०५८ अनूद् (अनु+उद्)

क्रम्

  • {अनूत्क्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ (श० ब्रा० १४।७।२।३)। अनूत्क्रामन्ति=पश्चादनुसृत्य ऊर्ध्वं क्रामन्ति बहिर्वा निष्क्रामन्तीत्यर्थः।

नी

  • {अनून्नी}
  • नी (णीञ् प्रापणे)। ‘होतुश्चमसमनून्नयन्ते’ (तै० ब्रा० १।४।५।२)। होतुश्चमसमापूर्य तत उद्धृत्य चमसान्तरेण पूरयन्तीत्याह।

पत्

  • {अनूत्पत्}
  • पत् (पत्लृ गतौ)।
  • ‘उत्पतन्तमनूत्पेतुः सर्वे ते’ (रा० ५।६४।२४)। अनत्पेतुः=पश्चादुत्पुप्लुविरे।

वा

  • {अनूद्वा}
  • वा (वा गतिगन्धनयोः)।
  • ‘यदा वा अग्निरनुगच्छति वायुं तर्ह्य नूद्वाति तस्मादेनमुदवासीदित्याहुः’ (श० ब्रा० १०।३।३।८)। वायुमनूद्वाति=वायुमनुप्रविशति।

धृ

  • {अनूद्धृ}
  • धृ (धृञ् धारणे)।
  • ‘उपहूयमानायामिडायामनूपधारयेत्’ (लाट्या० श्रौ० १।५।२)। अनूपधारयेत्=व्याक्षिपेत्, विलम्बयेत्।