०९५ दुरुप (दुर्+उप)

चर्

  • {दुरुपचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘(राज्यलक्ष्मीः) आशीविष इव दुरुपचारा’ (पञ्चत०)। दु:सेव्येत्यर्थः।

सद्

  • {दुरुपसद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘अत्यर्थं दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य’ (कि० ७।९)। दुरुपसदात्=दुरुपगमात्। दुःसहादिति तु मल्लिः। स च तात्पर्यार्थः।

स्था

  • {दुरुपस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘यो रणे दुरुपस्थानो हस्तरोधं दधद् धनुः’ (भट्टि० ५।३२)। दुरुपस्थानोऽनुपेयः।