एवं किल तत्। निपात इति किम् ? चकारात्र। जहारात्र। एकाजिति किम्? प्राग्नये॒ वाच॑मीरय (ऋ०१०.१८७.१)। अनाङिति किम्? आ उदकान्तात् ओदकान्तात् ।

	ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः।

	एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्॥

ओत्॥ १.१.१५॥

निपात इति वर्तते। तस्यौकारेण तदन्तविधिः। ओदन्तो यो निपातः स प्रगृह्यसंज्ञो भवति । आहो इति। उताहो इति॥

संबुद्धौ शाकल्यस्येतावनार्षे ॥ १.१.१६॥

ओदिति वर्तते । संबुद्धिनिमित्तो य ओकारः स शाकल्यस्याचार्यस्य मतेन प्रगृह्यसंज्ञो भवति, इति शब्देऽनार्षेऽवैदिके परतः। वायो इति, वायविति। भानो इति, भानविति। संबुद्धाविति किम् ? गवित्ययमाह। अत्रानुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादसत्यर्थवत्त्वे विभक्तिर्न भवति। शाकल्यग्रहणं विभाषार्थम् । इताविति किम् ? वायोऽत्र। अनार्ष इति किम्? एता गा ब्रह्मबन्ध इत्यब्रवीत् (काठ०सं० १०.६)॥

उञः॥ १.१.१७॥

शाकल्यस्येतावनार्ष इति वर्तते। उञः प्रगृह्यसंज्ञा भवति इतौ शाकल्यस्याचार्यस्य मतेन। शाकल्यस्येति विभाषार्थम् । उ इति। विति॥

ऊँ ॥ १.१.१८॥

उञ इति वर्तते। उञ इतावनार्षे ऊँ इत्ययमादेशो भवति दीर्घोऽनुनासिकश्च शाकल्यस्य मतेन प्रगृह्यसंज्ञकश्च। शाकल्यस्य ग्रहणं विभाषार्थमिहाप्यनुवर्तते, तेन त्रीणि रूपाणि भवन्ति। उ इति। विति। ऊँ इति॥

ईदूतौ च सप्तम्यर्थे ॥ १.१.१९॥

शाकल्यस्येतावनार्ष इति निवृत्तम् । ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यसंज्ञं भवति। अध्यस्यां मामकी तनू (पै०सं० ६.६.८)। मामक्यां तन्वामिति प्राप्ते। मामक्याम् , मामकी इति। तन्वाम् ,तनू इति। सोमो॑ गौ॒री अधि॑ श्रि॒तः (ऋ० ९.१२.३)। ईदूताविति किम् ? प्रि॒यः सूये᐀्॑ प्रि॒यो अ॒ग्ना भ॑वाति (ऋ० ५.३७.५)। अग्निशब्दात् परस्याः सप्तम्या डादेशः। सप्तमीग्रहणं किम् ? धीती मती सुष्टुती। धीत्या मत्या सुष्टुत्या इति प्राप्ते। अर्थग्रहणं किम् ? वाप्यश्वः। नद्यातिः। तपरकरणमसन्देहार्थम् ।

	ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद् भवेत् ।

	पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते॥ १॥

	वचनाद्  यत्र दीर्घत्वं तत्रापि सरसी यदि।

	ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत्॥ २॥

दाधा घ्वदाप् ॥ १.१.२०॥

दारूपाश्चत्वारो धातवो धारूपौ च द्वौ दाब्दैपौ वर्जयित्वा घुसंज्ञका भवन्ति। डुदाञ्-प्रणिददाति। दाण्-प्राणिदाता। दो-प्रणिद्यति । देङ्-प्रणिदयते। डुधाञ्-प्रणिदधाति। धेट्-प्रणिधयति वत्सो मातरम् । अदाबिति किम् ? ‘दाप् लवने’-दातं बर्हिः। ‘ दैप् शोधने ’-अवदातं मुखम् । घुप्रदेशाः-‘घुमास्थागापाजहातिसां हलि’ (६.४.६६) इत्येवमादयः॥

आद्यन्तवदेकस्मिन्॥ १.१.२१॥

असहायस्याद्यन्तोपदिष्टानि कार्याणि न सिध्यन्तीत्ययमतिदेश आरभ्यते । सप्तम्यर्थे वतिः। आदाविव अन्त इव एकस्मिन्नपि कार्यं भवति। यथा क॒र्तव्य॑म् इत्यत्र प्रत्ययाद्युदात्तत्वं (३.१.३) भवति, एवम् औ॒प॒ग॒वम् इत्यत्रापि यथा स्यात् । यथा वृक्षाभ्यामित्यत्रातोऽङ्गस्य दीर्घत्वम् (७.३.१०२) एवमाभ्यामित्यत्रापि यथा स्यात् । एकस्मिन्निति किम् ? सभासन्नयने भवः साभासन्नयनः। आकारमाश्रित्य वृद्धसंज्ञा न भवति॥

तरप्तमपौ घः ॥ १.१.२२॥

तरप् तमप् इत्येतौ प्रत्ययौ घसंज्ञौ भवतः। कुमारितरा। कुमारितमा। ब्राह्मणितरा। ब्राह्मणितमा। घप्रदेशाः- ‘घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः’ (६.३.४३) इत्येवमादयः॥

बहुगणवतुडति संख्या ॥ १.१.२३॥

बहु गण वतु डति इत्येते संख्यासंज्ञा भवन्ति। बहुकृत्वः। बहुधा। बहुकः। बहुशः। गणकृत्वः। गणधा। गणकः। गणशः। तावत्कृत्वः। तावद्धा। तावत्कः। तावच्छः। कतिकृत्वः। कतिधा। कतिकः। कतिशः। बहुगणशब्दयोर्वैपुल्ये संङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, संख्यावाचिनोरेव। भूर्यादीनां निवृत्त्यर्थं संख्यासंज्ञा विधीयते॥ अर्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति वक्तव्यं समासकन्विध्यर्थम्॥ अर्धपञ्चमशूर्पः। अर्धं पञ्चमं येषामिति बहुव्रीहौ कृतेऽर्धपञ्चमैः शूर्पैः क्रीतः। ‘तद्धितार्थो॰’(२.१.५१) इति समासः। तत्र ‘दिक्संख्ये संज्ञायाम्’(२.१.५०) इत्यनुवृत्तेस्ततः संख्यापूर्वस्य द्विगुसंज्ञायां (२.१.५२) ‘शूर्पादञन्यतरस्याम्’(५.१.२६) इत्यञ् ठञ्च। ‘अध्यर्धपूर्वद्विगोः॰’(५.१.२८) इति लुक् । अर्धपञ्चमकः। संख्याप्रदेशाः- ‘संख्या वंश्येन’ (२.१.१९) इत्येवमादयः॥

ष्णान्ता षट् ॥ १.१.२४॥

स्त्रीलिङ्गनिर्देशात् संख्येति संबध्यते। षकारान्ता नकारान्ता च या संख्या सा षट्संज्ञा भवति। षकारान्ता तावत्-षट् तिष्ठन्ति। षट् पश्य। नकारान्ता-पञ्च। सप्त। नव। दश। अन्तग्रहणमौपदेशिकार्थम्। तेनेह न भवति-शतानि। सहस्राणि। अष्टानामित्यत्र नुड् (७.१.५५) भवति। षट्प्रदेशाः- ‘षड्भ्यो लुक्’ (७.१.२२) इत्येवमादयः॥

डति च ॥ १.१.२५॥

डत्यन्ता च या संख्या सा षट्संज्ञा भवति। कति तिष्ठन्ति। कति पश्य॥

क्तक्तवतू निष्ठा ॥ १.१.२६॥

क्तश्च क्तवतुश्च क्तक्तवतू प्रत्ययौ निष्ठासंज्ञौ भवतः। कृतः। कृतवान्। भुक्तः। भुक्तवान्। ककारः कित्कार्यार्थः। उकार उगित्कार्यार्थः। निष्ठाप्रदेशाः-‘श्वीदितो निष्ठायाम्’ (७.२.१४) इत्येवमादयः॥

