त्रा

“तस्य अधीनं देयम्” (to give as per the rules) इति अर्थे कृ/भू/अस्/सम्+पद् एतेषां योगे “५.४.५५ देये त्रा” च इति सूत्रेण प्रातिपदिकात् त्रा-प्रत्ययः, विकल्पेन साति-प्रत्ययः च भवति ।

  • दक्षिणां ब्राह्मणसात् / ब्राह्मणत्रा करोति = नियमम् अनुसृत्य ब्राह्मणाय दक्षिणां ददाति ।
  • माण्डलिकः सुवर्णं राजसात् / राजत्रा करोति = नियमम् अनुसृत्य राज्ञे सुवर्णं ददाति ।