०३

**भूवादयो धातवः॥ १.३.१॥ **

भू इत्येवमादयः शब्दाः क्रियावचना धातुसंज्ञका भवन्ति। भू-भवति। एध-एधते। स्पर्ध-स्पर्धते। धातुशब्दः पूर्वाचार्यसंज्ञा। ते च क्रियावचनानां संज्ञां कृतवन्तः। तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावाचिनामेव भूवादीनां धातुसंज्ञा विधीयते।

भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते।

भुवो वार्थं वदन्तीति भ्वर्था वा वादयः स्मृताः॥

धातुप्रदेशाः-‘धातोः’ (३.१.९१) इत्येवमादयः॥

**उपदेशेऽजनुनासिक इत् ॥ १.३.२॥ **

उपदिश्यतेऽनेनेत्युपदेशः शास्त्रवाक्यानि, सूत्रपाठः खिलपाठश्च। तत्र योऽच् अनुनासिकः स इत्संज्ञो भवति। एध। स्पर्द्ध। ‘प्रतिज्ञानुनासिक्याः पाणिनीयाः’ (व्या०प० १२१)। उपदेश इति किम्? अ॒भ्र आँ अ॒पः (ऋ० ५.४८.१)। अजिति किम्? ‘आतो मनिन्क्वनिब्वनिपश्च’ (३.२.७४)। अनुनासिक इति किम्? सर्वस्याचो मा भूत्। इत्प्रदेशाः-‘आदितश्च’ (७.२.१६) इत्येवमादयः॥

**हलन्त्यम् ॥ १.३.३॥ **

उपदेश इति वर्तते। अन्ते भवमन्त्यम्। धात्वादेः समुदायस्य यदन्त्यं हल्, तदित्संज्ञं भवति। अइउण्-णकारः। ऋऌक्-ककारः। एओङ्-ङकारः। ऐऔच्-चकारः। उपदेश इत्येव-अग्निचित्। सोमसुत्। हस्य ल् हलिति द्वितीयमत्र हल्ग्रहणं तन्त्रेणोपात्तं द्रष्टव्यम्। तेन प्रत्याहारपाठे हलित्यत्र लकारस्येत्संज्ञा क्रियते। तथा च सति हलन्त्यमित्यत्र प्रत्याहारे नेतरेतराश्रयदोषो भवति॥

**न विभक्तौ तुस्माः ॥ १.३.४॥ **

पूर्वण प्राप्तायामित्संज्ञायां विभक्तौ वर्तमानानां तवर्गसकारमकाराणां प्रतिषेध उच्यते। तवर्ग-‘टाङसिङसामिनात्स्याः’ (७.१.१२)- वृक्षात्। प्लक्षात्। सकार-जस्-ब्राह्मणाः। तस्, थस्-पचतः, पचथः। मकार-अपचताम्। अपचतम्। विभक्ताविति किम्? ‘अचो यत्’ (३.१.९७)। ‘ऊर्णाया युस्’ (५.२.१२३)। ‘रुधादिभ्यःश्नम्’ (३.१.७८)। ‘किमोऽत्’ (५.३.१२), ‘इटोऽत्’ (३.४.१०६) इत्यत्र प्रतिषेधो न भवति, अनित्यत्वादस्य प्रतिषेधस्य। ‘इदमस्थमुः’ (५.३.२४) इत्युकारानुबन्धनिर्देशादनित्यत्वमुपलक्ष्यते॥

आदिर्ञिटुडवः ॥ १.३.५॥

इदिति वर्तते। आदिशब्दः प्रत्येकमभिसंबध्यते। ञि टु डु इत्येतेषां समुदायानामादितो वर्तमानानामित्संज्ञा भवति। ञिमिदा-मिन्नः। ञिधृषा-धृष्टः। ञिक्ष्विदा-क्ष्विण्णः। ञिइन्धी-इद्धः। टुवेपृ-वेपथुः। टुओश्वि-श्वयथुः। डुपचष्-पक्त्रिमम्। डुवप्-उप्त्रिमम्। डुकृञ्-कृत्रिमम्। आदिरिति किम्? पटूयति। कण्डूयति। उपदेश इत्येव-ञिकारीयति॥

**षः प्रत्ययस्य ॥ १.३.६॥ **

षकारः प्रत्ययस्यादिरित्संज्ञो भवति। ‘शिल्पिनि ष्वुन्’ (३.१.१४५)- नर्तकी। रजकी। प्रत्ययस्येति किम्? षोडः। षण्डः। षडिकः। आदिरित्येव-‘अविमह्योष्टिषच् (प० उ०१.४५)-अविषः। महिषः॥

चुटू ॥ १.३.७॥

चवर्गटवर्गौ प्रत्ययस्यादी इत्संज्ञौ भवतः। ‘गोत्रे कुञ्जादिभ्यश्च्फञ्’ (४.१.९८)-कौञ्जायन्यः। छस्येयादेशं वक्ष्यति। जस्-ब्राह्मणाः। झस्यान्तादेशं वक्ष्यति। ‘शण्डिकादिभ्यो ञ्यः’ (४.३.९२)-शाण्डिक्यः। टवर्गः-‘चरेष्टः’ (३.२.१६)-कुरुचरी। मद्रचरी। ठस्येकादेशं वक्ष्यति। ‘सप्तम्यां जनेर्डः’ (३.२.९७)-उपसरजः। मन्दुरजः। ढस्यैयादेशं वक्ष्यति। ‘अन्नाण्णः’ (४.४.८५)-आन्नः। पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थम्। ‘तेन वित्तश्चुञ्चुप्चणपौ’ (५.२.२६)-केशचुञ्चुः। केशचणः। ‘अवात् कुटारच्च’ (५.२.३०)-‘नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः’ (५.२.३१)-अवटीटः। आदिरित्येव-‘कर्मणि घटोऽठच् (५.२.३५)- कर्मठः॥

लशक्वतद्धिते ॥ १.३.८॥

तद्धितवर्जितस्य प्रत्ययस्यादितो वर्तमाना लकारशकारकवर्गा इत्संज्ञा भवन्ति। लकार-‘ल्युट् च’ (३.३.११५)-चयनम्। जयनम्। शकार-‘कर्तरि शप्’ (३.१.६८)-भवति । पचति। कवर्ग-‘क्तक्तवतू निष्ठा’ (१.१.२६)-भुक्तः, भुक्तवान्। ‘प्रियवशे वदः खच्’ (३.२.३८)-प्रियंवदः। वशंवदः। ‘ग्लाजिस्थश्च ग्स्नुः’ (३.२.१३९)-ग्लास्नुः। जिष्णुः। भूष्णुः। ‘भञ्जभासमिदो घुरच्’ (३.२.१६१)-भङ्गुरम्। ‘टाङसिङसामिनात्स्याः’ (७.१.१२)-वृक्षात्। वृक्षस्य। अतद्धित इति किम्? चूडालः। लोमशः। कर्णिका॥

**तस्य लोपः॥ १.३.९॥ **

तस्येत्संज्ञकस्य लोपो भवति। तथा चैवोदाहृतम्। तस्यग्रहणं सर्वलोपार्थम्। अलोऽन्त्यस्य मा भूत्-‘आदिर्ञिटुडवः’ (१.३.५) इति॥

**यथासंख्यमनुदेशः समानाम् ॥ १.३.१०॥ **

संख्याशब्देनात्र क्रमो लक्ष्यते। यथासंख्यं यथाक्रममनुदेशो भवति। अनुदिश्यत इत्यनुदेशः। पश्चादुच्चार्यत इत्यर्थः। समानां समसंख्यानां समपरिपठितानाम् उद्देशिनामनुदेशिनां च यथाक्रममुद्देशिभिरनुदेशिनः संबध्यन्ते। ‘तूदीशलातुरवर्मतीकूचवाराड् ढक्छण्ढञ्यकः’(४. ३.९४)। प्रथमात् प्रथमः, द्वितीयाद् द्वितीय इत्यादि। तौदेयः। शालातुरीयः। वार्मतेयः। कौचवार्यः। समानामिति किम्? ‘लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः (१.४.९०)। लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्त्रयः। सर्वेषां सर्वत्र कर्मप्रवचनीयसंज्ञा भवति। इह कस्माद् न भवति-‘वेशोयशआदेर्भगाद् यल्’ (४.४.१३१),‘ख च’ (४.४.१३२) इति? स्वरितेन लिङ्गेन यथासंख्यम्, यत्र नेष्यते तत्र स्वरितत्वं न प्रतिज्ञायते। ‘स्वरितेनाधिकारः’ (१.३.११) इति स्वरितग्रहणं पूर्वेणापि संबध्यते॥