सर्वादीनि सर्वनामानि ॥ १.१.२७॥

सर्वशब्द आदिर्यषां तानीमानि सर्वादीनि सर्वनामसंज्ञानि भवन्ति। सर्वः, सर्वौ, सर्वे। सर्वस्मै। सर्वस्मात्। सर्वेषाम्। सर्वस्मिन्। सर्वकः। विश्वः, विश्वौ, विश्वे। विश्वस्मै। विश्वस्मात्। विश्वेषाम्। विश्वस्मिन्। विश्वकः। उभ, उभय-उभशब्दस्य सर्वनामत्वे प्रयोजनं ‘सर्वनाम्नस्तृतीया च’ (२.३.२७) इति। उभाभ्यां हेतुभ्यां वसति, उभयोर्हेत्वोर्वसति। उभये। उभयस्मै। उभयस्मात्। उभयेषाम्। उभयस्मिन्। डतर, डतम-कतर। कतम। कतरस्मै। कतमस्मै। इतर, अन्य, अन्यतर-इतरस्मै। अन्यस्मै। अन्यतरस्मै। त्वशब्दोऽन्यवाची स्वरभेदाद् द्विःपठितः। एक उदात्तः, द्वितीयोऽनुदात्तः। केचित् तकारान्तमेकं पठन्ति त्व त्वदिति, द्वावपि चानुदात्ताविति स्मरन्ति। नेम-नेमस्मै। वक्ष्यमाणेन (१.१.३३) जसि विभाषा भवति। नेमे, नेमा इति। सम-समस्मै। कथं ‘यथासंख्यमनुदेशः समानाम्’ (१.३.१०), समे देशे यजेतेति? समस्य सर्वशब्दपर्यायस्य सर्वनामसंज्ञेष्यते, न सर्वत्र। सिम-सिमस्मै। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (ग०सू० १)। स्वमज्ञातिधनाख्यायाम् (ग०सू० २)। अन्तरं बहिर्योगोपसंव्यानयोः (ग०सू० ३)। त्यद्। तद्। यद्। एतद्। इदम्। अदस्। एक। द्वि। युष्मद्। अस्मद्। भवतु। किम्। सर्वादिः। सर्वनामप्रदेशाः-‘सर्वनाम्नः स्मै’(७.१.१४) इत्येवमादयः॥

विभाषा दिक्समासे बहुव्रीहौ ॥ १.१.२८॥

‘न बहुव्रीहौ’(१.१.२९) इति प्रतिषेधं वक्ष्यति, तस्मिन्नित्ये प्रतिषेधे प्राप्ते विभाषेयमारभ्यते। दिशां समासो दिक्समासः। दिगुपदिष्टे समासे बहुव्रीहौ विभाषा सर्वादीनि सर्वनामसंज्ञानि भवन्ति। उत्तरपूर्वस्यै, उत्तरपूर्वायै। दक्षिणपूर्वस्यै, दक्षिणपूर्वायै। दिग्ग्रहणं किम्? ‘न बहुव्रीहौ’(१.१.२९) इति प्रतिषेधं वक्ष्यति, तत्र न ज्ञायते क्व विभाषा क्व प्रतिषेध इति। दिग्ग्रहणे पुनः क्रियमाणे ज्ञायते दिगुपदिष्टसमासे विभाषा, अन्यत्र प्रतिषेध इति। समासग्रहणं किम्? समास एव यो बहुव्रीहिस्तत्र विभाषा यथा स्यात्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूत्। दक्षिणदक्षिणस्यै देहि। बहुव्रीहाविति किम्? द्वन्द्वे विभाषा मा भूत्- दक्षिणोत्तरपूर्वाणामिति। ‘द्वन्द्वे च’(१.१.३१) इति नित्यं प्रतिषेधो भवति॥

न बहुव्रीहौ ॥ १.१.२९॥

सर्वनामसंज्ञायां तदन्तविधेरभ्युपगमाद् बहुव्रीहेरपि सर्वाद्यन्तस्य संज्ञा स्यादिति प्रतिषेध आरभ्यते। बहुव्रीहौ समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। प्रियविश्वाय। प्रियोभयाय। द्व्यन्याय। त्र्यन्याय। इह च त्वत्कपितृको मत्कपितृक इत्यकज् न भवति। बहुव्रीहाविति वर्तमाने पुनर्बहुव्रीहिग्रहणं भूतपूर्वमात्रेऽपि प्रतिषेधो यथा स्यात्- वस्त्रान्तरवसनान्तरा इति॥

तृतीयासमासे॥ १.१.३०॥

तृतीयासमासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। मासपूर्वाय। संवत्सरपूर्वाय। द्व्यहपूर्वाय। त्र्यहपूर्वाय। समास इति वर्तमाने पुनः समासग्रहणं तृतीयासमासार्थवाक्येऽपि प्रतिषेधो यथा स्यात्। मासेन पूर्वाय। ‘पूर्वसदृशसमोनार्थ०’(२.१.३१) इति तृतीयासमासं प्रतिपदं वक्ष्यति, तस्येदं ग्रहणम्, न यस्य कस्यचित् तृतीयासमासस्य,‘कर्तृकरणे कृता बहुलम्’(२.१.३२) इति। त्वयका कृतम्। मयका कृतम्॥

द्वन्द्वे च ॥ १.१.३१॥

द्वन्द्वे च समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। पूर्वापराणाम्। कतरकतमानाम्॥

विभाषा जसि ॥ १.१.३२॥

पूर्वेण नित्ये प्रतिषेधे प्राप्ते जसि विभाषारभ्यते। द्वन्द्वे समासे जसि विभाषा सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। कतरकतमे, कतरकतमाः। जसः कार्यं प्रति विभाषा, अकज् हि न भवति। कतरकतमकाः॥

प्रथमचरमतयाल्पार्धकतिपयनेमाश्च॥ १.१.३३॥

‘विभाषा जसि’ (१.१.३२) इति वर्तते। द्वन्द्व इति निवृत्तम्। प्रथम चरम तय अल्प अर्ध कतिपय नेम इत्येते जसि विभाषा सर्वनामसंज्ञा भवन्ति। प्रथमे, प्रथमाः। चरमे, चरमाः। द्वितये, द्वितयाः। अल्पे, अल्पाः। अर्धे, अर्धाः। कतिपये, कतिपयाः। नेमे, नेमाः। तय इति तयप्प्रत्ययः। शिष्टानि प्रातिपदिकानि। तत्र नेम इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभाषा, अन्येषामप्राप्ते। उभयशब्दस्य तयप्प्रत्ययान्तस्य गणे पाठान्नित्या सर्वनामसंज्ञा। इहापि जस्कार्यं प्रति विभाषा। काकचोर्यथायोगं वृत्तिः॥

पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ॥ १.१.३४॥

पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्येतेषां गणे पाठात् पूर्वेण नित्यायां सर्वनामसंज्ञायां प्राप्तायां जसि विभाषारभ्यते। पूर्वादीनि विभाषा जसि सर्वनामसंज्ञानि भवन्ति व्यवस्थायामसंज्ञायाम्। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। पूर्वे, पूर्वाः। परे, पराः। अवरे, अवराः। दक्षिणे, दक्षिणाः। उत्तरे, उत्तराः। अपरे, अपराः। अधरे, अधराः। व्यवस्थायामिति किम्? दक्षिणा इमे गाथकाः। प्रवीणा इत्यर्थः। असंज्ञायामिति किम्? उत्तराः कुरवः। सत्यामेव व्यवस्थायामियं तेषां संज्ञा॥

स्वमज्ञातिधनाख्यायाम् ॥ १.१.३५॥

अत्रापि नित्या सर्वनामसंज्ञा प्राप्ता जसि विभाष्यते। स्वमित्येतच् छब्दरूपं जसि विभाषा सर्वनामसंज्ञं भवति, न चेज् ज्ञातिधनयोः संज्ञारूपेण वर्तते। स्वे पुत्राः, स्वाः पुत्राः। स्वे गावः, स्वा गावः। आत्मीया इत्यर्थः। ज्ञातिप्रतिषेधः किम्?

