०१

एकेन यस्य यमिनः प्रमदेव देहमर्धेन राजति पुमानिव चापरेण ।
तत्त्वक्रमादथ च न प्रमदा पुमान्वा श्रेयांसि वर्धयतु स स्मरशासनो वः ॥

श्रीरामसिंहदेवेन दोर्दण्डदलिताद्विषा ।
क्रियतेऽवन्तिभूपालकण्ठाभरणदर्पणः ॥

कण्ठाभरणमनर्घ्यं वाग्देवीरत्नदर्पणोत्सङ्गे ।
अस्मिन्पश्यतु निभृतं प्रकाशसर्वाङ्गलावण्यम् ॥

ग्रन्थारम्भे समुचितेष्टदेवतानसस्कारेण शिष्टाचारमनुवर्तते—

ध्वनिर्वणाः पदं वाक्यमित्यास्पदचतुष्टयम् ।
यस्याः सूक्ष्मादिभेदेन वाग्देवीं तामुपास्महे ॥ १ ॥

“ध्वनिरिति ।” वाचामधिष्ठात्री देवी द्योतमाना स्वप्रकाशशब्दब्रह्मरूपा भारती । कथमुपास्यते । सूक्ष्मादिभेदेन ध्वन्यादिभेदेन च विवक्षितो नमस्कारः । शब्दब्रह्मणश्चतस्त्रो भिदा भवन्ति । सूक्ष्मा, पश्यन्ती, मध्यमा, वैखरी चेति । तत्राविकारदशा सूक्ष्मा । सा हि सर्वस्य प्राणापानान्तरालवर्तिनी विगतप्रादुर्भावतिरोभावा स्रम्यक्प्रयोगपरिशीलनात्मना कर्मयोगेन मननादिना ज्ञानयोगेन च सम्यगधिगम्यते । ‘सेयमाकीर्यमाणापि नित्यमागन्तुकैर्मलैः । अन्त्या कला हि सोमस्य नात्यन्तमभिभूयते ॥ तस्यां विज्ञातमात्रायामधिकारो निवर्तते । पुरुषे षोडशकले तामा-हुरमृतां कलाम् ॥’ इति । तस्य ब्रह्मणोऽनाद्यविद्यावशादाद्यः परिणामः पश्यन्तीरूपो जायते । स हि वर्णविभागादक्रमः स्वयम्प्रकाशश्च । पूर्वापरे स्वावस्थे पश्यतीति पश्यन्तीत्युच्यते । ततः परमविद्योपादानादन्तः सङ्कल्परूपक्रमवान् श्रोत्रग्राह्यवर्णाभिव्यक्तिरहितस्तृतीयः परिणामो मध्यमारूपो जायते । सा किल द्वयोः परिणामयोर्मध्ये सदा तिष्ठतीति मध्यमेत्युच्यते । अन्तरं दूरप्रसृतायामविद्यायां स्थानकरणप्रयत्नव्यज्यमानश्रोत्रसंवादिवीणादुन्दुभिनादपरिचयगद्गदाव्यक्ताकारादिवर्णसमुदायात्मकस्तृतीयः परिणामो वैखरीरूपो जायते । विशिष्टं खमाकाशं राति प्रयच्छतीति विखरो देहेन्द्रियसङ्घातः । तथा च श्रुतिः—‘न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशतः ॥’ इति । तत्र भवा वैखरीति । तदेतासामवस्थानामाद्यास्तिस्त्रो नित्या अतीन्द्रियाः । तदुक्तम्—‘स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ केवलं बुध्द्युपादानक्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ॥ अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तःसूक्ष्मा सा चानपायिनी ॥’ इति । श्रुतिरप्याह—‘चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥’ इत्यादिकमागमसमुच्चयादेवावसेयम् । का पुनस्ता वाचो यासामियमधिष्ठात्रीत्यत उक्तम्—‘ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम् । यस्याः’ इति । आस्पदमधिष्ठानमवच्छेदः । ध्वन्यादिभिरवच्छिन्ना परा वाक् तद्व्यवहारहेतुः । साहित्यप्रसिद्धाभिधानध्वननलक्षणव्यवहारकारित्वमेकस्मिन् वर्णे न निरूप्यते इति बहुवचनम् । पदवाक्ययोरस्ति प्रत्येकमपि तथाभाव इति ताभ्यामेकवचनमुपात्तम् । तदयमत्र तात्पर्यसङ्क्षेपः । साहित्यस्वरूपनिरूपणाय किलैष ग्रन्थारम्भः । साहित्यं च शब्दार्थयोः सम्बन्धः । तत्र शब्द एव क इत्यपेक्षायामयं विभागो ध्वनिरित्यादिः । अर्थस्तु स्तम्भकुम्भादिलक्षणो सोके शास्त्रे च प्रसिद्धः । सम्बन्धः कश्चिदनादिः । सर्वस्वायमानस्तु सम्बन्धो नान्यत्रेत्यस्मिन्नायतते । स चतुर्विधः—दोषहानम्, गुणोपादानम्, अलङ्कारयोगः, रसाभियोगश्चेति ॥

प्रेक्षावत्प्रवृत्त्यङ्गसम्बन्धप्रयोजने दर्शयति—

निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन्कीर्तिं प्रीतिं च विन्दति ॥ २ ॥

“निर्दोषमिति” । प्रीतिः सम्पूर्णकाव्यार्थस्वादसमुत्थ आनन्दः काव्यार्थभावनाद-शायां कवेरपि सामाजिकत्वाङ्गीकारात् । सहृदयश्लाघया वा प्रीतिस्तदृष्टं प्रयोजनम् । कीर्तिरदृष्टद्वारा स्वर्गफलेत्यदृष्टम् । यदाह—‘कीर्ति स्वर्गफलामाहुः’ इति । अङ्गिनः काव्यस्य प्रयोजनान्वाख्यानेनाङ्गभूतस्यास्य प्रयोजनसम्बन्ध उक्तः। यद्यपि काव्यशब्दो दोषाभावादिविशिष्टावेव शब्दार्थौ ब्रूते, तथापि लक्षणया शब्दार्थमात्रे प्रयुक्तः । लक्षणाप्रयोजनं चाभिधेयानामुद्देशः । त्रिधा हि सास्त्रशरीरम्—‘उद्देशः, लक्षणम्, परीक्षा चेऽति । उदाहरणव्याख्याग्रन्थः सर्वत्र परीक्षापर इत्यस्मद्गुरवः । प्रयोजनाभिसम्बन्धपरादेवोद्देशो लभ्यत इति न विरोधः । अत एव दोषाद्युद्देशक्रमेण परिच्छेदाः । निर्दोषं दोषात्यन्ताभाववत्, अवयवैकदेशवर्तिना श्वित्रेणेव कामिनीशरीरस्य वर्णमात्रगतेनापि दोषेण काव्यवैरस्यनियमात् । अत एवामङ्गलप्रायाणामपि दोषाणां प्रथममुपादानम् । अयमेव हि प्राचः कवेर्व्यापारो यद्दोषहानं नाम । गुणवदिति । भूम्रि प्रशंसायां वा मतुप् । अलङ्कृतमित्येव वक्तव्येऽलङ्कारैरिति प्रसिद्धालङ्कारपरिग्रहार्थम् । तथालङ्कारैरित्येव वाच्ये प्रसिद्धानामपि वक्ष्यमाणानामेवोपादानार्थमलङ्कृतपदम् । रसान्वितं रसेन नित्यसम्बद्धम् । ‘नास्त्येव तत्काव्यं यत्र परम्परयापि विभाबादिपर्यवसानं न भवति’ इति काश्मीरिकाः । एतेन काव्यलक्षणमपि कटाक्षितम् । ईदृशं काव्यं तत्कुर्वन् । कविरिति कवेरपि लक्षणमिति ॥

अथोद्देशक्रमेण दोषाणां सामान्यलक्षणं विभागं चाह—

दोषाः पदानां वाक्यानां वाक्यार्थानां च षोडश ।
हेयाः काव्ये कवीन्द्रैर्ये तानेवादौ प्रचक्ष्महे ॥ ३ ॥

“दोषाः पदानामिति” । हेया इत्यनेन सामान्यलक्षणम् । ये हेयास्ते दोषा इत्यभिप्रायात् । अभिमतप्रतीतिव्यवधायकतया विघ्नभूतः शश्वत्काव्ये हेयतामासादयति स एव दोषः । अयमेवार्थः ‘मुख्यार्थहतिर्दोषः-’ इति पदेनान्येषामभिमतः । स च पद-वाक्य-वाक्यार्थविषयतया पूर्वं त्रिविधः । पदपूर्वकत्वाद्वाक्यस्य तत्पूर्वकत्वाद्वाक्यार्थस्य युक्तः क्रमः । वर्णमात्रदोषो नोल्लेखीत्युपेक्षितवान् । अवान्तरविभागे तु क्रियमाणे प्रत्येकं षोडशभिरुपाधिभिः सङ्कुलमित्याह—षोडशेति । काव्यप्रकाशकारादिभिरुक्तानामधिकानामिहान्तर्भावः । अनन्तर्भावे तु दोषत्वमेव नास्तीत्यभिप्रायः, न तु देशीयरागन्यायेन स्वमतप्रकाशनम् । प्रतीतिव्यवधायकानां सर्वदा तद्रूपत्वात् । उक्तमेवाभिसन्धानम्—तानेवादाविति ॥

विभागमन्तरेण विशेषलक्षणानवतारात्पददोषान्विभजते—

असाधु चाप्रयुक्तं च कष्टं चानर्थकं च यत् ।
अन्यार्थकमपुष्टार्थमसमर्थं तथैव च ॥ ४ ॥

अप्रतीतमथ क्लिष्टं गूढं नेयार्थमेव च ।
सन्दिग्धं च विरुद्धं च प्रोक्तं यच्चाप्रयोजकम् ॥ ५ ॥

देश्यं ग्राम्यमिति स्पष्टा दोषाः स्युः पदसंश्रयाः ।

“असाध्विति” । मुख्यार्थहतौ मिथोऽनपेक्षासूचनया समासः । अत एव लाघवेऽनादरः । कथं पदप्रतीकदोषा न गण्यन्त इति शङ्कामभिप्रेत्याह—स्पष्टा इति । पदसंश्रयाः पदान्वयव्यतिरेकानुविधायिनः । एवं वाक्यादावपि गुणादावपीदमेवाश्रितत्वम् ॥

विभागप्रयोजनमाह—

अथैषां लक्षणं सम्यक्सोदाहरणमुच्यते ॥ ६ ॥

“अथैषामिति” । परीक्षां प्रतिजानीते—सम्यगिति । लक्षणदोषशून्यं लक्षणानुपपत्तिनिर्णेजनमेव हि परीक्षापदार्थः । कथमेतत्सम्पत्स्यते इत्यत आह—सोदाहरणमिति ॥

शब्दस्वरूपलक्षणः प्रथमनिरस्यो दोष इत्याशयेन प्रागुद्दिष्टस्यासाधोर्लक्षणमाह—

शब्दशास्त्रविरुद्धं यत्तदसाधु प्रचक्षते ।

यथा—

‘भूरिभारभराक्रान्त बाधति स्कन्ध एष ते ।
तथा न बाधते स्कन्धो यथा बाधति बाधते ॥ १ ॥’

अत्र बाधतेरात्मनेपदित्वाद् ‘बाधते’ इति स्यात्, न पुनर् ‘बाधति’ इति ॥

“शब्देति” । शब्दाः शिष्यन्ते प्रकृतिप्रत्ययविभागपरिकल्पनया ज्ञाप्यन्ते येन तच्छब्दशास्त्रं त्रिमुनिव्याकरणं तेन विरुद्धं तदाम्नातप्रातिस्विकविशेषपरित्यक्तमतो न देशीयपदानामसाधुत्बम् । तथा च प्राच्यैः—‘नाथ ते कुचयुगं पत्रावृतं मा कृथाः’ इति अन्यकारकवैयर्थ्यमिति, ‘सलीलपाणिद्वयलोलनालमानर्तिताताम्रदलं दधन्तीम्’ इति च तादृशमेवोदाहृतम् । अत्र केचिदाहुः—‘बाधतिधातुं संस्कारप्रच्यावनेन बाधते इति बाधतिबाधस्तस्य सम्बोधनं बाधतिबाधेति । ते तव । वचनमिति शेषः’ इति, तदसत् । नेयार्थत्वप्रसङ्ङ्गात् । अन्ये तु ‘बाधतिर्बाधते यथा’ इति पठन्ति । इदं तत्त्वम् । विद्यमानस्यार्थवत्त्वस्याविवक्षायां गवित्ययमाहेत्यादाविव प्रातिपदिकसञ्ज्ञा न प्रवर्तते ॥

कविभिर्न प्रयुक्तं यदप्रयुक्तं तदुच्यते ॥ ७ ॥

यथा—

‘कामचीकमथाः केऽमी त्वामजिह्वायकीयिषन् ।
स सस्ति किं वचन्तीमे कम्बः शम्बं घरिष्यति ॥ २ ॥’

अत्र ‘अचीकमथाःऽ, ‘अजिह्वायकीयिषन्ऽ, ‘सस्तिऽ, ‘वचन्तिऽ, ऽघरिष्यतिऽ, ‘कम्बःऽ, ‘शम्बम्’ इति शब्दानुशासनसिद्धान्यपि कविभिर्न प्रयुज्यन्ते ॥

“कविभिरिति” । अस्ति हि किञ्चित्पदं यत्राप्रयोज्यत्वेनैव हेयता । यद्येवं लोके प्रयुज्यमानस्य साधुतैव प्रसक्ता इत्यत उक्तम्—कविभिरिति । काव्ये यस्याप्रयोज्यत्वमेव दुष्टत्वबीजं तदित्यर्थः । तथाभूता च पदजातिरलङ्कारकारसमयादवसीयते । तथा चैकेन पुन्दैवतशब्दोऽपरेण चीर्णशब्द उदाहृतः । एवमन्यदप्यप्रयुक्तमित्याशयवान्किञ्चिदुदाहरति—कामचीकमथा इति । उदाहरणत्वान्नैकोऽत्र श्लोको गवेष्यः । एकपदमात्रप्रयोगस्तु त्याज्यः समयविरोधाभावादित्याराध्याः । ‘अचीकमथाः’ इति कमेर्णिङन्तस्य लुङि चङि द्विर्वचनसन्वद्भावदीर्घत्वह्नस्वत्वणिलोपेषु रूपम् । कां नायिकां कामितवानसीत्यर्थः । अमी च के । त्वामात्मनो ह्वायकमेषितुमिष्टवन्तः । ह्वायकशब्दात् क्यच् । ततः सन् । ततो लङि अजिह्वायकीयिषन्निति रूपम् । स कश्चित् सस्ति स्वपिति । ‘पस सस्ति स्वप्ने’ इति धातो रूपम् । कम्बः शम्बमिति । कंशंशब्दौ जलवाचकौ ताभ्याम् । ‘कंशम्भ्यां वभयुस्तितुतयसः’ इति मत्वर्थीयो वप्रत्ययः । तत्राद्येन जलधरो जलाशयं सेक्ष्यतीत्यर्थः । ‘शम्बः कम्बन्’ इति क्वचित्पठ्यते । तत्र कल्याणवान् कपालिनं सेक्ष्यतीत्यर्थो बोद्धव्यः । ‘घृ सेचने’ इत्यस्य धातोर्घरिष्यतीति रूपम् । स हि धातुः ‘घृतघृणाघर्मेभ्यो नान्यत्र युज्यते’ इति पूर्वाचार्याः । कविभिरित्यनेनासाधुशङ्का व्यावर्तितेत्याह—शब्दानुशासनसिद्धान्यपीति ॥

पद श्रुतेरसुखदं कष्टमित्यभिशब्दितम् ।

यथा—

‘वर्वर्ष्टि जलदो यत्र यत्र दुर्घर्ष्टि चातकः ।
पोफुल्लूति नीपः कालोऽयं चर्कर्ति हृदयं मम ॥ ३ ॥’

अत्र वर्वर्ष्ट्यादीनि क्रियापदानि श्रुत्यसुखदानि श्रूयन्ते ॥

“पदमित्यादि” । दुर्वचकवर्णारब्धपदं कष्टोच्चारणीयतया कष्टमुच्यते । श्रुतेरसुखदमिति दूषकताबीजोद्धाटनम् । कदर्थिता हि तेन श्रुतिशक्तिर्न तद्वाक्यप्रतीकपरामर्शक्षमेति । काव्यप्रकाशकृता पदैकदेशः कष्ट उक्तः, यथा—‘तद्गच्छ सिध्द्यै’, ऽअपेक्षते प्रत्ययमङ्गलब्ध्यै’ इत्यत्र ‘ध्यै’ ‘ध्यै’ इति, तत्राह—पदमिति । न हि समस्तवस्तुकटुत्व एव पदं कष्टत्वमासादयति । कार्तार्थ्यमित्यादौ तदुदाहृते तदभावात् । एकदेशकष्टतया पदकष्टत्वमिति चात्रापि न दण्डवारितमिति भावः । वर्वर्ष्टि पुनः पुनर्वर्षति । वृषेर्यङ्लुगन्तस्य रूपम् । दर्धर्ष्टि पुनः पुनर्धृष्टो भवति । ‘मिधृषा प्रागल्भ्ये’ इत्यस्य तत्रैव रूपम् । ‘दर्द्रष्टि’ इति पाठे दृशेर्यड्लुक्यमागमे च रूपम् । पुनः पश्यति । नीपः कदम्बः । पोफुल्लूति । ‘फुल्ल विकसने’ इत्यस्य तत्रैव रूपम् । एवम्भूतो वर्षासमयो मम विदूरकान्तस्य हृदयं चर्कर्ति पुनः पुनरतिशयेन वा छिगत्ति । ‘कृती छेदने’ इत्यस्य रूपम् । भूयसां कष्टपदानां समभिब्याहाराद्वाक्यदोष इति भ्रान्तिः स्यात्तत्राह—क्रियापदानीति । कथमेवं विभागोऽवसीयत इत्यत आह—श्रूयन्त इति । श्रोत्रप्रत्यक्षेणैव पदमात्रगामितया कष्टत्वमनुभूयते इत्यर्थः ॥

पादपूरणमात्रार्थमनर्थकमुदाहृतम् ॥ ८ ॥

यथा—

‘बिभर्ति यश्च देहार्धे प्रियामिन्दुं हि मूर्धनि ।
स वै देवः खलु त्वां तु पुनातु मदनान्तकः ॥ ४ ॥’

अत्र ‘च’ ‘हि’ ‘वै’ ‘खलु’ ‘तु’ इत्येतानि पदानि पादानेव पूरयन्ति ॥

“पादपूरणेति” । द्योतनीयमर्थमन्तरेण प्रयुक्तमव्ययमनर्थकमभिमतम्, अत एव प्राच्यैश्चादिपदमव्ययमिति प्रयोगबीजकथनार्थं नहि निर्मूलः प्रयोगः सम्भवति वृत्तिनिर्वहणसमर्थः । प्रायेणाव्ययपदानि क्षिप्त्वा तत्पूरयति । तदुक्तम्—‘कुकवि-प्रबन्ध इव श्लिष्टपदप्रचारः । प्रकटतुहिनचयो जनाकीर्णश्च’ इति । बिभर्तीति । चः समुच्चयादिषु चतुर्षु प्रसिद्धप्रयोगो न च तेषामन्यतमोऽप्यत्र सम्भवति । नाप्युच्चावचार्थकः इति भाषणेनार्थान्तरमपि । एवं हिप्रभृतिष्ववसेयम् । एतेनैतदप्यपास्तम् । यदाहुरेके—पदादिविशेषानुपादानात्पदैकदेशोऽप्यनर्थकोऽभिमतः । तथा च—‘आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम् । सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥’ इत्यत्र दृशामिति बहुवचनमनर्थङ्कं कुरङ्गेक्षणाया एकस्या एवोपादानात् । न चात्र व्यापारे दृक्शब्दो वर्तते, अञ्जनपुञ्जलेपादीनामनन्वयापत्तेः । तथा ‘कुरुते’ इत्यात्मनेपदमनर्थकमकर्त्रभिप्रायक्रियाफलादिति । अपि च । बहुत्वकर्त्र भिप्रायफलाभावे कथनं द्वयोरसाधुत्वमिति राजमार्ग एव भ्रमः । नहि स्वरूपत एव किञ्चिदसाधु साधु वा सम्भवति ॥

रूढिच्युतं पदं यत्तु तदन्यार्थमिति श्रुतम् ।

यथा—

‘विभजन्ते न ये भूपमालभन्ते न ते श्रियम् ।
आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥ ५ ॥’

अत्र विभजतेर्वण्टने, आलभतेर्मारणे, आवहतेः करणे, प्रस्मरतेर्विस्मरणे रूढिः । न तु विशेषसेवायाम्, अभितो लाभे, समन्ताद्वहने, प्रकृष्टस्मरणे चेति ॥

“रूढिच्युतमिति” । शक्तिमनपेक्ष्य प्रयुक्तं रूढिच्युतम् । अत एव यदभिसन्धाय प्रयुज्यते न कथञ्चन यस्यासावर्थ इति अन्वर्थमन्यार्थमिति नाम । एतदेव धातुविशेषोऽवान्तरमुपसर्गविशेषयोगतो योगवानित्यादिनान्यैरुक्तम् । विभजन्त इति । भजिः सेवार्थो विरुपसर्गस्तद्गतविशेषद्योतकस्ततश्च यथा विद्योतत इति । अत्र विशिष्टधात्वनुरूपप्रयोगाभिधानं तथात्रापि भविष्यतीति भ्रमो बीजमत्र शब्दशक्तिस्वभावात् । क्वचिदुपसर्गोपसन्दानेन धातुरर्थान्तर एव वर्तते । यदाहुः—‘उपसर्गेण धात्वर्थो वलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥’ इति । तदाह—अत्र विभजतेरित्यादि । नन्वर्थापेक्षित्वे पदार्थदूषणमेवंविधमिति वामनः । नैतत् । पदस्यैवान्वयव्यतिरेकवत्त्वात् । नह्यत्रान्वयस्यापराधः कश्चित् । किं तु शब्द एव वृत्तिस्खलितादिभिरपराघ्यति । यदि चार्थापेक्षितामात्रेणार्थदोषत्वं कथमसाधुप्रभृतीनामपि शब्ददूषणता । नहि तानि स्वरूपत एव तथापि त्वर्थविशेषो विशेष एवाश्वगोश्वादिवदिति। अर्थदोषास्तु यथा भवन्ति तथा वक्ष्याभः ।

