०७ क्त्वाप्रत्ययः

७. सप्तमोऽध्यायः

क्त्वाप्रत्ययः

क्त्वाप्रत्ययविषये ज्ञातव्यम् अधिकम् अस्तीत्यतः तद्विषये पार्थक्येन किञ्चित् उच्यते अत्र । समानकर्तृकयोः उभयोः धात्वर्थयोः मध्ये पूर्वकालके धात्वर्थे विद्यमानात् धातोः क्त्वाप्रत्ययः भवति । “समानकर्तृकयोः पूर्वकाले’ (३.४.२१) इति सूत्रम् । यदि धातुः उपसर्गयुक्तः भवति तदा

क्त्वाप्रत्ययस्य ल्यबादेशः भवति । एतत्सर्वं सर्वैः प्रायः ज्ञायते एव । ०१. अत्र आगत्य कति दिनानि अतीतानि ?

आगतः कश्चन डित्थादिषु अन्यतमः । अतीतानि तु दिनानि । एवम् आगमनस्य कर्ता डित्थादिषु अन्यतमः । अयनस्य कर्तृ दिनम् । एवं कर्तृभेदः स्फुटः । समानकर्तृकत्वस्य अभावे अस्मिन् वाक्ये ‘आगत्य’ इति प्रयोगः किं साधुः ? एतादृशाः प्रयोगाः प्रयोगानर्हाः न इति वदति शिष्टलोकः । अतः एतत् वाक्यं न दुष्टम् ।

अत्र ‘स्थितस्य’ इति पदम् अध्याहार्थम् । तदा यः आगतः सः एव स्थितः अपि । अतः तयोः समानकर्तृकता । तस्मात् न कश्चित् दोषः । अयम् अध्याहारक्रमः मल्लिनाथेन प्रदर्श्यते । मल्लिनाथस्तु ‘नामूलं लिख्यते किञ्चित्’ इति प्रतिज्ञाय पञ्चानां महाकाव्यानां व्याख्यानाय उद्युक्तः । तेन सा प्रतिज्ञा आन्तं पालिता अपि । यत्र समर्थनानर्हता तत्र सः लिखति - ‘महाकविप्रयोगात् साधुः’ इति । तस्मात् तेन यत् समर्थितं तत् स्वीकारार्हम् एव इति सिद्धम् । अन्ये व्याख्याकारादयः अपि एतादृशान् प्रयोगान् अङ्गीकुर्वन्ति । केचन प्राचीनप्रयोगाः यथा -

• मत्प्रसूतिमनाराध्य प्रजा ते न भविष्यति ।

  • रघुवंशे

• भक्ष्याशया हि मञ्जूषां दष्ट्वाखुः तेन भक्षितः ।

• - चन्द्रालोके

क्त्वाप्रत्ययः

181

• दृष्ट्रेमं स्वजनं कृष्ण …… सीदन्ति मम गात्राणि ।

  • भगवद्गीता

• केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् इति केशाकेशि

  • सिद्धान्तकौमुदी स्थितादिपदानाम् अध्याहारेण एव एतेषु उदाहरणेषु क्त्वाप्रयोगः समर्थनीयः । तस्मात् स्पष्टं यत् एतादृशाः प्रयोगाः शिष्टासम्मताः न इति । तथापि ‘आगतस्य भवतः कति दिनानि अतीतानि’ इत्येवमादिक्रमेण वाक्ययोजनम् एव प्रशस्ततरम् । क्त-क्तवत्वादीनां

प्रत्ययानां प्रयोगेण अत्र निर्वाहः शक्यः । तथैव प्रयोगः वरम । ०२. सः वस्त्रं प्रक्षालयित्वा पठितुम् उद्युक्तः ।

‘प्रक्षाल्य’ इति प्रयोक्तव्यम् । ‘प्रक्षालयित्वा’ इति अपशब्दः । क्षलधातुः अत्र प्र-उपसर्गपूर्वकः इत्यतः क्त्वाप्रत्ययस्य ल्यबादेशः ‘समासे अनपूर्वे क्त्वो ल्यप् (७.१.३७) इति सूत्रेण । अतः धातोः उपसर्गपूर्वकत्वे ल्यप् स्यादेव । तस्मात् ‘प्रक्षाल्य’ इति रूपम् । ल्यपः स्थाने क्त्वाप्रयोगः अन्येषु अपि केषुचित् स्थलेषु बहुभिः क्रियमाणः दृश्यते । तद्यथा -