	धूमायन्त इवाश्लिष्टाः प्रज्वलन्तीव संहताः।

	उल्मुकानीव मेऽमी स्वा ज्ञातयो भरतर्षभ॥ (महाभारत ५.३६.५८)

अधनाख्यायामिति किम्? प्रभूताः स्वा न दीयन्ते। प्रभूताः स्वा न भुज्यन्ते। प्रभूतानि धनानीत्यर्थः॥

अन्तरं बहिर्योगोपसंव्यानयोः ॥ १.१.३६॥

अत्रापि पूर्वेण नित्या सर्वनामसंज्ञा प्राप्ता सा जसि विभाष्यते। अन्तरमित्येतच् छब्दरूपं विभाषा जसि सर्वनामसंज्ञं भवति बहिर्योग उपसंव्याने च गम्यमाने। अन्तरे गृहाः, अन्तरा गृहाः। नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते। अन्तरे शाटकाः, अन्तराः शाटकाः। उपसंव्यानं परिधानीयमुच्यते, न प्रावरणीयम्। बहिर्योगोपसंव्यानयोरिति किम्? अनयोर्ग्रामयोरन्तरे तापसः प्रतिवसति। तस्मिन्नन्तरे शीतान्युदकानि। मध्यप्रदेशवचनोऽन्तरशब्दः। गणसूत्रस्य चेदं प्रत्युदाहरणम्॥ अपुरीति वक्तव्यम्॥ अन्तरायां पुरि वसति॥ विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसंज्ञेत्युपसंख्यानम्॥ द्वितीयस्मै, द्वितीयाय। तृतीयस्मै, तृतीयाय॥

स्वरादिनिपातमव्ययम्॥ १.१.३७॥

स्वरादीनि शब्दरूपाणि निपाताश्चाव्ययसंज्ञानि भवन्ति। स्वर्, अन्तर्, प्रातर् एतेन्तोदात्ताः पठ्यन्ते। पुनर् आद्युदात्तः। सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, आरात्, ऋते, युगपत्, पृथक् एतेऽपि सनुतर्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते। ह्यस्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, आविस्, अवस्, अधस्, समया, निकषा, स्वयम्, मृषा, नक्तम्, नञ्, हेतौ, अद्धा, इद्धा, सामि एतेऽपि ह्यस्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते। वत् (ग०सू० ४), वदन्तमव्ययसंज्ञं भवति। ब्राह्मणवत्। क्षत्रियवत्। सन्, सनात्, सनत्, तिरस् एत आद्युदात्ताः पठ्यन्ते। अन्तरा अयमन्तोदात्तः। अन्तरेण, ज्योक्, कम्, शम्, सना, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मुधा, मिथ्या। क्त्वातोसुन्कसुनः (ग०सू० ५), कृन्मकारान्तः सन्ध्यक्षरान्तः (ग०सू० ६), अव्ययीभावश्च (ग०सू० ७), पुरा, मिथो, मिथस्, प्रबाहुकम्, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्द्धम्, समम्, नमस्, हिरुक्। तसिलादिस्तद्धित एधाच्पर्यन्तः (ग०सू० ८), शस्तसी (ग०सू० ९), कृत्वसुच् (ग०सू० १०), सुच् (ग०सू० ११), आस्थालौ (ग०सू० १२), च्व्यर्थाश्च (ग०सू० १३), अम् (ग०सू० १४), आम् (ग०सू० १५), प्रतान्, प्रशान्। स्वरादिः। निपाता वक्ष्यन्ते-‘प्राग्रीश्वरान्निपाताः’ (१.४.५६) इति। च, वा, ह, अह, एव, एवमित्यादयः। अव्ययप्रदेशाः-‘अव्ययादाप्सुपः’(२.४.८२) इत्येवमादयः। अव्ययमित्यन्वर्थसंज्ञा।

	सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।

	वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥ (गो०ब्रा० १.१.२६)

तद्धितश्चासर्वविभक्तिः ॥ १.१.३८॥

तद्धितान्तः शब्दोऽसर्वविभक्तिरव्ययसंज्ञो भवति। यस्माद् न सर्वविभक्तेरुत्पत्तिः सोऽसर्वविभक्तिः। ततः। यतः। तत्र। यत्र। तदा। यदा। सर्वदा। सदा। तद्धित इति किम्? एकः। द्वौ। बहवः। असर्वविभक्तिरिति किम्? औपगवः, औपगवौ, औपगवाः॥

कृन्मेजन्तः ॥ १.१.३९॥

कृद् यो मकारान्त एजन्तश्च तदन्तं शब्दरूपमव्ययसंज्ञं भवति। स्वादुंकारं भुङ्क्ते। सम्पन्नंकारं भुङ्क्ते । लवणंकारं भुङ्क्ते। एजन्तः-वक्षे रायः। ता वा॒मेषे॒ रथा॑नाम् (ऋ० ५.६६.३)। क्रत्वे॒ दक्षा॑य जी॒वसे॑ (ऋ० १०.५७.४)। ज्योक् च॒ सूय᐀्ं॑ दृ॒शे (ऋ० १०.५७.४)। वक्षे इति वचेः ‘तुमर्थे सेसेन०’ (३.४.९) इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम्। एषे इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम्। जीवसे इति जीवेरसेप्रत्यये रूपम्। दृशे इति दृशेः केन्प्रत्ययो निपात्यते- ‘दृशे विख्ये च’ (३.४.११) इति। अन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थम्। इह मा भूत्- आधये, चिकीर्षवे, कुम्भकारेभ्य इति॥

क्त्वातोसुन्कसुनः ॥ १.१.४०॥

क्त्वा तोसुन् कसुन् इत्येवमन्तं शब्दरूपमव्ययसंज्ञं भवति। कृत्वा। हृत्वा। तोसुन्-पुरा सूर्यस्योदेतोराधेयः (काठ०सं० ८.३) पुरा वत्सानामपाकर्तोः (काठ०सं ३१.१५)। ‘भावलक्षणे स्थेण्कृञ्वदि०’ (३.४.१६) इति इणः कृञश्च तोसुन् प्रत्ययः। कसुन्- ‘सृपितृदोः कसुन्’ (३.४.१७)- पु॒रा क्रू॒ रस्य॑ वि॒सृपो॑ विरप्शिन् (तै०सं० १.१.९.३)। पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ (ऋ० ८.१.१२)॥

अव्ययीभावश्च ॥ १.१.४१॥

अव्ययीभावसमासोऽव्ययसंज्ञो भवति। किं प्रयोजनम्? लुङ्मुखस्वरोपचाराः। लुक्- उपाग्नि। प्रत्यग्नि शलभाःपतन्ति। मुखस्वरः- उ॒पा॒ग्निमु॑खः। प्र॒त्य॒ग्निमु॑खः। ‘मुखं स्वाङ्गम्’ (६.२.१६७) इत्युत्तरपदान्तोदात्तत्वं प्राप्तम्, ‘नाव्ययदिक्छब्द०’ (६.२.१६८) इति प्रतिषिध्यते। तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर एव भवति। उपचारः-उपपयःकारः। उपपयःकामः। विसर्जनीयस्थानिकस्य सकारस्य उपचार इति संज्ञा। तत्राव्ययीभावस्याव्ययत्वे ‘अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य’ (८.३.४६) इति पर्युदासः सिद्धो भवति। सर्वमिदं काण्डं स्वरादावपि पठ्यते। पुनर्वचनम्-नित्यत्वज्ञापनार्थम्। तेनायं कार्यनियमः सिद्धो भवति। इह च पुरा सूर्यस्योदेतोराधेयः (काठ०सं० ८.३), पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन् (तै०सं० १.१.९.३) इति ‘न लोकाव्ययनिष्ठा०’ (२.३.६९) इति षष्ठीप्रतिषेधो न भवति॥

शि सर्वनामस्थानम् ॥ १.१.४२॥

शि इत्येतत् सर्वनामस्थानसंज्ञं भवति। किमिदं शि इति? ‘जश्शसोःशिः’ (७.१.२०) इति शिरादेशः। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। सर्वनामस्थानप्रदेशाः-‘सर्वनामस्थाने चासंबुद्धौ’ (६.४.८) इत्येवमादयः॥

