साति

कृ/भू/अस्-धातूनां योगे

यत्र पदार्थे अभूततद्भावस्य सम्पूर्णरूपेण (कार्त्स्येन) आरोपणं भवति (यथा, सम्पूर्णः घटः शुक्लतां प्राप्नोति), तत्र अभूततद्भावस्य निर्देशार्थम् ५.४.५२ विभाषा साति कार्त्स्न्ये इति सूत्रेण कृ/भू/अस्-धातूनां योगे विकल्पेन “साति” इति प्रत्ययः अपि विधीयते ।

एकस्याः व्यक्तेः सर्व-अवयव-अवच्छेदेन अन्यथाभावः = कार्त्स्न्यम् ।

गृहं भस्मसात् अभवत् इति उदाहरणम् । पूर्वम् गृहं भस्मरूपं नासीत् परन्तु गृहदाहे जाते सम्पूर्णं गृहम् अशेषेण भस्मत्वं प्राप्तम् इत्याशयः । पक्षे गृहं भस्मीभूतम् / अग्निना गृहं भस्मीकृतम् इति च्वि-प्रत्ययान्तः प्रयोगः अपि साधु ।

एवमेव, गृहं अग्निसात् कृतम् । वस्त्रं शुक्लसात् स्यात् । लवणम् उदकसात् करोति । दृश्यं अक्षिसात् करोति — आदयः प्रयोगाः । साति-प्रत्ययान्तशब्दाः अपि अव्ययसंज्ञकाः एव ।

च्वि-प्रत्यये परे जायमानः ईकारादेशः सात्-प्रत्यये परे न भवति । भस्मसात् इत्येव वक्तव्यम्, न हि भस्मीसात् इति ।

अपूर्णव्याप्तौ सम्पदा च

यत्र बहूनां पदार्थानां कस्मिंश्चित् अंशे अभूततद्भावस्य आरोपणं भवति (इत्युक्ते, तेषु पदार्थेषु अभूततद्भावस्य अभिविधिः / व्याप्तिः अस्ति परन्तु साकल्पेन आरोपणम् नास्ति) तत्र “५.४.५३ अभिविधौ सम्पदा च” इति सूत्रेण कृ/भू/अस्-धातूनां योगे, तथा च “सम् + पद्” धातोः योगे अपि विकल्पेन साति इति प्रत्ययः भवति ।

बहूनां व्यक्तीनां किञ्चिद् अवयवाच्छेदेन अन्यथात्वं तु अभिविधिः (व्याप्तिः)
— इति कौमुदी ।

अथाभिविधेः कार्त्स्न्यस्य च को विशेषः? यत्र एकदेशेन अपि सर्वा प्रकृतिर् विकारम् आपद्यते सो ऽभिविधिः, यथा -
अस्यां सेनायाम् उत्पातेन सर्वं शस्त्रम् अग्निसात् सम्पद्यते,
वर्षासु सर्वं लवणम् उदकसात्सम्पद्यते
इति। कार्त्स्न्यं तु सर्वात्मना द्रव्यस्य विकाररूपापत्तौ भवति
— इति काशिका ।

“अत्रापि गृहं भस्मसात्” अभवत् इत्येव उदाहरणम् । अग्निना गृहस्य कश्चन अंशः भस्मीकृतः इत्याशयः । पक्षे “गृहं भस्मीभूतम् / अग्निना गृहं भस्मीकृतम्” इति च्वि-प्रत्ययान्तः प्रयोगः अपि साधु । अत्र “सम्+पद्” अपि प्रयुज्यते । यथा, “गृहं भस्मसात् सम्पद्यते । लवणं जलसात् सम्पद्यते ।”

अन्यधातूनां योगे साति-प्रत्ययः न भवति । शुक्लसात् पश्यति, शुक्लसात् मन्यते — आदयः असाधु प्रयोगाः ।

तदधीने

“तदधीनः (in the custody of / dependent on)” इति अर्थे कृ/भू/अस्/सम्+पद् एतेषां योगे ५.४.५४ तदधीनवचने इति सूत्रेण प्रातिपदिकात् साति-प्रत्ययः भवति ।

  • मित्राधीनः = मित्रसात् करोति / मित्रसात् भवति / मित्रसात् स्यात् / मित्रसात् सम्पद्यते / …
  • राजाधीनः = राजसात् करोति / राजसात् भूतः / राजसात् सम्पद्यमानः / …