स्वरितेनाधिकारः ॥ १.३.११॥

स्वरितेनेतीत्थंभूतलक्षणे (२.३.२१) तृतीया। स्वरितो नाम स्वरदोषो वर्णधर्मः। तेन चिह्नेनाधिकारो वेदितव्यः। अधिकारो विनियोगः। स्वरितगुणयुक्तं ंशब्दरूपमधिकृतत्वादुत्तरत्रोपतिष्ठते। ‘प्रतिज्ञास्वरिताः पाणिनीयाः’ (व्या०प० १२२)। ‘प्रत्ययः’ (३.१.१)। ‘धातोः’ (३.१.९१)। ‘ङ्यप्प्रातिपदिकात् (४.१.१)। ‘अङ्गस्य’ (६.४.१)। ‘भस्य’ (६.४.१२९)। ‘पदस्य’ (८.१.१६)॥

अनुदात्तङित आत्मनेपदम् ॥ १.३.१२॥

अविशेषेण धातोरात्मनेपदं परस्मैपदं च विधास्यते, तत्रायं नियमः क्रियते। अनुदात्तेतो ये धातवो ङितश्च तेभ्य एवात्मनेपदं भवति नान्येभ्यः। अनुदात्तेद्भ्यः-आस्-आस्ते। वस्-वस्ते। ङिद्भ्यः खल्वपि-षूङ्-सूते। शीङ्-शेते॥

**भावकर्मणोः ॥ १.३.१३॥ **

‘लः कर्मणि च भावे चाकर्मकेभ्यः’ (३.४.६९) इति भावकर्मणोर्विहितस्य लस्य तिबादयः सामान्येन वक्ष्यन्ते, तत्रेदमुच्यते, भावे कर्मणि चात्मनेपदं भवति। भावे-ग्लायते भवता। सुप्यते भवता। आस्यते भवता। कर्मणि-क्रियते कटः। ह्रियते भारः। कर्मकर्तरि-लूयते केदारः स्वयमेवेति परस्मैपदं न भवति। तस्य विधाने द्वितीयं कर्तृग्रहणमनुवर्तते। तेन कर्तैव यः कर्ता तत्र परस्मैपदं भवति॥

कर्तरि कर्मव्यतिहारे॥ १.३.१४॥

कर्मशब्दः क्रियावाची। व्यतिहारो विनिमयः। यत्रान्यसंबन्धिनीं क्रियामन्यः करोति, इतरसंबन्धिनीं चेतरः, स कर्मव्यतिहारः। तद्विशिष्टक्रियावचनाद् धातोरात्मनेपदं भवति। व्यतिलुनते। व्यतिपुनते। कर्मव्यतिहार इति किम्? लुनन्ति। कर्तृग्रहणमुत्तरार्थं ‘शेषात् कर्तरि परस्मैपदम्’ (१.३.७८) इति॥

न गतिहिंसार्थेभ्यः॥ १.३.१५॥

पूर्वेणात्मनेपदं प्राप्तं प्रतिषिध्यते। गत्यर्थेभ्यो हिंसार्थेभ्यश्च धातुभ्यः कर्मव्यतिहार आत्मनेपदं न भवति । व्यतिगच्छन्ति। व्यतिसर्पन्ति। हिंसार्थेभ्यः-व्यतिहिंसन्ति। व्यतिघ्नन्ति॥ प्रतिषेधे हसादीनामुपसंख्यानम्॥ व्यतिहसन्ति। व्यतिजल्पन्ति। व्यतिपठन्ति ॥ हरतेरप्रतिषेधः॥ संप्रहरन्ते राजानः॥

**इतरेतरान्योऽन्योपपदाच्च॥ १.३.१६॥ **

इतरेतरोऽन्योन्य इत्येवमुपपदाद् धातोः कर्मव्यतिहार आत्मनेपदं न भवति। इतरेतरस्य व्यतिलुनन्ति। अन्योऽन्यस्य व्यतिलुनन्ति॥ परस्परोपपदाच्चेति वक्तव्यम्॥ परस्परस्य व्यतिलुनन्ति॥

नेर्विशः॥ १.३.१७॥

‘शेषात् कर्तरि०’ (१.३.७८) इति परस्मैपदे प्राप्ते निपूर्वाद् विश आत्मनेपदं विधीयते। नेःपरस्माद् विश आत्मनेपदं भवति। निविशते। निविशन्ते। नेरिति किम्? प्रविशति। ‘यदागमास्तद्ग्रहणेन गृह्यन्ते’, तेनाटा नास्ति व्यवधानम्। न्यविशत। नेरुपसर्गस्य ग्रहणम् ‘अर्थवद्ग्रहणे नानर्थकस्य’ इति। तस्मादिह न भवति-मधुनि विशन्ति भ्रमराः॥

परिव्यवेभ्यः क्रियः॥ १.३.१८॥

‘डुक्रीञ् द्रव्यविनिमये’ ञित्त्वात् कर्त्रभिप्राये क्रियाफले सिद्धमात्मनेपदम्, अकर्त्रभिप्रायार्थोऽयमारम्भः। परिव्यवेभ्य उत्तरस्मात् क्रीणातेरात्मनेपदं भवति। परिक्रीणीते। विक्रीणीते। अवक्रीणीते। पर्यादय उपसर्गा गृह्यन्ते। तेनेह न भवति-बहुवि क्रीणाति वनम्॥

विपराभ्यां जेः॥ १.३.१९॥

‘शेषात् कर्तरि परस्मैपदम्’ (१.३.७८) इत्यस्यापवादः। विपरापूर्वाज् जयतेर्धातोरात्मनेपदं भवति। विजयते। पराजयते। विपराशब्दावुपसर्गौ गृह्येते, साहचर्यात्। तेनेह न भवति-बहुवि जयति वनम्। परा जयति सेनेति॥

आङो दोऽनास्यविहरणे॥ १.३.२०॥

अकर्त्रभिप्रायार्थोऽयमारम्भः। आङ्पूर्वाद् ददातेरनास्यविहरणे वर्तमानादात्मनेपदं भवति। विद्यामादत्ते। अनास्यविहरण इति किम्? आस्यं व्याददाति॥ आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः॥ विपादिकां व्याददाति। कूलं व्याददाति ॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम्॥ इह मा भूत्- व्याददते पिपीलिकाः पतङ्गस्य मुखम्॥

क्रीडोऽनुसंपरिभ्यश्च ॥ १.३.२१॥

‘क्रीडृ विहारे’ एतस्माद् अनु सम् परीत्येवंपूर्वाद् आङ्पूर्वाच्चात्मनेपदं भवति। अनुक्रीडते। संक्रीडते। परिक्रीडते। आङः खल्वपि-आक्रीडते। समा साहचर्याद् अन्वादिरुपसर्गो गृह्यते, तेनेह कर्मप्रवचनीयप्रयोगे न भवति-माणवकमनु क्रीडति॥ समोऽकूजन इति वक्तव्यम्॥ संक्रीडन्ति शकटानि॥ आगमेः क्षमायामात्मनेपदं वक्तव्यम्॥ क्षमोपेक्षा कालहरणमिति यावत्। आगमयस्व तावन्माणवकम् ॥ शिक्षेर्जिज्ञासायाम्॥ विद्यासु शिक्षते॥ आशिषि नाथः॥ सर्पिषो नाथते। मधुनो नाथते । आशिषीति किम्? माणवकमनुनाथति॥ हरतेर्गतिताच्छील्ये॥ पैतृकमश्वा अनुहरन्ते। मातृकं गावोऽनुहरन्ते। गतिताच्छील्य इति किम्? मातुरनुहरति, पितुरनुहरति॥ किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम्॥ अपस्किरते वृषभो हृष्टः। जीविकायाम्अपस्किरते कुक्कुटो भक्षार्थी। कुलायकरणे-अपस्किरते श्वाश्रयार्थी। हर्षादिष्विति किम्? अपकिरति कुसुमम्॥ आङि नुप्रच्छ्योरुपसंख्यानम्॥ आनुते शृगालः। आपृच्छते गुरुम्॥ शप उपलम्भन इति वक्तव्यम्॥ वाचा शरीरस्पर्शनमुपलम्भनम्। देवदत्ताय शपते। यज्ञदत्ताय शपते। उपलम्भन इति किम्? शपति॥

समवप्रविभ्यः स्थः ॥ १.३.२२॥

सम् अव प्र वि इत्येवंपूर्वात् तिष्ठतेरात्मनेपदं भवति। संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥ आङःस्थः प्रतिज्ञान इति वक्तव्यम्॥ अस्तिं सकारमातिष्ठते। आगमौ गुणवृद्धी आतिष्ठते॥