सुडनपुंसकस्य ॥ १.१.४३॥

सुडिति पञ्च वचनानि सर्वनामस्थानसंज्ञानि भवन्ति नपुंसकादन्यत्र। नपुंसके न विधिर्न प्रतिषेधः, तेन जसः शेः सर्वनामस्थानसंज्ञा पूर्वेण भवत्येव। राजा, राजानौ, राजानः। राजानम्, राजानौ। सुडिति किम्? राज्ञः पश्य। अनपुंसकस्येति किम्? सामनी। वेमनी॥

न वेति विभाषा ॥ १.१.४४॥

नेति प्रतिषेधो वेति विकल्पः, तयोः प्रतिषेधविकल्पयोर्विभाषेति संज्ञा भवति। इतिकरणोऽर्थनिर्देशार्थः। विभाषाप्रदेशेषु प्रतिषेधविकल्पावुपतिष्ठेते। तत्र प्रतिषेधेन समीकृते विषये पश्चाद् विकल्पः प्रवर्तते। उभयत्रविभाषाः प्रयोजयन्ति। ‘विभाषा श्वेः’ (६.१.३०)-शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। विभाषाप्रदेशाः-‘विभाषा श्वेः’(६.१.३०) इत्येवमादयः॥

इग् यणः सम्प्रसारणम् ॥ १.१.४५॥

इग् यो यणः स्थाने भूतो भावी वा तस्य संप्रसारणमित्येषा संज्ञा भवति। यज्- इष्टम्। वप्-उप्तम्। ग्रह-गृहीतम्। केचिदुभयथा सूत्रमिदं व्याचक्षते-वाक्यार्थः संज्ञी, वर्णश्चेति। इग्यण इति यो वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणः स संप्रसारणसंज्ञो भवति, यण्स्थानिको य इग्वर्णः स संप्रसारणसंज्ञो भवतीति। तत्र विधौ वाक्यार्थ उपतिष्ठते। ‘ष्यङः संप्रसारणम्’ (६.१.१३),‘वसोःसंप्रसारणम्’ (६.४.१३१) इति। अनुवादे वर्णः, ‘संप्रसारणाच्च’(६.१.१०८) इति। संख्यातानुदेशादिह न भवति-अदुहितरामिति। संप्रसारणप्रदेशाः-‘वसोः संप्रसारणम्’ (६.४.१३१) इत्येवमादयः॥

आद्यन्तौ टकितौ ॥ १.१.४६॥

आदिष्टिद् भवति अन्तःकिद् भवति षष्ठीनिर्दिष्टस्य। लविता। मुण्डो भीषयते। टित्प्रदेशाः-‘आर्धधातुकस्येड् वलादेः’(७.२.३५) इत्येवमादयः। कित्प्रदेशाः- ‘भियो हेतुभये षुक्’ (७.३.४०) इत्येवमादयः॥

मिदचोऽन्त्यात् परः ॥ १.१.४७॥

अच इति निर्धारणे षष्ठी। जातौ चेदमेकवचनम्। अचां संनिविष्टानामन्त्यादचः परो मिद् भवति। स्थानेयोगप्रत्ययपरत्वस्यायमपवादः। विरुणद्धि। मुञ्चति। पयांसि। मित्प्रदेशाः-‘रुधादिभ्यःश्नम्’ (३.१.७८) इत्येवमादयः॥ मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम्॥ मग्नः। मग्नवान्। मङ्क्ता। मङ्क्तुम्॥

एच इग्घ्रस्वादेशे ॥ १.१.४८॥

एचो ह्रस्वादेशे कर्तव्य इगेव ह्रस्वो भवति नान्यः। रै-अतिरि। नौ-अतिनु। गो-उपगु। एच इति किम्? अतिखट्वः। अतिमालः। ह्रस्वादेश इति किम्? देव॑दत्त। दे३वदत्त॥

षष्ठी स्थानेयोगा ॥ १.१.४९ ॥

परिभाषेयं योगनियमार्था। इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते, सा स्थानेयोगैव भवति नान्ययोगा। स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या। स्थानशब्दश्च प्रसङ्गवाची। यथा दर्भाणां स्थाने शरैः प्रस्तरितव्यमिति दर्भाणां प्रसङ्ग इति गम्यते। एवमिहापि अस्तेः स्थाने प्रसङ्गे भूर्भवति। भविता। भवितुम्। भवितव्यम्। ब्रुवः प्रसङ्गे वचिर्भवति। वक्ता। वक्तुम्। वक्तव्यम्। प्रसङ्गे सम्बन्धस्य निमित्तभूते ब्रुव इति षष्ठी। बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः। तत्र यावन्तः शब्दे संभवन्ति तेषु सर्वेषु प्राप्तेषु नियमः क्रियते षष्ठी स्थानेयोगेति। स्थाने योगोऽस्या इति व्यधिकरणो बहुव्रीहिः। अत एव निपातनाच्च सप्तम्या अलुक्॥

स्थानेऽन्तरतमः ॥ १.१.५०॥

स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति सदृशतमः। कुतश्च शब्दस्यान्तर्यम्? स्थानार्थगुणप्रमाणतः। स्थानतः-‘अकः सवर्णे दीर्घः’ (६.१.१०१)-दण्डाग्रम्। यूपाग्रम्। द्वयोरकारयोः कण्ठ्य एव दीर्घ आकारो भवति। अर्थतः-वतण्डी चासौ युवतिश्च वातण्ड्ययुवतिः। पुंवद्भावेनान्तरतमः पुंशब्दोऽतिदिश्यते। गुणतः-पाकः। त्यागः। रागः। ‘चजोः कु घिण्ण्यतोः’ (७.३.५२) इति चकारस्याल्पप्राणस्याघोषस्य तादृश एव ककारो भवति, जकारस्य घोषवतोऽल्पप्राणस्य तादृश एव गकारः। प्रमाणतः-अमुष्मै। अमूभ्याम्। ‘अदसोऽसेर्दादु दो मः’ (८.२.८०) इति ह्रस्वस्य ह्रस्वः, दीर्घस्य दीर्घः। स्थान इति वर्तमाने पुनः स्थानेग्रहणं किम्? यत्रानेकमान्तर्यं संभवति तत्र स्थानत एवान्तर्यं बलीयो यथा स्यात्। चेता। स्तोता। प्रमाणतोऽकारो गुणः प्राप्तः, तत्र स्थानत आन्तर्यादेकारौकारौ भवतः। तमब्ग्रहणं किम्? वाग् घसति। त्रिष्टुब् भसति। ‘झयो होऽन्यतरस्याम्’ (८.४.६२) इति हकारस्य पूर्वसवर्णे क्रियमाणे सोष्मणः सोष्माण इति द्वितीयाः प्रसक्ताः, नादवतो नादवन्त इति तृतीयाः, तमब्ग्रहणाद् ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः॥

उरण् रपरः ॥ १.१.५१॥

उः स्थानेऽण् प्रसज्यमान एव रपरो वेदितव्यः। कर्ता। हर्ता। किरति। गिरति। द्वैमातुरः। त्रैमातुरः। उरिति किम्? खेयम्। गेयम्। अण्ग्रहणं किम्? ‘सुधातुरकङ् च’ (४.१.९७)-सौधातकिः॥

अलोऽन्त्यस्य ॥ १.१.५२॥

षष्ठीनिर्दिष्टस्य य उच्यत आदेशः, सोऽन्त्यस्यालः स्थाने वेदितव्यः। ‘इद् गोण्याः’ (१.२.५०)-पञ्चगोणिः। दशगोणिः॥

ङिच्च ॥ १.१.५३॥

ङिच्च य आदेशः, सोऽनेकालपि अलोऽन्त्यस्य स्थाने भवति। ‘आनङ् ऋतो द्वन्द्वे’ (६.३.२५)-होतापोतारौ। मातापितरौ। तातङि ङित्करणस्य गुणवृद्धिप्रतिषेधार्थत्वात् सर्वादेशस्तातङ् भवति। जीवताद् भवान्। जीवतात् त्वम्॥

