गुप्

गोपयति / गोपायति

गुपूँ (रक्षणे) इति भ्वादिगणस्य धातोः नित्यम् आदौ “आय” इति प्रत्ययः विधीयते, तदनन्तरं तस्य तिङन्तरूपाणि भवन्ति । गुप् + आय = गोपाय । गोपाय + शप् + ति → गोपायति । रक्षणं करोति इति अर्थः ।

स्वार्थे णिच्

काव्येषु कुत्रचित् “गोपयति” इति अकारघटितं रूपम् अपि प्रयुक्तम् दृश्यते । अस्य सिद्धिः “शब्दापशब्दविवेकः” इति ग्रन्थे इत्थं दीयते — “स्वार्थे गुपेर्णिच् इति कृत्वा गोपयति इति सुवचम्” ।

गुप् + (स्वार्थे) णिच् → गोपि । गोपि + शप् + ति → गोपयति । रक्षणं करोति इत्येव अर्थः ।

स्वार्थे णिच् प्रत्ययः कथम् ?
“निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते” इति प्राकृते अर्थे णिच्-प्रत्ययः ।

अर्थान्तरेषु अननुबन्धकाः चुरादयः इति “६.१.९ सन्यङोः” इत्यत्र सिद्धान्तकौमुद्यां विद्यमानं वचनम् अनुसृत्य “गुपँ गोपने” इति भ्वादिगणस्य धातुः निन्दा-भिन्ने अर्थे स्वार्थे चुरादिगणे स्वीक्रियते, अतश्च तस्मात् णिच्-प्रत्ययः सम्भवति, येन “गोपयति” इति रूपम् सिद्ध्यति ।