प्रकाशनस्थेयाख्ययोश्च॥ १.३.२३॥

स्वाभिप्रायकथनं प्रकाशनम्। स्थेयस्याख्या स्थेयाख्या। तिष्ठन्त्यस्मिन्निति स्थेयः। विवादपदनिर्णेता लोके स्थेय इति प्रसिद्धः, तस्य प्रतिपत्त्यर्थमाख्याग्रहणम्। प्रकाशने स्थेयाख्यायां च तिष्ठतेरात्मनेपदं भवति। प्रकाशने तावत्-तिष्ठते कन्या छात्रेभ्यः। तिष्ठते वृषली ग्रामपुत्रेभ्यः। प्रकाशयत्यात्मानमित्यर्थः। स्थेयाख्यायाम्-त्वयि तिष्ठते। मयि तिष्ठते। संशय्य कर्णादिषु तिष्ठते यः (कि० ३.१४)॥

उदोऽनूर्ध्वकर्मणि ॥ १.३.२४॥

उत्पूर्वात् तिष्ठतेरनूर्ध्वकर्मणि वर्तमानादात्मनेपदं भवति। कर्मशब्दः क्रियावाची। अनूर्ध्वकर्मविशिष्टात् क्रियावचनात् तिष्ठतेरात्मनेपदं भवति। गेह उत्तिष्ठते। कुटुम्ब उत्तिष्ठते। तदर्थं यतत इत्यर्थः॥ उद ईहायामिति वक्तव्यम्॥ इह मा भूत्-अस्माद् ग्रामात् शतमुत्तिष्ठति। शतमुत्पद्यत इत्यर्थः। ईहाग्रहणमनूर्ध्वकर्मण एव विशेषणम्, नापवादः। अनूर्ध्वकर्मणीति किम्? आसनादुत्तिष्ठति॥

उपान्मन्त्रकरणे ॥ १.३.२५॥

उपपूर्वात् तिष्ठतेर्मन्त्रकरणेऽर्थे वर्तमानादात्मनेपदं भवति। ऐन्द्र्या गार्हपत्यमुपतिष्ठते। आग्नेय्याग्नीध्रमुपतिष्ठते। मन्त्रकरण इति किम्? भर्तारमुपतिष्ठति यौवनेन॥ उपाद् देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम्॥ देवपूजायाम्- आदित्यमुपतिष्ठते। संगतिकरणे-रथिकानुपतिष्ठते। मित्रकरणे-महामात्रानुपतिष्ठते। मित्रकरणसंगतिकरणयोः को विशेषः? संगतिकरणमुपश्लेषः,तद्यथा-गङ्गा यमुनामुपतिष्ठते। मित्रकरणं तु विनाप्युपश्लेषेण मैत्रीसंबन्धः। पथि-अयं पन्थाः स्रुघ्नमुपतिष्ठते॥ वा लिप्सायामिति वक्तव्यम्॥ भिक्षुको ब्राह्मणकुलमुपतिष्ठते, उपतिष्ठतीति वा॥

अकर्मकाच्च ॥ १.३.२६॥

उपादिति वर्तते। उपपूर्वात् तिष्ठतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। यावद्भुक्तमुपतिष्ठते। यावदोदनमुपतिष्ठते। भुक्तमिति भावे क्तप्रत्ययः। भोजनेभोजने सन्निधीयत इत्यर्थः। अकर्मकादिति किम्? राजानमुपतिष्ठति॥

उद्विभ्यां तपः ॥ १.३.२७॥

अकर्मकादिति वर्तते। उद् वि इत्येवंपूर्वात् तपतेरकर्मकक्रियावचनादात्मनेपदं भवित। उत्तपते। वितपते। दीप्यत इत्यर्थः। अकर्मकादित्येव- उत्तपति सुवर्णं सुवर्णकारः। वितपति पृष्ठं सविता॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम्॥ उत्तपते पाणिम्। उत्तपते पृष्ठम्। वितपते पाणिम्। वितपते पृष्ठम्। स्वाङ्गं चेह न पारिभाषिकं गृह्यते ‘अद्रवं मूर्त्तिमत् स्वाङ्गम्’ (काशिका ४.१.५४) इति। किं तर्हि? स्वमङ्गं स्वाङ्गम्। तेनेह न भवति-देवदत्तो यज्ञदत्तस्य पृष्ठमुत्तपतीति। उद्विभ्यामिति किम् ? निष्टपति॥

आङो यमहनः ॥ १.३.२८॥

अकर्मकादिति वर्तते। ‘यम उपरमे’,‘हन हिंसागत्योः’ इति परस्मैपदिनौ। ताभ्यामकर्मकक्रियावचनाभ्यामाङ्पूर्वाभ्यामात्मनेपदं भवति। आयच्छते, आयच्छेते, आयच्छन्ते। हनः खल्वपि- आहते, आघ्नाते, आघ्नते। अकर्मकादित्येव-आयच्छति कूपाद् रज्जुम्। आहन्ति वृषलं पादेन॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम्॥ आयच्छते पाणिम्। आहते शिरः। स्वाङ्गं चेह न पारिभाषिकं गृह्यते। किं तर्हि ? स्वमङ्गं स्वाङ्गम्, तेनेह न भवति- आहन्ति शिरः परकीयमिति॥

समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः॥ १.३.२९॥

अकर्मकादिति वर्तते। शेषात् कर्तरि परस्मैपदे प्राप्ते संपूर्वेभ्यो गमि ऋच्छि प्रच्छि स्वरति अर्ति श्रु विदि इत्येतेभ्योऽकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति। संगच्छते। समृच्छते। संपृच्छते। संस्वरते। संकल्पा अस्य समरन्त। अर्तेर्लुङि च्लेः ‘सर्तिशास्त्यर्तिभ्यश्च’ (३.१.५६) इत्यङादेशः। तत्र परस्मैपदेष्वित्येतद् नाश्रीयते। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (६.४.७५) इत्याट् प्रतिषिध्यते। ‘ऋदृशोऽङि गुणः’ (७.४.१६) इति गुणः-समरन्त। संशृणुते। संवित्ते। ऋच्छेरनादेशस्य ग्रहणम्- समृच्छिष्यते। अर्त्यादेशस्य त्वर्तीत्येव सिद्धमात्मनेपदम्। अर्तिरुभयत्र पठ्यते, ‘ऋ गतिप्रापणयोः’ इति भ्वादौ,‘ऋ सृ गतौ’ इति जुहोत्यादौ, विशेषाभावाद् द्वयोरपि ग्रहणम्। विदेर्ज्ञानार्थस्य ग्रहणम्, परस्मैपदिभिर्गमादिभिः साहचर्यात्, न लाभार्थस्य स्वरितेत्त्वादुभयतोभाषस्य॥ दृशेश्चेति वक्तव्यम्॥ संपश्यते। अकर्मकादित्येव- ग्रामं संपश्यति॥

निसमुपविभ्यो ह्वः॥ १.३.३०॥

अकर्मकादिति निवृत्तम्। अतः परं सामान्येनात्मनेपदविधानं प्रतिपत्तव्यम्। नि सम् उप वि इत्येवंपूर्वाद् ह्वयतेर्धातोरात्मनेपदं भवति। निह्वयते। संह्वयते। उपह्वयते। विह्वयते। अकर्त्रभिप्रायार्थोऽयमारम्भः। अन्यत्र हि ञित्त्वात् सिद्धमेवात्मनेपदम्॥ उपसर्गादस्यत्यूह्योर्वा वचनम्॥ निरस्यति, निरस्यते। समूहति, समूहते॥

स्पर्धायामाङः॥ १.३.३१॥

अकर्त्रभिप्रायार्थोऽयमारम्भः। स्पर्धायां विषय आङ्पूर्वाद् ह्वयतेरात्मनेपदं भवति। स्पर्धा संघर्षः, पराभिभवेच्छा, स विषयो धात्वर्थस्य। धातुस्तु शब्दक्रिय एव। मल्लो मल्लमाह्वयते। छात्रश्छात्रमाह्वयते। स्पर्धमानस्तस्याह्वानं करोतीत्यर्थः। स्पर्धायामिति किम् ? गामाह्वयति गोपालः।

गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः ॥ १.३.३२॥

कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। गन्धनादिष्वर्थेषु वर्तमानात् करोतेरात्मनेपदं भवति। गन्धनमपकारप्रयुक्तं हिंसात्मकं सूचनम्। तथाहि-‘बस्त गन्ध अर्दने’, ‘अर्द हिंसायाम्’ इति चुरादौ पठ्यते। अवक्षेपणं भर्त्सनम्। सेवनमनुवृत्तिः। साहसिक्यं साहसं कर्म। प्रतियत्नः सतो गुणान्तराधानम्। प्रकथनं प्रकर्षेण कथनम्। उपयोगो र्धादिप्रयोजनो विनियोगः। गन्धने तावत्- उत्कुरुते। उदाकुरुते। सूचयतीत्यर्थः। अवक्षेपणे-श्येनो वर्तिकामुदाकुरुते। भर्त्सयतीत्यर्थः। सेवने- गणकानुपकुरुते। महामात्रानुपकुरुते। सेवत इत्यर्थः। साहसिक्येपरदारान् प्रकुरुते। तेषु सहसा प्रवर्तत इत्यर्थः। प्रतियत्ने- एधोदकस्योपस्कुरुते। काण्डं गुडस्योपस्कुरुते। तस्य सतो गुणान्तराधानं करोतीत्यर्थः। षष्ठीसुटौ करोतेः प्रतियत्न एव विधीयेते। प्रकथने- गाथाः प्रकुरुते। जनापवादान् प्रकुरुते। प्रकर्षेण कथयतीत्यर्थः। उपयोगे-शतं प्रकुरुते। सहस्रं प्रकुरुते। धर्मार्थं शतं विनियुङ्क्त इत्यर्थः। एतेष्विति किम् ? कटं करोति॥

अधेः प्रसहने ॥ १.३.३३॥

अकर्त्रभिप्रायार्थोऽयमारम्भः। अधिपूर्वात् करोतेः प्रसहने वर्तमानादात्मनेपदं भवति। प्रसहनमभिभवः, अपराजयो वा। तमधिचके्र। तमभिबभूव, न तेन पराजित इति वा। प्रसहन इति किम् ? अर्थमधिकरोति। पृथग्योगकरणमुपसर्गविशेषणार्थम्॥

वेः शब्दकर्मणः॥ १.३.३४॥

कृञ इत्यनुवर्तते। विपूर्वात् करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति। कर्मशब्द इह कारकाभिधायी न क्रियावचनः। क्रोष्टा विकुरुते स्वरान्। ध्वाङ्क्षो विकुरुते स्वरान्। शब्दकर्मण इति किम् ? विकरोति पयः॥

अकर्मकाच्च॥ १.३.३५॥

वेः कृञ इत्यनुवर्तते। विपूर्वात् करोतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। विकुर्वते सैन्धवाः। साधुदान्ताः शोभनं वल्गन्तीत्यर्थः। ओदनस्य पूर्णाश्छात्रा विकुर्वते। निष्फलं चेष्टन्त इत्यर्थः। अकर्मकादिति किम् ? कटं विकरोति ॥

संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः॥ १.३.३६॥

‘णीञ् प्रापणे’ अस्मात् कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। णीञ् प्रापणे इत्येतस्माद् धातोरात्मनेपदं भवति सम्माननादिषु विशेषणेषु सत्सु। संमाननं पूजनम्-नयते चार्वी लोकायते। चार्वी बुद्धिः तत्संबन्धादाचार्योऽपि चार्वी, स लोकायते शास्त्रे पदार्थान्नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति, ते युक्तिभिः स्थाप्यमानाः संमानिताः पूजिता भवन्ति। उत्सञ्जनमुत्क्षेपणम्- माणवकमुदानयते। उत्क्षिपतीत्यर्थः। आचार्यकरणमाचार्यक्रिया, माणवकमीदृशेन विधिनात्मसमीपं प्रापयति यथा स उपनेता स्वयमाचार्यः संपद्यते। माणवकमुपनयते। आत्मानमाचार्यीकुर्वन् माणवकमात्मसमीपं प्रापयतीत्यर्थः। ज्ञानं प्रमेयनिश्चयः- नयते चार्वी लोकायते। तत्र प्रमेयं निश्चिनोतीत्यर्थः। भृतिर्वेतनम्-कर्मकरानुपनयते। भृतिदानेन समीपं करोतीत्यर्थः। विगणनमृणादेर्निर्यातनम्-मद्राः करं विनयन्ते। निर्यातयन्तीत्यर्थः। व्ययो धर्मादिषु विनियोगः-शतं विनयते। सहस्रं विनयते। धर्माद्यर्थं शतं विनियुङ्क्त इत्यर्थः। एतेष्विति किम्? अजां नयति ग्रामम्॥

कर्तृस्थे चाशरीरे कर्मणि ॥ १.३.३७॥

नयतेः कर्ता देवदत्तादिर्लकारवाच्यः कर्तृस्थे कर्मण्यशरीरे सति नयतेरात्मनेपदं भवति। शरीरं प्राणिकायः, तदेकदेशोऽपि शरीरम्। क्रोधं विनयते। मन्युं विनयते। कर्तृस्थ इति किम् ? देवदत्तो यज्ञदत्तस्य क्रोधं विनयति। अशरीर इति किम् ? गडुं विनयति। घाटां विनयति। कर्मणीति किम् ? बुद्ध्या विनयति। प्रज्ञया विनयति॥

वृत्तिसर्गतायनेषु क्रमः ॥ १.३.३८॥

शेषात् कर्तरि परस्मैपदे प्राप्ते वृत्त्यादिष्वर्थेषु क्रमेर्धातोरात्मनेपदं भवति। वृत्तिरप्रतिबन्धः। सर्ग उत्साहः। तायनं स्फीतता। वृत्तौ तावत्- ऋक्ष्वस्य क्रमते बुद्धिः। न प्रतिहन्यत इत्यर्थः। यजुःष्वस्य क्रमते बुद्धिः। सर्गे- व्याकरणाध्ययनाय क्रमते। उत्सहत इत्यर्थः। तायने- अस्मिन् शास्त्राणि क्रमन्ते। स्फीतीभवन्तीत्यर्थः॥

उपपराभ्याम् ॥ १.३.३९॥

वृत्तिसर्गतायनेष्विति वर्तते। उपपरापूर्वात् क्रमतेर्वृत्त्यादिष्वर्थेषु वर्तमानादात्मनेपदं भवति। किमर्थं तर्हीदमुच्यते ? उपसर्गनियमार्थम्। सोपसर्गादुपपरापूर्वादेव, नान्यपूर्वादिति। उपक्रमते। पराक्रमते। उपपराभ्यामिति किम्? संक्रामति वृत्त्यादिष्वित्येव-उपक्रामति। पराक्रामति॥

आङ उद्गमने ॥ १.३.४०॥

आङ्पूर्वात् क्रमतेरुद्गमने वर्तमानादात्मनेपदं भवति। आक्रमत आदित्यः। आक्रमते चन्द्रमाः। आक्रमन्ते ज्योतींषि। उद्गमन इति किम्? आक्रामति माणवकः कुतपम्॥ ज्योतिरुद्गमन इति वक्तव्यम्॥ इह मा भूत्- आक्रामति धूमो हर्म्यतलात्॥

वेः पादविहरणे ॥ १.३.४१॥

विपूर्वात् क्रमतेः पादविहरणेऽर्थे वर्तमानादात्मनेपदं भवति। विहरणं विक्षेपः सुष्ठु विक्रमते। साधु विक्रमते। अश्वादीनां गतिविशेषो विक्रमणमुच्यते। यद्यपि क्रमिः पादविहरण एव पठ्यते ‘क्रमु पादविक्षेपे’ इति, तथाप्यनेकार्थत्वाद् धातूनामेवमुक्तम्। पादविहरण इति किम्? विक्रामत्यजिनसन्धिः॥

प्रोपाभ्यां समर्थाभ्याम् ॥ १.३.४२॥

प्र उप इत्येताभ्यामुपसर्गाभ्यां परस्मात् क्रमतेरात्मनेपदं भवति, तौ चेत् प्रोपौ समर्थौ तुल्यार्थौ भवतः। क्व चानयोस्तुल्यार्थता ? आदिकर्मणि। प्रक्रमते भोक्तुम्। उपक्रमते भोक्तुम्। समर्थाभ्यामिति किम् ? पूर्वेद्युः प्रक्रामति। गच्छतीत्यर्थः अपरेद्युरुपक्रामति। आगच्छतीत्यर्थः। अथ ‘उपपराभ्याम्’ (१.३.३९) इत्यनेनात्मनेपदमत्र कस्माद् न भवति ? वृत्त्यादिग्रहणं तत्रानुवर्तते, ततोऽन्यत्रेदं प्रत्युदाहरणम्॥

अनुपसर्गाद्वा ॥ १.३.४३॥

क्रम इति वर्तते। अप्राप्तविभाषेयम्। उपसर्गवियुक्तात् क्रमतेरात्मनेपदं वा भवति। क्रमते। क्रामति। अनुपसर्गादिति किम् ? संक्रामति॥

अपह्नवे ज्ञः॥ १.३.४४॥

शेषात् कर्तरि परस्मैपदे प्राप्ते जानातेरपह्नवे वर्तमानादात्मनेपदं भवति। अपह्नवोऽपह्नुतिरपलापः। सोपसर्गश्चायमपह्नवे वर्तते, न केवलः। शतमपजानीते। सहस्त्रमपजानीते। अपलपतीत्यर्थः। अपह्नव इति किम् ? न त्वं किंचिदपि जानासि॥