आदेः परस्य ॥ १.१.५४॥

परस्य कार्यं शिष्यमाणमादेरलः प्रत्येतव्यम् । क्व च परस्य कार्यं शिष्यते? यत्र पञ्चमीनिर्देशः। तद् यथा-‘ईदासः’ (७.२.८३)-आसीनो यजते। ‘द्व्यन्तरुपसर्गेभ्योऽप ईत्’ (६.३.९७)-द्वीपम् । अन्तरीपम्। प्रतीपम्। समीपम्॥

अनेकाल्शित् सर्वस्य ॥ १.१.५५॥

अनेकाल् य आदेशः शिच् च, स सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने भवति। ‘अस्तेर्भूः’ (२.४.५२)-भविता। भवितुम्। भवितव्यम्। शित् खल्वपि-‘जश्शसोः शिः’ (७.१.२०)- कुण्डानि तिष्ठन्ति। कुण्डानि पश्य॥

स्थानिवदादेशोऽनल्विधौ ॥ १.१.५६॥

स्थान्यादेशयोः पृथक्त्वात् स्थान्याश्रयं कार्यमादेशे न प्राप्नोतीत्ययमतिदेश आरभ्यते। स्थानिना तुल्यं वर्तत इति स्थानिवत्। स्थानिवदादेशो भवति स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु, स्थान्यलाश्रयाणि कार्याणि वर्जयित्वा। न अल्विधिरनल्विधिरित्यर्थः। किमुदाहरणम्? धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशाः। धात्वादेशो धातुवद् भवति। ‘अस्तेर्भूः’ (२.४.५२)। ‘ब्रुवो वचिः’ (२.४.५३)। आर्धधातुके विषये प्रागेवादेशेषु कृतेषु ‘धातोः’ (३.१.९१) इति तव्यादयो भवन्ति। भविता। भवितुम्। भवितव्यम्। वक्ता। वक्तुम्। वक्तव्यम्। अङ्गादेशोऽङ्गवद् भवति। केन, काभ्याम्, कैः। ‘किमः कः’ (७.२.१०३) इति कादेशे कृतेऽङ्गाश्रया इनदीर्घत्वैस्भावा भवन्ति। कृदादेशः कृद्वद् भवति। प्रकृत्य। प्रहृत्य। क्त्वो ल्यबादेशे कृते ‘ह्रस्वस्य पिति कृति तुक्’ (६.१.७१) इति तुग् भवति। तद्धितादेशस्तद्धितवद् भवति। दाधिकम्। अद्यतनम्। ‘कृत्तद्धितसमासाश्च’ (१.२.४६) इति प्रातिपदिकसंज्ञा भवति। अव्ययादेशोऽव्ययवद् भवति। प्रस्तुत्य। उपहृत्य। उपस्तुत्य। ‘अव्ययात्०’ (२.४.८२) इति सुब्लुग् भवति। सुबादेशः सुब्वद् भवति। वृक्षाय। प्लक्षाय। ‘सुपि च’(७.३.१०२)इति दीर्घत्वं भवति। तिङादेशस्तिङ्वद् भवति। अकुरुताम्। अकुरुतम्। ‘सुप्तिङन्तं पदम्’ (१.४.१४) इति पदसंज्ञा भवति। पदादेशः पदवद् भवति। ग्रामो वःस्वम्। जनपदो नः स्वम्। ‘पदस्य’ (८.१.१६) इति रुत्वं भवति। वत्करणं किम्? स्थानी आदेशस्य संज्ञा मा विज्ञायीति, स्वाश्रयमपि यथा स्यात्। ‘आङो यमहनः’ (१.३.२८)-आहत, आवधिष्ट इत्यात्मनेपदमुभयत्रापि भवति। आदेशग्रहणं किम्? आनुमानिकस्याप्यादेशस्य स्थानिवद्भावो यथा स्यात्। पचतु। ‘एरुः’ (३.४.८६)। अनल्विधाविति किम्? द्युपथित्यदादेशा न स्थानिवद् भवन्ति। द्यौः। पन्थाः। स इति। ‘हल्ङ्याब्भ्यः०’(६.१.६८) इति सुलोपो न भवति॥

अचः परस्मिन् पूर्वविधौ ॥ १.१.५७॥

पूर्वेणानल्विधौ स्थानिवद्भाव उक्तः । अल्विध्यर्थमिदमारभ्यते। आदेशः स्थानिवद् इति वर्तते। अच इति स्थानिनिर्देशः। परस्मिन्निति निमित्तसप्तमी। पूर्वविधाविति विषयसप्तमी। अजादेशः परनिमित्तकः पूर्वविधौ कर्तव्ये स्थानिवद् भवति। पटयति। अवधीत्। ब॒हु॒ख॒ट्वकः॑। पटुमाचष्ट इति णिचि टिलोपे कृते तस्य स्थानिवद्भावाद् ‘अत उपधायाः’ (७.२.११६) इति वृद्धिर्न भवति। अवधीत्। अतो लोपस्य स्थानिवद्भावाद् ‘अतो हलादेर्लघोः’ (७.२.७) इति हलन्तलक्षणा वृद्धिर्न भवति। ब॒हु॒ख॒ट्वक॑ इति ‘आपोऽन्यतरस्याम्’ (७.४.१५) इति ह्रस्वस्य स्थानिवद्भावाद् ‘ह्रस्वान्तेऽन्त्यात्पूर्वम्’ (६.२.१७४) इति स्वरो न भवति। अच इति किम्? प्रश्नः। आक्राष्टाम्। आगत्य। प्रश्न इति प्रच्छेर्नङ्प्रत्यये ‘च्छ्वोः शूडनुनासिके च’ (६.४.१९) इति छकारस्य शकारः परनिमित्तकस्तुकि न स्थानिवद् भवति। आक्राष्टामिति ‘झलो झलि’ (८.२.२६) इति सिचो लोपः परनिमित्तकः कृषेः षकारस्य ‘षढोः कः सि’ (८.२.४१) इति ककारे कर्तव्ये न स्थानिवद् भवति। आगत्येति ‘वा ल्यपि’ (६.४.३८) इत्यनुनासिकलोपः परनिमित्तकस्तुकि कर्तव्ये न स्थानिवद् भवति। परस्मिन्निति किम् ? युवजानिः। वधूटीजानिः। वैयाघ्रपद्यः। आदीध्ये। युवजानिरिति ‘जायाया निङ् ’ (५.४.१३४) न परनिमित्तकस्तेन यलोपे न स्थानिवद् भवति। वैयाघ्रपद्य इति न परनिमित्तकः पादस्यान्तलोपः पद्भावं न प्रतिबध्नाति। आदीध्ये इति दीधीङ उत्तमपुरुषैकवचने टेरेत्वस्यापरनिमित्तकत्वाद् ‘यीवर्णयोर्दीधीवेव्योः’ (७.४.५३) इति लोपो न भवति। पूर्वविधाविति किम् ? हे गौः। बाभ्रवीयाः। नैधेयः। हे गौरिति वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न स्थानिवद् भवति। बाभ्रवीया इति बाभ्रव्यस्यामीच्छात्रा इति ‘वृद्धाच्छः’ (४.२.११४) इति छः । ‘हलस्तद्धितस्य’ (६.४.१५०) इति यकारलोपे कर्तव्येऽवादेशो न स्थानिवद् भवति। नैधेयः। ‘आतो लोप इटि च’ (६.४.६४) इत्याकारलोप ‘इतश्चानिञः’ (४.१.१२२) इति द्व्यज्लक्षणे प्रत्ययविधौ न स्थानिवद् भवति॥