यत्तु तुच्छाभिधेयं स्यादपुष्टार्थं तदुच्यते ॥ ९ ॥

यथा—

‘शतार्धपञ्चाशभुजो द्वादशार्धार्धलोचनः ।
विंशत्यर्धार्धमूर्धां वः पुनातु मदनान्तकः ॥ ६ ॥’

अत्र दशबाहुः, त्रिलोचनः, पञ्चवक्र इति तुच्छमेवाभिधेयमतुच्छशब्दैरुक्तमिति अपुष्टार्थम् ॥

“यत्तु तुच्छाभिधेयमिति” । स्तोकशब्दाभिलभ्येऽर्थे बहुतरशब्दबहुलमित्यर्थः । नहि तथा क्रियमाणमल्पीयसीमपि प्रकर्षतां पुष्यति येन त्याज्यं न स्यादित्यपुष्टपदेन सूचितम् । शतस्यार्धं पञ्चाशत्तेषां पञ्चतमोंऽशो दश । समासे पूरणप्रत्ययलोपः ॥

असङ्गतं पदं यत्तदसमर्थमिति स्मृतम् ।

यथा—

‘जलं जलधरे क्षारमयं वर्षति वारिधिः ।
इदं बृंहितमश्वानां ककुद्मानेष ह्रेषते ॥ ७ ॥’

अत्र जलधरो मेघः, वारिधिः समुद्रः, बृंहितं गजानाम्, ह्रेषितमश्वानामिति लोकप्रसिद्धम् । तदिह समुद्र-मेघ-अश्व-वृषभविषयतया प्रयुज्यमानमसङ्गतार्थत्वादवाचकमित्यसमर्थम् ॥

“असङ्गतमिति” । कथं पुनरिदमन्यार्थाद्भिद्यते । अत्राराध्याः । अन्यार्थे केवलं योगाद्रूढिर्बलवती । असमर्थे तु केवलयोगाद्योगरूढिः । तदपरे दूषयन्ति । तथापि रूढिच्युतिः साधारण्येव तदवान्तरं विशेषद्वयमन्यदिति । तन्न । भावानवबोधात् । किञ्चिद्धि पदमपवादकारणबलादवगम्यमानमपि योगमनपेक्ष्यैव क्वचिदर्थविशेषे वर्तते । यथा—गौरिति । नहि गमनस्य वाक्यार्थे प्रवेशः सम्भवति । किञ्चित्पुनर-सति बाधहेतौ बुध्यमानस्य त्यागायोगाद्योगविशिष्टमेंवोपाधिमभिधत्ते । यथा—पङ्कजमिति । तत्राद्यप्रकारे रूढिरेव सर्वस्वमिति तत्परित्यागे रूढिच्युतम् । द्वितीये तु योगमात्रे प्रयुक्तमसङ्गतं शक्तिशून्ये प्रयुक्तं शत्त्क्यैकदेशे प्रयुक्तमिति भिन्नोऽर्थस्तदेतत्सर्वं व्याख्यानेन स्फुटयति—अत्र जलधरेति । जलधरादिपदानि जलधारणादिविशिष्टे मेघत्वादौ रूढाभिधानशक्तीनि । कथमेतदवसितमिति चेत्तत्राह—लोकप्रसिद्धमिति । लोकाधीनावधारणत्वाच्छब्दार्थसम्बन्धस्येति भावः । ततश्च यद्विशिष्टस्य योगस्य शक्तिविषयतया न तेन सङ्केतः । यत्र च समुद्रादौ प्रयोगो न तदुपाधिभिः समुद्रत्वाद्यैः सम्भूय शत्त्क्या सङ्केतः । क्षारादिपदोपसन्दानेन च समुद्रादौ प्रयोग उन्नीयत इत्याह—तदिहेति । अत एव न तदवस्थस्य पदं वाचकमत एव चाक्षमत्वादसमर्थमिति सञ्ज्ञयैव व्यवह्रियत इति सङ्क्षेपः ॥

अप्रतीतं तदुद्दिष्टं प्रसिद्धं शास्त्र एव यत् ॥ १० ॥

यथा—

‘किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः ।
गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः ॥ ८ ॥’

अत्र रूपस्कन्ध-नान्तरीयकशब्दयोः शास्त्रप्रसिद्धत्वादन्यत्राप्रतीयमानयोः प्रयोगादप्रतीतम् ॥

“अप्रतीतमिति” । शास्त्रमात्रप्रसिद्धं शास्त्रव्यवहारिमिः सङ्केतितमित्यर्थः । प्रतीताप्रतीतसमभिव्याहाररूपं हि वाक्यमशास्त्रज्ञविषयं प्रयुक्तमभिमतार्थप्रतीतिं न जनयितुमीष्टे । तत्राप्रतीतानामेवापराधोऽतः परिस्खलनखेददायितया भवति दुष्टत्वम् । अत एवाप्रयुक्ताद्बहिर्भावः । किं भाषितेनेति । रूपस्कन्धवाचोयुक्तिः सौगतसमयप्रसिद्धा । तेषां रूपं वेदना सञ्ज्ञा संस्कारो विज्ञानमिति पञ्चस्कन्धाः । तत्रापि रूपस्कन्धपदार्थ एकादशपदार्थकः । पञ्चेन्द्रियाणि पञ्च विषया विज्ञप्तिरेकादशीति प्रक्रिया । अन्तरमिति विनार्थे गहादौ पठ्यते । ‘तत्र भवः’ इति छे स्वार्थिके च कनि नञ्समासे पृषोदरादित्वान्नलोपाभाव इति भाष्यटीका । प्रेम्णो व्यापका गुणा न सन्ति मे न च व्यापकमन्तरेण व्याप्यं भवतीति व्यापकानुपलब्धिप्रयुक्तत्वात्प्रेमाभावस्य तथोपालम्भे वाच्यता नास्तीति भावः । शास्त्र एवेत्यवधारणेन यव्द्यावर्त्यते तदाह—अन्यत्रेति । लोक इत्यर्थः ।

दूरे यस्यार्थसंवित्तिः क्लिष्टं नेष्टं हि तत्सताम् ।

यथा—

‘विजितात्मभवद्वेषिगुरुपादहतो जनः ।
हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति ॥ ९ ॥’

अत्र विना गरुत्मता जित इन्द्रस्तस्यात्मभवोऽर्जुनस्तस्य द्वेषी कर्णस्तस्य गुरुः सूर्यस्तत्पादैरभिहतो लोक आकाशमभिनन्दति । कीदृशम् । हिमापहो वह्निस्तस्यामित्रो जलं तद्धारयन्ति ये मेघास्तैर्व्याप्तमिति व्यवहितार्थप्रत्ययं क्लिष्टमेतत् ॥

“दूर इति ।” दूरं चिरं विलम्ब इत्यनर्थान्तरम् । क्लेशो द्विविधः—पदविषयः, वाक्यविषयश्च । आद्यः सामान्यशब्दस्य प्रकरणादिकमनपेक्ष्य क्वचिदभिप्रेतविषये प्रयोगः । तथा सति वाचकतायामपि झटिति प्रतिपत्तिर्न भवति । किं तु परस्परान्वयपर्यांलोचनया चिरेणेति विरसत्वम् । यदाह—‘नेष्टं हि तत्प्रसितानाम्’ इति, अयमेवार्थो व्यवधानपदेन वामनादिभिरुक्तः । द्वितीयस्तु व्याकीर्णादिपदेनान्यथा वक्ष्यते—विजितेति । विशब्देन पक्षिसामान्यवचनेन तद्विशेषो गरुडात्मा विवक्षितः । तज्जितोऽपि विशेष एव । एवमन्यत्रापि । न चात्रापि किञ्चिज्झटिति प्रतीत्यनुगुणं नियमकारणमस्तीति युक्तमेव व्यवधानम् । हिमापहो वह्निरिति हन्तेर्डप्रत्यये रूपम् । तथा च चन्द्रगोमी डप्रकरणे ‘हन्तेर्डः’ इत्येव सूत्रितवान् । हिमापहो वहिरिति क्विपि व्यभिचारं दृष्ट्वा ‘ब्रह्मभ्रूण-’ इत्यादि सूत्रितं चन्द्रगोमिना ॥

गूढार्थमप्रसिद्धार्थं प्रयोगं ब्रुवते बुधाः ॥ ११ ॥

यथा—

‘सहस्रगोरिवानीकं भवतो दुःसहं परैः ।
हरेरिव तवाभान्ति नान्यतेजांसि तेजसि ॥ १० ॥’

सहस्रगुशब्देन सहस्राक्ष उक्तः । न च गोशब्दस्याक्ष्णि भूयसी प्रसिद्धिः । हरिशब्देन च सहस्त्रांशुः सोऽपि न तेन नाम्ना बहुभिरुच्यत इति गूढत्वम् ॥

“गूढार्थमिति” । यस्य पदस्य द्वावर्थौ सिद्धश्चासिद्धश्च तच्चेदप्रसिद्धे प्रयुक्तं तदा गूढार्थम् । अप्रसिद्धार्थ प्रयोगमिति । अप्रसिद्घेऽर्थे प्रयोगो यस्येति गमकत्वाद्बहुव्रीहिः । तव तेजसि नान्यतेजांसि भान्तीति योजना । ‘गौः शराक्षिपयःस्वर्गपशुमेदवचःसु च’ इत्याम्रातोऽपि तथा नाक्ष्णि प्रयुज्यते यथा पशुभेदादावित्याह—न च गोशब्दस्येति । ‘हरिः कृष्णे च सिंहे च मेकार्कभुजगेषु च’ इति स्वसङ्केतितस्यापि हरिशब्दस्य न तथा रवौ प्रसिद्धिर्यथान्यत्रेत्याह—सोऽपि नेति ॥

स्वसङ्केतप्रक्लृप्तार्थ नेयार्थमिति कथ्यते ।

यथा—

‘मुखांशवन्तमास्थाय विमुक्तपशुपङ्क्तिना ।
पङ्क्त्यनेकजनामध्रतुका जित उलूकजित् ॥ ११ ॥’

अत्र पङ्क्तिशब्देन दशसङ्ख्या, अनेकजनामेत्यनेन चक्रम्, तङ्रइत्यनेन रथस्ताभ्यां दशरथस्तस्य तुक् बालको लक्ष्मणस्तेन जित उलूकजिदिन्द्रजित् । किं कृत्वा । मुखांशवन्तमास्थाय हनुमन्तम् । किम्भूतेन । विमुक्तपशुपङ्क्तिना विमुक्तेषु पशुपङ्क्तिना । अत्र पशुशब्देन गोशब्दो लक्ष्यते तेनेषवस्तदिदं स्वसङ्केतकल्पितार्थं नेयार्थमुच्यते ॥

“स्वसङ्केतेति” । कल्पितार्थं नेयार्थमिति सूत्रयित्वा वामनेन व्याख्यातम् । अश्रौतस्यार्थस्य कल्पना कल्पनाकल्पितार्थम् । अस्यार्थः—यत्पदं नानार्थस्वपर्यायलक्षणया विवक्षितप्रतीतिपर्यन्तं नीयते तत्कल्पितार्थमिति केचित् । तदयुक्तम् । स्वपर्यायेत्यस्य व्यर्थत्वादव्यापकत्वाच्च । तस्मात्प्रयोजनं विना लक्षणया प्रयुक्तमित्येवार्थः । यदाह काव्यप्रकाशकारः—नेयार्थेयत्त्वशक्तित इति यस्मिन्निषिद्धं लाक्षणिकमिति । प्रयोजनं विना रूढं लक्षणापरिग्रहे न दोषः । तथा च द्विरेफरथाङ्गनामादिपदानां रेफद्बयानुगतभ्रमरादिशब्दलभणाद्वारेण षट्पदादौ वृत्तिर्वृद्धव्यवहारपरम्परानुपातिनीति तेषां प्रयोगोऽयुक्त एव । अत एव ‘तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास’ इत्यादिकमपि नेयार्थमिति काश्मीरकाः । तदेतत्खपदेन दर्शितवान् । मुखस्यांशो हनुरत्राभिमतः । पङ्क्तिरिति दशाक्षरं छन्दः दशसङ्ख्या लक्ष्यते । अनेकजो द्विजश्चक्रवाकस्तस्य नाम चक्रं रथैकदेशस्तद्धारयतीति धारयतेर्मूलविभुजादित्वात्कः । ताभ्यामिति । पङ्क्तिरनेकज इति नाम यस्येत्यर्थात् । तुक् तोकं तोक्ममित्यपत्यनामानि । उपलक्षणतयैकदेशं व्याचष्टे । अत्र पशुशब्देन गोशब्दो लक्ष्यत इति प्रृतापेक्षया । तेनेषवः प्रत्यायन्त इति शेषः ॥

न यत्पदं निश्चयकृत्सन्दिग्धमिति तद्विदुः ॥ १२ ॥

यथा—

‘नीललोहितमूर्तिर्यो दहत्यन्ते जगत्रयम् ।
स एष हि महादेवस्त्रिषु लोकेषु पूज्यते ॥ १२ ॥’

अत्र वह्निरर्कः शिवो वेति न निश्चीयते ॥

“न यत्पदमिति” । पदस्वरूपमेव सन्दिह्यमानमत्र । तथाहि—स एष हि महादेव इत्यत्र स किमेष हि महादेव इति च्छेदो विधीयतां महादेव इति वा साधकबाधकप्रमाणाभावे सन्दिह्यते । न च विशेषणनियमहेतुः । वह्न्यर्कावपि हि भगवतो नीललोहितमूर्तिभूतौ हिमापहौ च न निश्चयकृदिति दूषणताबीजप्रदर्शनम् । यदैको विवक्षितस्तदा दोषः । साधुचर इत्यत्रापि ‘भूतपूर्वे चरट्’ इति चरट्प्रत्यये किं पूर्वं साधुरथवा चरेष्टप्रत्यये साधुषु चरतीति पदमेव सन्दिह्यते तेन पदावयवः सन्दिग्ध इति केनचिदुक्तम्, तदप्यपास्तम् ॥

विपरीतं विरुद्धार्थप्रकल्पनमिहोच्यते ।

यथा—

‘अनुत्तमानुभावस्य परैरपिहितौजसः ।
अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः ॥ १३ ॥’

अत्र अनुत्तमा इत्यनेन यथोत्कृष्टस्तथापकृष्टोऽपि । अपिहितमित्यनेन यथा नाच्छादितं तथाच्छादितमिति । अकार्यसुहृदित्यनेन यथाकार्यमन्तरेण सुहृदेवमकार्ये यः सुहृत्सोऽप्युच्यते । अपूर्वाः कीर्तय इत्यनेन यथाद्भुताः कीर्तय एवमकीर्तयोऽप्युच्यन्ते ॥

“विपरीतमिति” । विपरीतं प्रकृतोपमर्दकमर्थकल्पनं यत्र । तथा हि—अनुत्तमेत्यादौ प्रकरणादिभिः स्तुतिपरत्वे व्यवस्थिते उत्तमत्वाभावादिना विरुद्धेनार्थेन तत्र पर्यवसाययितुं न शक्यते । संशयं युगपद्विवक्षायामपि न विरोधः । इह तु स्तुतिनिन्दयोर्यौगपद्यमसम्भावितमत एवैकस्य सम्भवे त्वपरस्य बाध एव । यथा—‘चिरकालपरिप्राप्तलोचनानन्ददायिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥’ इति गलग्रहशब्दस्य कण्ठग्रहप्रतिद्वन्द्विन्यर्थे विवाक्षिते पूर्वप्रक्रान्तानन्ददायित्वं बाध्यते । अत्रानुत्तम इति बहुव्रीहितत्पुरुषाभ्यामपिहितमिति ‘वष्टि भागुरिः’ इत्यादिना विकल्पेनाकारलोपविधानात् । अपूर्वा इति पक्षान्तरेऽकारपूर्वाः । नियामकसद्भावे तु गुण एव । यथा—‘अपूर्व यद्वस्तु प्रथयति विना कारणकलाम्’ इति शब्दरूपान्तरमेव विरुद्धोपचायकमित्यन्वयव्यतिरेकाभ्यां शब्ददोषताव्यवस्थितिः ॥

अप्रयोजकमित्याहुरविशेषविधायकम् ॥ १३ ॥

यथा—

‘तमालश्यामलं क्षारमत्यच्छमतिफेनिलम् ।
फालेन लङ्घयामास हनूमानेष सागरम् ॥ १४ ॥’

अत्र तमालश्यामलमित्यादीनि सागरविशेषणानि तानि न हनूमतो लङ्घनेऽतिशयं सूचयन्ति ॥

“अप्रयोजकमित्याहुरिति” । तदेव हि कवीनामुपादेयं यद्वाक्यार्थे प्रकृष्टकाष्ठां पुष्णाति । अन्यथानङ्गाभिधानेऽवाच्यवचनमेव स्यात्सार्थकत्वादनन्वयत्वाच्च । न वृत्तपूरणमात्रप्रयोजनता नातिशयमिति । सागरलङ्घनद्वारा हनूमतः प्रकर्षो वाच्यः । न च तमालश्यामलत्वादिविशेषणानि कथञ्चित्प्रकर्षमर्पयन्ति यानि दूरत्वादीनि तथा न तेषामुपादानम् ॥

तद्देश्यमिति निर्दिष्टं यदव्युत्पत्तिमत्पदम् ।

यथा—

‘गल्लौ लावण्यतल्लौ ते लडहौ मडहौ भुजौ ।
नेत्रे वोसट्टकन्दोट्टमोट्टायितसखे सखि ॥ १५ ॥’

अत्र गल्लतल्लादयः शब्दा अव्युत्पत्तिमन्तो देश्या दृश्यन्ते ॥

“तद्देश्यमिति” । अव्युत्पत्तिमत् प्रकृतिप्रत्ययविभागशून्यं लोकमात्रप्रयुक्तं पद-मनादेयं भवति। तद्दिविधम्—अभागं भागवच्चेति । आद्यं देश्यम्, द्वितीयं ग्राम्यमिति विभागः । व्युत्पन्नानामन्यादृशी च्छाया देश्यानां च न तादृशीति देश्यवेद्यपदसमभिव्याहारे प्रायेण छायावैरूप्यं बन्धस्य भवतीति सहृदयहृदयसाक्षिकं दोषबीजम् । तल्लमल्पसरः, लडहं मनोहरम्, मडहं कृशम्, वोसट्टं विकसितम्, कन्दोट्टं नीलोत्पलम्, मोट्टायितं विलासः ॥

अश्लीलामङ्गलघृणावदर्थ ग्राम्यमुच्यते ॥ १४ ॥

अत्राश्लीलमसभ्यार्थमसभ्यार्थान्तरं च यत् ।
असभ्यस्मृतिहेतुश्च त्रिविधं परिपठ्यते ॥ १५ ॥

तेष्वसभ्यार्थं यथा—

‘छत्राकारशिराः शिरालसरसस्थूलप्रकाण्डो महा- न्मध्ये भानुसुताभ्रसिन्धुविपुलाभोगो वटः पातु वः ।
कायैक्ये विकटप्रसारितमहाजङ्घं महीसुप्तयो- र्यः खण्डेन्दुकिरीटकैटभजितोः काटश्रियं कर्षति ॥ १६ ॥’

तदेतच्छत्राकारशिराः काट इत्यादेरसभ्यार्थत्वादसभ्यार्थम् ॥

“अश्लीलेति” । देश्यातिरिक्तं लोकमात्रप्रयुक्तं ग्राम्यम् । तत्रिधा—व्रीडाजुगुप्सातङ्कदायित्वात् । तत्राद्यमश्लीलं श्रीर्यस्यास्ति तच्छ्लीलम् । सिध्मादेराकृतिगणत्वाल्लच । कपिलकादिपाठाल्लत्वम् । न श्लीलमश्लीलम् । व्रीडादायित्वेनाकान्तमित्यर्थः । द्वितीयं घृणावदर्थकम् । जुगुप्सादायि प्रत्याय्यमस्येति । तृतीयममङ्गलार्थमातङ्कदायिज्ञाप्यमस्येति कृत्वाश्लीलपर्यायोऽसभ्यशब्दः । सभायां साधुरित्यर्थे तेनापि शास्त्रे व्यवहार इति प्रदर्शनार्थमसत्यशब्देनाश्लीलमनूद्य व्याचष्टे । तत्रासभ्यमिति । अर्थस्यासभ्यत्वात्पदमप्यसभ्यम् । स चार्थः क्वचित्प्रकृतोऽप्रकृतोऽपि श्लेषोपस्थित एकदेशात्स्मृतिमात्रारूढो वा । तत्र यथाक्रममसभ्यादयस्त्रयः । एवममङ्गलादयोऽपि । सूर्यसुता यमुना । अभ्रसिन्धुर्गङ्गा । तयोर्मध्ये ‘पारे मध्ये षष्ठ्या वा’ इत्यव्ययीभावः । अर्धं हरेरर्धं हरस्येति शरीरैक्ये काटशब्दस्यासभ्यार्थत्वे तद्विशेषणानामप्यसभ्यत्वमिति तान्यादाय व्याचष्टे—अत्र छत्राकारेति ॥

असभ्यार्थान्तरं यथा—

‘विद्यामभ्यसतो रात्रावेति या भवतः प्रिया ।
वनितागुह्यकेशानां कथं ते पेलबन्धनम् ॥ १७ ॥’

तदेतद्या भवतः प्रिया गुह्यकेशानां पेलबन्धनशव्दानामसभ्यार्थान्तरत्वादसभ्यार्थान्तरम् ॥

“विद्यामिति” । या रात्रौ विद्यामभ्यसतो मन्त्रमावर्तयतस्तव प्रिया समायाति सा यक्षिणी । अतः कथं ते धनं पेलवं कोमलम् । खल्पमिति यावत् । किं तु यक्षिणीप्रसादाद्बहु धनं तवोचितमित्यर्थः । प्रकृतपदानि त्वसभ्यार्थान्तराणि तान्युद्धृत्य व्याचष्टे—तदेतद्या भवतः प्रियेति । असभ्यार्थप्रकाशनमेव षष्ठ्या आक्रोश इत्यर्थः । या भवतः प्रियेति एकं पदं याभो मैथुनं तद्वतः प्रियेत्यर्थात् । योनिर्वनिताया गुह्यस्तस्य केशाः । पेलशब्दो मुष्कयोः प्रसिद्धः । तत्र बन्धनमिति ॥