अकर्मकाच्च ॥ १.३.४५॥

अकर्त्रभिप्रायार्थमिदम्। कर्त्रभिप्राये हि ‘अनुपसर्गाज्ज्ञः’ (१.३.७६) इति वक्ष्यति। जानातेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। सर्पिषो जानीते। मधुनो जानीते। कथं चायमकर्मकः? नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? ज्ञानपूर्विकायां प्रवृत्तौ करणत्वेन। तथा च ‘ज्ञोऽविदर्थस्य करणे’ (२.३.५१) इति षष्ठी विधीयतेसर्पिषो जानीते, मधुनो जानीते। सर्पिषा उपायेन प्रवर्तत इत्यर्थः। अकर्मकादिति किम्? स्वरेण पुत्रं जानाति॥

संप्रतिभ्यामनाध्याने ॥ १.३.४६॥

ज्ञ इति वर्तते। सकर्मकार्थमिदम्। सं प्रति इत्येवंपूर्वाद् जानातेरनाध्याने वर्तमानादात्मनेपदं भवति। आध्यानमुत्कण्ठास्मरणम्। शतं संजानीते। सहस्रं संजानीते। शतं प्रतिजानीते। सहस्रं प्रतिजानीते। अनाध्यान इति किम्? मातुः संजानाति। पितुः संजानाति। उत्कण्ठत इत्यर्थः॥

भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः॥ १.३.४७॥

शेषात् कर्तरि परस्मैपदे (१.३.७८) प्राप्ते भासनादिषु विशेषणेषु सत्सु वदतेरात्मनेपदं भवति। भासनं दीप्तिः-वदते चार्वी लोकायते। भासमानो दीप्यमानः, तत्र पदार्थान् व्यक्तीकरोतीत्यर्थः। उपसंभाषोपसान्त्वनम्-कर्मकरानुपवदते। उपसान्त्वयतीत्यर्थः। ज्ञानं सम्यगवबोधः-वदते चार्वी लोकायते। जानाति वदितुमित्यर्थः। यत्न उत्साहः-क्षेत्रे वदते। गेहे वदते। तद्विषयमुत्साहमाविष्करोतीत्यर्थः। विमतिर्नानामतिः-क्षेत्रे विवदन्ते। गेहे विवदन्ते। विमतिपतिता विचित्रं भाषन्त इत्यर्थः। उपमन्त्रणं रहस्युपच्छन्दनम्-कुलभार्यामुपवदते। परदारानुपवदते। उपच्छन्दयतीत्यर्थः। एतेष्विति किम्? यत्किंचिद् वदति॥

व्यक्तवाचां समुच्चारणे॥ १.३.४८॥

वद इति वर्तते। व्यक्तवाचां समुच्चारणं सहोच्चारणम्, तत्र वर्तमानाद् वदतेरात्मनेपदं भवति। ननु ‘वद व्यक्तायां वाचि’ इत्येव पठ्यते तत्र किं व्यक्तवाचामिति विशेषणेन? प्रसिद्ध्युपसंग्रहार्थमेतत्। व्यक्तवाच इति हि मनुष्याः प्रसिद्धाः, तेषां समुच्चारणे यथा स्यात्। संप्रवदन्ते ब्राह्मणाः। संप्रवदन्ते क्षत्रियाः। व्यक्तवाचामिति किम्? संप्रवदन्ति कुक्कुटाः। समुच्चारण इति किम्? ब्राह्मणो वदति। क्षत्रियो वदति॥

अनोरकर्मकात् ॥ १.३.४९॥

वद इति व्यक्तवाचामिति च वर्तते। अनुपूर्वाद् वदतेरकर्मकाद् व्यक्तवाग्विषयादात्मनेपदं भवति। अनुवदते कठः कलापस्य। अनुवदते मौद्गः पैप्पलादस्य। अनुःसादृश्ये। यथा कलापोऽधीयानो वदति तथा कठ इत्यर्थः। अकर्मकादिति किम्? पूर्वमेव यजुरुदितमनुवदति। व्यक्तवाचामित्येव-अनुवदति वीणा॥

विभाषा विप्रलापे ॥ १.३.५०॥

वद इति वर्तते, व्यक्तवाचां समुच्चारण इति च। विप्रलापात्मके व्यक्तवाचां समुच्चारणे वर्तमानाद् वदतेरात्मनेपदं भवति विभाषा। प्राप्तविभाषेयम्। विप्रवदन्ते सांवत्सराः, विप्रवदन्ति सांवत्सराः। विप्रवदन्ते मौहूर्ताः, विप्रवदन्ति मौहूर्ताः। युगपत् परस्परप्रतिषेधेन विरुद्धं वदन्तीत्यर्थः। विप्रलाप इति किम्? संप्रवदन्ते ब्राह्मणाः। व्यक्तवाचामित्येव-विप्रवदन्ति शकुनयः। समुच्चारण इत्येव-क्रमेण मौहूर्ता मौहूर्तेन सह विप्रवदन्ति॥

अवाद् ग्रः ॥ १.३.५१॥

‘गृृ निगरणे’ इति तुदादौ पठ्यते, तस्येदं ग्रहणम्, न तु ‘गृृ शब्दे’ इति क्र्यादिपठितस्य। तस्य ह्यवपूर्वस्य प्रयोग एव नास्ति। ‘शेषात्०’ (१.३.७८) इति परस्मैपदे प्राप्ते, अवपूर्वाद् गिरतेरात्मनेपदं भवति। अवगिरते, अवगिरेते, अवगिरन्ते। अवादिति किम्? गिरति॥

समः प्रतिज्ञाने ॥ १.३.५२॥

ग्र इति वर्तते। संपूर्वाद् गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति। प्रतिज्ञानमभ्युपगमः। शतं संगिरते। नित्यं शब्दं संगिरते। प्रतिज्ञान इति किम्? संगिरति ग्रासम्॥

उदश्चरः सकर्मकात् ॥ १.३.५३॥

शेषात् कर्तरि परस्मैपदे प्राप्ते, उत्पूर्वाच् चरतेः सकर्मकक्रियावचनादात्मनेपदं भवति। गेहमुच्चरते। कुटुम्बमुच्चरते। गुरुवचनमुच्चरते। उत्क्रम्य गच्छतीत्यर्थः। सकर्मकादिति किम्? बाष्पमुच्चरति॥

समस्तृतीयायुक्तात् ॥ १.३.५४॥

संपूर्वाच्चरतेस्तृतीयायुक्तादात्मनेपदं भवति। तृतीयेति तृतीया विभक्तिर्गृह्यते, तया चरतेरर्थद्वारको योगः। अश्वेन संचरते। तृतीयायुक्तादिति किम्? उभौ लोकौ संचरसि इमं चामुं च देवल। यद्यप्यत्र तदर्थयोगः संभवति, तृतीया तु न श्रूयत इति प्रत्युदाहरणं भवति॥

दाणश्च सा चेच्चतुर्थ्यर्थे ॥ १.३.५५॥

‘दाण् दाने’ परस्मैपदी। ततः संपूर्वात् तृतीयायुक्तादात्मनेपदं भवति, सा चेत् तृतीया चतुर्थ्यर्थे भवति। कथं पुनस्तृतीया चतुर्थ्यर्थे स्यात्? वक्तव्यमेवैतत्॥ अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवतीति वक्तव्यम्॥ दास्या संप्रयच्छते। वृषल्या संप्रयच्छते। कामुकः सन् दास्यै ददातीत्यर्थः। चतुर्थ्यर्थ इति किम्? पाणिना संप्रयच्छति। समः प्रशब्देन व्यवधाने कथमात्मनेपदं भवति? सम इति विशेषणे षष्ठी, न पञ्चमी॥

उपाद् यमः स्वकरणे ॥ १.३.५६॥

शेषात् कर्तरि परस्मैपदे प्राप्ते, उपपूर्वाद् यमः स्वकरणे वर्तमानादात्मनेपदं भवति। पाणिग्रहणविशिष्टमिह स्वकरणं गृह्यते, न स्वकरणमात्रम्। भार्यामुपयच्छते। स्वकरण इति किम्? देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति॥

ज्ञाश्रुस्मृदृशां सनः ॥ १.३.५७॥

ज्ञा श्रु स्मृ दृश् इत्येतेषां सन्नन्तानामात्मनेपदं भवति। तत्र जानातेः ‘अपह्नवे ज्ञः’ (१.३.४४) इति त्रिभिः सूत्रैरात्मनेपदं विहितम्, श्रुदृशोरपि ‘समो गम्यृच्छि०’ (१.३.२९) इत्यत्र विहितम्। तस्मिन् विषये ‘पूर्ववत् सनः’ (१.३.६२) इत्येव सिद्धमात्मनेपदम्, ततोऽन्यत्रानेन विधीयते। स्मरतेः पुनरप्राप्त एव विधानम्। धर्मं जिज्ञासते। गुरुं शुश्रूषते। नष्टं सुस्मूर्षते। नृपं दिदृक्षते। सन इति किम्? जानाति। शृणोति। स्मरति। पश्यति॥