न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ॥ १.१.५८॥

पूर्वेणातिप्रसक्तः स्थानिवद्भाव एतेषु विधिषु प्रतिषिध्यते। पदान्तविधिं प्रत्यजादेशो न स्थानिवद् भवति। कौ स्तः। यौ स्तः। तानि सन्ति। यानि सन्ति। ‘श्नसोरल्लोपः’ (६.४.१११) क्ङिति सार्वधातुक इति परनिमित्तकः, स पूर्वविधावावादेशे यणादेशे च कर्तव्ये स्थानिवत् स्यात्, अस्माद् वचनाद् न भवति। द्विर्वचनविधिं प्रति [अजादेशः] न स्थानिवद् भवति। दद्ध्यत्र। मद्ध्वत्र। यणादेशः परनिमित्तकः, तस्य स्थानिवद्भावाद् ‘अनचि च’ (८.४.४७) इति धकारस्य द्विर्वचनं न स्यादस्माद् वचनाद् भवति । वरे योऽजादेशः स पूर्वविधिं प्रति न स्थानिवद् भवति। अप्सु यायावरः प्रवपेत पिण्डान्। यातेर्यङन्ताद् ‘यश्च यङः’ (३.२.१७६) इति वरचि कृते ‘अतो लोपः’ (६.४.४८) परनिमित्तकः, तस्य स्थानिवत्त्वाद् ‘आतो लोप इटि च’ (६.४.६४) इत्याकारलोपः स्याद्, अस्माद् वचनाद् न भवति। यलोप-यलोपविधिं प्रत्यजादेशो न स्थानिवद् भवति। कण्डूतिः। कण्डूयतेः क्तिचि कृते ‘अतो लोपः’ (६.४.४८) परनिमित्तको ‘लोपो व्योर्वलि’ (६.१.६६) इति यलोपे स्थानिवत् स्याद्, अस्माद् वचनाद् न भवति। स्वर-स्वरविधिं प्रत्यजादेशो न स्थानिवद् भवति। चि॒कीर्ष॑कः। जि॒हीष᐀्॑कः। ण्वुलि कृते ‘अतो लोपः’ (६.४.४८) परनिमित्तको ‘लिति’ (६.१.१९३) प्रत्ययात् पूर्वमुदात्तमिति स्वरे कर्तव्ये न स्थानिवद् भवतीति। सवर्ण-सवर्णविधिं प्रत्यजादेशो न स्थानिवद् भवति। शिण्ढि। पिण्ढि। शिषेः पिषेश्च लोण्मध्यमपुरुषैकवचने ‘रुधादिभ्यः श्नम्’ (३.१.७८) हित्वधित्वष्टुत्वजश्त्वेषु कृतेषु ‘श्नसोरल्लोपः’ (६.४.१११) क्ङिति सार्वधातुके परनिमित्तकः, अनुस्वारस्य ययि परसवर्णे (८.४.५८) कर्तव्ये न स्थानिवद् भवति। अनुस्वार-अनुस्वारविधिं प्रत्यजादेशो न स्थानिवद् भवति। शिंषन्ति। पिंषन्ति। ‘नश्चापदान्तस्य झलि’ (८.३.२४) इत्यनुस्वारे कर्तव्ये ‘श्नसोरल्लोपः’ (६.४.१११) न स्थानिवद् भवति। दीर्घ-दीर्घविधिं प्रत्यजादेशो न स्थानिवद् भवति। प्रतिदीव्ना। प्रतिदीव्ने। प्रतिदिवन्नित्येतस्य ‘भस्य’ (६.४.१२९) इत्यधिकृत्य तृतीयैकवचने चतुर्थ्येकवचने च ‘अल्लोपोऽनः’ (६.४.१३४) इत्यकारलोपः परनिमित्तकः, तस्य स्थानिवद्भावाद् ‘हलि च’ (८.२.७७) इति दीर्घत्वं न स्यात्, न ह्ययं वकारो हल्पर इति, अस्माद् वचनाद् भवति। जश्-जश्विधिं प्रत्यजादेशो न स्थानिवद् भवति। सग्धि॑श्च मे॒ सपी॑तिश्च मे (मा०सं० १८.९)। ब॒ब्धां ते॒ हरी॑ धा॒नाः (नि० ५.१२)। अदेः क्तिनि ‘बहुलं छन्दसि’ (२.४.३९) इति घस्लादेशः,‘घसिभसोर्हलि च’ (६.४.१००) इत्युपधालोपः,‘झलो झलि’ (८.२.२६) इति सकारलोपः,‘झषस्तथोर्धोऽधः’ (८.२.४०) इति धत्वम्, उपधालोपस्य स्थानिवत्त्वात् ‘झलां जश् झशि’ (८.४.५३) इति घकारस्य जश्त्वं न स्याद्, अस्माद् वचनाद् भवति। समाना ग्धिः, समानस्य सभावः। सग्धिः। बब्धामिति। भसेर्लोड्द्विवचने शपः श्लुः, द्विर्वचनम्, अभ्यासकार्यम्, ‘घसिभसोर्हलि च’ (६.४.१००)इत्युपधालोपः,‘झलो झलि’(८.२.२६)इति सकारलोपः, ‘झषस्तथोर्धोऽधः’(८.२.४०)इति धत्वम्। उपधालोपस्य स्थानिवत्त्वात् ‘झलां जश् झशि’ (८.४.५३) इति भकारस्य जश्त्वं न स्याद्, अस्माद् वचनाद् भवति। चर्-चर्विधिं प्रत्यजादेशो न स्थानिवद् भवति। जक्षतुः। जक्षुः। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरः॑ (मा०सं० १९.३६)। लिड्द्विवचनबहुवचनयोरदेर्घस्लादेशः, ‘गमहनजनखनघसाम्०’ (६.४.९८) इत्युपधालोपः, द्विर्वचनम्, अभ्यासकार्यम्। तत्रोपधालोपस्य स्थानिवत्त्वात् ‘खरि च’ (८.४.५५) इति घकारस्य चर्त्वं न स्याद्, अस्माद् वचनाद् भवति। ‘शासिवसिघसीनां च’ (८.३.६०) इति षत्वम्। अक्षन्नित्यदेर्लुङ्बहुवचने घस्लादेशः, च्लेरागतस्य ‘मन्त्रे घसह्वर०’ (२.४.८०) इति लुक्। ‘गमहनजनखनघसाम्०’ (६.४.९८) इत्युपधालोपः, तस्य स्थानिवत्त्वात् ‘खरि च’ (८.४.५५) इति चर्त्वं न स्याद्, अस्माद् वचनाद् भवति॥ स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवति॥ अन्यस्तु स्थानिवदेव। तेन ब॒हु॒ख॒ट्वकः॑, किर्योः, गिर्योः, वाय्वोरिति स्थानिवत्त्वात् स्वरदीर्घयलोपा न भवन्ति॥

द्विर्वचनेऽचि ॥ १.१.५९॥

द्विर्वचननिमित्तेऽचि अजादेशः स्थानिवद् भवति द्विर्वचन एव कर्तव्ये। रूपातिदेशश्चायं नियतकालः। तेन कृते द्विर्वचने पुनरादेशरूपमेवावतिष्ठते। आल्लोपोपधालोपणिलोपयणयवायावादेशाः प्रयोजनम्। आल्लोपः-पपतुः, पपुः। ‘आतो लोप इटि च’ (६.४.६४) इत्याकारलोपे कृते तस्य स्थानिवद्भावाद् ‘एकाचो०’ (६.१.१) इति द्विर्वचनं भवति। उपधालोपः-जघ्नतुः, जघ्नुः। ‘गमहनजनखनघसाम्०’ (६.४.९८) इत्युपधालोपे कृतेऽनच्कत्वाद् द्विर्वचनं न स्यात्, अस्माद् वचनाद् भवति। णिलोपः- आटिटत्। अटतेर्णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वाद् ‘अजादेर्द्वितीयस्य’ (६.१.२) इति टिशब्दस्य द्विर्वचनं भवति। यण्-चक्रतुः, चक्रुः। करोतेरतुसि उसि च यणादेशे कृतेऽनच्कत्वाद् द्विर्वचनं न स्यात्, स्थानिवत्त्वाद् भवति। अयवायावादेशाः- निनय। निनाय। लुलव। लुलाव। नयतेर्लुनातेश्चोत्तमे णलि गुणे कृते वृद्धौ चायवायावादेशाः, तेषां स्थानिवत्त्वाद् नेनैलोलाविति द्विर्वचनं भवति। द्विर्वचने कर्तव्य इति किम्? जग्ले। मम्ले। श्रवणमाकारस्य न भवति। द्विर्वचननिमित्त इति किम्? दुद्यूषति। ऊठि यणादेशो न स्थानिवद् भवति। अचीति किम्? जेघ्रीयते। देध्मीयते। ‘ई घ्राध्मोः’ (७.४.३१) ‘यङि च’ (७.४.३०) इतीकारादेशः, तस्य स्थानिवद्भावादाकारस्य द्विर्वचनं स्यात्, अज्ग्रहणाद् न भवति॥