असभ्यस्मृतिहेतुर्यथा—

‘उत्कम्पयसि मां चूत पिकवाक्काटवेन किम् ।
कृतः कृकाटिकायां ते पादः प्राणेन यास्यता ॥ १८ ॥’

तदिदं काटवकृकाटिकापादयोरसभ्यस्मृतिहेतुत्वादसभ्यस्मृतिहेतुता ॥

“उत्कम्पयसीति” । हे चूतवृक्ष, कोकिलस्य वाचा कटुत्वेन दुःखदायित्वात् किं मां भापयसि । ननु तव कृकाटिकायां प्रीवायां पादं दत्त्वा चलिता मम प्राणास्तेन मया जितम् । व्यर्थस्तवायं परिश्रम इति वाक्यार्थो विवक्षितः । काटवशब्दे काट एकदेशः कृकाटिकाशव्दे काटिकेति लोपः । काटः काटिका ॥

लोकेषु यदशस्तार्थमशस्तार्थान्तरं च यत् ।
अशस्तस्मृतिहेतुश्चामङ्गलार्थं त्रिधैव तत् ॥ १६ ॥

तेष्वशस्तार्थं यथा—

‘खेटके भक्तसूपस्य वलभ्याः पत्तनस्य च ।
अतृप्तोऽहं मरिष्यामि हेहले भाषितस्य च ॥ १९ ॥’

अत्र मरिष्यामीतिपदमशस्तार्थम् ॥

“खेटक इति” । अतृप्तः सुखस्येयत्तापरिच्छेदाभावात् । खेटके ग्रामे यद्भक्तं सूपश्चोत्पद्यते तस्य पत्तनस्य नगरस्य या वलभी तस्यां सुहितार्थयोगे षष्ठीनिषेधाल्लिङ्गादनुमीयते तृप्त्यर्थयोगे षष्ठी भवति । अन्ये तु व्याचक्षते—भक्तसूपपदनामा दक्षिणापथे विषयस्तत्सद्मनि खेटके वलभीनाम कस्यचिद्विरूपाक्षाधिष्ठानस्य तत्रैव पत्तनस्य हेहले इति स्त्रीणामव्याजमन्योन्यप्रेमातिशयगर्भस्य भाषितस्येति ॥

अशस्तार्थान्तरं यथा—

‘प्रवासयति या कान्तं वसन्ते गृहसंस्थितम् ।
विनाशपथदानेन पिशाची सा न चाङ्गना ॥ २० ॥’

अत्र प्रवासयति-संस्थितं-विनाशपथदानेन-पिशाचीपदानामशस्तार्थान्तरत्वम् ॥

“प्रवासयतीति” । शपथदानेन विना प्रवासयति अन्यत्र प्रहिणोति गृहे सम्यक् स्थितं प्रियं साङ्ना न, किं तु पिशाचीवदनुचितकारिणीत्यर्थोऽभिमतः । अन्यत्र प्रवासनमुच्चाटनं संस्थानं विनाशः विनाशस्य पन्थास्तस्य दानम् । पिशितमश्नातीति पिशाची । पृषोदरादित्वात् । तदेतव्द्याचष्टे—अत्र प्रवासयतीति ।

अशस्तस्मृतिहेतुर्यथा—

‘मारीचोऽयं मुनिर्यस्य कृत्या कालान्तकालये ।
पत्न्यां सङ्क्रन्दनादीनां सुतानामाप्तयेऽभवन् ॥ २१ ॥’

अत्र मारीचकृत्या कालान्तक-सङ्क्रन्दन-पदानामशस्तार्थस्मृतिहेतुत्वम् ॥

“मारीचोऽयमिति” । मरीचेरपत्यं मारीचः काश्यपः सङ्क्रन्दनादीनिन्द्रादीन् द्वादश पुत्रानादित्यानुत्पादितवान् । तच्च कालान्तकस्य भगवतो महादेवस्यालये याः कृत्याः क्रिया भगवदाराधनरूपास्तासां फलमित्यर्थः । मारीचशब्दे मारकदेशः कृत्या इति सुबन्तपदे कृत्येत्येकदेशः, कालान्तकालय इत्यत्रान्तकेति, सङ्क्रन्दने शब्दक्रन्दनेति ॥

पदमर्थ घृणावन्तं यदाहार्थान्तरं च यत् ।
घृणावत्स्मृतिहेतुर्यत्तद्धृणावदिह त्रिधा ॥ १७ ॥

तेषु घृणावदर्थं यथा—

‘पर्दते हदते स्तन्यं वमत्येष स्तनन्धयः ।
मुहुरुत्कौति निष्ठीवत्यात्तगर्भा पुनर्वधूः ॥ २२ ॥’

पर्दते हदते वमति निष्ठीवतीति शब्दानां घृणावदर्थत्वम् ॥

“पर्दत इति” । उत्कौति उत्कारं करोति । निष्ठीवति थूत्करोति । आत्तगर्भा पुनर्वधूरिति बालस्य स्तन्यवमनादिनिदानसूचनम् । अत एव ‘न गर्भिण्याः पिबेत्क्षीरं पारगर्भिककृत्तु तत्’ इति वैद्यकम् ॥

घृणावदर्थान्तरं यथा—

‘बाष्पक्लिन्नाविमौ गण्डौ विपूयापाण्डरौ तव ।
प्रियोऽग्रे विष्ठितः पुत्रि स्मितवर्चोभिरर्चति ॥ २३ ॥’

अत्र क्लिन्नगण्डविपूयाविष्ठितवर्चः पदानां घृणावदर्थान्तरम् ॥

“बाष्पेति” । विपूयो मुञ्जः । विशेषेण स्थितो विष्ठितः स्मितवर्चो हास्यतेजः । तव कपोलौ दृष्ट्वा पुरःस्थितस्तव प्रिय ईषद्धास्यं कुर्वन् कपोलयोर्हास्यज्योत्स्नया पूजां करोतीत्यर्थः । अन्यत्र बाष्पेणोष्मणा क्लिन्नो मृदूभूतः गण्डो व्रणः । विशिष्टः पूयो विपूयस्तेन पाण्डरः । विष्टितो विष्ठा सञ्जातास्य । वर्चः पुरीषम् । यत्स्मरणाद्बाष्पादीनां घृणावति वृत्तिस्तदेव पृथक्कृत्याह—अत्र क्लिन्नेति ॥

घृणावत्स्मृतिहेतुर्यथा—

‘प्रत्यार्द्रयन्तो रूढानि मदनेषुव्रणानि नः ।
हृदयक्लेदयन्त्येते पुरीषण्डमहद्द्रुमाः ॥ २४ ॥’

अत्र रूढव्रणक्लेदपुरीषण्डपदानां घृणावत्स्मृतिहेतुत्वम् ॥

“प्रत्यार्द्रयन्त इति” । अन्योन्यलग्नो वृक्षसमूहः षण्डः । रूढानीत्यनेन मदनेषुव्रणानां विशेषितत्वात् । मदनेषुभागमपहाय व्रणभागमात्रेण रूढव्रणस्मृतिर्भवन्तीपदादेवेति विवक्षितवान् । पुरीषण्डशब्दे पुरीषेत्येकदेशः ॥

तदेवं पददोषांल्लक्षयित्वा क्रमप्राप्तवाक्यदोषा लक्षणीया इति तान्विभजते—

शब्दहीनं क्रमभ्रष्टं विसन्धि पुनरुक्तिमत् ।
व्याकीर्ण वाक्यसङ्कीर्णमपदं वाक्यगर्भितम् ॥ १८ ॥

द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे ।
भग्नच्छन्दोयती च द्वे अशरीरमरीतिमत् ॥ १९ ॥

वाक्यस्यैते महादोषाः षोडशैव प्रकीर्तिताः ।

“शब्दहीनमिति” । उक्तेनैव प्रयोजनेनासमासद्वन्द्वगर्भबहुव्रीहिसमासौ । एवं गुणादिविभागवाक्येष्वपि प्रयोजनमवसेयम् । भिन्नलिङ्गवचने इत्यादौ तु द्वन्द्वलक्षणस्य समासस्य पूर्ववर्तिनां भिन्नादिपदानां प्रत्येकमन्वयः । यमनं यतिरिति भग्नच्छन्दो भग्नयतिरिति केचित् । तथा च व्यतिकीर्णोऽर्थः स्यात् । अरीतिमदिति । रीतिरस्यास्तीति नित्ययोगे मतुप् । नित्ययोगप्रतिपादनं हि दूषकताबीजोद्धाटनायोपपद्यते । अत एव बहुव्रीहौ लाघवं तत्र नादरः ॥

अथैषां लक्ष्म सङ्क्षेपात्सनिदर्शनमुच्यते ॥ २० ॥

असाधुवदसाधुमत्त्वस्य प्राथम्याल्लक्षणमाह—

उच्यते शब्दहीनं तद्वाक्यं यदपशब्दवत् ।

यथा—

‘नीरन्ध्रं गमितवति क्षयं पृषत्कै- र्भूतानामधिपतिना शिलाविताने ।
गाण्डीवी कनकशिलानिभं भुजाभ्या- माजघ्ने विषमविलोचनस्य वक्षः ॥ २५ ॥’

अत्र गमितवतीति क्तवतोः कर्मणि, आजघ्न इति आत्मनेपदस्याखाङ्गकर्मणि प्रयोगादपशब्दौ । तौ च शिलावितानत्र्यक्षवक्षःसम्बन्धाद्वाक्यदोषौ जायमानौ असाधुनाम्नः पददोषाद्भिद्येते ॥

“उच्यत इति” । अपशब्दत्वं पद एव नियतं वाक्ये संस्कारप्रसक्तेरभावादपशब्दत्वं न वाक्यदूषणम् । तथा हि—‘कर्तरि कृत्’ इति नियमात्कर्मणि क्तवतुरसाधुः । ‘अकर्मकाच्च’ इत्यनुवृत्तौ ‘आङो यमहनः’ इत्यात्मनेपदमकर्मक एव प्राप्तं ऽस्वाङ्गकर्मकाच्च’ इति वाक्यैकवाक्यतापर्यालोचनयास्वाङ्गकर्मण्यसाधुः कथं वाक्यदूषणता । नहि वाक्यान्तः पातितामात्रेण सा युज्यतेऽतिप्रसङ्गादित्याशङ्क्योक्तम् । तौ चेति । नहि यथा बाधृधातुः परस्मैपदान्त इत्येवासाधुत्वम्, तथात्र पदान्तरसन्निधानापेक्षत्वेऽध्यवसीयते । भूतानामधिपतिना शिलावितान इति यावन्नानुसन्धीयते तावद्गमितवतीति किं कर्तरि कर्मणि वेति सन्देहानिवृत्तेः । तथा गाण्डीवी विषमविलोचनस्य वक्ष इत्येतावत्प्रतीत्य कथमाजघ्न इत्यस्वाङ्गकर्मणि आत्मनेपदमध्यवसानयोग्यम् । इयमेव हि वाक्यदोषता यदनेकपदनिरूप्यता नाम वाधतीत्यत्रापि किं बाधशब्दात् क्विबन्तात्तिप्, उत बाधृधातुरिति सन्देह इति कुदेश्यम् । स्कन्धादिपदसन्निधानेऽपि तस्यानिवृत्तेः । ‘तेन त्वामनुनाथते कुचयुगम्—‘ इत्यादिकमत्रत्यमुदाहरणं प्रमादात् काव्यप्रकाशकृता पददोषेषु लिखितम् । यथा च । ‘उदपूतितः को न हीयते’ इति रुद्रटेन । तत्र हि ‘अपादाने चाहीयरुहोः’ इति तसिप्रत्ययनिषेधः । स च पदान्तरसन्निधानेनैवेति स्वयमालोचनीयम् । शिलावितानत्र्यक्षवक्ष इत्युपलक्षणम् । अधिपतिगाण्डीविशब्दावपि बोद्धव्याविति ॥

क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र तत्क्रमः ॥ २१ ॥

यथा—

‘तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् ।
कान्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ ॥ २६ ॥’

अत्र मातङ्गमथ तुरङ्गमिति वक्तव्ये तुरङ्गमथ मातङ्गमित्यर्थः । कान्तिप्रतापौ चोक्त्वा सूर्याचन्द्रमसोः समाविति शाब्दः क्रमभ्रंशो लक्ष्यते ॥

“क्रमभ्रष्टमिति” । अर्थादागतः क्रम आर्थः । शब्दादागतः शाब्द । अर्थकमभ्रंशः कथं शब्ददूषणमत आह—इति वक्तव्य इति । मातङ्गो दीयतामथ तद्दानसामर्थ्यं नास्ति तदा तुरङ्ग इति वक्तव्ये रचनावैपरीत्यमात्रमत्रापराध्यति । नार्थ इति युक्ता शब्ददोषता ॥

विसंहितो विरूपो वा यस्य सन्धिर्विसन्धि तत् ।

यथा—

‘मेघानिलेन अमुना एतस्मिन्नद्रिकानने ।
मञ्जर्युद्गमगर्भासौ तर्वाल्युर्वी विधूयते ॥ २७ ॥’

अत्र मेघानिलेन अमुना एतस्मिन्नसंहितया विवक्षामीत्यभिसन्धानं विसङ्गिः । मञ्जर्युद्गमगर्भासौ इत्यादौ तु विरूपसन्धानं विसन्धिः ॥

“विसंहित इति” । विशब्दो विगमं वैपरीत्यं च द्योतयति । तेनार्थद्वयं सम्पद्यते । ‘परः सन्निकर्षः संहिताऽ । तया तत्कार्यं लक्ष्यते । सन्धानं सन्धिः । अर्धमात्राकालव्यवधानं । तथा च—संहिताकार्यशून्यं सन्धानं यत्रेत्यर्थः । ‘संहितैकपदे नित्या’ इति समयादन्यत्र विकल्पः । ततो नासन्धावन्तर्भावः । वैरूप्यं द्विविधम् । दुर्वचकत्वम्, अश्लीलत्वं च । तत्राद्यमुपलक्षणतयोदाहृतम् । द्वितीयं यथा—‘उड्डीय गगने दूरं चलन् डामरचेष्टितः । अयमुत्पतते पत्री ततोऽत्रैव रुचिं कुरु ॥’ ननु यदि सन्धिकार्य वैकल्पिकं कथमत्र दोष इत्यत आह—न संहितामिति । यदि संहिताप्रतिषेधः स्यात्तदा सकृद्विसन्धिकरणेन तथावैरूप्यं भवतीति कवेरपराधो न सम्भाव्यते, यदि तु प्रतिषेधो नास्ति असकृद्वोपादानं तदा व्यक्तवैरूप्यप्रतिभासात्कथं न दोष इत्यर्थः । न विवक्षामित्युपलक्षणम् । विवक्षायामप्यसकृत्प्रयोगो विरस एव । यथा—‘तत उदित उदारहावहारी’ इति । विशेषं वैशेषिके वक्ष्यामः ॥

पदं पदार्थश्चाभिन्नौ यत्र तत्पुनरुक्तिमत् ॥ २२ ॥

यथा—

‘उत्कानुन्मनयन्त्येते गम्भीराः स्तनयित्नवः ।
अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ॥ २८ ॥

अत्र उत्कानुन्मनयन्तीत्यर्थपुनरुक्तम् । गम्भीराः स्तनयित्नव इति शब्दपुनरुक्तम् ॥

“पदं पदार्थश्चाभिन्नाविति” । पदमभिन्नमभिन्नतात्पर्याभिधेयमिति विशेषः । तेन तात्पर्यभेदे लाटानुप्रासोऽभिधेयमेदे यमकं च न दोषः । पदार्थोऽभिन्नपर्यायशब्दोपात्त इति शेषः । तेन पूर्वस्माद्विशेषः । स्वाभिधेयतात्पर्यकपदावृत्तिः पर्यायोपादानं च द्वयमपि शब्दपुनरुक्तमिष्यते । तथा च पारमर्षं सूत्रम्—‘शब्दयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्’ इति । युक्तं चैतत् । एकस्याभिधेयस्य द्विरभिधानं दोषः । तच्चाभिधानं तेनैव पदेन पर्यायेण वा सम्भवतीति शब्दमादायैव तस्य व्यवस्था पुनरुक्तिरत्रैव पदे भवति, तत्कोऽत्र मत्वर्थ इत्यत उक्तम्—यत्र तदिति । यत्र समुदायेऽवयवः पुनरुक्तरूपः स मतुबर्थः । अत एव नानापदनिरूपणीयतया वाक्यदूषणमिति स्फुटोऽर्थः । विकल्पितं चेदं लक्षणमेकस्यैव दूषणधुरारोहणक्षमत्वात् । सङ्क्षेपार्थं त्वेकमुदाहरणम् । अर्थमादायैव पुनरभिधानं पुनरुक्तमिति विभावयितुं लक्षणक्रमवैपरीत्येन प्रथममर्थपुनरुक्तमुदाहृतमित्याशयवान् । व्याख्यानेऽपि तमेव क्रममाद्रियमाण आह—अत्रोत्कानिति । उत्क उन्मनाः । उन्मनयन्तीति उन्मनसं कुर्वन्तीति णिचि इष्ठवद्भावे टिलोपे च रूपम् । अम्भोधरा इति विशेष्यपदम् । शेषाणि विशेषणानि—गम्भीरा मांसलाः, स्तनयित्नवः शब्दायमानाः, तडित्वन्तः प्रकृष्टतडिद्युक्ताः ॥

व्याकीर्णं तन्मिथो यस्मिन्विभक्तीनामसङ्गतिः ।

यथा—

‘दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके ।
मुखं वल्गुरवं कुर्वंस्तुण्डेनाङ्गानि घट्टयन् ॥ २९ ॥’

अत्र कर्कशकण्टके दण्डेऽङ्गानि घट्टयन् हंसः पद्मिन्या मुखं चुम्बतीति वक्तव्ये यथानिर्दिष्टरूपे विघट्टितविभक्तिकयुक्तित्वाव्द्याकीर्णम् ॥

“व्याकीर्णं तदिति” । पदानामक्लेशेऽप्यर्थप्रतीतिहेतुभूताकाङ्क्षावद्विभक्तिव्यवधानादनाकाङ्क्षितविभक्तिसन्निधानाच्च नाहत्यपदानि विशिष्टार्थज्ञानजननसमर्थानि भवन्ति । विलक्षणलक्षणक्लेशपदानि भ्रमकराणीति वदतामाराध्यानामयमेवाभिप्रायो वोद्धव्यः । विभक्तिव्यवधानमात्रकृतस्तु क्लेशः प्रायेण पदैकवाक्यतायामुत्पद्यते । दण्ड इति । आधारविभक्तिराधेयविभक्तिमपेक्षते, न तु चुम्बतीति क्रियाविभक्तिम् । सापि कारकविभक्तिमाकाङ्क्षति । पद्मिन्या इति संवन्धविभक्तिकमेव तत्र बोद्धव्यम् । क्लेशेन योऽत्रावगम्यते तमभिमतमर्थमावेदयति—अत्र कर्कशेति । अत एव नापार्थकत्वेन सङ्करः समुदायार्थस्य प्रतीयमानत्वात् । अस्ति कश्चिदुच्चारणयोर्विशेषो येन वाक्यार्थप्रतीतिः क्कचिदाहत्य भवति । क्कचित्तु नेति स एव विशेषः । सन्निधानं व्यवधानमिति व्याख्यायते । कार्यदर्शनादर्शनाभ्यां चोन्नीयत इत्याशयवानाह—अयं प्रतीको मूले तु नोपलभ्यते, तेन कदाचिदयं प्रतीकपाठः प्रक्षिप्तो भवेत्येथोक्तरूपेणेति(?) ॥

वाक्यान्तरपदैर्मिश्रं सङ्कीर्णमिति तद्विदुः ॥ २३ ॥

यथा—

‘काअं खाअइ खुहिओ कूरं फेल्लेइ णिब्भरं रुट्ठो ।
सुणअं गेण्हइ कण्ठे हक्केइअ णत्तिअं ठेरो ॥ ३० ॥’

[काकं खादति क्षुधितः कूरं फेल्लति निर्भरं रुष्टः ।
श्वानं गृह्णाति कण्ठे हक्कायति नप्तारं स्थविरः ॥]

अत्र काकं क्षिपति, कूरं खादति, कण्ठे नप्तारं गृह्णाति, श्वानं भीषयते, इत्यादौटीकादर्शनेन ‘इति वक्तव्ये’ इति भवेत् वक्तव्ये यथोक्तपदविन्यासः सङ्कीर्यते ॥

“वाक्यान्तरपदैरिति” । वाक्यान्तरसंवलितानि पदानि वाक्यान्तरमनुप्रविश्य तथा प्रतीतिं विघ्नन्ति, यथा समुदाय एव दूषितो भवति ॥ काकमिति । कूरं भक्तं क्षुधितः खादति, काकं च निर्भरं रुष्टः सन् क्षिपति, श्वानं च निवारयति, नप्तारं च कण्ठे गृह्णाति स्थविरजातिः ॥ आकाङ्क्षाक्रमेण किञ्चित्पदं कस्यचिद्वाक्यस्य सम्बद्धमिति ज्ञायत एव । तदाह—अत्र काकं क्षिपतीति । शब्ददोषत्वं प्रकाशयति—इति वक्तव्य इति । यथोक्तपदविन्यास इत्यनेन सङ्कीर्यत इत्यस्यार्थो विवक्षितः । एवम्प्रकारः सङ्कर इत्यर्थः । विजातीयसंवलने लोके सङ्करव्यवहारः ॥

विभिन्नप्रकृतिस्थादि पदयुक्त्यपदं विदुः ।

यथा—

‘आउज्ज‘ज्झि’ इति सटीकपुस्तकपाठःअ पिट्टिअए जह कुक्कुलि णाम मज्झ भत्ताले ।
पेक्खन्तह लाउलकण्णिआह हा कस्स कन्देमि ॥ ३१ ॥’

[आवर्ज्य पीड्यते यथा कुक्कुरो नाम मम भर्ता ।
प्रेक्षन्त राजकुलकर्मकरा अहह कस्य क्रन्दामि ॥]

