णिचो ल्यप्

परिचयः

उपसर्गस्य उपस्थितौ क्त्वा-प्रत्ययस्य ७.१.३७ समासेऽनञ्पूर्वे क्त्वो ल्यप् इति सूत्रेण ल्यप्-आदेशः भवति । यथा, वि + लिख् + ल्यप् → विलिख्य । प्र + कृ + ल्यप् → प्रकृत्य । आ + नी + ल्यप् → आनीय ।

उपसर्गः अस्ति चेत् क्त्वा-प्रत्ययस्य ल्यप्-आदेशः अवश्यम् एव करणीयः । अतः “विलिखित्वा, प्रकृत्वा, आनीत्वा” इत्येतानि अनुचितानि रूपाणि ।

णिजन्तधातोः यदा ल्यप्-प्रत्ययः विधीयते तदा धातौ णिच्-प्रत्ययविशिष्टं परिवर्तनं कृत्वा ततः प्रक्रियायाम् णिच्-प्रत्ययस्य लोपः भवति । यथा, प्र + पठ् + णिच् + ल्यप् → प्रपाठि + य → प्रपाठ् + ० + य → प्रपाठ्य ।

सरला पद्धतिः

अत्र रूपनिर्माणस्य सरला पद्धतिः — धातोः णिजन्तस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपं निर्माय तत्र “अयति/अयते” इत्यस्य स्थाने “य” इति संस्थाप्यते चेत् णिजन्तस्य ल्यबन्तरूपं सिद्ध्यति । यथा — उपवेशयति → उपवेश्य । उद्घाटयति → उद्घाट्य । प्रणिदापयति → प्रणिदाप्य ।

लघुपूर्वकं व्यञ्जनं चेत्

येषु णिजन्तधातुषु णिच्-प्रत्ययात् पूर्वं लघुपूर्वकं व्यञ्जनं विद्यते (इत्युक्ते, तत् व्यञ्जनम् यस्मात् पूर्वम् अव्यवहितः ह्रस्वस्वरः विद्यते), तत्र णिच्-प्रत्ययस्य लोपः न भवति, अपितु “६.४.५६ ल्यपि लघुपूर्वात्” इत्यनेन णिच्-प्रत्ययस्य अय्-आदेशः विधीयते । यथा —

  • वि + गण + णिच् + ल्यप् → विगणि + य → विगण् इ + य → विगण् अय् + य‌→ विगणय्य ।
  • प्र + कथ + णिच् + ल्यप् → प्रकथि + य → प्रकथ् इ + य → प्रकथ् अय् + य‌→ प्रकथय्य ।

सरलप्रक्रिया

अत्र रूपनिर्माणस्य सरला पद्धतिः —

धातोः णिजन्तस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपं निर्माय तत्र “अयति/अयते” इत्यस्य स्थाने “अय्य” इति संस्थाप्यते चेत् णिजन्तस्य ल्यबन्तरूपं सिद्ध्यति । यथा —

  • प्रकटयति → प्रकटय्य । आकलयति →‌ आकलय्य ।
  • उन्नमयति → उन्नमय्य । आवरयति → आवरय्य ।
  • विरचयति →‌विरचय्य । सन्दमयति → सन्दमय्य । विशदति →‌ विशदय्य । प्रशमयति → प्रशमय्य । सङ्ग्रन्थयति → सङ्ग्रन्थय्य । आक्वथयति → आक्वथय्य ।

अयादेशः

६.४.५६ ल्यपि लघुपूर्वात् — यत्र णिच्-प्रत्ययात् पूर्वम् लघुपूर्वं व्यञ्जनं वर्तते, तत्र णिच्-प्रत्ययस्य अयादेशः भवति ।

लघुस्वरः = सः ह्रस्वस्वरः यस्मात् अनन्तरम् संयोगः न वर्तते । यथा, “शिव” इत्यत्र विद्यमान शकारोत्तरः इकारः लघुस्वरः अस्ति । परन्तु “कृष्ण” इत्यत्र विद्यमानः ऋकारः लघुस्वरः नास्ति ।

वि + गण् + इ + य इत्यत्र णिच्-प्रत्ययात् पूर्वं णकारः (व्यञ्जनम्), तस्मात् पूर्वं च लघुस्वरः (अकारः) अस्ति, अतः अत्र णिच्-प्रत्ययस्य अयादेशः भवति, अत विगणय्य इति रूपं सिद्ध्यति ।

प्र + दर्श् + इ + य इत्यत्र णिच्-प्रत्ययात् पूर्वं शकारः (व्यञ्जनम्), परन्तु तस्मात् पूर्वं स्वरः नास्ति अपितु अन्यद् व्यञ्जनं (रेफः इति) विद्यते, अतः अत्र णिच्-प्रत्ययस्य अयादेशः न भवति, अपितु लोपं कृत्वा प्रदर्श्य इति रूपं सिद्ध्यति । अत्र यद्यपि दकारोत्तरः अकारः ह्रस्वस्वरः, तथापि सः लघुसंज्ञकः नास्ति, अतः तस्य चिन्तनं अत्र न करणीयम् ।

प्र + जागर् + इ + य इत्यत्र णिच्-प्रत्ययात् पूर्वं रेफः (व्यञ्जनम्), तस्मात् पूर्वं च लघुस्वरः (अकारः) अस्ति, अतः अत्र णिच्-प्रत्ययस्य अयादेशः भवति, अत प्रजागरय्य इति रूपं सिद्ध्यति । अत्र यद्यपि जकारोत्तरः आकारः लघुस्वरः न, तथापि तस्मात् अनन्तरम् “अकारः” इति अन्यः लघुस्वरः विद्यते, अतः अत्र जकारोत्तरस्य आकारस्य चिन्तनं न करणीयम् ।

६.४.५७ विभाषापः — आप् (व्याप्तौ) इति पञ्चमगणस्य धातोः णिच्-प्रत्यये कृते ततः ल्यप्-प्रत्ययः क्रियते चेत् णिच्-प्रत्ययस्य विकल्पेन अयादेशः भवति, पक्षे लोपः अपि भवति ।

  • प्र + आप् + णिच् + य → प्र + आप् + इ + य → प्र + आप् + अय् + य → प्रापय्य ।
  • प्र + आप् + णिच् + य → प्र + आप् + इ + य → प्र + आप् + ० + य → प्राप्य ।

णिच्-प्रत्ययं विना अपि “प्राप्य” इत्येव रूपं भवति — प्र + आप् + ल्यप् → प्राप्य ।

प्र + आप् + णिच् + य इत्यत्र णिच्-प्रत्ययात् पूर्वं लघुपूर्वं व्यञनं नास्ति, अतः अत्र ६.४.५६ ल्यपि लघुपूर्वात् इति सूत्रेण अयादेशः न सम्भवति । अपि च, अत्र केवलं विकल्पेन एव अयादेशः इष्यते । अतः इदं पृथक् सूत्रं निर्मितम् ।