अदर्शनं लोपः ॥ १.१.६०॥

अदर्शनम्, अश्रवणम्, अनुच्चारणम्, अनुपलब्धिः, अभावः, वर्णविनाश इत्यनर्थान्तरम्। एतैः शब्दैर्योऽर्थोऽभिधीयते, तस्य लोप इतीयं संज्ञा भवति। अर्थस्येयं संज्ञा न शब्दस्य। प्रसक्तस्यादर्शनं लोपसंज्ञं भवति। ‘गोधाया ढ्रक्’ (४.१.१२९)-गौधेरः। पचेरन्। ‘जीवे रदानुक्’ (द०उ० १.१६३)-जीरदानुः। स्रिवेर्मनिन्-आस्रेमाणम्। यकारवकारयोरदर्शनमिहोदाहरणम्। अपरस्यानुबन्धादेः प्रसक्तस्य। लोपप्रदेशाः-‘लोपो व्योर्वलि’ (६.१.६६) इत्येवमादयः॥

प्रत्ययस्य लुक्श्लुलुपः ॥ १.१.६१॥

अदर्शनमिति वर्तते। प्रत्ययादर्शनस्य लुक्, श्लु, लुप् इत्येताः संज्ञा भवन्ति। अनेकसंज्ञाविधानाच् च तद्भावितग्रहणमिह विज्ञायते। लुक्संज्ञाभावितं प्रत्ययादर्शनं लुक्संज्ञं भवति, श्लुसंज्ञाभावितं श्लुसंज्ञं भवति, लुप्संज्ञाभावितं लुप्संज्ञं भवति। तेन संज्ञानां संकरो न भवति। विधिप्रदेशेषु च भाविनी संज्ञा विज्ञायते। अत्ति। जुहोति। वरणाः। प्रत्ययग्रहणं किम्? अगस्तयः। कुण्डिनाः। लुक्श्लुलुप्प्रदेशाः-‘लुक् तद्धितलुकि’ (१.२.४९), ‘जुहोत्यादिभ्यः श्लुः’ (२.४.७५),‘जनपदे लुप्’ (४.२.८१) इत्येवमादयः॥

प्रत्ययलोपे प्रत्ययलक्षणम् ॥ १.१.६२॥

प्रत्ययनिमित्तं कार्यमसत्यपि प्रत्यये कथं नु नाम स्यादिति सूत्रमिदमारभ्यते। प्रत्ययलोपे कृते प्रत्ययलक्षणं प्रत्ययहेतुकं कार्यं भवति। अग्निचित्, सोमसुत्, अधोगित्यत्र सुप्तिङोर्लुप्तयोः ‘सुप्तिङन्तं पदम्’ (१.४.१४) इति पदसंज्ञा भवति। अधोगिति दुहेर्लङि तिपि शब्लुकि तिलोपे घत्वभष्भावजश्त्वचर्त्वेषु कृतेषु रूपम्। प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किम्? कृत्स्नप्रत्ययलोपे यथा स्यात्। इह मा भूत्-आघ्नीय। सङ्ग्मीय। हनिगम्योर्लिङात्मनेपदे ‘लिङः सलोपोऽनन्त्यस्य’ (७.२.७९) इति सीयुट्सकारलोपः प्रत्ययैकदेशलोपः, तत्र प्रत्ययलक्षणेन झलि (६.४.३७) इत्यनुनासिकलोपो न भवति। प्रत्ययलक्षणमिति किम्? रायः कुलं रैकुलम्। गवे हितं गोहितम्। आयवादेशौ न भवतो वर्णाश्रयत्वात्॥

न लुमताङ्गस्य ॥ १.१.६३॥

पूर्वेणातिप्रसक्तं प्रत्ययलक्षणमिति विशेषे प्रतिषेध उच्यते। लुमता शब्देन लुप्ते प्रत्यये यदङ्गम्, तस्य प्रत्ययलक्षणं कार्यं न भवति। गर्गाः। मृष्टः। जुहुतः। यञ्शपोर्लुमता लुप्तयोरङ्गस्य गुणवृद्धी न भवतः। लुमतेति किम्? कार्यते। हार्यते। अङ्गस्येति किम्? पञ्च। सप्त। पयः। साम॥

अचोऽन्त्यादि टि ॥ १.१.६४॥

अच इति निर्धारणे षष्ठी। जातावेकवचनम्। अचां संनिविष्टानां योऽन्त्योऽच्, तदादि शब्दरूपं टिसंज्ञं भवति। अग्निचित्-इच्छब्दः। सोमसुत्-उच्छब्दः। आताम्, आथाम्-आम्शब्दः। पचेते। पचेथे। टिप्रदेशाः- ‘टित आत्मनेपदानां टेरे’ (३.४.७९) इत्येवमादयः॥

अलोऽन्त्यात् पूर्व उपधा॥ १.१.६५॥

धात्वादौ वर्णसमुदायेऽन्त्यादलः पूर्वो यो वर्णः, सोऽलेवोपधासंज्ञो भवति। पच्, पठ्-अकारः। भिद्, छिद्-इकारः। बुध्, युध्-उकारः। वृत्, वृध्-ऋकारः। अल इति किम्? शिष्टः। शिष्टवान्। समुदायात् पूर्वस्य मा भूत्। उपधाप्रदेशाः- ‘अत उपधायाः’ (७.२.११६) इत्येवमादयः॥

तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ १.१.६६॥

तस्मिन्निति सप्तम्यर्थनिर्देशे पूर्वस्यैव कार्यं भवति, नोत्तरस्य। ‘इको यणचि’ (६.१.७७)-दध्युदकम्। मध्विदम्। पचत्योदनम्। निर्दिष्टग्रहणमानन्तर्यार्थम्। अग्निचिदत्रेति व्यवहितस्य मा भूत्॥

तस्मादित्युत्तरस्य ॥ १.१.६७॥

निर्दिष्टग्रहणमनुवर्तते। तस्मादिति पञ्चम्यर्थनिर्देश उत्तरस्यैव कार्यं भवति, न पूर्वस्य। ‘तिङ्ङतिङः’ (८.१.२८)-ओ॒द॒नं प॑चति। इह न भवति-पच॑त्यो॒दनम् इति॥