अशुद्धम् (x)| शुद्धम् (1) परिवर्तयित्वा

परिवर्त्य समापयित्वा

समाप्य परिवेषयित्वा

परिवेष्य प्रकटयित्वा

प्रकटय्य उत्पादयित्वा

उत्पाद्य प्रदर्शयित्वा

प्रदर्श्य सङ्घटयित्वा

सङ्कटय्य सम्मार्जयित्वा

सम्माw उद्घाटयित्वा

उद्घाट्य प्रार्थयित्वा

प्रार्थ्य ०३. सः मित्रं प्रेषयित्वा आगतवान् ।

‘प्रेषयित्वा’ इति शुद्धम् एव ।

182

शुद्धिकौमुदी “प्रेषयति’ इत्यत्र न हि ‘प्र’ इत्येषः उपसर्गः, प्रत्युत धात्वङ्गम् एव सः । ‘प्रेष’ इति धातुः । गत्यर्थकः सः । उपसर्गाभावात् न ल्यप् । ‘प्रेषयित्वा’ इति रूपम् । प्रविशति, प्रभवति इत्यादिषु ‘प्र’ इत्येषः उपसर्गः । अतः ‘प्रेषयति’ इत्यत्रापि उपसर्गः एव स्यात् इति केषाञ्चित् भ्रान्तिः । अतः ते ‘प्रेषयित्वा’ इति रूपम् अशुद्धं मन्यन्ते । तदसत् । ।

अन्ये केचन - ‘प्रेष्य इत्यत्र प्र इति उपसर्गः । ‘इष’(गतौ) इति धातोः णिचि क्त्वाप्रत्ययस्य ल्यबादेशः । तदा ‘प्रेष्य’ इति रूपं सिद्ध्यति’ इति वदन्ति ।। ‘प्रेष्य’ इति प्रयोगे न अस्माकम् अपि विप्रतिपत्तिः । ‘प्रेषयित्वा’

इत्येतदपि शुद्धम् एव इत्यत्र नैर्भर्यम् अस्माकम् । ०४. विषयं साकल्येन अज्ञाय किमपि न वक्तव्यम् ।

‘अज्ञाय’ इति अपशब्दः । ‘अज्ञात्वा’ इति वक्तव्यम् । न ज्ञात्वा = अज्ञात्वा इति नञ्समासः अत्र । ल्यप् तु नसमासे न भवति, अपि तु अनङ्समासे एव, “समासे अनपूर्वे क्त्वो ल्यप्’ इति सूत्रे ‘अनञ्पूर्व’शब्दस्य निवेशनात् । तस्मात् नसमासपूर्वकः

क्त्वाप्रत्ययः यत्र भवति तत्र ल्यप् न करणीयः । ५. सः गीतं विरच्य प्रसिद्धिं गतः ।

“विरच्य’ इति अपशब्दः । “विरचय्य’ इति प्रयोक्तव्यम् । ण्यन्तात् ल्यपि ‘णेरनिटि’ इति सूत्रेण णिचः लोपः स्यात् । यथा - प्रपाठ्य, विचार्य इत्यदयः । किन्तु यदा धातुः लघुपूर्वः भवति तदा णिचः लोपः न भवति, प्रत्युत अयादेशः भवति - ‘ल्यपि लघुपूर्वात् ’ (६.४.५६) इति सूत्रेण । ‘रच’धातुः लघुपूर्वः । अतः ‘विरचय्य’ इति रूपम् ।