नानोर्ज्ञः ॥ १.३.५८॥

पूर्वेण योगेन प्राप्तमात्मनेपदं प्रतिषिध्यते। अनुपूर्वाज् जानातेः सन्नन्तादात्मनेपदं न भवति। तथा च सति सकर्मकस्यैवायं प्रतिषेधः संपद्यते। पुत्रमनुजिज्ञासति। अनोरिति किम्? धर्मं जिज्ञासते॥

प्रत्याङ्भ्यां श्रुवः॥ १.३.५९॥

प्रति आङ्इत्येवंपूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति। प्रतिशुश्रूषति। आशुश्रूषति। उपसर्गग्रहणं चेदम्, तस्मादिह प्रतिषोधो न भवति- देवदत्तं प्रति शुश्रूषते॥

शदेः शितः ॥ १.३.६०॥

‘शद्ऌ शातने’ परस्मैपदी, तस्मादात्मनेपदं विधीयते। शदिर्यः शित्, शिद्भावी शितो वा संबन्धी, तस्मादात्मनेपदं भवति। शीयते, शीयेते, शीयन्ते। शित इति किम्? अशत्स्यत्। शत्स्यति। शिशत्सति॥

म्रियतेर्लुङ्लिङोश्च ॥ १.३.६१॥

‘मृङ् प्राणत्यागे’। ङित्त्वादात्मनेपदमत्र सिद्धमेवेति नियमार्थमिदं वचनम्। म्रियतेर्लुङ्लिङोः शितश्चात्मनेपदं भवति, अन्यत्र न भवति। अमृत। मृषीष्ट। शितः खल्वपि-म्रियते, म्रियेते, म्रियन्ते। नियमः किमर्थः? मरिष्यति। अमरिष्यत्॥

पूर्ववत् सनः॥ १.३.६२॥

सनः पूर्वो यो धातुरात्मनेपदी, तद्वत् सन्नन्तादात्मनेपदं भवति। येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते, तेनैव सन्नन्तादपि भवति। ‘अनुदात्तङित आत्मनेपदम्’ (१.३.१२)- आस्ते। शेते। सन्नन्तादपि तदेव निमित्तम्। आसिसिषते। शिशयिषते। ‘नेर्विशः’ (१.३.१७)- निविशते। निविविक्षते। ‘आङ उद्गमने’(१.३.४०)-आक्रमते। आचिक्रंसते। इह न भवति-शिशत्सति। मुमूर्षति। न हि शदिम्रियतिमात्रमात्मनेपदनिमित्तम्। किं तर्हि? शिदाद्यपि, तच्चेह नास्ति। यस्य च पूर्वत्रैव निमित्तभावः प्रतिषिध्यते, तत् सन्नन्तेष्वप्यनिमित्तम्। अनुचिकीर्षति। पराचिकीर्षति। इह जुगुप्सते मीमांसत इति अनुदात्तेत इत्येव सिद्धमात्मनेपदम्-‘अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति’ (महाभाष्य १.२८९) इति॥

आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य ॥ १.३.६३॥

अकर्त्रभिप्रायार्थोऽयमारम्भः। आम् प्रत्ययो यस्मात् सोऽयमाम्प्रत्ययः। आम्प्रत्ययस्येव धातोः कृञोऽनुप्रयोगस्यात्मनेपदं भवति। ईक्षांचक्रे। ईहांचक्रे। यदि विध्यर्थमेतत्, तर्हि उदुब्जांचकार उदुम्भांचकरारेति कर्त्रभिप्राये क्रियाफल आत्मनेपदं प्राप्नोति। नैष दोषः। उभयमनेन क्रियते। विधिर्नियमश्च। कथम्? पूर्ववदिति वर्तते। स द्वितीयो यत्नो नियमार्थो भविष्यति। कृञ इति किम्? ईक्षामास। ईक्षांबभूव। कथं पुनरस्यानुप्रयोगो यावता ‘कृञ्चानुप्रयुज्यते लिटि’ (३.१.४०) इत्युच्यते? कृञिति प्रत्याहारग्रहणं तत्र विज्ञायते। क्व संनिविष्टानां प्रत्याहारः? ‘अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि च्विः’ (५.४.५०) इति कृशब्दादारभ्य यावत् ‘कृञो द्वितीयतृतीय०’ (५.४.५८) इति ञकारम्॥

प्रोपाभ्यां युजेरयज्ञपात्रेषु ॥ १.३.६४॥

‘युजिर् योगे’ स्वरितेत्। तस्य कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। प्र उप इत्येवंपूर्वाद् युजेरयज्ञपात्रप्रयोगविषयादात्मनेपदं भवति। प्रयुङ्क्ते। उपयुङ्क्ते।अयज्ञपात्रेष्विति किम्? द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति (आप०गृ० १.१.१६)॥ स्वराद्यन्तोपसृष्टादिति वक्तव्यम्॥ उद्युङ्क्ते। नियुङ्क्ते। स्वराद्यन्तोपसृष्टादिति किम्? संयुनक्ति॥

समः क्ष्णुवः॥ १.३.६५॥

‘क्ष्णु तेजने’ परस्मैपदी। ततः संपूर्वादात्मनेपदं भवति। ‘समो गम्यृच्छि०’ (१.३.२९) इत्यत्रैव कस्मान्न पठितः? अकर्मकादिति तत्र वर्तते। संक्ष्णुते शस्त्रम्, संक्ष्णुवाते, संक्ष्णुवते॥

भुजोऽनवने ॥ १.३.६६॥

‘भुज पालनाभ्यवहारयोः’ इति रुधादौ पठ्यते। तस्मादनवनेऽपालने वर्तमानादात्मनेपदं भवित। भुङ्क्ते, भुञ्जाते, भुञ्जते। अनवन इति किम्? भुनक्त्येनमग्निराहितः। अवनप्रतिषेधेन रौधादिकस्यैव ग्रहणं विज्ञायते, न तौदादिकस्य ‘भुजो कौटिल्ये’ इत्यस्य। तेनेह न भवित- विभुजति पाणिम्॥

णेरणौ यत्कर्म णौ चेत् स कर्तानाध्याने ॥ १.३.६७॥

‘णिचश्च’ (१.३.७४) इति कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। ण्यन्तादात्मनेपदं भवति। कथम्? अणौ यत् कर्म णौ चेत् तदेव कर्म, स एव कर्ता भवति, अनाध्यान आध्यानं वर्जयित्वा। आरोहन्ति हस्तिनं हस्तिपकाः। आरोहयते हस्ती स्वयमेव। उपसिञ्चन्ति हस्तिनं हस्तिपकाः। उपसेचयते हस्ती स्वयमेव। पश्यन्ति भृत्या राजानम्। दर्शयते राजा स्वयमेव। णेरिति किम्? आरोहन्ति हस्तिनं हस्तिपकाः। आरोहयमाणो हस्ती साध्वारोहति। अणाविति किम्? गणयति गणं गोपालकः। गणयति गणः स्वयमेव। कर्मग्रहणं किम्? लुनाति दात्रेण। लावयति दात्रं स्वयमेव। णौ चेद् ग्रहणं समानक्रियार्थम्। आरोहन्ति हस्तिनं हस्तिपकाः। आरोहयमाणो हस्ती भीतान् सेचयति मूत्रेण। यत्सग्रहणमनन्यकर्मार्थम्। आरोहन्ति हस्तिनं हस्तिपकाः। आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान्। कर्तेति किम्? आरोहन्ति हस्तिनं हस्तिपकाः। तानारोहयति महामात्रः। अनाध्यान इति किम्? स्मरति वनगुल्मस्य कोकिलः। स्मरयत्येनं वनगुल्मः स्वयमेव। ननु चात्र कर्मकर्तरि मूलोदाहरणानि, तत्र कर्मवद्भावेनैव सिद्धमात्मनेपदम्, किमर्थमिदमुच्यते? कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्मवदतिदेशो विज्ञायते। कर्तृस्थार्थोऽयमारम्भः। तथा च रुहिः कर्तृस्थक्रियः, दृशिः कर्तृस्थभावक उदाहृतः॥