स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ १.१.६८॥

शास्त्रे स्वमेव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति, न बाह्योऽर्थः, शब्दसंज्ञां वर्जयित्वा। शब्देनार्थावगतेरर्थे कार्यस्यासंभवात् तद्वाविचां शब्दानां संप्रत्ययो मा भूदिति सूत्रमिदमारभ्यते। ‘अग्नेर्ढक्’ (४.२.३३)- आग्नेयमष्टाकपालं निर्वपेत् (वै०श्रौ० १.१९)। अग्निशब्दोऽग्निशब्दस्यैव ग्राहको भवति, न ज्वलनः पावको धूमकेतुरिति, नातः प्रत्ययो भवति। ‘उदश्वितोन्यतरस्याम्’ (४.२.१९)-औदश्वित्कम्। औदश्वितम्। तक्रमरिष्टं कालशेयं दण्डाहतं मथितमिति नातः प्रत्ययो भवति। अशब्दसंज्ञेति किम्? ‘दाधा घ्वदाप्’ (१.१.२०), ‘तरप्तमपौ घः’ (१.१.२२) घुग्रहणेषु घग्रहणेषु च संज्ञिनां ग्रहणम्, न संज्ञायाः॥ सित्तद्विशेषाणां वृक्षाद्यर्थम्॥ सिन्निर्देशः कर्तव्यः। ततो वक्तव्यं तद्विशेषाणां ग्रहणं भवतीति। किं प्रयोजनम्? वृक्षाद्यर्थम्। ‘विभाषा वृक्षमृगतृण०’ (२.४.१२) इति। प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः॥ पित्पर्यायवचनस्य च स्वाद्यर्थम्॥ पिन्निर्देशः कर्तव्यः। ततो वक्तव्यं पर्यायवचनस्य ग्रहणं भवति, चकारात् स्वस्य रूपस्य तद्विशेषाणां चेति। किं प्रयोजनम्? स्वाद्यर्थम्। ‘स्वे पुषः’ (३.४.४०)-स्वपोषं पुष्टः। रैपोषम्। धनपोषम्। अश्वपोषम्। गोपोषम्॥ जित्पर्यायवचनस्यैव राजाद्यर्थम्॥ जिन्निर्देशः कर्तव्यः। ततो वक्तव्यं पर्यायवचनस्यैव ग्रहणं भवतीति, न स्वरूपस्य, नापि तद्विशेषाणाम्। किं प्रयोजनम्? राजाद्यर्थम्। ‘सभा राजामनुष्यपूर्वा’ (२.४.२३)-इनसभम्। ईश्वरसभम्। तस्यैव न भवति-राजसभा। तद्विशेषाणां च न भवति-पुष्यमित्रसभा। चन्द्रगुप्तसभा॥ झित्तद्विशेषाणां च मत्स्याद्यर्थम्॥ झिन्निर्देशः कर्तव्यः। ततो वक्तव्यं तस्य च ग्रहणं भवति तद्विशेषाणां चेति। किं प्रयोजनम्? मत्स्याद्यर्थम्। ‘पक्षिमत्स्यमृगान् हन्ति’ (४.४.३५) इति ठक्। पाक्षिकः। मात्स्यिकः। तद्विशेषाणाम्-शाकुनिकः। पर्यायाणां न भवति-अजिह्मान् हन्ति। अनिमिषान् हन्तीति। अथैकस्येष्यते। मीनान् हन्ति मैनिकः॥

अणुदित् सवर्णस्य चाप्रत्ययः ॥ १.१.६९॥

परेण णकारेण प्रत्याहारग्रहणम्। अण् गृह्यमाण उदिच्च सवर्णानां ग्राहको भवति, स्वस्य च रूपस्य, प्रत्ययं वर्जयित्वा। ‘आद् गुणः’ (६.१.८७)। ‘अस्य च्वौ’ (७.४.३२)। ‘यस्येति च’ (६.४.१४८)। स्वरानुनासिक्यकालभिन्नस्य ग्रहणं भवति। उदित् खल्वपि-‘चुटू’ (१.३.७), ‘लशक्वतद्धिते’ (१.३.८) चवर्गटवर्गयोः कवर्गस्य च ग्रहणं भवति। अप्रत्यय इति किम्? ‘सनाशंसभिक्ष उः’ (३.२.१६८)। ‘अ साम्प्रतिके’ (४.३.९)। दीर्घो न भवति॥

तपरस्तत्कालस्य ॥ १.१.७०॥

तः परो यस्मात् सोऽयं तपरः, तादपि परस्तपरः। तपरो वर्णस्तत्कालस्यात्मना तुल्यकालस्य गुणान्तरयुक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य। विध्यर्थमिदम्। अणिति नानुवर्तते। अणामन्येषां च तपराणाम् इदमेव ग्रहणकशास्त्रम्। ‘अतो भिस ऐस्’ (७.१.९) इत्येवमादिषु पूर्वग्रहणकशास्त्रं न प्रवर्तत एव। अतपरा अणस्तस्यावकाशः। किमुदाहरणम्? ‘अतो भिस ऐस्’ (७.१.९)-वृक्षैः। प्लक्षैः। ‘विड्वनोरनुनासिकस्यात्’ (६.४.४१)-अब्जाः। गोजाः। तत्कालस्येति किम्? खट्वाभिः। मालाभिः॥

आदिरन्त्येन सहेता ॥ १.१.७१॥

आदिरन्त्येनेत्संज्ञकेन सह गृह्यमाणस्तन्मध्यपतितानां वर्णानां ग्राहको भवति, स्वस्य च रूपस्य। अण्। अक्। अच्। हल्। सुप्। तिङ्। अन्त्येनेति किम्? सुडिति तृतीयैकवचनेन टा इत्यनेन ग्रहणं मा भूत्॥

येन विधिस्तदन्तस्य ॥ १.१.७२॥

येन विशेषणेन विधिर्विधीयते स तदन्तस्यात्मान्तस्य समुदायस्य ग्राहको भवति, स्वस्य च रूपस्य। ‘एरच्’ (३.३.५६)-इवर्णान्तादच्प्रत्ययो भवति। चयः। जयः। अयः। ‘ओरावश्यके’ (३.१.१२५)-उवर्णान्ताद् ण्यत् भवति। अवश्यलाव्यम्। अवश्यपाव्यम्॥ समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः॥ द्वितीयान्तं श्रितादिभिः सह समस्यते। कष्टश्रितः। इह मा भूत्-कष्टं परमश्रित इति। प्रत्ययविधौ-‘नडादिभ्यः फक्’ (४.१.९९)। नडस्यापत्यं नाडायनः। इह मा भूत्-सूत्रनडस्यापत्यं सौत्रनाडिः। किमविशेषेण? नेत्याह॥ उगिद्वर्णग्रहणवर्जमिति वाच्यम्॥ ‘उगितश्च’ (४.१.६) इति ङीप्प्रत्ययस्तदन्तादपि भवति। भवती। अतिभवती। वर्णग्रहणम्-‘अत इञ्’ (४.१.९५)-दाक्षिः। प्लाक्षिः॥ यस्मिन् विधिस्तदादावल्ग्रहणे॥ अल्ग्रहणेषु यस्मिन् विधिस्तदादाविति वक्तव्यम्। ‘अचि श्नुधातुभ्रुवां य्वोरियङुवङौ’ (६.४.७७) इति। श्रियः। भ्रुवः॥

वृद्धिर्यस्याचामादिस्तद् वृद्धम् ॥ १.१.७३॥

यस्येति समुदाय उच्यते। अचां मध्ये यस्य वृद्धिसंज्ञक आदिभूतः तच्छब्दरूपं वृद्धसंज्ञं भवति। अचामिति जातौ बहुवचनम्। शालीयः। मालीयः। औपगवीयः। कापटवीयः। आदिरिति किम्? सभासन्नयने भवः साभासन्नयनः॥ वा नामधेयस्य वृद्धसंज्ञा वक्तव्या॥ देवदत्तीयाः, दैवदत्ताः॥ गोत्रान्तादसमस्तवत् प्रत्ययो भवतीति वक्तव्यम्॥ घृतप्रधानो रौढिः, घृतरौढिः। तस्य छात्रा घृतरौढीयाः। ओदनप्रधानः पाणिनिः, ओदनपाणिनिः। तस्य छात्रा ओदनपाणिनीयाः। वृद्धाम्भीयाः। वृद्धकाश्यपीयाः॥ जिह्वाकात्यहरितकात्यवर्जम्॥ जैह्वाकाताः। हारितकाताः॥

त्यदादीनि च ॥ १.१.७४ ॥

यस्याचामादिग्रहणमुत्तरार्थमनुवर्तते। इह तु न संबध्यते। त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति। त्यदीयम्। तदीयम् एतदीयम्। इदमीयम्। अदसीयम्। त्वदीयम्। त्वादायनिः। मदीयम्। मादायनिः। भवदीयम्। किमीयम्॥

एङ् प्राचां देशे ॥ १.१.७५॥

यस्याचामादिग्रहणमनुवर्तते। एङ् यस्याचामादिस्तत् प्राचां देशाभिधाने वृद्धसंज्ञं भवति। एणीपचनीयः। भोजकटीयः। गोनर्दीयः। एङिति किम्? आहिच्छत्रः। कान्यकुब्जः। प्राचामिति किम्? देवदत्तो नाम वाहीकेषु ग्रामः। तत्र भवो दैवदत्तः। देश इति किम्? गोमत्यां भवा मत्स्या गौमताः।

प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा।

विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य प्रथमः पादः॥