एतादृशानि अन्यानि यथा -

प्रकटयति - प्रकटय्य प्रशमयति - प्रशमय्य विशदयति - विशदय्य विगणयति - विगणय्य

अवनमयति - अवनमय्यक्त्वाप्रत्ययः

183

सङ्कलयति - सङ्कलय्य आकलयति - आकलय्य आवरयति - आवरय्य सन्दमयति - सन्दमय्य

सङ्गमयति - सङ्गमय्य ०७.सः तत् पुस्तकं मुद्राप्य महतीं हानिम् अनुभूतवान् ।

‘मुद्राप्य’ इति अपशब्दः । ‘मुद्रयित्वा’ इति वक्तव्यम् । मुद्रां करोति इति मुद्रयति । ‘तत्करोति तदाचष्टे’ इति वार्तिकेन. णिच् । तस्य क्त्वाप्रत्यये ‘मुद्रयित्वा’ इति रूपम् । अत्र उपसर्गः कोऽपि नास्तीत्यतः ल्यपः अप्राप्तिः समायुपसर्गयोगे तु ‘सम्मुद्र्य’ इत्यादीनि रूपाणि भवेयुः ।। केचन अत्र आपुकम् इच्छन्ति । तदा मुद्रापयति इति रूपम् । तदा अपि ‘मुद्रापयित्वा’ इति क्त्वान्तम् एव रूपम्, न तु ल्यबन्तम् ।

अत्रापि उपसर्गस्य अभावात् ल्यपः अप्राप्तिः । ०८. सः मुखं परिवृत्य दृष्टवान् ।

‘परिवर्त्य’ इति प्रयोक्तव्यम् । ‘परिवृत्य’ इति प्रयोगः अस्थाने । परिवर्तते इत्येतत् अकर्मकम् । तस्य ल्यबन्तं रूपं भवति - ‘परिवृत्य’ इति । उपर्युक्ते वाक्ये तु सकर्मकता आवश्यकी । अतः ण्यन्तं रूपं प्रयोक्तव्यम् । ण्यन्तस्य (परिवर्तयति इत्यस्य) ल्यबन्तं रूपं परिवर्त्य’

इति । ०९. एतं विषयम् आधार्य मया एकः लेखः लिख्यते ।

‘आधारीकृत्य’ इत्यर्थे अत्र ‘आधार्य’ इति प्रयोगः कृतः । स च अस्थाने । ‘आ’ इत्युपसर्गपूर्वकः धारणार्थकः धृञ्धातुः अत्र । स्वार्थे णिच् । तदानीं धात्वर्थः च ‘आधारः भूत्वा’ ‘आश्रयं दत्त्वा’ इति भवति । स च अर्थः अत्र न अभिप्रेतः । ‘आश्रयं कृत्वा’

इत्यर्थः अत्र अभिप्रेतः । स च ‘आधार्य’ इति पदात् न प्राप्यते । १०. सैनिकः शत्रु लक्षीकत्य शूलं क्षिप्तवान् ।

‘लक्षीकृत्य’ इति प्रयोगः दोषाय । ‘लक्ष्यीकृत्य’ इति प्रयोक्तव्यम् । यत् अलक्ष्यम् आसीत् तस्य लक्ष्यत्वसम्पादनम् एव लक्ष्यीकरणं नाम । अलक्ष्यं लक्ष्यं कृत्वा लक्ष्यीकृत्य । लक्ष्यं नाम वेध्यत्वेन

7B

184

शुद्धिकौमुदी

प्राप्यत्वेन वा इष्टम् । लक्षं नाम काचित् सङ्ख्या । शूलक्षेपणावसरे लक्षस्य (संख्यायाः) न कापि प्रसक्तिः । अतः लक्षशब्दः अत्र अस्थाने । प्रादेशिकभाषायां ‘लक्ष्य’शब्दस्य स्थाने “लक्ष’शब्दः प्रयुज्येत । कामं प्रयोगः भवतु तत्र । किन्तु संस्कृते तु ‘लक्ष्य’शब्दस्य

प्रयोगः एव औचित्यम् आवहति । ११. भोः, दीपं प्रज्वाल्य उपविश ।

‘प्रज्वाल्य’ इति प्रयोगः न दोषाय । प्रज्वालयति इत्यत्र पक्षद्वयम् अस्ति इति, प्रज्वलयति (ह्रस्वोपेतं रूपम्), प्रज्वालयति (दीर्घोपेतं रूपम्) इत्युभयमपि शुद्धमिति च क्रियापद प्रकरणे अस्माभिः दृष्टम् अस्ति । सोपसर्गे “मितां हस्वः’ इति पक्षः यदा आश्रीयते तदा प्रज्वलेः ल्यपि ‘ल्यपि लघुपूर्वात्’ इति अयादेशे ‘प्रज्वलय्य’ इति रूपम् । घान्ताण्णिचि ‘प्रज्वालयति’ इति भवति इति पक्षः यदा आश्रीयते तदा तु हस्वाभावात् न अयादेशः । ततः ‘प्रज्वाल्य’ इति ल्यबन्तं