भीस्म्योर्हेतुभये ॥ १.३.६८॥

णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। बिभेतेः स्मयतेश्च ण्यन्तादात्मनेपदं भवति हेतुभये। हेतुः प्रयोजकः कर्ता लकारवाच्यः, ततश्चेद् भयं भवति। भयग्रहणमुपलक्षणार्थम्। विस्मयोऽपि तत एव। जटिलो भीषयते। मुण्डो भीषयते। जटिलो विस्मापयते। मुण्डो विस्मापयते। हेतुभय इति किम्? कुञ्चिकयैनं भाययति। रूपेण विस्माययति। अत्र कुञ्चिका भयस्य करणम्, न हेतुः॥

गृधिवञ्च्योः प्रलम्भने ॥ १.३.६९॥

णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। ‘गृधु अभिकाङ्क्षायाम्’, ‘वञ्चु गतौ’ इत्येतयोर्ण्यन्तयोः प्रलम्भने वर्तमानयोरात्मनेपदं भवति। प्रलम्भनं विसंवादनं मिथ्याफलाख्यानम्। माणवकं गर्धयते। माणवकं वञ्चयते। प्रलम्भन इति किम्? श्वानं गर्धयति। गर्धनमस्योत्पादयतीत्यर्थः। अहिं वञ्चयति। परिहरतीत्यर्थः॥

लियः संमाननशालीनीकरणयोश्च ॥ १.३.७०॥

णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। ‘लीङ् श्लेषणे’ इति दिवादौ पठ्यते, ‘ली श्लेषणे’ इति च क्र्यादौ। विशेषाभावाद् द्वयोरपि ग्रहणम्। लियो ण्यन्तात् संमानने शालीनीकरणे च वर्तमानादात्मनेपदं भवति, चशब्दात् प्रलम्भने च। संमाननं पूजनम्। शालीनीकरणं न्यग्भावनम्। जटाभिरालापयते। पूजां समधिगच्छतीत्यर्थः। श्येनो वर्तिकामुल्लापयते। न्यक्करोतीत्यर्थः। प्रलम्भने- कस्त्वा-मुल्लापयते। विसंवादयतीत्यर्थः। ‘विभाषा लीयतेः’ (६.१.५१) इति वात्वं विधीयते। तदस्मिन् विषये नित्यमन्यत्र विकल्पः। व्यवस्थितविभाषा हि सा। संमाननादिष्विति किम्? बालकमुल्लापयति॥

मिथ्योपपदात् कृञोऽभ्यासे ॥ १.३.७१॥

णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। ण्यन्तात् करोतेर्मिथ्योपपदादात्मनेपदं भवत्यभ्यासे। अभ्यासः पुनः पुनः करणम्, आवृत्तिः। पदं मिथ्या कारयते। सापचारं स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः। मिथ्योपपदादिति किम्? पदं सुष्ठु कारयति। कृञ इति किम्? पदं मिथ्या वाचयति। अभ्यास इति किम्? पदं मिथ्या कारयति। सकृदुच्चारयति॥

स्वरितञितः कर्त्रभिप्राये क्रियाफले ॥ १.३.७२॥

णेरिति निवृत्तम्। शेषात् कर्तरि परस्मैपदे प्राप्ते, स्वरितेतो ये धातवो ञितश्च तेभ्य आत्मनेपदं भवति, कर्तारं चेत् क्रियाफलमभिप्रैति। क्रियायाः फलं क्रियाफलं प्रधानभूतम्, यदर्थमसौ क्रियारभ्यते तच्चेत् कर्तुर्लकारवाच्यस्य भवति। यजते। पचते। ञितः खल्वपि-सुनुते। कुरुते। स्वर्गादि प्रधानफलमिह कर्तारमभिप्रैति। कर्त्रभिप्राय इति किम्? यजन्ति याजकाः। पचन्ति पाचकाः। कुर्वन्ति कर्मकराः। यद्यपि दक्षिणा भृतिश्च कर्तुः फलमिहास्ति, तथापि न तदर्थः क्रियारम्भः॥

अपाद्वदः ॥ १.३.७३॥

कर्त्रभिप्राय इति वर्तते। अपपूर्वाद् वदतेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति॥ धनकामो न्यायमपवदते। न्यायापवादेन धनमर्जयिष्यामीति मन्यते। कर्त्रभिप्राये क्रियाफल इत्येव- अपवदति॥

णिचश्च ॥ १.३.७४॥

कर्त्रभिप्राये क्रियाफल इति वर्तते। णिजन्तादात्मनेपदं भवति कर्त्रभिप्राये क्रियाफले। कटं कारयते। ओदनं पाचयते। कर्त्रभिप्राय इत्येव- कटं कारयति परस्य॥

समुदाङ्भ्यो यमोऽग्रन्थे ॥ १.३.७५॥

कर्त्रभिप्राय इति वर्तते। सम् उद् आङ्इत्येवंपूर्वाद् यमेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति, ग्रन्थविषयश्चेत् प्रयोगो न भवति। व्रीहीन् संयच्छते। भारमुद्यच्छते। वस्त्रमायच्छते। आङ्पूर्वादकर्मकाद् ‘आङो यमहनः’ (१.३.२८) इति सिद्धमेवात्मनेपदम्, सकर्मकार्थमिदं पुनर्ग्रहणम्। अग्रन्थ इति किम्? उद्यच्छति चिकित्सां वैद्यः। कर्त्रभिप्राय इत्येव- संयच्छति। उद्यच्छति। आयच्छति॥

अनुपसर्गाज्ज्ञः ॥ १.३.७६॥

कर्त्रभिप्राय इति वर्तते। अनुपसर्गाज् जानातेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति। गां जानीते। अश्वं जानीते। अनुपसर्गादिति किम्? स्वर्गं लोकं न प्रजानाति मूढः। कर्त्रभिप्राय इत्येव-देवदत्तस्य गां जानाति॥

विभाषोपपदेन प्रतीयमाने ॥ १.३.७७॥

‘स्वरितञितः०’ (१.३.७२) इति पञ्चभिः सूत्रैरात्मनेपदं कर्त्रभिप्राये क्रियाफले द्योतिते विहितम्, तदुपपदेन द्योतिते न प्राप्नोतीति वचनमारभ्यते। समीपे श्रूयमाणं शब्दान्तरमुपपदम्, तेन प्रतीयमाने कर्त्रभिप्राये क्रियाफले विभाषात्मनेपदं भवति। स्वं यज्ञं यजति, स्वं यज्ञं यजते। स्वं कटं करोति, स्वं कटं कुरुते। स्वं पुत्रमपवदति, स्वं पुत्रमपवदते। एवं पञ्चसूत्र्यामुदाहार्यम्॥

शेषात् कर्तरि परस्मैपदम् ॥ १.३.७८॥

पूर्वेण प्रकरणेनात्मनेपदनियमः कृतः, न परस्मैपदनियमः। तत् सर्वतः प्राप्नोति, तदर्थमिदमुच्यते। येभ्यो धातुभ्यो येन विशेषणेनात्मनेपदमुक्तं ततो यदन्यत् स शेषः। शेषात् कर्तरि परस्मैपदं भवति, शेषादेव नान्यस्मात्। अनुदात्तङित आत्मनेपदमुक्तम्-आस्ते। शेते। ततोऽन्यत्र परस्मैपदं भवति-याति। वाति। नेर्विश आत्मनेपदमुक्तम्-निविशते। ततोऽन्यत्र परस्मैपदम्-आविशति। प्रविशति। कर्तरीति किम्? पच्यते। गम्यते। कर्मकर्तरि कस्मात् परस्मैपदं न भवति-पच्यत ओदनः स्वयमेव? कर्तरि कर्मव्यतिहार इति द्वितीयं कर्तृग्रहणमनुवर्तते। तेन कर्तैव यः कर्ता, तत्र परस्मैपदम्, कर्मकर्तरि न भवति॥

अनुपराभ्यां कृञः ॥ १.३.७९॥

कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितम्, तदपवादः परस्मैपदं विधीयते। अनु परा इत्येवंपूर्वात् करोतेः परस्मैपदं भवति। अनुकरोति। पराकरोति॥

अभिप्रत्यतिभ्यः क्षिपः ॥ १.३.८०॥

‘क्षिप प्रेरणे’ स्वरितेत्। ततः कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते। अभि प्रति अति इत्येवंपूर्वात् क्षिपः परस्मैपदं भवति। अभिक्षिपति। प्रतिक्षिपति। अतिक्षिपति। अभिप्रत्यतिभ्य इति किम्? आक्षिपते। द्वितीयमपि कर्तृग्रहणमनुवर्तते। तेनेह न भवति-अभिक्षिप्यते स्वयमेव॥

प्राद्वहः॥ १.३.८१॥

‘वह प्रापणे’ स्वरितेत्। तत्र कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते। प्रपूर्वाद् वहतेः परस्मैपदं भवति। प्रवहति, प्रवहतः, प्रवहन्ति। प्रादिति किम्? आवहते॥