तदेतत्प्रकृतिस्थकोमलकठोराणां नागरोपनागराणां ग्राम्याणां वा पदानामयुक्तेरपदम् ॥

“विभिन्नेति” । षोढा पदं भवति—प्रकृतिस्थम्, कोमलम्, कठोरम्, ग्राम्यम्, नागरम्, उपनागरं च । तत्रानेकदीर्घस्वरकृतगौरवमेकसंयोगकृतगौरवं पदं प्रकृ-तिस्थम् । यथा—नीहारतारानीकाशसारसीत्यादि, हस्तपल्लवकङ्कणकर्पूरादि च । यथा च—पाडिव आमाण सिणिवं आलगोलेत्यादि, त्यज्झतुज्झउत्ताविलविहत्थतिअच्छेत्यादि च । एकस्वरकृतगौरवं गुरुशून्यं वा कोमलम् । करेणुतारकसरोजनिकरादि, मधुरमसृणसरससरलेत्यादि च । यथा—नीहारबाण इवाणवेणीत्यादि, परकुअलडहतलिणेत्यादि च । सानुस्वारविसर्गदीर्घस्वरकृतगौरवं संयोगबहुलं वाक्कठोरम् । यथा शुद्धं पयः पाचयाम्बभूव ता पिब, आहिषातामित्यत्र । अच्छाच्छतत्रस्थव्यूढोरस्कप्रच्छन्नेत्यादि च । यथा च—आ ई इ ए इत्यादि । उप्पिच्छउप्पुपुअएक्कमेक्कमित्यादि च । प्रसिद्धिमादाय ग्राम्यादित्रयं भवति । प्रसिद्धिस्त्रिधा । सार्वलौकिकी, पण्डितजनगामिनी, तदुपजीवित्रिचतुरलौकिकगामिनी चेति । तत्र सर्वलोकप्रसिद्धं ग्राम्यम् । देशीपदानि सर्वाण्येव संस्कृतेषु हस्तविवाहभगिनीहारकङ्कणादिकम्, तुम्भ अम्भ हलिद्दासाहज्जादिकं च । एतदपभ्रंशसमानप्रसिद्धिकमतिप्रसिद्धं चेति गीयते । ग्राम्यवैपरीत्येन नातिप्रसिद्धं नागरं नगरेणोपमितमिति कृत्वातिप्रसिद्धाभावेनोपमा । इदमेव नात्यप्रसिद्धमुपनागरमित्युच्यते । यथा—आद्याशकिंशारुखुरलीलातङ्केत्यादि, सुदेवअच्छेवगुप्पन्ती विवलाआ इत्यादि च । शृङ्गारप्रकाशे तु भाषाणामपि भेदो पदमित्युक्तम् । इह तु शब्दजात्यौचित्याविवेचनेन गतमिति ग्रन्थकर्तुराशयः । तदेवं स्थिते प्रतिपदं कवीनां कोऽपि क्रमो निर्वाह्यो न त्वकस्मादेवालूनविशीर्णभावो विधेयः । तदिदमाह—विभिन्नेत्यादि । युक्तिरुचिता योजना सा प्रकृतिस्थादीनां विभिन्नान्यथानीतात्युक्तिरिति यावत् । एतद्वक्ष्यति—अयुक्तेरिति ॥ आउज्झिअ इति । आवर्ज्य केशेषु नमयित्वा । ‘आउज्झिए’ इति पाठे निर्भर्त्स्य । पिट्टिअए ताड्यते । जह कुक्कुलि यथा कुर्कुरी नामशब्दः प्राकाश्ये प्रकाशमेव ताडितमित्यर्थः । मज्झ भत्ताले मम भर्ता । पेक्खन्तह लाउलकण्णिआह । अनादरे पष्ठी । राजकुलनियुक्तान् प्रेक्षमाणाननादृत्येत्यर्थः । हाशब्दः खेदे । कस्य क्रन्दामि । कस्य फूत्करोर्मात्यर्थः । अत्र प्रथमे पादे आउज्झिए, इत्युपनागरं प्रकृतिस्थं च । ‘आउज्झी’ इति पाठे ग्राम्यं प्रकृतिस्थं च । भत्ताल इल्यपि तथा । तृतीयपादे पेक्खन्तहेति कठोरमुपनागरं च । राउलकण्णिआहेति ग्राम्यं प्रकृतिस्थं च । हेति ग्राम्यं कोमलं च । कस्सेति प्रकृतिस्थमुपनागरं च । कन्देमीति ग्राम्यं प्रकृतिस्थं च । तदिहैकरूप एव कर्मकरवधूलक्षणे ग्राम्ये वक्तरि एकरूप एव वाक्यार्थे सर्वदोषतिरोधायकरसदीप्त्यभावे च यथा भाषाणां व्यतिकरो दूषणं तथा ग्राम्यादीनामिति सहृदयमात्रवेद्यश्चायं पन्था इत्यवहितैर्भवितव्यम् । एतेषां च स्वरूपं स्वयमेव गुणीभावप्रस्तावे लेशतः प्रकाशयिष्यति तेनेह सङ्क्षिप्तवान् । नैवंविधः कदापि व्यतिकरो महाकविगिरामाजानिकः प्रवर्तते । तथा हि—‘त्यजतो मङ्गलक्षौमे दधानस्य च वल्कले । ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥’ अत्र प्रथमादिषु पादेषु क्षौमचीरविस्मितरागपदानि उपनागराणि शेषाणि ग्राम्याणि । प्रतिपादं च प्रकृतिस्थकोमलाभ्यामेव निर्वाहः । एवमन्यत्रापि प्रत्येकं द्वन्द्वसमुदायैः प्रतिपादमुपक्रमोपसंहारनिर्वाहक्रमः स्वयमुपलक्षणीय इत्यास्तां तावत् ।

वाक्यान्तरसगर्भं यत्तदाहुर्वाक्यगर्भितम् ॥ २४ ॥

यथा—

‘योग्यो यस्ते पुत्रः सोऽयं दशवदन लक्ष्मणेन मया ।
रक्षैनं यदि शक्तिर्मृत्युवशं नीयते विवशः ॥ ३२ ॥’

अत्र योग्यो यस्ते पुत्रो लक्ष्मणेन मया मृत्युवशं नीयत इति वाक्यस्य रक्षैनं यदि शक्तिरिति वाक्यान्तरेण सगर्भत्वाद्गर्भितम् ॥

“वाक्यान्तरेति” । मध्यप्रविष्टं वाक्यं पूर्वोत्तरभागाभ्यामेकीभूतस्य गर्भायमाणमेकखरसप्रसूतां प्रतीतिं विघ्नयदात्मना सहैव समुदायविरसकक्षामारोहयति । वाक्यान्तरवाक्यस्य विशेषो विवक्षितः प्रतीतिव्यवधायक इति यावत् ॥ योग्य इति । मयेति । कारकविभक्तेः क्रियाकाङ्क्षणशीलायास्तामसङ्गमय्य मध्य रक्षैनं शक्तिरित्येतावता गर्भस्थानीयेन विरसीकरणमित्याह—अत्र योग्यो य इति । एवं वाक्यरूपताभङ्गहेतून्दोषानभिधाय तत्रैव काव्यभावप्रत्यूहहेतवोऽभिधातव्यास्ते च गुणभङ्गद्वारकाः, अलङ्कारभङ्गद्वारकाः, छन्दोभङ्गद्वारकाः, यतिभङ्गाद्वारकाश्चेति चतुर्धा विप्रथन्ते । ततश्च यद्यपि प्रथमं गुणभङ्गद्वारका वक्तुमुचितास्तथापि तेषां बहुत्वाद्दुरूहत्वाच्च सूचीकटाहन्यायेन पश्चात्करणमलङ्कारभेदादिषु च मध्ये प्रतियोगिद्वारालङ्कारभङ्गस्य प्राधान्यमिति तद्द्वारा दोषांल्लक्षयति ॥

यत्रोपमा भिन्नलिङ्गा भिन्नलिङ्गं तदुच्यते ।
भवेत्तद्भिन्नवचनं यद्भिन्नवचनोपमम् ॥ २५ ॥

यथा—

‘अविगाह्योऽसि नारीणामनन्यवचसामपि ।
विषमोपलभिन्नोर्मिरापगेवोत्तितीर्षतः ॥ ३३ ॥’

अत्रापगेव त्वमविगाह्योऽसीति लिङ्गभेदः । नारीणामुत्तितीर्षत इति लिङ्गभेदो वचनभेदश्च । तदिदं द्वयोरेकमेवोदाहरणम् ॥

“यत्रोपमेति” । उपमाग्रहणमुपलक्षणमित्यग्रे वक्ष्यामः । उपमा उपमितिः सादृश्यभिन्नोपमानवाचिन उपमेयवाचिनश्च लिङ्गं स्त्रीपुन्नपुंसकं यस्य सा तथोक्ता । एवं भिन्नवचनोपममित्यत्रापि व्याख्येयम् ॥ अविगाह्योऽसीति । अविगाह्यतामात्रमत्र सादृश्यं विवक्षितमेतदुपयुक्तमेव विशेषणमुपमानोपमेययोरुपादानयोग्यमित्यकस्मादेव विकृतवचनभेदनिबन्धनः प्रयोजनमाकाङ्क्षति । तथा तदनुसन्धानप्रवणस्य प्रकृतप्रतीतिराच्छाद्यत इति दूषणसिद्धिः । एतेन दूषणता व्याख्याता । विभागवाक्ये सहितावस्थयोरुद्देशादिह च मिलितयोरुदाहरणात्तथाभावो दोषत्वमिति भ्रान्तिं निरस्यति—तदिदमिति । एकमुदाहरणं नत्वेकः सम्मित्र उपाधिः प्रत्येकमेव त्वस्ति समर्थत्वादित्यर्थः । एतदेवानुसन्धाय विभागवाक्ये द्वे पदम् ॥

तत्किमुदाहरणस्य सङ्कीर्णत्वमेव नेत्याह—

अथ भिन्नलिङ्गस्यैव यथा—

‘वापीव विमलं व्योम हंसीव धवलः शशी ।
शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ॥ ३४ ॥’

भिन्नवचनस्यैव यथा—

‘सरांसीवामलं व्योम काशा इव सितः शशी ।
शशीव धवला हंसी हंसीव धवला दिशः ॥ ३५ ॥’

“अथ भिन्नलिङ्गस्यैवेति” । द्वयमपि निगदव्याख्यातम् ॥

जातिप्रमाणधर्मतो न्यूनता उपमानस्य न्यूनोपमत्वम् । तत्र जातिप्रमाणन्यूनतार्थदोषः । धर्मन्यूनता तु धर्माभिधायकपदन्यूनतालक्षणाशब्ददोष एव । एतेनाधिकत्वं व्याख्यातमित्याशयवानाह—

न्यूनोपममिह न्यूनमुपमानविशेषणैः ।

यथा—

‘संहअचक्कवाअजुआ विअसिअकमला मुणालसञ्च्छण्णा ।
वावी वहु व्व रोअणविलित्तथणआ सुहावेइ ॥ ३६ ॥’

[संहतचक्रवाकयुगा विकसितकमला मृणालसञ्च्छन्ना ।
वापी वधूरिव रोचनाविलिप्तस्तनी सुखयति ॥]

अत्र नेत्रबाहूपमापदानां वधूविशेषणत्वेनानुक्तत्वादिदं न्यूनोपमम् ॥

“न्यूनोपममिहेति” । इहशब्दो येषु मध्येषूपमानस्य स्तोकविशेषणतयोपमेयन्यूनेत्युक्तं तथाधिकोपममिति वक्ष्यति—संहतेत्यादि । अत्र चक्रवाकयुगोपमानमपदमेव परमुपात्तम । रोचनाविलिप्तस्तनीत्यनेन कमलस्योपमानं नेत्रपदं मृणालस्योपमानं बाहुपदं च नोपात्तं तदपि च सविशेषणमुपादेयं भवति । येन विकासादिसमभिव्याहारसामञ्जस्यमपि स्यादिति । पदानामिति बहुवचनाभिप्रायः । अत एव धर्माणामेकनिर्देशेऽन्यसंवित्साहचर्यादिति नावतरति व्यभिचारात् । किमर्थं तस्योपमानमनुसन्धेयमित्यपि न वाच्यम् । मात्रापि नानर्थिका कविनोपादेयेति साहित्यविदाम्नायव्यवस्थितावुपमेयविशेषणस्योपमानविशेषणतया प्रयोजनचिन्तायां पूर्ववदेव प्रतीतिप्रत्यूहस्य सुलभत्वादनुक्तत्वादितिशब्दप्रधानकतामाचष्टे । एवमुत्तरत्र ॥

अधिकं यत्पुनस्तैः स्यात्तमाहुरधिकोपमम् ॥ २६ ॥

यथा—

‘अहिणवमणहरविरइअवलअविहूसा विहाइ णववहुआ ।
कुन्दलएव्व समुप्फुल्लगुच्छपरिणित्तभमरगणा ॥ ३७ ॥’

[अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूः ।
कुन्दलतेव समुत्फुल्लगुच्छपरिणीयमानभ्रमरगणा ॥]

इदं भ्रमरगणस्योपमानविशेषणस्याधिक्यादधिकोपमानम् ॥

“अधिकमिति” । यद्यप्येकस्य विशेषणाधिक्ये विशेषणन्यूनत्वे वान्यविशेषणस्य न्यूनाधिकभावो नियतस्तथाप्युपमानगतमेव द्वयं निरूप्यते । तत्र हि दृष्टमुपमेये प्रतिबिम्बकल्पमुपस्थाप्यते तेनान्तो नोपमेये तयोर्निरूपणमिति ॥

भग्नच्छन्द इति प्राहुर्यच्छन्दोभङ्गवद्वचः ।

यथा—

‘यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ॥ ३८ ॥’

अत्र पञ्चमवर्णस्य लघोः स्थाने गुरोः करणाच्छन्दोभङ्गः ॥

“भग्नच्छन्द इति” । वाचां श्रव्योऽवच्छेदश्छन्दस्तस्यैवोपमानयुक्तादयस्तेनैव गुरुलघुनिवेशक्रमेण श्रव्यता भवतीत्याशयात् । तस्य विपर्यासश्छन्दोभङ्गो व्यक्त एव वैरस्यहेतुः प्राहुरिति । पञ्चोदाहरणत्वावच्छेदविपर्यासत्वे च भग्नवृत्तव्यवहारादिदमेव निमित्तमस्यावधार्यत इत्यर्थः । पञ्चेति । पञ्चजनाः पुरुषास्ते देवपितृगन्धर्वराक्षसासुरभेदात्पञ्च । अथवा निषादपञ्चमब्राह्मणादिचतुष्टयभेदात् । तमेवात्मानं ब्रह्मापरपर्यायं विज्ञाय श्रवणमनननिदिध्यासनैरुपास्य प्रज्ञां प्रकृष्टं ज्ञानं साक्षात्कुर्वीत ॥ अत्र पञ्चमवर्णस्येति । ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरुं विजानीयाच्छेषास्त्वनियता मताः ॥’ इत्यनुष्टुप्छन्दसो लक्षणम् ॥

अस्थाने विरतिर्यस्य तत्तु भग्नयतीष्यते ॥ २७ ॥

यथा—

‘ब्रह्मेन्द्रोपेन्द्रादिगीर्वाणवन्द्यो भक्तानां भूयाच्छ्रिये चन्द्रचूडः ।
स्त्रीणां सङ्गीतं समाकर्णयन्केतूदस्ताम्भोदं सदध्यास्त ईशः ॥ ३९ ॥’

अत्र चतुर्थस्थाने यतौ कर्तव्यायां तदन्यत्र यतिकरणाद्भग्नयतीदम् ॥

“अस्थान इति” । श्रव्यः पठिति विच्छेदो यतिर्विच्छिद्य विच्छिद्य पठ्यमाना भारती स्वदते । श्रव्यतोपलक्षणार्थं च द्विमुनिवेदादिसञ्ज्ञया तत्र तत्र विविच्यते । तथा चास्ति कश्चिद्विशेषो येन क्रियमाणापि विरतिर्न सौभाग्यपदं पुष्यति । स च विशेषो नाम भागभेदोऽस्वरसन्धिकृतश्च प्रायेण एतेषां स्वभावविशेषादेव स्थाने क्रियमाणापि विरतिरन्यत्रैव परं प्रकाशते । न तत्र कथञ्चन सौभाग्यमुन्मीलयति । स्थानपरिभाषया व्यावर्तितत्वात् । तदिदमुक्तम्—अस्थान इति । वामनोऽप्याह—‘विरसविरामं कष्टम्’ इति । सदो गृहरूपा सभा केतूदस्ताम्भोदं ध्वजदण्डोत्क्षिप्तजलधरमित्युच्चैस्त्वम्। ‘वेदच्छेदा शालिनी मोऽथ तौ गौ’ इत्युपलक्षणं श्रव्यरतेः । अत्र द्वितीयपादे धातुभागभेदः शेषपादत्रये नामभागभेदाः । न चात्र स्वरसन्धानमस्तीति ॥

क्रियापदविहीनं यदशरीरं तदुच्यते ।

यथा—

‘सेलसुआरुद्धद्धं मुद्धाणाबद्धभुद्धससिलेहम् ।
सीसपरिट्टिअगङ्गं सञ्ज्झापणअं पमहणाहम् ॥ ४० ॥’

[शैलसुतारुद्धार्धं मूर्धाबद्धभुग्नशशिलेखम् ।
शीर्षपरिष्ठितगङ्गं सन्ध्याप्रणतं प्रमथनाथम् ॥]

क्रियापदाभावादशरीरमिदम् ॥

“क्रियापदेति” । क्रियेत्युपलक्षणम्। प्रधानपदहीनमिति बोद्धव्यम् । प्रधानाविमर्शे हि वाक्यशरीरमेव न निष्पन्नं स्यात् ॥ शैलेति । वाक्ये क्रियाप्रधानमिति दर्शने तत्पदानुपादानादत्र प्रधानाविमर्शः। शैलसुतयावरुद्धमर्धं यस्य । मुद्धाणो मूर्धा तत्राबद्धा भुग्ना शशिलेखा येन । शीर्षे प्रतिष्ठा गङ्गा येन । यश्च सन्ध्यायै प्रणतस्तं प्रमथनाथं प्रमथा गणास्तेषां नाथम् । कर्मविभक्तेः क्रियामन्तरेणाचरितार्थत्वात्क्रियाया नमस्काररूपाया व्यभिचारेणार्थापत्तिविषयतानुपपत्तेरिति । अस्यां च गाथायां स्त्रीमयव्यापाररूपता भगवतः प्रतीयते इति रहस्यमाराध्या मन्यन्ते ॥

गुणभङ्गद्वारकदोषनिरूपणावसरोऽयमित्याशयवानाह—

गुणानां दृश्यते यत्र श्लेषादीनां विपर्ययः ॥ २८ ॥

अरीतिमदिति प्राहुस्तत्त्रिधैव प्रचक्षते ।
शब्दार्थोभययोगस्य प्राधान्यात्प्रथमं त्रिधा ॥ २९ ॥

भूत्वा श्लेषादियोगेन पुनस्त्रेधोपजायते ।
अत्र यः श्लेषसमता सौकुमार्यविपर्ययः ॥ ३० ॥

शब्दप्रधानमाहुस्तमरीतिमतिदूषणम् ।

तत्र—

विपर्ययेण श्लेषस्य सन्दर्भः शिथिलो भवेत् ॥ ३१ ॥

यथा—

‘आलीयं मालतीमाला लोलालिकलिला मनः ।
निर्मूलयति मे मूलात्तमालमलिने वने ॥ ४१ ॥’

अत्र भिन्नानामपि पदानामेकपदता प्रतिभासहेतुरनतिकोमलो बन्धविशेषः श्लेषः । तद्विपर्ययेण शब्दप्रधानोऽयं श्लेषविपर्ययः ॥

“गुणानामिति ।” समाध्यादिभङ्गोऽपि तर्हि दोषः स्यादित्यत आह—श्लेषादीनामिति । श्लेषप्रसादसमता सौकुमार्यार्थव्यक्तिमाधुर्यकान्त्युदारतौजसाम् । एतद्योगाद्वाक्यं वक्ररूपतामासाद्य काव्यव्यपदेशं लभते । तेषां गुणानां भङ्गः काव्याभासत्वपर्यवसायी दोषः । ते च श्लेषादयो नवैव । तेषामन्यतमाभावे काव्यस्याभासत्वात् । तेषां हि विपर्यये रीतिरवश्यं भज्यते । तस्या गुणवत्पदरचनारूपत्वात् । अत एव पानकरसन्यायेन सम्भूयचित्रास्वादपर्यवसानक्षमं गुणसंवलनमेव रीतिरिति लोचनकारः । रीतिः साररूपतया काव्यस्यात्मेत्युच्यते । यथा चित्रस्य लेखा उत्तुङ्गप्रत्यङ्गलावण्योन्मीलनक्षमा, तथा रीतिरिति द्वितीये विस्तरः । तत्त्रिधेति । तदिति काकाक्षिगोलकवत्पूर्वापराभ्यामभिसम्बध्यते । यत्र गुणानां विपर्ययस्तदरीतिमत् । तत्त्रिधेत्यर्थः । त्रिधाभूतं भूयस्त्रिधा प्रचक्षते । तेन नवभेदाः । तदेतद्विवृणोति—शब्दार्थेति । योगशब्दः प्रत्येकमन्वीयते । शब्दप्रधानत्वमर्थानपेक्षशब्दनिरूप्यत्वम् । वाक्यगुणस्य श्लेषादित्रयस्य । एवशब्दानपेक्षार्थनिरूपणीयत्वं तादृशस्य कान्त्यादित्रयस्य । एतेनौजःप्रभृतित्रिकस्योभयप्रधानता व्याख्याता । तेनायमर्थः शब्दार्थोभयप्रधानतया सामान्यतस्त्रिधा भूत्वा श्लेषादित्रिकविवक्षया प्रत्येकं त्रिधा भवतीति । तेषु शब्दस्य प्राथम्यात्तत्प्रधानकगुणभङ्गः प्रथमं विवेक्तव्य इत्याह—तत्रेति । अरीतिमतीति निर्धारणे सप्तमी । जात्यभिप्रायमेकवचनम् । विपर्ययेणेति । श्लेषः सन्धानं घटनमित्यनर्थान्तरम् । न चैतावतैव गुणत्वं वाक्यमात्रसाधारणत्वात् । तेन बहूनामपि पदानामेकताप्रतिभासहेतुत्वमनतिकोमलत्वं च विशेषणमिच्छन्ति । विशेषमर्थगुणकाण्डे वक्ष्यामः । एवम्भूतविशेषणविपर्यासे शिथिलो बन्धोऽतिकोमलो विकीर्णप्रायश्चेत्यर्थः । आलीयमित्यादौ दन्त्यवर्णप्रायतयातिकोमलत्वं विकीर्णता च व्यक्तैव । नास्य निरूपणे क्वचिदप्यर्थापेक्षेति स्फुटयन्नाह—अत्र भिन्नानामिति । श्लेषस्य शब्दप्रधानतया तद्विपर्ययोऽपि शब्दप्रधानो भवतीत्याह—शब्दप्रधानोऽयमिति । अन्यतरविशेषणहानावपि श्लेषाभावो भवत्येव । तेन पूर्वार्धस्य लेशत ऐक्यप्रतिभानसम्भवेऽप्यतिकोमलतया दुष्टत्वम् ॥