रूपम् । तस्मात् प्रज्वाल्य इति रूपम् अपि साधु एव । १२. सा गीतं गात्वा देवं नमस्कृतवती ।

‘गात्वा’ इति अपशब्दः । ‘गीत्वा’ इति प्रयोक्तव्यम् । गैधातोः ‘घुमास्थागापाजहातिसां हलि’ (६.४.५६) इति सूत्रेण ईकारः, क्त्वाप्रत्ययस्य हलादित्वात् कित्त्वाच्च । तस्मात् ‘गीत्वा’ इति

रूपम् । १३. पाचकः अन्नं परिविष्य/परिवेष्य गतः ।

“परिविष्य’ ‘परिवेष्य’ इति उभयथा अपि साधु । ‘परिवेवेष्टि’, ‘परिवेषयति’ इत्यनयोः समानार्थकता (एकत्र अण्यन्तः धातुः । अपरत्र ण्यन्तः । ण्यन्ते णिच् स्वार्थे ) इति पूर्वम् उक्तम् । (६. क्रियापदविभागः - १०) अण्यन्तप्रकृतिकं (परिवेवेष्टि) परि विष्य’ इति । ण्यन्तप्रकृतिकं (परिवेषयति) “परिवेष्य’ इति । अतः

उभयथा अपि साधुता । क्वचित् परिविश्य/परिवेश्य इति तालव्यः शकारः लिख्येत । तत् तु अशुद्धम् । ‘उपविश्य’ इत्यादीनां सादृश्यभ्रमात् ते तथा लिखेयुः । ‘विष्ल’धातुः मूर्धन्य ष’कारोपेतः । अतः ल्यबन्तरूपे अपि मूर्धन्यः

क्वाप्रत्ययः

185

षकारः एव, न तु तालव्यः शकारः । १४. मन्त्री सैनिकान् आज्ञप्य निर्गतवान् ।’

‘आज्ञप्य’ इति असाधु । ‘आज्ञाप्य’ इति प्रयोक्तव्यम् । ‘ज्ञा’धातोः णिचि निष्ठाप्रत्यये परे एव ‘वा दान्तशान्त………ज्ञप्ताः’ (७.२.२८) इति सूत्रेण हस्वस्य विधानम् । क्तक्तवतू ‘निष्ठा’शब्देन निर्दिश्येते । ‘आज्ञाप्य’ इत्यत्र ल्यप् । सः न निष्ठाप्रत्ययः । अतः ह्रस्वः न । तस्मात् ‘आज्ञाप्य’ इति एकमेव रूपम् । (क्तवतुप्रत्यये तु

आज्ञापितवान् / आज्ञप्तवान् इति रूपद्वयम् । एवमेव क्तप्रत्यये अपि ।) १५. एतत् तस्मै प्रतिदत्त्वा आगच्छतु ।

‘प्रतिदाय’ इति प्रयोक्तव्यम् । ‘प्रतिदत्त्वा’ इति अपशब्दः । दाधातोः क्त्वाप्रत्यये ‘दत्त्वा’ इति रूपम् । उपसर्गयोगे तु ‘समासेऽनपूर्वे क्त्वो ल्यप्’(७.१.३७) इति सूत्रेण क्त्वो ल्यबादेशः । तदा ‘प्रतिदाय’ इति रूपम् । उपसर्गयोगे ल्यप् नित्यः । अतः ‘प्रतिदत्त्वा’ इति रूपम्

अशुद्धम् । १६. आरक्षकं दृष्ट्वा चोरः निगूह्य स्थितवान् ।

“निलीय’ इति, ‘आत्मानं निगूह्य’ इति वा प्रयोक्तव्यम् । संवरणार्थकः गुहूधातुः सकर्मकः । तस्मात् स्पष्टं यत् निगृह्य इत्यस्य किमपि कर्म स्यात् इति । ‘आत्मानं निगृह्य’ इति प्रयोगे तु कर्मणः उपादानात् न कापि विप्रतिपत्तिः । यदि तत् न इष्यते तर्हि अकर्मकः नि + लीङ्-श्लेषणे इत्येषः धातुः प्रयुज्यताम् । तदा तु कर्मणः प्रसक्तिः नास्ति ।

186