परेर्मृषः ॥ १.३.८२॥

‘मृष तितिक्षायाम्’ स्वरितेत्। ततस्तथैवात्मनेपदे प्राप्ते परस्मैपदं विधीयते। परिपूर्वाद् मृष्यतेः परस्मैपदं भवति। परिमृष्यति, परिमृष्यतः, परिमृष्यन्ति। परेरिति किम्? आमृष्यते। वहतिमपि केचिदत्रानुवर्तयन्ति-परिवहति॥

व्याङ्परिभ्यो रमः ॥ १.३.८३॥

‘रमु क्रीडायाम्’। अनुदात्तेत्त्वादात्मनेपदे प्राप्ते परस्मैपदं विधीयते। वि आङ् परि इत्येवंपूर्वाद् रमतेः परस्मैपदं भवति। विरमति। आरमति। परिरमति। एतेभ्य इति किम् ? अभिरमते॥

उपाच्च ॥ १.३.८४॥

रम इत्येव। उपपूर्वाद् रमतेः परस्मैपदं भवति। देवदत्तमुपरमति। यज्ञदत्तमुपरमति। उपरमयतीति यावत्। अन्तर्भावितण्यर्थोऽत्र रमिः। पृथग्योगकरणमुत्तरार्थम्। अकर्मकाद् विभाषां वक्ष्यति सा उपपूर्वादेव यथा स्यात्॥

विभाषाकर्मकात् ॥ १.३.८५॥

रम उपादिति च वर्तते। पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते। उपपूर्वाद् रमतेरकर्मकाद् विभाषा परस्मैपदं भवति। यावद्भुक्तमुपरमति, यावद्भुक्तमुपरमते। निवर्तत इत्यर्थः॥

बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः ॥ १.३.८६॥

‘णिचश्च’ (१.३.७४) इति कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते। बुध युध नश जन इङ् प्रु द्रु स्रु इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं भवति। बोधयति। योधयति। नाशयति। जनयति। अध्यापयति। प्रावयति। द्रावयति। स्रावयति। येऽत्राकर्मकास्तेषाम् ‘अणावकर्मकाच्चित्तवत्कर्तृकात्’ (१.३.८८) इत्येवं सिद्धे वचनमिदमचित्तवत्कर्तृकार्थम्। बोधयति पद्मम्। योधयन्ति काष्ठानि। नाशयति दुःखम्। जनयति सुखम्। येऽत्र चलनार्था अपि तेषां ‘निगरणचलनार्थेभ्यश्च’ (१.३.८७) इति सिद्धे यदा न चलनार्थास्तदर्थं वचनम्। प्रवते। प्राप्नोतीति गम्यते। अयो द्रवति। विलीयत इत्यर्थः। कुण्डिका स्रवति। स्यन्दत इत्यर्थः। एतद्विषयाण्युदाहरणानि॥

निगरणचलनार्थेभ्यश्च ॥ १.३.८७॥

णेरिति वर्तते। कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते। निगरणमभ्यवहारः। चलनं कम्पनम्। निगरणार्थेभ्यश्चलनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति। निगारयति। आशयति। भोजयति। चलनार्थेभ्यः- चलयति। चोपयति। कम्पयति। अयमपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च॥ अदेः प्रतिषेधो वक्तव्यः॥ अत्ति देवदत्तः। आदयते देवदत्तेन॥

अणावकर्मकाच्चित्तवत्कर्तृकात् ॥ १.३.८८॥

णेरिति वर्तते। कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते। अण्यन्तो यो धातुरकर्मकश्चित्तवत्कर्तृकश्च, तस्माद् ण्यन्तात् परस्मैपदं भवति। आस्ते देवदत्तः। आसयति देवदत्तम्। शेते देवदत्तः। शाययति देवदत्तम्। अणाविति किम्? चेतयमानं प्रयोजयति चेतयत इति केचित् प्रत्युदाहरन्ति, तदयुक्तम्। हेतुमण्णिचो विधिः, प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव न्याय्यः। तस्मादिह चेतयतीति परस्मैपदेनैव भवितव्यम्। इदं तु प्रत्युदाहरणम्-आरोहयमाणं प्रयुङ्क्ते, आरोहयते। अकर्मकादिति किम्? कटं कुर्वाणं प्रयुङ्क्ते, कारयते। चित्तवत्कर्तृकादिति किम्? शुष्यन्ति व्रीहयः। शोषयते व्रीहीनातपः॥

न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ॥ १.३.८९॥

पूर्वेण योगद्वयेन कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विहितम्, तस्य प्रतिषेधोऽयमुच्यते। यत् कर्त्रभिप्रायविषयमात्मनेपदम्, तदवस्थितमेव, न प्रतिषिध्यते। पा दमि आङ्यम आङ्यस परिमुह रुचि नृति वद वस इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं न भवति। ‘णिचश्च’ (१.३.७४) इत्यात्मनेपदं भवति। तत्र पिबतिर्निगरणार्थः। दमिप्रभृतयश्चित्तवत्कर्तृकाः। नृतिश्चलनार्थोऽपि। एषां परस्मैपदं न भवति। पा-पाययते। दमि-दमयते। आङ्यम-आयामयते। ‘यमोऽपरिवेषणे’ इति मित्संज्ञा प्रतिषिध्यते। आङ्यस- आयासयते। परिमुह-परिमोहयते। रुचि-रोचयते। नृति-नर्तयते। वद-वादयते। वस-वासयते॥ पादिषु धेट उपसंख्यानम्॥ धा॒पये॑ते॒ शिशु॒मेकं॑ समी॒ची (ऋ० १.९६.५)॥

वा क्यषः ॥ १.३.९०॥

‘लोहितादिडाज्भ्यः क्यष्’ (३.१.१३) इति वक्ष्यति। तदन्ताद् धातोर्वा परस्मैपदं भवति। लोहितायति, लोहितायते। पटपटायति, पटपटायते। अथात्र परस्मैपदेन मुक्ते कथमात्मनेपदं लभ्यते, यावता ‘अनुदात्तङित०’ (१.३.१२) इत्येवमादिना प्रकरणेन तन्नियतम्? एवं तर्हि आत्मनेपदमेवात्र विकल्पितं विधीयते, तच्चानन्तरं परस्मैपदप्रतिषेधेन सन्निधापितमिह संबध्यते। तेन मुक्ते ‘शेषात् कर्तरि परस्मैपदम्’ (१.३.७८) भवति॥

द्युद्भ्यो लुङि ॥ १.३.९१॥

वेत्येव। ‘द्युत दीप्तौ’ तत्साहचर्याद् लुठादयोऽपि कृपूपर्यन्तास्तथैव व्यपदिश्यन्ते। बहुवचननिर्देशादाद्यर्थो भवति। अनुदात्तेत्त्वान्नित्यमेवात्मनेपदे प्राप्ते, द्युतादिभ्यो लुङि वा परस्मैपदं भवति। व्यद्युतत्, व्यद्योतिष्ट। अलुठत्, अलोठिष्ट। लुङीति किम्? द्योतते॥

वृद्भ्यः स्यसनोः ॥ १.३.९२॥

द्युतादिष्वेव वृतादयः पठ्यन्ते। ‘वृतु वर्तने’, ‘वृधु वृद्धौ’, ‘शृधु शब्दकुत्सायाम्’ ,‘स्यन्दू प्रस्रवणे’, ‘कृपू सामर्थ्ये’ एतेभ्यो धातुभ्यः स्ये सनि च परतो वा परस्मैपदं भवति। वृत्-वर्त्स्यति, अवर्त्स्यत्, विवृत्सति, वर्तिष्यते, अवर्तिष्यत, विवर्तिषते। वृध्-वर्त्स्यति, अवर्त्स्यत्, विवृत्सति, वर्धिष्यते, अवर्धिष्यत, विवर्धिषते। स्यसनोरिति किम्? वर्तते।

लुटि च क्ऌपः ॥ १.३.९३॥

वृतादित्वादेव स्यसनोर्विकल्पः सिद्धः, लुटि विधीयते। चकारस्तर्हि स्यसनोरनुकर्षणार्थो न वक्तव्यः। एवं तर्हीयं प्राप्तिः पूर्वां प्राप्तिं बाधेत। तस्माच्चकारः स्यसनोरनुकर्षणार्थः क्रियते। लुटि च स्यसनोश्च कृपेः परस्मैपदं वा भवति। कल्प्ता, कल्प्तारौ, कल्प्तारः। कल्प्स्यति। अकल्प्स्यत्। चिक्ऌप्सति। कल्पिता। कल्पिष्यते। अकल्पिष्यत। चिकल्पिषते॥

॥** **इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य तृतीयः पादः॥