भवेत्स एव विषमः समताया विपर्ययात् ।

यथा—

‘कोकिलालापवाचालो मामेति मलयानिलः ।
उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः ॥ ४२ ॥

अत्र पूर्वार्धस्य मृदुबन्धत्वादुत्तरार्धस्य च गाढबन्धत्वात्समबन्धेषु विषममिति विषमो नाम शब्दप्रधानः समताविपर्ययो दोषः ॥

“भवेदिति” । स एव सन्दर्भो मृदुमध्यकठोरवर्णनिर्व्यूढास्तिस्त्रो बन्धजातयस्तत्रैकरूपे वाक्यार्थे एकैव जातिरुपादेयेति तद्विपर्यासो वैराग्यहेतुरेव । उत्छलन्तः शीकरा यस्मात्तथाच्छाच्छमत्यच्छम् । द्वयमपि निर्झराम्भोविशेषणम् । मलयमारुतस्योद्दीपनविभावभूतस्य वर्णमात्रवैरूप्यमस्येत्याशयवानाह—अत्र पूर्वार्धस्येति । शब्दप्रधानतामस्य विवृणोति—समबन्धेष्विति ॥

सौकुमार्यविपर्यासात्कठोर उपजायते ॥ ३२ ॥

यथा—

‘असितर्तितुगद्रिच्छित्स्वः क्षिताम्पतिरद्विदृक् ।
अमिद्भिः शुभ्रदृग्दृष्टैर्द्विषो जेघ्नीयिषीष्ट वः ॥ ४३ ॥’

अत्रातिकठोरत्वादसौकुमार्यं सुप्रतीतमेव ॥

“सौकुमार्यविपर्यासादिति ।” अकठोराक्षरप्रायताबन्धस्य सुकुमारत्वं तद्विपर्थये कठोरता श्रुतिकटुत्वं भवति । असिततीन्ति । ‘ऋ गतौ’ इति धात्वनुसारादृतिर्वर्त्म । असिता कृष्णा ऋतिर्वर्त्म यस्य कृष्णवर्त्मा वह्निस्तस्य तुगपत्यम् । अद्रिच्छिदिति क्रौञ्चदारणत्वात् । स्वर्गे क्षियन्ति निवसन्ति ये देवास्तेषां पतिः सेनानीत्वात् । अद्विदृग्द्वादशलोचनत्वात् । स एवम्भूतो भगवान् कुमारोऽमिद्भिरस्निग्धै रूक्षैः शुभ्रदृग्दृष्टैर्धवलाक्षिविलोकितैः सक्रोधनिभालने तारकाभागस्योर्ध्वतया नयनात्तथाभावो जातिर्वो युष्माकं द्विषः शत्रूञ्जेघ्नीयिषीष्ट । अत्यर्थं पुनः पुनर्वा वध्यादि- त्यर्थः । हन्तेर्यङि घ्नीभावे आशीर्लिङि रूपम् । स्वतन्त्रस्य पदस्य श्रुतिकटुता पददोषः । इह तु पदानामतथाभावे र्ति द्रि च्छि इत्यादीनां वर्णानां परस्परसन्निधाने घटनैव कठोरेत्याह—अत्रातिकठोरत्वादिति ॥

या तु कान्तिप्रसादार्थव्यक्तीनामन्यथा गतिः ।
अर्थप्रधानः प्रोक्तः स वाक्ये गुणविपर्ययः ॥ ३३ ॥

अप्रसन्नं भवेद्वाक्यं प्रसादस्य विपर्ययात् ।

यथा—

‘अनङ्गकमलञ्चक्रे मयमाना मरालिका ।
यस्यानत्यर्जुनाब्जन्म सदृक्षाङ्को वलक्षगुः ॥ ४४ ॥’

अत्र शब्दानामनतिप्रसिद्धत्वादनतिप्रसन्नत्वमिति सोऽयमर्थप्रधानः प्रसादविपर्ययो दोषः ॥

“या तु कान्तीति” । ‘कान्तिप्रसादार्थव्यक्तीनाम्’ इति प्रमादात्पाठः । विवरणक्रमानुरोधेन ‘प्रसादार्थव्यक्तिकान्तीनाम्’ इति पठनीयम् । अप्रसन्नमिति । श्रुतमात्रस्यैव यस्यार्थश्चित्ते प्रतिफलति स प्रसन्नः शब्दः । तथा चार्थस्य प्राकट्यं झटिति प्रतिबन्धयोग्यत्वम् । ‘पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुन’ इति सहृदयव्यवहारार्थविषयत्वं प्रसादोऽर्थनिरूपणीय इति भवत्यर्थप्रधानः । न चासौ पदमात्रमुल्लिखतीति वाक्यांशो भवति । तेन तद्विपर्ययोऽपि वाक्यगामी । ‘अर्थस्य यन्न झटिति प्रतीतिरुपजायते । तत्र तत्र महाराज शब्द एवापराध्यति ॥’ इति वाक्यदोषेषु परिगणनमभ्यच्छतया च शब्दानां प्रतीतिः स्खलन्ती दूषणतामस्य स्थापयति—अनङ्गकमिति । न विद्यतेऽङ्गं यस्येत्यनङ्गकमाकाशं मयमाना गच्छन्ती । अयमयेति दण्डकेषु पठितान्मयधातोः शानच् । मरालिका हंसी । अलञ्चक्रे शोभितवती । ननु हंस्यागमनपथालङ्करणकालो रात्रिस्तस्यां च तुषारकिरण एव तदलङ्कारकारी किमनया वराक्येत्यत आह—यस्येति । यदनत्यर्जुनं न भवति अब्जन्म तोयभवम् । नीलोत्पलमिति यावत् । तत्सदृशलाञ्छनो वलक्षगुर्वलक्षो गौः किरणो यस्य शुभ्रांशुश्चन्द्रः । तेनासौ सकलङ्कतया न तथालङ्काराय यथेयमित्यर्थः । पश्येति वाक्यार्थकर्मकमेके पठन्ति । तन्न युक्तम् । चक्र इति परोक्षतया स्वरसभङ्गापत्तेः । उक्तयुक्त्या वाक्यदोषत्वमाह—अत्र शब्दानामिति । न च मयमानादीनां श्लिष्टता । तल्लक्षणाविरहात् । नापि गूढार्थत्वं तत एव ॥

वाक्यं भवति नेयार्थमर्थव्यक्तेर्विपर्ययात् ॥ ३४ ॥

यथा—

‘मही महावराहेण लोहितादुद्धृतोदधेः ।
इतीयत्वेव निर्दिष्टे नेया लौहित्यहेतवः ॥ ४५ ॥’

तदिदं निगदेनैव व्याख्यातमित्यर्थप्रधानोऽयमर्थव्यक्तिविपर्ययः ॥

“वाक्यमिति” । सम्पूर्णं वाक्यत्वमर्थव्यक्तिं करोतीति वक्ष्यति । सर्वस्य वाक्यस्य विशेषणविशेष्यभावबोधकत्वनियमे यावतां विशेषणविशेष्यभावोऽभिमतस्तावत्प्रतिपादकपदोपादानं सम्पूर्णता । सा च विशेषणविशेष्यभावानुरूपार्थनिरूपणीयतयार्थप्रधानेति तद्विपर्ययोऽपि तत्प्रधान इति पूर्ववन्नेयम् । अत एव विवक्षितवाक्यान्यथानुपपत्त्या नेयः कल्पनीयोऽर्थो यस्येति नेयार्थमित्यर्थोऽपि घटते । महीति । पूर्वार्ध एव काव्यं निर्वर्तितम् । न च तावता विवक्षितार्थलाभः । तथा हि—समुद्रमध्यात्पृथिव्यामुद्ध्रियमाणायां महासुरविमर्दे तेषां दंष्ट्रया पाटनेन रुधिरशबलतया लोहितत्वमुदधेरिति वाक्यार्थोऽभिप्रेतः । लक्षणाया अभावान्न नेयार्थत्वं पददूषणमत्र सम्भावनामारोहति । दूषणताबीजं चात्र स्फुटमेव । अशरीरं तु क्रियापदशून्यमित्युक्तम् । तदेतत्सर्वमभिप्रेत्याह—तदिदं निगदेनैवेति ॥

कान्तेर्विपर्याद्वाक्यं ग्राम्यमित्यपदिश्यते ।

यथा—

‘विरहे ते विषीदन्तं निषीदन्तं तवान्तिके ।
कन्ये कामयमानं मां त्वं न कामयसे कथम् ॥ ४६ ॥’

इदमुक्तेर्ग्राम्यतया कान्तिहीनमित्यर्थप्रधानोऽयं कान्तिविपर्ययो दोषः ॥

“कान्तेरिति” । रसस्य दीप्तिः कान्तिरग्रे विवरिष्यते तेनार्थप्रधानता व्यक्ता । तस्यामस्ति वाक्यवाच्ययोर्व्यापारः । वाक्यं विदग्धोक्तिकं व्याप्रियते । अतथाभूतस्य रसाव्यञ्जकत्वनियमात् । तथाहि—कन्ये इति सम्बोधनेन रसविरोधिनीविलसिता क्षमता प्रतीयते । कामयमानमित्यनेनानावरणमुच्यमानोऽर्थः कथं न वैरस्यमावहतीत्यादिकमुन्नेयम् । तदिदमाह—इदमुक्तेर्ग्राम्यतयेति ॥

ओजोमाधुर्यमौदार्यं न प्रकर्षाय जायते ॥ ३५ ॥

यस्मिंस्तमाहुरुभयप्रधानं तद्विपर्ययात् ।
वाक्ये यः खण्डयन्रीतिं भवत्योजोविपर्ययः ।
असमस्तमिति प्राहुर्दोषं तमिह तद्विदः ॥ ३६ ॥

यथा—

‘स्मरः खरः खलः कान्तः कायः कोपधनः कृशः ।
च्युतो मानोऽधिको रागो मोहो जातोऽसवो गताः ॥ ४७ ॥

अत्र सत्यसमस्तपदामिधाने सत्यपि चार्थसौकुमार्ये श्लेषादिगुणसामप्र्यभावान्न वैदर्मी रीतिः । नापि यथोक्तलक्षणाभावाद्गौडीयादय इति । खण्डितरीतित्वादयमोजोविपर्ययः शब्दार्थप्रधानो गुणविपर्ययो दोषो भवति । यदाह—

इत्यादिबन्धपारुष्यं शैथिल्यं च नियच्छति ।
अतो नैनमनुप्रासं दाक्षिणात्याः प्रयुञ्जते ॥ ३७ ॥

“वाक्ये य इति” । ननु समासभूयस्त्वमोजोऽभिधास्यते तत्कथमस्याभावोऽर्थप्रधानोऽपि कथं च दोष इत्यत आह—खण्डयन्रीतिमिति । रीतिर्भङ्गपर्यवसायी तस्याभावो दूषणम् । न तु तन्मात्रमित्यर्थः । एतदुक्तं भवति । शब्दार्थयोरुचिता प्रौढरोजः । यदाह—‘रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः । तव्द्यक्तिहेतुशब्दार्थावाश्रित्यौजो व्यवस्थितम् ॥’ इति । तत्रार्थव्यक्तिमर्थगुणेषु विवेचयिव्यामः । शब्दस्य तु पारुष्यशैथिल्यव्यतिकरलक्षणा सा च क्वचित्समासदीर्घतया व्यज्यते । यथा—‘चश्चन्द्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य सुयोधनस्य ।’ इति । क्वचित् अन्यथापि प्रकाश्यते । यथा—‘यो यः शस्त्रं बिभर्ति’ इत्यादि । तदेवं तत्त्वव्यवस्थितौ पूर्वाचार्यव्यवस्थित्या गुणकाण्डे समासभूयस्त्वमोजोलक्षणं व्यभिचरितगुणमध्ये समासरतनासौष्ठवं वक्तृक्षमतया गुण इत्यभिप्रायाद्विशेषं तत्र वक्ष्यामः—तदिदमिति । रीतिं खण्डयतीति । नहि प्रौढेरभावे गुणसम्बन्धनात्मिका रीतिर्नामेति विपर्ययपदेन साधारणेन पारुष्यशैथिल्ये दर्शयति—अत्रेति । एतदेवाचार्यमतेन द्रढयति—यदाहेति । यद्यप्यत्रानुप्रासोऽस्ति तथापि रीतिमन्तरेण मृतशरीर इव काव्ये नालङ्करणतामध्यास्ते । ततश्च न प्रकृतः कोऽपि चमत्काराविर्भाव इति नास्यैव काव्यतां प्रयोजयतीत्यर्थः । दाक्षिणात्या वैदर्भीमाहुः । पारावरीणास्ते हि विशिष्टरीतिस्वरूपमवधारयितुं क्षमा इति ॥

माधुर्यव्यत्ययो यस्तु जायते रीतिखण्डनात् ।
तदनिर्व्यूढमित्युक्तं काव्यसर्वस्ववेदिभिः ॥ ३८ ॥

यथा—

‘नखिनां च नदीनां च शृङ्गिणां शस्त्रपाणिनाम् ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ ४८ ॥’

अत्र नखिनां च नदीनां चेति पृष्ठ्यन्तच्चकारेण रीतेरुपक्रमे शृङ्गिणां शस्त्रपाणिनामिति चकारानिर्वाहात् स्त्रीषु राजकुलेषु चेति षष्ठीपरित्यागादमधुरार्थत्वाच्च माधुर्यविपर्ययनामायं शब्दार्थप्रधानो गुणविपर्ययो दोषः । यदाह—

मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः ।
येन माद्यन्ति वीमन्तो मधुनेव मधुव्रताः ॥ ३९ ॥

यया कयाचिन्छ्रुत्या यत्सामानमनुभूयते ।
तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा ॥ ४० ॥

“माधुर्यव्यवत्यय इति” । शब्दार्थयोश्चित्तद्रुतिविध्रायित्वं माधुर्यम् । निचुलितत्वमिवार्द्रतापदाभिधेया चेतसोऽवस्था तत्कारिता माधुर्यम् । सा च शृङ्गारकरुणान्यतरप्रकाशानुगुणव्यापारावेशेन भवति । यदाह—‘शृङ्गार एव मधुरः परः प्रह्लादनो रसः । तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति ॥ शृङ्गारे विप्रलम्भाख्ये करणे च प्रकर्षवत् । माधुर्यमात्रतां याति यतस्तत्राघिकं मनः ॥’ इति । तत्र शब्दस्य माधुर्यं पृथक्पदतया व्यज्यते । दीर्घसमासस्य यत्नान्तरसाध्यतया सुकुमाररसप्रकाशसामप्रीवहिर्भावात् । ततश्च शब्ददूषणप्रस्तावे पृथक्पदतामात्रप्रत्ययो यद्युच्यते गौडीया दृष्टा स्यात्, इति रीतिखण्डनपर्यवसायितयाभिधानाम् । भवति हि कदाचित्कवेः शक्तिवशात्सोल्लेखेऽपि समासे रसव्यक्तिः । यथा—‘याते द्वारवतीं तदा मधुरिपौ लद्दत्तसङ्गानतां कालिन्दीतटरूढवञ्जुललतामालिङ्ग्य सोत्कण्ठया । उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥’ एवं चास्खलितप्रतीतिविषयस्यैव सन्दर्भस्य रसत्वं पदघटनारूपस्य च सन्दर्भस्यानिर्वाहादेव प्रतीतिः स्खलतीत्याह—तदनिर्व्यूढमिति । काव्यसर्वस्वं रसप्रकाशस्तद्वेदिभिस्तदुपायभूतघटनास्वरूपवेदिभिः । एतदेव व्याख्यानेन स्फुटयति—अत्रेति । नखिनां च नदीनां चेति चकारेणोत्तरत्र तत्परित्यागेऽनुपपत्तिर्जागर्ति तदेव प्रतीतेः संवल- नम् । एवमुत्तरत्रापि । अस्तु तर्हि वस्त्वसत्त्वेऽप्येकदिड्याधुर्यसम्पत्तौ काव्यताप्रतिलम्भ इत्यत आह—अमधुरार्थत्वाच्चेति । स्पष्टमेतच्छब्दार्थप्रधानता । माधुर्यस्य पूर्वाचार्यसम्मत्या द्रढयति—यदाहेति । माद्यन्ति आर्द्रचित्ता भवन्ति । मधुरसादृश्यादयं व्यवहार इत्यत आह—मधुनेति । इदं च घटनाया माधुर्ये परमं रहस्य-मित्याह—यया कयाचिदिति । औष्ठ्यकण्ठ्यादिकं वा तद्रूपसमानश्रुतिकमादौ यस्य तथाभूतस्य पदस्य प्रत्यासत्तिः । ‘तद्रूपा हि’ इति पाठे व्यक्त एवार्थः । अत एव सानुप्रासा ततश्च रसावहेत्यर्थः । यदाह—‘कङ्कणादिविमुक्तापि कान्ता किमपि शोभते । कुङ्कुमेनाङ्गरागश्चेत्सर्वाङ्गीणः प्रवर्तते ॥’ इति ॥

विकटतामात्रभावस्यादोषत्वाद्विशेषयन्नाह—

यस्तु रीतेरनिर्वाहादौदार्यस्य विपर्ययः ।
वाक्यं तदनलङ्कारमलङ्कारविदो विदुः ॥ ४१ ॥

यथा—

‘दीर्घपुच्छश्चतुष्पादः ककुद्मांल्लम्बकम्बलः ।
गोरपत्यं बलीवर्दस्तृणमत्ति मुखेन सः ॥ ४९ ॥’

तदिदमपुष्टार्थत्वादनुत्कृष्टविशेषणमनुदारं निरलङ्कारमाचक्षते सोऽयमौदार्यविपर्ययो नाम शब्दार्थप्रधानो गुणविपर्ययो दोषः । यदाह—

श्लाघ्यैर्विशेषणैर्युक्तमुदारं वाक्यमिष्यते ।
यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः ॥ ४२ ॥

उत्कर्षवान्गुणः कश्चिदुक्तेर्यस्मिन्प्रतीयते ।
तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः ॥ ४३ ॥

“यस्तु रीतेरिति” । काव्यरूपताप्रयोजकं शब्दार्थयोर्वक्रता उदारता नहि वक्रतामन्तरेण काव्यपदवीप्राप्तिस्तदाह—‘यत्तु वक्रं वचः शास्त्रे लोके च वच एव तत् । वक्रं यदनुरागादौ तत्र काव्यमिति श्रुतिः ॥’ इति । तदेतदलङ्कारसामान्यमस्याभावे निरलङ्कारता भवतीत्याह—अनलङ्कारमिति । दीर्घपुच्छ इत्यादौ प्रकृतोदाहरणे द्वयोरवक्रत्वं स्फुटयति—यथेति । विविच्य गुणप्रस्तावे कथयिष्यामः । अर्थपोषमाह—उत्कर्षवानिति । उभयप्रधानतामुपसंहरति—काव्येति ॥

तदेवं वाक्यदोषाँल्लक्षयित्वा क्रमप्राप्ता वाक्यार्थदोषा लक्षणीया इति तान्विभजते—

अपार्थ व्यर्थमेकार्थं ससंशयमपक्रमम् ।
खिन्नं चैवातिमात्रं च परुषं विरसं तथा ॥ ४४ ॥

हीनोपमं भवेच्चान्यदधिकोपममेव च ।
असदृक्षोपमं चान्यदप्रसिद्धोपमं तथा ॥ ४५ ॥

निरलङ्कारमश्लीलं विरुद्धमिति षोडश ।
उक्ता वाक्यार्थजा दोषास्तेषां वक्ष्यामि लक्षणम् ॥ ४६ ॥

समुदायार्थशून्यं यत्तदपार्थ वचः स्मृतम् ।

यथा—

‘जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि ।
तं ब्राह्मणी पृच्छति पुत्रकामा राजन्रुमायां लशुनस्य कोऽर्थः ॥ ५० ॥’

अत्र समुदायार्थः कोऽपि नास्तीत्यपार्थमिदम् ।

“अपार्थमिति” । उद्देशे दोषाणां व्यासेनोक्तिः पूर्वोक्तप्रयोजनानुरोधेनेति । समुदायिपदानां विशेषणविशेष्यभावः समुदायार्थः । तेन शून्यं पदजातमपार्थकं पदार्थानामसंसर्गेण पदानामसंसर्गोऽभिधीयते । तेनार्थदोषत्वम् । जरद्गव इति । कम्बलपादुकाभ्यामिति लक्षणे तृतीया । न च ताभ्यां वृद्धोक्षस्य सम्बन्धः । कथं च तस्य मङ्गलानां धवलादीनाम् । ‘मद्रकाणाम्’ इति पाठे गीतकविशेषाणां वा सङ्गतिः, कथं वा पुत्रकामायास्तत्प्रश्नसंसर्गः, कथं च राजन्निति सम्बोधनं घटते, पुत्रकामायाश्च रुमालवणार्थप्रश्नः । रुमा लवणाकरः । तथा च प्रयोगः—‘रुमाधासकान्तादिलवणात्मवर’ इति ॥

