१७७ अभिव्याङ् (अभि+वि+आ)

दा

  • {अभिव्यादा}
  • दा (डुदाञ् दाने)।
  • ‘तं जातमभिव्याददात्’ (श० ब्रा० १०।६।५।४)। मुखमस्य व्यात्तं विवृतमकरोदित्यर्थः।

हृ

  • {अभिव्याहृ}
  • हृ (हृञ् हरणे)।
  • ‘न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्’ (गौ० ध० १।२।९)। अभिव्याहारयेत् उच्चारयेत्। स्वार्थे णिच्।
  • ‘नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते’ (मनु० २।१७२)। आ मौञ्जिबन्धनादित्यनुवर्तते। स्वधानिनयनं श्राद्धनिऽपादकं मन्त्रजातम्। अथ यद्येनं वाचाऽभिव्याहृतः।
  • ‘यज्ञो नोपनमेत्’ (श० ब्रा० १२।६।१।४)। अभिव्याहृत उपहूतः।
  • ‘अथापि निष्पन्नेऽभिव्याहारेऽभिविचारयन्ति’ (नि० १।२३।२)। अभिव्याहारो व्यपदेशः।
  • ‘अभिव्याहाराय वाक्’ (छां० उ० ८।१२।४)। अभिव्याहार उच्चारणं भाषणम्।
  • ‘अभिव्याहृत्य हैवान्नमत्रप्स्यत्’ (ऐ० उ० ३।३)। अन्नशब्दमुच्चार्येत्यर्थः।