व्यर्थमाहुर्गतार्थ यद्यच्च स्यान्निष्प्रयोजकम् ॥ ४७ ॥

यथा—

‘आहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः ।
स्वामहौषीत्तनुं वह्नौ दृष्ट्वा तौ रामलक्ष्मणौ ॥ ५१ ॥’

अत्राहिषातां दृष्ट्वेत्येताभ्यामेव ताविति, रघुव्याघ्रावित्यनेनैव रामलक्ष्मणाविति, तनुमित्यनेनैव खामिति, अहौषीदित्यनेनैव वह्नाविति, गम्यत इति गतार्थत्वम् । न च शरभङ्गाश्रमगमनं तनुहोमो वाग्रतः कथाशरीरोपयोगीति निष्प्रयोजकत्वम् । अतोऽयं व्यर्थनामा वाक्यस्य महावाक्यस्य च दोषो भवति । आर्थ्या च वृत्त्या लब्धस्य शास्त्रेतिहासादौ शब्दवृत्त्या भणनमपौनरुत्तयायेत्यर्थपुनरुक्तेर्भिद्यते ॥

“व्यर्थमिति” । विज्ञातो वा विगतो वार्थोऽभिधेयं प्रयोजनं यस्य तव्द्यर्थं स्वतन्त्रं च दूषणमिति वैशेषिके वक्तव्यम् । तथा हि—आहिषातामिति । अंहेर्गतिकर्मणो लुङि रूपम् । स च प्राचुर्यप्रयोगः प्राप्त्यवच्छिन्नं व्यापारप्रचयमभिधत्ते । तथा चार्थसिद्धायां प्राप्तौ शब्देनोपादानमनुचितं लोकानुसारेण काव्ये दृशिश्चाक्षुष एव ज्ञाने प्रयुज्यते । यथा—‘मया तावद्दृष्टो न खलु कलिकन्दर्पन्दर्पनृपतेर्गुणैस्तुल्यः कोऽपि क्वचिदपि किमश्रावि भवता । इति प्रश्नं श्रुत्वा क्वणितमिव कर्णान्तिकमगान्मृगाक्षीणां चक्षुश्चटुलभवता चान्ततरलम् ॥’ यथा वा—‘नैवादर्शि न चाश्रावि फलं मलयभूरुहः ।’ चक्षुश्च प्राप्तमेव गृह्णातीत्यर्थलब्धायां प्राप्तौ कथं शब्देनोपादानम् । तदिदमुक्तम्—एताभ्यामेवेति । रघुव्याघ्रादिप्रकरणादिकमासाद्य विशेषपर्यवसायि यौगिकत्वान्न तु विशेष एव शक्तम् । ‘उपगम्य रघुव्याघ्रः कच्छभूभागचारिणीम् । लुलुभे मुनिधेनुं तां वेलामिव महार्णवः ॥’ इति महर्षिप्रयोगात् । एतेन पुष्पवदादिपदवद्वचनमेदोऽप्यपास्तः । एवं च प्रकरणादिना रघुव्याघ्रपदं रामलक्ष्मणपरमेवेति पूर्वार्धे तयोरेव प्रक्रान्तत्वादुत्तरार्धे सर्वनाम्ना परामर्शो युज्यते, न तु स्वशब्देन । तनुप्रभृतिशब्दानां सम्बन्धिशब्दत्वात्समभिव्याहृतशब्दार्थसम्बन्धकत्वं लोके व्युत्पन्नम् । यथा—‘करौ धुनाना नवपल्लवाकृतीर्वृथा कृथा मानिनि मा परिश्रमम् ।’ इति शब्दान्तरसन्निधाने तु क्वचित्ताद्रूप्यावगमो भवति । यथा—‘उमास्तनोद्भेदमनुप्रवृद्धो मनोरथो यः प्रथमं बभूव । तमेव मेनादुहितुः कथञ्चिद्विवाहदीक्षातिलकं चकार ॥’ तदिहान्यस्यानुपादानाच्छरभङ्गसम्बन्धिन्येव तनुः प्रतीयते । जुहोतिश्च वह्न्याधारकमेव हविर्द्रव्यत्यागमभिधत्ते तेन ‘वह्नौ’ इत्यपि न वाच्यम् । गतार्थशब्दं व्याचष्टे—गम्यत इति । अस्मिन्नेवोदाहरणे निष्प्रयोजनत्वमाह—न चेति । शरभङ्गाश्रमगमनं तनुहोमश्चात्र वाक्यार्थद्वयं न प्रयोजनवत् । अस्य वाक्यस्य चरितार्थत्वात् । किं प्रयोजनान्तरगवेषणयेत्यत आह—अत इति । यद्वाक्यपोषणाद्यनौपयिकपदमप्रयोजकवचसा प्रागुक्तं तथा च प्रबन्धाद्यर्थपोषपर्यवसायि वाक्यमेव । इहाप्यवाच्यवचनस्य स्फुटत्वात् । न चाश्रमगमनतनुहोमौ करिष्यमाणवीररसोचितकथाशरीरे कामपि शोभामात्रामर्पेयत इति वाक्यस्य महावाक्यस्य चेति यथासङ्ख्यमन्वयः । कथं पुनर्गतार्थ प्रसाधितस्येत्यादेरर्थपुनरुक्ताद्भिद्यत इत्यत आह—आर्थ्या चेति । शब्दवृत्त्यैवावगतस्य शब्दवृत्त्या पुनरुक्तम् । अर्थन्तो लब्धस्य शब्दवृत्त्या मणनमिन्त्येकः प्रकारः । अर्थतो लाभं व्युत्पादयति—शास्त्रेति । अस्य रघुकुलभुवः शरभङ्गाश्रमगमनमितिहासाच्चक्षुषः प्राप्तस्यैव ज्ञानजनकत्वं शास्त्रात् । शरभङ्गसम्बन्धिन्येव तनुर्लोकव्युत्पत्तेस्तेन नियमेन ह्यर्थतः प्राप्तिर्भवतीत्यभिप्रायः ॥

उक्त्यभिन्नार्थमेकार्थ

यथा—

‘प्रसाधितस्याथ मुरद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतम् ।
वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥ ५२ ॥’

इत्युक्तैकार्थमेवाह—

‘कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ।
आलिङ्गिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ ५३ ॥’

अनयोः श्लोकयोरभिन्नार्थमेकं वाक्यं महावाक्ये दुष्यति ॥

“उक्त्यभिन्नार्थमिति” । वाक्यान्तरोक्त्याभिन्नस्तात्पर्यार्थो यस्य तत्तथोक्तम् । तथा हि—‘प्रसाधितस्य-’ इत्यादिश्लोके श्लेषोपहितेन व्यतिरेकेण काप्यपूर्वा कृष्णस्य लक्ष्मीस्तत्काले बभूवेति तात्पर्यार्थः । तेनैव प्रकारेणं ‘कपाट-’ इत्यग्रिमश्लोकें स एवास्ति । तुल्यार्थत्व उपादानं भिन्नार्थत्वेऽपि । तदिदमाह—अनयोः श्लोकयोरिति । महावाक्ये श्लोकद्वयरूपे एकम्, अन्यतरद्दुष्यति । हेयं भवतीत्यर्थः ॥

सन्दिग्धार्थ संसशयम् ।

यथा—

‘मनोरथप्रियालोकरसलोलेक्षणे सखि ।
आराद्वृत्तिरियं माता न क्षमा द्रष्टुमीदृशम् ॥ ५४ ॥’

अत्रारात्प्रभृतिशब्दानामुभयार्थत्वान्माता द्रक्ष्यति न वेति सन्दिग्धम् ॥

“सन्दिग्धार्थमिति” । शब्दस्वरूपनिश्चयेऽपि वाक्यार्थो दोलायित इत्यर्थदोषत्वम् । तथा हि—मनोरथेत्यादौ मनोरथे यः प्रियो वल्लभस्तदालोकरसेन लोलेक्षणे चपललोचने तव मातेयमाराद्वृत्तिर्दूरवार्तिनी । अतो नैतादृशं सानुरागाङ्गनाजनयोग्यं द्रष्टुं क्षमा इति व्यवस्थापनान्नावलोकयितुं शक्ता ततो निःशङ्कमालोकस्वेति वाक्यार्थ उतेयमारद्वृत्तिः समीपदेशवर्तिनी । ‘आराद्दूरसमीपयोः’ । तथा चेदृशं कुलाङ्गनानुचितं चारित्रखण्डनं द्रष्टुं न क्षमा न सहिष्णुरतोमानयनचापलं काषींरिति । नानार्थपदप्रक्षेपात्साधकबाधकप्रमाणाभावाच्च सन्दिह्यत इत्याह—अत्रारात्प्रमृतिशब्दानामिति । न च मिथो विरोधिनोरेकत्र विवक्षा सम्भवति । न चास्ति प्रकरणादिकमेकनियामकं । न च मातुः प्रकोपशङ्कया प्रियविलोकनरसोत्काया मनोरथभङ्गो न भवतीत्यर्थः ॥

वाक्यं यत्तु क्रमभ्रष्टं तदपक्रममुच्यते ॥ ४८ ॥

यथा—

‘काराविऊण खउरं गामउलो मज्जिओ अ जिमिओ अ ।
णक्खत्तत्तिहिवारे जोइसिअं पुच्छिउं चलिओ ॥ ५५ ॥’

[कारयित्वा क्षौरं ग्रामप्रधानो मज्जितश्च भुक्तवांश्च ।
नक्षत्रतिथिवाराञ्ज्यौतिषिकं प्रष्टुं चलितः ॥]

अत्र क्षुरकर्मणोऽनन्तरं नक्षत्रादिप्रश्नादिदमपक्रमम् ॥

“वाक्यं यत्त्विति” । कारयित्वा क्षौरं गामउलो ग्रामप्रधानपुरुष इति देशीयाः । ग्रामेऽपि वा यः कुटोऽव्युत्पन्नः । मज्जिओ अ सुस्नातश्च जिमिओ अ भुक्तवांश्च ततो नक्षत्रं तिथिवारौ च ज्यौतिषिकं प्रष्टुं चलितः । तिथिवारज्ञानान्तरं क्षुरकर्म, ततः स्नानभोजने, इति लौकिकः क्रमस्तस्य विपर्यासो व्यक्त एव श्रुतिवचनात् । क्रियमाणेऽपि रचनावैपरीत्येन क्रमभ्रंशः समाधीयत इति नासौ शब्ददोषः । अत्र पूर्वार्धोपात्तानां क्रमो न विपर्यस्तः किन्तु क्षौरोत्तरार्धोक्तयोरित्याह—अत्र क्षुरकर्मण इति ॥

जात्याद्युक्तावनिर्व्यूढं खिन्नमाहुर्महाधियः ।

यथा—

‘वेवाहिऊण वहुआ सासुरअं दोलिआइ णिज्जन्ती ।
रोअइ दिअरो तं सण्ठवेइ पास्सेण वच्चन्तो ॥ ५६ ॥’

[विवाह वधूः श्वाशुरकं दोलिकया नीयमाना ।
रोदिति देवरस्तां संस्थापयति पार्श्वेन व्रजन् ॥]

अत्र प्रक्रान्तस्य नवपरिणयवतीस्वरूपभणनस्यानिर्व्यूढत्वात्खिन्नत्वम् ॥

“जात्यादीति” । वाक्यार्थो द्विविधः—स्वतःसम्भवी, कविप्रौढोक्तिनिर्मितश्च । तत्रासति विशेषहेतौ यज्जातीयमर्थ बुध्द्या व्यवस्थाप्य वचनोपक्रमस्तज्जातीयस्यैव समस्तवाक्यनिर्वाहो युक्तो न त्वन्तरेण परित्यागेन भेदः । उपक्रान्तमिर्वाहाशक्तो लोके खिन्न इत्युच्यते । तदिदमुक्तम्—जात्यादीति । आदिपदेन स्वतः सम्भविविशेषाणामुपमादीनां कविप्रौढिनिर्मीतानां च रूपकादीनां परिग्रहः । विवाह्य नववधूः सासुरअं श्वशुरगृहं दोलिकया नीयमाना रोदितीति स्वतःसम्भवी । नवपरिणीतास्वभावलक्षणार्थस्तावदुपक्रान्तस्तथा सति यो जन्माभ्यस्तपितृगृहवियोगवेदनादूनमानसाया अत्यन्तापरिशीलितेन देवरेण संस्थापनप्रकारः स न जातौ निविशते । परिशीलितभर्तृकुलाया कुलायां वा । तस्यौचित्यात्तस्या एव हि किञ्चन वक्तव्यं भवतीत्याह—अत्र प्रक्रान्तस्येति ॥

यत्सर्वलोकातीतार्थमतिमात्रं तदुच्यते ॥ ४९ ॥

यथा—

‘भृङ्गेण कलिकाकोषस्तथा भृशमपीड्यत ।
ववर्ष विपिनोत्सङ्गे गोष्पदप्रं यथा मधु ॥ ५७ ॥’

अत्र कलिकाकोषे गोष्पदप्रमधुवर्षस्यासम्भवादतिमात्रत्वम् ॥

“यत्सर्वलोकेति” । गोष्पदप्रमिति पूरेर्णिजन्ताद् ‘वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्’ इति णमुल्, ऊलोपश्च । कलिकामकरन्दपरिणामस्यैतावतो लोके न प्रसिद्धिः । न चैतत्खिन्नमेव । कलिकाकुसुमस्यानुपक्रमात्, किं तु स्वरूपभ्रमाल्लोकमर्यादातिरिक्तवृत्तमुपात्तमिति पृथगेव दोषः ॥

यत्तु क्रूरार्थमत्यर्थं परुषं तु तदुच्यते ।

यथा—

‘खाहि विसं, पिअ मुत्तं, निज्जसु मारीअ, पडउ दे वज्जम् ।
दन्तक्खण्डिअथणआ खिविऊण सुअं सवइ माआ ॥ ५८ ॥’

[खाद विषं, पिब मूत्रं, नीयस्व मार्या, पततु ते वज्रम् ।
दन्तखण्डितस्तनी क्षिप्त्वा सुतं शपति माता ॥]

अत्र खाद विषमित्यादीनां क्रूरार्थानामभिधानात्पारुष्यम् ॥

“यत्त्विति” । ‘खाद विषं, पिब मूत्रं, नीयस्व मार्या, पततु ते वज्रम्’ इत्थं माता पुत्रमाकोशति । किं कृत्वा । क्षिघ्वा भूमौ निरस्य । कुतः । दन्तखण्डितस्तनी । यतो बालो दन्तैर्मातुः स्तनं दशतीति जातिस्तस्याः पुनरेवंविधं परुषाभिधायित्वमनुचितम् । अतिपारुष्यमेव चात्र विरसताहेतुः । तेनातिमात्राद्भेदः ॥

अप्रस्तुतरसं यत्स्याद्विरसं तन्निगद्यते ॥ ५० ॥

यथा—

‘तव वनवासोऽनुचितः पितृमरणशुचं जहीहि किं तपसा ।
सफलय यौवनमेतत्सममनुरक्तेन सुतनु मया ॥ ५९ ॥’

अत्र पितृमरणसन्तप्तायाः सम्भोगप्रवर्तनमप्रकृतरसत्वाद्विरसम् ॥

“अप्रस्तुतेति” । अप्रस्तुतः प्रस्तावमन्तरेण सूचिचो रसो यत्र तत्तथा । एकरसप्रक्रमे हि विरोधिरसान्तरप्रस्ताव एव क्रियमाणो नौचित्यवान् । न चौचित्यम- न्तरेण रसस्य पदसम्बन्धः सम्भवति । यदाह—‘अनौचित्यादृते नास्ति रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥’ इति । तव वनवास इत्यादौ पितृमरणानुभवप्राप्तशोकप्रकर्षायाः शृङ्गारप्रस्तावना विरसायते । सा हि स्वभावत एव करुणेन सहैकवाक्यसमावेशविरोधिनी । न चैकस्य बाध्यत्वमङ्गभावो वावगम्यते । नाप्युभयोरन्यगुणीभावोऽवगम्यते । येनायं विरोधः समाधीयताम् । युक्तिरत्र विदग्धैव । अर्थस्तु रसात्माविरोधेन पदं बध्नाति ततः कान्तिविपर्ययाद्भेदः । न च करुणोक्तिरुपक्रान्ता यतस्तदनिर्वाहे खेदसम्भावना स्यात् । किन्तु पितृमरणशुचं जहीहीत्यनेन शोकाविष्टायां शृङ्गारप्रस्तावना । तथा च भिन्नमेव दुष्टताबीजं तदेतत्सर्वमपि सन्धाय व्याचष्टे—अत्रेति ॥

इदानीमनौचित्यरूपदूषणप्रस्तावः । अर्थालङ्कारेषूपमाप्रधानमिति प्रसिध्द्या तस्यामेवोपलक्षणतयानौचित्यं प्रपञ्चयति—

हीनं यत्रोपमानं स्यात्तत्तु हीनोपमं स्मृतम् ।

यथा—

‘क्वचिदग्रेऽप्रसरता क्वचिदाप्लुत्य निघ्नता ।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषत्कुलम् ॥ ६० ॥’

अत्र शौर्यशालिनः शुनोपमितत्वाद्धीनोपममिदम् ॥

“हीनमित्यादि” । हीनमपकृष्टमसज्जातीयमुपमानमित्युपमानप्रसिद्धा विशेषा उपमेये प्रतिबिम्बकल्पाश्च प्रतीयन्त इत्युक्तम् । उत्कृष्टजातीयस्योपमेयस्य हीनजातीयेन सामान्यमभिधीयमानं शाब्दन्यायेन बोधयदनुचितमेव भवति । यथा—‘रणाश्वमेधे पशुतामुपागताः’ इति । नन्वत्र रूपकबलेन वर्णनीयस्य पशुतावगम्यत इति युक्तमनौचित्यम् । क्वचिदग्र इत्यादौ प्रकृतोदाहरणे तु कथम् । नह्यत्र प्रस्तुतोपश्लोकस्य सारमेयतावगम्यते अग्रे प्रसरणमाप्लुत्य निहननं च सादृश्यमुपात्तमुचितमेवेति नैतत् । तत्त्वप्रतिबिम्बे सादृश्यप्रतीतिरपि शब्देन क्रियमाणा लोके कान्तिं प्रति पुष्णाति । न हि कदापि हीनेन सादृश्योक्तौ वर्णना सजीवा प्रतीयते । प्रतीतिमात्रपरमार्थं च काव्यदर्शनमिति ॥

तदेव यस्मिन्नधिकं तद्भवेदधिकोपमम् ॥ ५१ ॥

यथा—

‘अयं पद्मासनासीनश्चकवाको विराजते ।
युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥ ६१ ॥’

अत्र चक्रवाकस्य जगत्स्रष्ट्रा ब्रह्मणोपमितत्वादधिकोपममिदम् ॥

“तदेवेति” । हीनेनोत्कृष्टं यथा नोपमीयत इति लोकमर्यादा तथोत्कृष्टेन हीनम् । तथा हि—चक्रवाकोपमितिमनुसन्दधतां विशेषावगतिविधुराणां च सहृदयानां प्रतीतिः स्खलन्ती जनयत्येव वैरस्यमिति सूक्ष्मेक्षिकया दूषणम् ॥

इदमपरमायातमनौचित्यं यत्सादृश्यबुध्द्या निबन्धेऽप्यसादृश्यपर्यवसानमित्याह—

‘यदतु’ इति मूलपुस्तकपाठःयत्त्वत्तुल्योपमानं तद्वदन्त्यसदृशोपमम् ।

यथा—

‘णमह हरं रोसाणलणिद्दद्धमुद्धमम्महसरीरम् ।
वित्थअणिअम्बणिग्गअगङ्गासोत्तं वं हिमवन्तम् ॥ ६२ ॥’

[नमत हरं रोषानलनिर्दग्धमुग्धमन्मथशरीरम् ।
विस्तृतनितम्बनिर्गतगङ्गास्रोतसमिव हिमवन्तम् ॥]

अत्र कोपानलनिर्दग्धमुग्धमन्मथशरीरस्य हरस्य नितम्बनिर्गतस्रोतसा हिमवद्गिरिणा सहासादृश्यादिदमसन्दृशोपमम् ॥

“यत्त्विति” । यद्यपि बलवत्त्वादिना प्रतीयमानं हिमवद्भगवतोरस्ति सादृश्यम्, तथापि वाच्योपमाभ्रमेणायं निबन्धः, सा च न सम्पन्ना, नहि रोषेण विदग्धमन्मथशरीरदाहो विस्तृतनितम्बनिर्गतगङ्गास्रोतःप्रतिबिम्बभूतः । धातुरङ्गरञ्जितो गङ्गाप्रवाहोऽभिमतस्य भवति ललाटनेत्राग्निज्वालाप्रतिबिम्बमित्यपि न वाच्यम्, येनान्धत्वप्रसङ्गात् । नितम्बसम्बन्धोक्तिश्च न सङ्गता स्यात् । कथं च मन्मथशरीरदाहः प्रतिबिम्बायत इत्याशयेन व्याचष्टे—अत्रेति । विशेषणयोर्बिम्बप्रतिबिम्बभावाभावे विशिष्टयोरुपमानं सम्भवतीति मत्वा विशेषणद्वयमदोषायैवेति व्याख्यातवान् ॥

इदानीं कविसमयबहिर्भूतत्वेनोपमानौचितीमाह—

अप्रसिद्धोपमानं यदप्रसिद्धोपमं हि तत् ॥ ५२ ॥

यथा—

‘कुमुदमिव मुखं तस्या गौरिव महिषः शशीव काव्यमिदम् ।
शरदिव विभाति तरुणी विकसितपुलकोत्करा सेयम् ॥ ६३ ॥’

अत्र कुमुदमुखयोर्गोमहिषयोः काव्यशशिनोश्च प्रतीयमाने शरत्तरुण्योश्च विधीयमाने सादृश्ये उपमानोपमेयस्याप्रसिद्धत्वादप्रसिद्धोपममिदम् ॥

“अप्रसिद्धेति” । कमलमुखयोरिव कुमुदमुखयोर्गोगवययोरिव गोमहिषयोः काव्यशब्दयोरिव काव्यशशिनोरस्ति सादृश्यं सौरभादिकमेवानुपात्तमपि प्रसिद्धतया प्रतीयमानम् । शरत्तरुण्योस्तु न तथा प्रसिद्धमिति विकसितपुलकाङ्कुरा भातीत्येताभ्यामुपात्तम् । पुलक इवाङ्कुरा इति तत्राशयात् । विशिष्टभानस्य च द्वयानुगतत्वेनैव प्रतीयमानत्वात्तथापि पद इवालङ्कारेऽपि कविभिरप्रयुज्यमानत्वमेव दोष इति व्याचष्टे—अत्रेति । प्रतीयमान इति । इवशब्दस्य द्योतकमात्रत्वात् । अभिधीयमानं व्याख्यातम् ॥

वक्रताविशेषविशिष्टस्यैवार्थस्य काव्यकोटिनिवेशादवक्रो हेय इत्याह—

यदलङ्कारहीनं तन्निरलङ्कारमुच्यते ।

यथा—

‘कोला खणन्ति मोत्थं, गिद्धा खाअन्ति मउअमंसाइं, ।
उलुआ हणन्ति काए, काआ उलुए वि वाअन्ति ॥ ६४ ॥’

[कोलाः खनन्ति मुस्ताः(न्), गृध्राः खादन्ति मृतकमांसानि ।
उलूका ध्नन्ति काकान्, काका उलूकानपि वायन्ति ॥

अत्र कोलादेः खरूपाद्यनभिधानाज्जात्याद्यलङ्कारासम्भवे निरलङ्कारनामायं वाक्यार्थदोषः । सविशेषणाद्गोरपत्यमित्यादेर्वाक्यदोषाद्भिद्यते ॥

“यदिति” । वक्रताव्यतिरेकेऽलङ्कारसामान्यमेव न स्यदिति निरलङ्कारमित्युक्तम् । वायन्ति क्षिपन्ति खादन्ति । ‘वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु’ इति धात्वनुसारात् । नन्वस्ति कोलादिस्वरूपमत्र । ततो जात्यलङ्कारेण वक्रत्वमाक्षिप्यते । विशेषस्य च सामान्यमान्तरीयकत्वात्कथमुच्यते निरलङ्कारमित्यत आह—अत्रेति । स्वं रूपं चमत्कारकारि कविप्रतिभामात्रप्रकाशनीयं रूपं तदेवालङ्कारकक्षामधिशेते । न चात्र तथा किञ्चिदभिहितमतो न जात्यलङ्कारः । एवमन्योऽप्यलङ्कारो नास्ति । कथं तर्हि वक्रताभावरूपदीर्घपुच्छ इत्यादेः शब्ददोषाद्भिद्यते तदाह—सविशेषणादिति । तत्र विशेषणप्रयोगे शब्दानामेव वक्रताव्यतिरेकेणापवाद इति शब्ददूषणमिह तु न तथा । किं तूक्तमेव स्वरूपं न वक्रमिति वाक्यार्थ एव दुष्टः ॥

अश्लीलमिति निर्दिष्टमश्लीलार्थप्रतीतिकृत् ॥ ५३ ॥

यथा—

‘उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः ।
पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः ॥ ६५ ॥’

अत्रोद्यतस्य परं हन्तुमिति सम्भोगारम्भविषया, स्तब्धस्य विवरैषिण इति वराङ्गविषया, पतनं जायतेऽवश्यमिति रेतोविसर्गविषया, कृच्छ्रेण पुनरुन्नतिरिति नष्टरागप्रत्यानयनविषया अश्लीलवाक्यार्थविषया प्रतीतिर्भवति ॥

“अश्लीलमिति” । उद्यतस्येति । परमन्यं हन्तुमुद्यतस्य विवरैषिण इति प्रमादकृतावधानस्य स्तब्धस्यात्मन्युत्कर्षाभिधानेनान्यानवधीरयतः पतनमावश्यकमुद्गमः कृच्छ्रादिति संसर्गोऽभिमतः । एषामेव पदार्थानां संसर्गान्तरमश्लीलमेवेत्याह—अत्रोद्यतस्येति । एतेन पददोषाद्भेद उक्तः ॥

देशकालादेः काव्याङ्गत्वात्तद्विरोधेनार्थो दुष्टः । विरोधश्च बाधः । स प्रमाणेनैव ततो लोकादिविरोधस्यालङ्कारसमयसिद्धस्य प्रमाणविरोधपर्यवसायित्वं विवक्षन्नाह—

विरुद्धं नाम तद्यत्र विरोधस्रिविधो भवेत् ।
प्रत्यक्षेणानुमानेन तद्वदागमवर्त्मना ॥ ५४ ॥

यो देशकाललोकादिप्रतीपः कोऽपि दृश्यते ।
तमामनन्ति प्रत्यक्षविरोधं शुद्धबुद्धयः ॥ ५५ ॥

तत्र देशविरोधो यथा—

‘सुराष्ट्रेष्वस्ति नगरी मथुरा नाम विश्रुता ।
अक्षोटनारिकेराढ्या यदुपान्ताद्रिभूमयः ॥ ६६ ॥’

अत्र सुराष्ट्रेषु मथुरा नास्ति । तत्पर्यन्तादिभूमिषु चाक्षोटनारिकेराणामभावात् । देशेऽद्रिवनराष्ट्रादिरित्ययं देशकृतः प्रत्यक्षविरोधः ॥

“विरुद्धमिति” । तत्र देशकालादौ प्रत्यक्षत एव वर्ण्यमानस्याभावो निश्चीयते इति देशादिविरोधः प्रत्यक्षविरोधः । शूरसेनेषु मथुरा न सुराष्ट्रेषु । तत्पर्यन्तभूमिष्वक्षोटा नालिकेरा वा न सम्भवन्ति । अद्रीणां कथं देशत्वमित्यत आह—देशोऽद्रिवनराष्ट्रादिरिति ॥

कालविरोधो यथा—

‘पद्मिनी नक्तमुन्निद्रा स्फुटत्यह्नि कुमुद्वती ।
मधुरुत्फुल्लनिचुलो निदाघो मेघदुर्दिनः ॥ ६७ ॥’

अत्र पद्मिन्या नक्तं कुमुद्वत्या अह्नि मधौ निचुलानामुन्निद्रत्वाद्यभावान्निदाघस्य चामेघदुर्दिनत्वात् । कालो नक्तं दिनर्तव इति कालकृतोऽयं प्रत्यक्षविरोधः ॥

“पद्मिनीति” । नक्तं रात्रौ । मधुर्वसन्तः । निचुला हिज्जलाः । ते वर्षासु पुष्प्यन्ति न वसन्ते । यद्यपि कालस्वरूपमप्रत्यक्षं तथापि तदुपाधीनां व्यवहाराङ्गतेव प्रत्यक्षता चेत्याह—कालो नक्तं दिनर्तव इति ॥

लोकविरोधो यथा—

‘आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः ।
गुरुसारोऽयमेरण्डो निःसारः खदिरद्रुमः ॥ ६८ ॥’

अत्र हस्तिहयैरण्डखदिराणां केसरादिसद्भावस्य प्रत्यक्षेणानुपलम्भात् । जङ्गमस्थावरो लोक इति लोककृतोऽयं प्रत्यक्षविरोधः ॥

“आधूतेति” । अन्ते प्रत्यक्षविरोधशब्दार्थं व्याचष्टे—प्रत्यक्षेणानुपलम्भादिति । कथमयं लौकिकविरोध इत्यत आह—जङ्गमेति । जङ्गमस्थावरं जीवच्छरीरं लोकः । तत्र जङ्गमं गावाश्वादि स्थावरं लतावृक्षादि राष्ट्रादावेव देशपरिभाषा इदं प्रकारान्तरेण देशशब्देनाभिधीयते ॥

युक्त्यौचित्यप्रतिज्ञादिकृतो यस्त्विह कश्चन ।
अनुमानविरोधः स कविमुख्यैर्निगद्यते ॥ ५६ ॥

तत्र युक्तिविरुद्धं यथा—

‘सुरहिमहुपाणलम्पडभमरगणाबद्धमण्डलीबन्धम् ।
कस्स मणं णाणन्दइ कुम्मीपुट्ठट्ठिअं कमलम् ॥ ६९ ॥’

[सुरभिमधुपानलम्पटभ्रमरगणाबद्धमण्डलीबन्धम् ।
कस्य मनो नानन्दयति कूर्मीपृष्ठस्थितं कमलम् ॥]

अत्र कूर्मीपृष्ठे कमलोद्गतेरयुक्तियुक्तत्वाद्युक्तिविरुद्धमिदम् ॥

“युक्तीति” । सामान्यतस्तावदनुमानविरोधो यत्प्रमाणाभावः । नहि प्रमेयाभावे प्रमाणं प्रसिद्धम् । तदयमर्थो युक्तिः प्रमाणम् । आधूतकेसरेत्यादौ उदाहरणे क्वचिदेव व्यक्तिविशेषे केसरादिसम्बन्धप्रतिपादनं कथमन्यथा तेषामेरण्डं निर्दिशति । ततो भवति प्रत्यक्षेणैव विरोधः । इह तु न तथा । नहि विशेषतः कापि कूर्मपृष्ठव्यक्तिरस्तीति सामान्याकारेण विवक्षितम् । ततश्च कमलजातेः पङ्कजप्रभवाया एव निश्चयात्कूर्मपृष्ठादुद्गमे न कश्चित्प्रमाणं कदापि कस्याप्यवतरतीत्याशयवान् व्याचष्टे—अत्रेति । अयुक्तियुक्तत्वादिति । युक्तेः प्रमाणत्वेनासम्बद्धत्वादित्यर्थः ॥

औचित्यविरुद्धं यथा—

‘पट्टंसुउत्तरिज्जेण पामरो पामरीऍ परिपुसइ ।
अइगरुअकूरकुम्भीभरेण सेउल्लिअं वअणम् ॥ ७० ॥’

[पट्टांशुकोत्तरीयेण पामरः पामर्याः प्रोञ्छति ।
अतिगुरुककूरकुम्भीभरेण स्वेदार्द्रितं वदनम् ॥]

अत्र पामरस्य पट्टांशुकोत्तरीयाभरणानौचित्याद् औचित्यविरुद्धमिदम् ॥

“औचित्यविरुद्धमिति” । औचित्यं योग्यता तस्य पराभृश्यमानस्य विवक्षितविपरीतपर्यवसानमन्योऽनुमानविरोधः । तथा हि—पट्टांशुकोत्तरीयेण पामरः पामर्या प्रोञ्छति । अतिगुरुककूरकुम्भीभरेण स्वेदार्द्रितं वदनमित्यत्र पूर्ववत्सम्बन्धग्राहकप्रमाणाभावः । कदाचिद्राजप्रसादादिना तथा सम्भवात् । किं तु पामरौचित्यप्रतिसन्धाने पट्टांशुकावगुण्ठनमनुचितम् । विदग्धनेपथ्यपरिग्रहादिनागरवृत्तापरिचय एव पामरत्वम् । ततश्चायमर्थो भवति—पट्टांशुकसम्बन्धायोग्येयं पामरत्वादिति । कूरं भक्तम् । कुम्भी कलशी ॥

प्रतिज्ञाविरुद्धं यथा—

‘यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता ।
माता च मम वन्ध्यासीत्स्मराभोऽनुपमो भवान् ॥ ७१ ॥’

अत्र स्वयं वक्तुरेव ‘यावज्जीवमहं मौनी’ इत्यादिपदानामुक्त्या प्रतिज्ञाविरोधात्प्रतिज्ञाविरुद्धमिदम् ॥

“प्रतिज्ञाविरुद्धमिति” । अभ्युपगमवाक्यं प्रतिज्ञा । यथा—‘यद्यदादिशति स्वामी तत्करोम्यविचारयन्’ इति । साध्यनिर्देशश्च—‘अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥’ इति । द्वयमपि प्रतिज्ञापदेनाभिमतम् । तत्राद्ये ‘यावज्जीवमहं मौनी’ इत्युदाहरणम् । अव्याहारो मौनम् । तदभ्युपगमवाक्येनैव बोध्यते । तथा हि—नायं मौनी वचनवत्त्वादित्यभ्युपगम्य मौनाभावपर्यवसन्नमिति तृतीयोऽयमनुमानविरोधः । द्वितीयपक्षकक्षीकरणेन चतुर्थोदाहरणे ‘ब्रह्मचारी च मे पिता, माता च मम वन्ध्या’ इति वक्ता यस्यौरसः सुतः स पितृपदेनाभिमतो न च तस्य ब्रह्मचारित्वं सम्भवति । माता जनन्येवाभिधीयते न च तस्या वन्ध्यात्वं सम्भवति । परस्परव्याघातो विरोधः । अयं च पञ्चमप्रकारो यद्व्यापकद्वारा विरोधः । यथा—स्मराभोऽनुपम इति । नहि स्मराभत्वं लोके प्रसिद्धं कितु स्मरतुल्यतां वदन् सोपमानत्वमभ्युपगच्छति । तच्चानुपमत्वेन विरुद्धम् । ततो व्यापकविरोधोऽयम् । यथा—वह्निरनुष्ण इति । आदिग्रहणाद्दृष्टान्तद्वारकोऽनुमानविरोधः सङ्गृहीतः ॥

धर्मार्थकामशास्त्रादिविरोधः कोऽपि यो भवेत् ।
तमागमविरोधाख्यं दोषमाचक्षते बुधाः ॥ ५७ ॥

तेषु धर्मशास्रविरोधो यथा—

‘असावनुपनीतोऽपि वेदानधिजगे गुरोः ।
स्वभावशुद्धस्फटिको न संस्कारमपेक्षते ॥ ७२ ॥’

अत्रानुपनीतस्य वेदाध्ययनानधिकाराद्धर्मशास्रविरोधः ॥

“धर्मार्थेति । वेदाध्ययनानधिकारादिति” । ‘अकृतव्रतबन्धे तु गुरावुपरते सति । नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते ॥’ इति धर्मशास्रम् ॥

अर्थशास्रविरोधो यथा—

‘कामोपभोगसाकल्यफलो राज्ञां महीजयः ।
अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रिया ॥ ७३ ॥’

अत्र महीजयस्य फलत्वेन कामोपभोगानामर्थशास्रकारैरननुमतत्वाच्छत्रुविजये चाहङ्कारस्याहेतुत्वादर्थशास्रविरोधः ॥

“कामेति । अत्र महीजयस्येति” । महीजयस्य धर्मः फलमिति नीतिशास्रे स्थितम् । अहङ्कारो मानः स न शत्रुविजये साधनम् । अरिषङ्वर्गत्यागे हीन्द्रियजयः । तथा विजिगीषुता । तया च शत्रुपरिभव इति । यदाह—स रघुराष्ट्रो विललास इत्युपक्रम्य कौटिल्याचार्यः मानाद्रावणः परदारानप्रयच्छन् दुर्योधनो राज्यांशं चेति ॥

कामशास्रविरोधो यथा—

‘तवोत्तरोष्ठे बिम्बोष्ठि दशनाङ्को विराजते ।
पूर्णसप्तस्वरः सोऽयं भिन्नग्रामः प्रवर्तते ॥ ७४ ॥’

अत्रोत्तरोष्ठे दशनाङ्कस्य कामशास्रकारैरननुज्ञानात्कामशास्रविरोधः । भिन्नग्रामाणां च पूर्णसप्तस्वरत्वानुपपत्तेः । कलाविरोधेऽपि तदंशत्वात्कामशास्रविरोध एव ॥

“तवेति” । अत्रोत्तरोष्ठ इत्युपरितन ओष्ठ उत्तरोष्ठमन्तरमुखं नयनान्तं च मुक्त्वा चुम्बनवद्दशनच्छेद्यस्थानानीति कामसूत्रम् । भिन्नग्रामरागाणामिति । भिन्नमार्गेषु सप्तस्वराणां समवायो नोपनिबद्धः । तथा च ‘प्रांशुस्तु धैवतन्यासः पञ्चमर्षभवर्जितः । षड्जो दीव्यतां जा(या)तो भिन्नषड्ज उदाहृतःऽ । तमङ्गोऽप्याह—‘षाडवौडविके जाती भिन्नग्राम उदाहृतः’ इति । ततश्च षड्वा पञ्च वा स्वरा भवन्ति भिन्नग्रामे न तु सप्त । कामशास्रविरोधप्रस्तावे कथं कलाविरोध उदाह्रियत इत्यत आह—तदंशत्वादिति । गीतादिकलाचतुःषष्टेः कामाङ्गतया कामसूत्रकारैरुपदेशाद्भवति तद्विरोधे कामशास्रविरोध इत्यर्थः । आदिग्रहणाद्देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसम्पदेत्यादिकं मोक्षादिशास्त्रविरुद्धमुदाहरणीयम् ॥

दोषाणां प्रथममुद्देशोऽयमभिसन्धाय कृतस्तं विशेषसंहारव्याजेन स्फुटयति—

एवं पदानां वाक्यानां वाक्यार्थानां च यः कविः ।
दोषान्हेयतया वेत्ति स काव्यं कर्तुमर्हति ॥ ५८ ॥

अलङ्कृतमपि श्रव्यं न काव्यं गुणवर्जितम् ।
गुणयोगस्तयोर्मुख्यो गुणालङ्कारयोगयोः ॥ ५९ ॥

त्रिविधाश्च गुणाः काव्ये भवन्ति कविसम्मताः ।
बाह्याश्चाभ्यन्तराश्चैव ये च वैशेषिका इति ॥ ६० ॥

बाह्याः शब्दगुणास्तेषु चान्तरास्त्वर्थसंश्रयाः ।
वैशेषिकास्तु ते नूनं दोषत्वेऽपि हि ये गुणाः ॥ ६१ ॥

चतुर्विंशतिराख्यातास्तेषु ये शब्दसंश्रयाः ।
ते तावदभिधीयन्ते नामलक्षणयोगतः ॥ ६२ ॥

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिस्तथा कान्तिरुदारत्वमुदात्तता ॥ ६३ ॥

ओजस्तथान्यदौर्जित्यं प्रेयानथ सुशब्दता ।
तद्वत्समाधिः सौक्ष्म्यं च गाम्भीर्यमथ विस्तरः ॥ ६४ ॥

सङ्क्षेपः सम्मितत्वं च भाविकत्वं गतिस्तथा ।
रीतिरुक्तिस्तथा प्रौढिरथैषां लक्ष्यलक्षणे ॥ ६५ ॥

तत्र

गुणः सुश्लिष्टपदता श्लेष इत्यभिधीयते ।

यथा—

‘उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ७५ ॥’

अत्र भिन्नानामपि पदानामेकापदताप्रतिभासहेतुत्वेन सन्दर्भस्य सुश्लिष्टत्वादयं श्लेषो नाम शब्दगुणः ॥

“एवमिति” । तदेवं दोषलक्षणे वृत्ते क्रमप्राप्ता गुणा लक्षयितव्याः । तदेवमोजः प्रसादादयो गुणाः । यमकादयस्त्वलङ्कारा इति पूर्वप्रसिद्धौ सत्यां विचार्यते । किमेषां मिथो भेदनिबन्धनम्, कथं चालङ्कारेभ्यो गुणानां पूर्वनिपातः, रसस्य हि दोषाभावादित्रयसंस्कृत एव पदलाभ इत्यस्ति पश्चाद्भावे निबन्धनमिति तत्राह—अलङ्कृतमपीति । रसावलम्बिनो गुणाः, शब्दार्थावलम्बिनस्त्वलङ्कारा इति काश्मीरकाः । तदगमकम् । तथा हि—यदि काव्यस्य रसप्रधानात्मकतामाश्रित्यायं विभागः, अलङ्कारा अपि तर्हि तत्प्रवणा एव । अथ नायं नियमो यत्सर्वत्र रसः प्रधानमिति, तदात्र गुणेष्वपि कथं तदालम्बननियमः । किं चात्र प्रसादादिवत् श्लेषादयोऽपि शब्दार्थगता एव प्रत्यभिज्ञायन्ते तत्कथमयं विभागः । यद्यपि शब्दार्था ज्ञायन्ते, तथापि रसप्रवणा इति चेत् । किमिदं रसप्रवणत्वं, रसाश्रितत्वं तावन्न सम्भवत्येव । रसप्रतीतिपर्यवसानं च यथाकथञ्चिदलङ्कारेष्वपि तुल्यमित्यविचारितरमणीयोऽयं मार्गः । लोकशास्त्रवचनातिगामी कश्चिद्विशेषः शोभापदाभिलप्यो भवन्नस्मिञ्श्रव्यशब्दः शब्दार्शौ विषयीकरोति । ततश्च तथाभूतशोभानिष्पत्तिहेतवो गुणास्तदुत्कर्षहेतवस्त्क्लङ्काराः । यदाह—‘काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराः’ इत्यन्ये, तदपि न । अस्य रसादिवदव्याप्तेः । नहि तेषां रीतिशरीरान्तर्निवेशः कैश्चिदभ्युपगम्यते, तस्मादालङ्कारिकसमयानुपाती श्लेषाद्यन्यतमो गुणः । जात्याद्यन्यतमश्चालङ्कार इति विभागः । तत एव च शोभाकारित्वेन गुणानामप्यलङ्कारपक्षनिक्षेपं करिष्यति । उद्भूतगुणं तु स्फुटालङ्कारहीनमपि चमत्कारमावहत्येव । यथा—‘का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥’ यतो गुणयोगो मुख्यस्ततः प्रथममुद्दिष्टो लक्षितश्चैषः । सामान्यगुणस्थितौ गुणा-न्विभजते—त्रिविधाश्चेति । शब्दः शरीरस्थानीयोऽधिष्ठेयतया प्रथमप्रतिसन्धेयतया च बाह्यः । ततस्तदाश्रिता गुणा अपि बाह्याः । अर्थस्त्वात्मतुल्योऽधिष्ठायकतया पश्चाद्ग्रह्यतया चान्तरस्तेन तदाश्रिता गुणा अप्यान्तराः । अथेदानीं येषामग्रे दोषत्वं ततो गुणभावः । केचिद्विशेषमासाद्यन्ते वैशेषिकाः । पूर्वं दोषा अपि विशेषयोगेन गुणीभवन्तीत्यभिप्रायात् । ‘माधुर्यौजःप्रसादास्त्रय एव गुणाः’ इति ध्वनिकारस्य मतं निरस्यति—चतुर्विंशतिरिति । परस्परसङ्कीर्णत्वादुपाधीनामिति भावः । न चैतदस्माकं मनीषामात्रेण कल्पनमित्याह—आख्याता इति । निष्ठाप्रत्ययेनेदम्प्रथमता द्योत्यते । उक्तविशेषादेव शब्दगुणानां पूर्वभाव इत्याह—तेष्विति । अभिधानं द्विविधं विभागतः, लक्षणतश्चेत्याह—नामलक्षणयोगत इति । पदघटनव्यवस्थितौ गुणान्तरगवेषणम् । अतः प्रथमं श्लेषलक्षणमाह—तत्रेति । श्लिष्टानि घटितानि पदानि यत्र तस्य भावस्तत्ता । न च घटनामात्रस्य गुणभाव इति शङ्क्यम् । सुपदं शोभना घटनेत्यर्थः । शोभनत्वं घटनाया मसृणत्वमेकताप्रतिभानसामर्थ्यं यद्ब्रह्मं सूत्रमुरःस्थल इति । बीजं चात्र श्रुत्यनुप्रासवत्त्वमलक्षितसन्धिता च । तथा हि प्रकृतोदाहरणे उभावित्युकारभकारावोष्ठ्यौ । यदि ‘व्य’ इत्याद्यन्तौ वकारयकारौ तालव्यौ । न चायं वर्णानुप्रासः । ईषत्स्पृष्टत्वादिभेदात् । मध्ये दकारवकारौ दन्त्योष्ठ्यौ । ‘म्नि’ इत्यत्र मकारो भकारेण, नकारो दकारेण समानश्रुतिक इत्यादि बोद्धव्यम् । तथा ‘पृथक्प्रवाहौ’ इति ककारस्य पवर्गगमनैकता प्रतिभासते, ‘प्रवाहावाकाश’ इत्यौकारस्यावादेशेन वर्णान्तरनिष्पत्त्या । एवं ‘पयसः पतेताम्’ इत्यादावुन्नेयम् । पृथगिति पार्श्वद्वये । तेन वक्षःस्थलदक्षिणवामभागयोर्लम्बमानो द्विसरो हार इति लभ्यते । अस्य वक्ष इति । अत्रास्येति पदेन नान्यस्य हार इत्थमनुपमो न चान्यस्य वक्षःस्थलमाकाशवदुन्नतविस्तीर्णमिति भगवतः सकलजगद्विलक्षणत्वध्वनिरित्याराध्याः ॥

प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते ॥ ६६ ॥

यथा—

‘गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ ७६ ॥’

अत्र ‘गाहन्तां महिषा निपानसलिलम्’ इत्यादिप्रसिद्धार्थपदोपादानात्प्रसादः ॥

“प्रसिद्धार्थेति” । अस्यार्थः प्रागेव विवृतः । प्रसादो द्विधा—वाच्यविषयः, प्रतीयमानविषयश्च । तत्र प्रतीयमानविषयो यथा—‘एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥’ अत्र श्रुतावगतादेव वाक्याल्लज्जादयो हस्तदत्ता इव प्रकाशन्ते ॥ वाक्यविषयो द्विधा भवति । ग्राम्यैरेव ग्राम्य उपनागरैर्वा, पदैः सन्दर्भनिर्वाहे । आद्यो यथा—‘चन्द्रे कलङ्कः सुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला । मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम् ॥’ द्वितीयमुदाहरति—गाहन्तामिति । अत्र प्रथमपादे गाहन्तां महिषा इति ग्राम्यम् । निपानसलिलमित्युपनागरम् । शृङ्गैरिति ग्राम्यम् । मुहुरित्युपनागरम् । ताडितमिति ग्राम्यम् । द्वितीयपादे कदम्बकरोमन्थशब्दावुपनागरौ शेषाणि ग्राम्याणि । एवं च चरमयोरपि स्वतो विवेचनीयम् । गाहनं विलोडनं तन्निःशङ्कमेव भवतीति विस्रम्भध्वनिः । अत एव त्रासाभावात्प्रकृतिप्रत्यापत्तौ । शृङ्गाभ्यां पर्यायेण जलताडनं महिषजातिः । छायाश्रयणं यूथबन्धश्च मृगजातिः । चिरपरस्परवार्तानभिज्ञानाद्दिवा निष्पलायनेन रोमन्थोऽपरिचित इवासीत्तस्येदानीं शिक्षाक्रमेण यदि परिचयः स्यादित्यभ्यस्यत्विति ध्वनिः । वराहपतिभिरिति न यादृशतादृशानामस्मन्मृगयासंरम्भगोचरत्वमिति प्रकाश्यते । ननु चात्र कर्तृप्रक्रमभेदो दूषणं कस्मान्न भवति । नैतत् । आपातशौण्डेषु परिणतिभीरुषु च महिषेषु स्वभावभीतेषु मृगेषु न तथायं संरम्भते यथा पुनरावृत्तिचतुरेषु प्रकारकोविदेषु च वराहेषु । ततश्च तेषामुचितक्रियासु कर्तृतामात्रमेव न सोढवानिति साम्प्रतं कर्तृताभ्यनुज्ञानेन व्यज्यते । ततस्तृतीयायामौचित्यनिवेशिन्यां प्रक्रमभेदोऽप्युचित एवेति व्यक्तिविवेककारादीनामपि सम्मतः पन्थाः । इदं चेति चकारेण चेदस्मद्धनुरारूढमवतीर्णं वा तदैव संरम्भगोचराणां भयविस्रम्भाविति कोपप्रकर्षः । अत एवास्मदिति बहुवचनं सजीवम् ॥

यन्मृदुप्रस्फुटोन्मिश्रवर्णबन्धविधिं प्रति ।
अवैषम्येण भणनं समता साभिधीयते ॥ ६७ ॥

यथा—

‘यच्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटापटले हरस्य ।
तद्वः पुनातु हिमशैलशिलानिकुञ्ज- झाङ्कारडम्बरविरावि सुरापगाम्भः ॥ ७७ ॥’

अत्रोपक्रमादासमाप्ति स्फुटबन्धस्य निर्वाहात्समत्वम् ॥

“यदिति” । प्रतीत्यन्तेन मार्गो व्याख्यातः । अवैषम्येण भणनमित्यनेन वाग्भेदः स्वरेषु ह्रस्वान्त्याः, व्यञ्जनेषु वर्गान्त्या दन्त्याश्च मृदवः कोमला वर्णाः । दीर्घाः स्वराः व्यञ्जनेषु णकारवर्जटवर्गरेफशषहा अदन्त्यसंयोगाश्च प्रस्फुटाः । शेषाणि व्यञ्जनानि दन्त्यसंयोगाश्चोन्मिश्रमध्यमा वर्णास्तेषामन्यतमैर्वर्णैर्यो बन्धनविधिस्तं प्रति यदवैषम्येण उपक्रमनिर्वाहादिना करणेन भणनमुक्तिः सा समता । न चेयं दोषाभावमात्रमेकजातीयवर्णपरिचयप्रबन्धप्रवेशनिर्वाहाणां सिद्धिः शक्तिव्युत्पत्तिरूपतया प्रधानोत्कर्षपर्यवसानात् । न च दोषाभावस्यैवंरूपता केनचित्प्रतिषिद्धा । अत एव श्लेषप्रसादयोरपि गुणभावः सिद्धः । ननु ‘रक्ताशोककृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं शिरः । उत्कण्ठाघटमानषट्पदघटासङ्घट्टदष्टच्छदस्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गभोऽयं कुतः ॥’ इत्यत्र वैषम्यं दोष एव स्यात् । न ह्यत्र मुक्तस्थाने स्फुटता । तस्माद्यत्किञ्चिदेतत् । तदेवं निर्वाह्यत्रैविध्यात्समता त्रिरूपा भवति ग्राम्या परुषा उपनागरिका च । तत्रोन्मिश्रप्रायसन्दर्भनिर्वाहे ग्राम्या । यथा—‘पुरः पाण्डुच्छायं तदनु कपिलिम्ना कृतपदं ततः पाकोद्रेकादरुणगुणसंवर्धितवपुः । शनैः कोशारम्भे स्थपुटनिजविष्कम्भविषमे वने पीतामोदं वदरमरसत्वं कलयति ॥’ परुषा यथा—यच्चन्द्रेति । बालेन्दुमयूखमुकुलजालनिचुलितासु परमेश्वरजटावल्लरीपु भ्रमणाध्यासादिवाद्यापि हिमाद्रिकुञ्जेषु झाङ्कारिगङ्गाम्भ इति प्रतीयमानोत्प्रेक्षा । उपनागरिका यथा—‘वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घां विरहव्यथां व्यनक्ति ॥’ अत्रास्मत्सहाध्यायिनः पूर्वार्धमेवोपनागरिकोदाहरणं मन्यन्ते । उत्तरार्धे हि विष्केत्यादिवर्णनिवेशनादुन्मिश्रत्वमेव । इयमपरोन्मिश्रा सन्दर्भजातिर्यत्कोमलकठोरवर्णतुल्यतया निर्वहणमिति ॥

या पृथक्पदता वाक्ये तन्माधुर्यमिति स्मृतम् ।

यथा—

‘स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥ ७८ ॥’

अत्र पदेषु संहिताभावात्पृथक्पदत्वेन माधुर्यम् ॥

“या पृथगिति” । पृथगिव पदानि यत्र भासन्ते स पृथक्पदः सन्दर्भ इत्युपमागर्भो बहुव्रीहिश्च । तस्य भावस्तत्ता । माधुर्यमुक्तस्वरूपं तच्छब्दगतं पृथक्पदतयाविच्छिद्यत इति । तदेव माधुर्ययुक्तम् । औचित्येन हि समासव्यतिरेक आकृष्यते कदाचिदनुद्धतो वा समासः । अनुद्धतिरनुल्लेखः । तदुक्तम्—‘अवृत्तिर्मघ्यवृत्तिर्वा माधुर्ये घटना तथा’ इति । अत एव ‘समासनिवृत्तिपरमेतत्’ इति वामनः । कश्चित्समासो रसौचित्येनाकृष्टः परिभाव्यमानो मनीषिभिश्चमत्कारकारणं भवति । यथा—‘तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं तत्र कलिन्दशैलतनयातीरे लतावेश्मनाम् । विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते नूनं जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ॥’ अत्र तच्छब्दो येषां विलाससम्पत्तिस्वभावलब्धप्रकर्षाणामनुभव एव साक्षीति विशेषप्राधान्यविवक्षया नसमासेनानिगमनात् । न या कापि वधूः, अपि तु गोपसम्बन्धिनी कृतगोपाचारचातुरीपराधीना । नान्यत्र नीरसप्राये क्वचन सौहार्दं किं तु विलास एव । सोऽपि न यःकश्चित्, अपि तु गोपवधूसम्बन्धीत्येवं बहूनां पिण्डीभावविवक्षया समास एवोचितः । एतावतैवाच्छेदोऽप्युचित एव । सर्वस्वायमानत्वात्तत्सम्बन्धजनितस्य विशेषस्य पृथगेवोक्तिरुचिता । राधारहःसाक्षिणामित्यत्रापि समासः पूर्ववत् । यद्यपि राधासम्बन्धस्य वैवक्षिकं प्राधान्यमिति न समासः प्रतिभासते तथापि यदन्यस्य राधारहसि निवेशः क्षम इति भावयन्सुहृदामित्यपहाय साक्षिणामित्युक्तवान् । साक्षी हि तटस्थ एव व्याप्रियते । तेनावश्यकर्तव्यसाक्षिताप्राधान्यविवक्षया सम्भवति विरोधादित्यवसेयम् । स्थिता इति । पक्ष्मावस्थानेऽधरताडने स्तनतटनिपाते वलिभङ्गस्खलने नाभिनिम्नप्नाप्तौ जलबिन्दूनां कर्तृतानिर्देशात्स्वाच्छन्द्यमुन्मीलितम् । तथा च—गौर्या बाह्यसंवेदनाभावस्तेन भगवद्गतोऽनुरागप्रकर्षः प्रथमपादेन । निदाघतापच्छिदा रजोहरणेन वसुन्धरा सौरभोन्मीलनेन मयूरकेकायितादिना त्रिभुवनस्यापि ये चमत्कारास्पदमिति ध्वनितम् । तथाभूतानामथ संवेदने पूर्व एवाभिप्रायः । ताडितेत्याकारेण च्छेदोन्मेषः पयोधरेत्यादावोकारः । धकारतकारौ ॥

अनिष्ठुराक्षरप्रायं सुकुमारमिति स्मृतम् ॥ ६८ ॥

यथा—

‘मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥ ७९ ॥’

अत्र सर्वकोमलत्वेऽसति श्लेषविपर्ययदोषशैथिल्याभावाद्बाहुल्याद्वर्णानामनैष्ठुर्यात्सौकुमार्यम् ॥

“अनिष्ठुरेति” । समस्त एव गुम्फे द्वित्राणि त्रिचतुराणि प्रस्फुटान्यक्षराणि निवेश्यन्ते स किलान्तरान्तरोपदंशन्यायेन चित्रास्वादपर्यवसायी सुकुमार इति प्राचां मतम् । अत एव समताया भेदः । भृद्वीकापाकः पुनरन्यादृशो वक्ष्यते । अनिष्ठुरे सुकुमारव्यवहारो लोके दृष्टः । मण्डलीकृत्येत्यादौ प्रथमपादे मण्डेति, कृत्येति, बर्हेति अत्र संयोगत्रयम् । द्वितीयपादे ण्ठेति, र्मेति च संयोगद्वयमुपन्यस्य गीतिदीर्घस्वरनिवेशो रूपान्तरमादाय विशेषशोभाहेतुः । तृतीयपादे केति न इति प्रनृत्यन्तीति च दीर्घविसर्गसंयोगा इति व्यन्तरम् । चतुर्थपादे दीर्घस्वरा एवान्तरान्तरेति सैव वासना । ननु अनिष्ठुराक्षरमयत्वं सुकुमारतेति वक्तव्ये प्रायशब्दः केन प्रयोजनेनेत्यत आह—अत्रेति । न चायमर्थगुणः स हि वाक्यार्थे धर्मिणि निरूप्यते । अयं तु पदसमुदाय इति युक्तं शब्दगुणेषु परिङ्गणनम् । सम्मितत्वमन्यथा भविष्यति ॥

यत्र सम्पूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ।

यथा—

‘वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ ८० ॥’

अत्र वाक्यपरिपूर्णतयार्थसमपकत्वादर्थव्यक्तिः ॥

“वागर्थाविवेति” । अत्र वन्दे इत्युत्तमपुरुषवचनेनैवाहमिति प्राप्तम् ‘अस्मद्युत्तमः’ इत्यत्र स्थानिनीत्यभिधानात् । किमिति कर्मापेक्षायां पार्वतीपरमेश्वराविति । तावपि किम्भूतावित्यतो जगतः पितराविति । तेन लक्ष्मीनारायणादिवैधर्म्येण नमस्कार्यत्वम् । एकशेषशब्देनैव मातृशब्दार्थः । स्त्रीपुंसयोरित्यौचित्याद्वागर्थाविवेति । किमर्थं नमस्कुरुत इत्यत्र वागर्थप्रतिपत्तये इति । तदेवं यादृशो यावांश्च विशेषणविशेष्यप्रकारोऽभिमतः स सर्व एव वागित्याद्युपात्तशब्दसमुदायमात्रेण निष्प्रत्यूहमवगम्यत इत्यर्थव्यक्तिशब्दार्थव्याख्यानेन स्फुटयति—अत्रेति । अर्थसमर्पकत्वादित्यनेन शब्दगुणता व्यक्तीकृता ॥

यदुज्ज्वलत्वं बन्धस्य काव्ये सा कान्तिरुच्यते ॥ ६९ ॥

यथा—

‘निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते ।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरंल्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ८१ ॥’

अत्र बन्धस्य छायावत्वेनौज्ज्वल्यं तदेव च कान्तिरुच्यते ॥

“यदुज्ज्वलत्वमिति” । किं पुनरिदमुज्ज्वलत्वं नाम । केचिदाहुरनुप्रासबहुत्वमिति, तदसत्—‘तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् । कुशेशयपलाशाभ्यामवश्यायजलं यथा ॥’ इत्यादावनुप्रासबहुलता सम्भवति । एवंविधं हि पुराणच्छायमामनन्ति । कान्तिविपर्ययः पुराणी छाया । यथा—‘व्रजति गगनं भल्लातक्या दलेन सहोपमाम्’ इति । अत एवाह—‘पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः’ इति । तस्मादप्रहतपदैरारम्भः सन्दर्भस्यैव कान्तिः । तद्यथा—कुसुमस्य धनुरिति प्रहतम् । कौसुममित्यप्रहतम् । जलनिधाविति प्रहतम् । अधिजलधीत्यप्रहतम् । गुरुत्वमिति प्रहतम् । गौरवमित्यप्रहतमित्यादि । अत एव प्रहतशङ्का । चमत्कारित्वं तु सहृदाह्लादकत्वमस्ति हि तुल्येऽपि वाचकत्वे पदानां कश्चिदवान्तरो विशेषो यमधिकृत्य किञ्चिदेव प्रयुञ्जते महाकवयो न तु सर्वम् । यथा—पल्लव इति वक्तव्ये किसलयमिति । स्त्रीति वक्तव्ये कान्तेति । कमलमिति वक्तव्ये राजीवमित्यादि । एतदेव महाकविभिरुपेयते । ‘कत्ते मणाम इच्चं सच्चं कविए समं समग्गेसु ।॥। सीमठेउण मुस्मितम्मि सच्चण वञ्चेअ ॥’ कान्तवर्णानुप्रासोऽपि कान्त एव भवतीति मत्वानुप्रासोत्कटमुदाहरति—निरानन्द इति । अस्ति कुन्दे मधु परं न कमल-सजातीयमित्यासक्तो नानन्दमलभत । कुन्दस्येति प्रहतम्, कौन्दमित्यप्रहतम् । बालत्वे बकुलकुसुमानां न मधुप्रादुर्भाव इति एतत्काले रतिं न प्राप्तवानिति विधुर इत्यनेन व्यज्यते । कालान्तरेऽपि साले मधुनोऽसम्भवादालम्बः प्रत्याशामात्रबन्धोऽपि न तस्यासीत् । आमोदप्रकर्षादन्तः क्षणं निपत्य रसमनासादयंल्लवङ्गमनुसरतीति लवमित्यनेन ध्वन्यते । एवमुत्तरार्धेऽपि पदस्वरसो गवेषणीयः । उक्तमेव विशेषममिसन्धाय व्याचष्टे—अत्रेति । छायौज्ज्वल्यं कान्तिरित्येकार्थतया लोके प्रसिद्धं तदिह यथा शब्देषु सङ्गच्छते तथा पूर्वाचार्यप्रसिद्ध्या विवेचनीयमित्यभिप्रायः ॥

विकटाक्षरबन्धत्वमार्यैरौदार्यमुच्यते ।

यथा—

‘आरोहत्यवनीरुहं प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते ।
अन्तर्भ्राम्यति कोटरस्य विलसत्यालम्बते वीरुघः किं तद्यन्न करोति मारुतवशं यातः कृशानुर्वने ॥ ८२ ॥’

अत्र विकटाक्षरबन्धत्वे नृत्यद्भिरिव पदैर्यद्वाक्यरचना सा उदारता ॥

“विकटेति” । विकटैरक्षरैर्बन्धो यस्य तस्य भावस्तत्त्वम् । अस्ति तावन्नृत्यन्तीव पदानीति सहृदयानां क्वचिदर्थे व्यवहारः । स च न निर्विषयो नाप्यस्य विशेष इति तत्प्रमाणकमेव गुणान्तरमवस्थितमिति कश्चिव्द्याचष्टे । तथा तु न कथञ्चित्त्स्वरूपमुद्भिद्य दर्शितं भवति । अन्ये तु विसर्गानुप्रासादिग्रन्थिलत्वमनेनाभिमतमित्याहुः । तदपि न । और्जित्याबहिर्भावप्रसङ्गात् । तस्मादिदमत्र वाच्यम्—विकटानि विशालानि । प्रभूतानीति यावत् । तथाभूतान्यक्षराणि दीर्घानुस्वारादिरूपाणि सहृदयसंवेदनीयानि । अत एव नृत्यतुल्यता । यथा हि—नृत्येङ्गानामङ्गुल्यादीनामाकुन्चनप्रसारणक्रमेण रञ्जकत्वं तथात्रापि । तथाहि—आरोहतीत्यादौ प्रथमपादे आकारोकाराभ्यां प्रसारः । हत्यवेति सङ्कोचः । नीरुह इतीकारविसर्गाभ्यां प्रसरणम् । नगैः स्पर्धत इति विसर्गसन्ध्यक्षरैर्विकाशः । द्वितीयपादेऽपि प्रसारणेनोपक्रम्यत इति नैव निर्वहणमन्तरान्तरवरोहक्रमो भवति । न चात्र यतीनां सन्निवेशोऽभिमतः । मारुतवशं यात इत्यनेनोन्मादरोगगृहीत इति शब्दमूलानुस्वान-(सार)बलेनावगम्यते । उन्मादगृहीतोऽपि वृक्षारोहणादिकमसमञ्जसमव्यवस्थितं च करोति । वन इत्यनेन यत्र सर्वथैव प्रतीकारासम्भव इति निरङ्कुशोन्मादचेष्टितमेवोपबृंहयति । नगैः स्पर्धते पर्वतोच्छ्रायमनुकरोतीति दूरप्रसृत उन्मादः । खं व्यालेढीत्यत्रापि तथैवाभिप्रायः । किं तद्यदिति न शक्यन्ते गणयितु मुन्मादचेष्टितानीति प्रकाशन्तेत्येति ग्रन्थिलाविच्छेदात् । प्रसारणस्य पर्यवसानं श्वेत्यनेन प्रविशतीतिसङ्कोचः । अत एव परस्मैपदयोर्निरन्तरमावापः कान्तिविशेषकरत्वादुपादेय एव भवतीति ॥

श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता ॥ ७० ॥

यथा—

‘श्रुत्वायं सहसागतं निजपुरात्रासेन निर्गच्छतां शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः ।
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडाद्रौ च सशाद्वले विवलितग्रीवैर्विमुक्ता दृशः ॥ ८३ ॥’

अत्र शुभ्रे पल्लविनि नवाम्भोरुहि इत्यादिश्लाघ्यविशेषणोपादानादुदात्तता ॥

“श्लाघ्यैरिति” । उत्कर्षवानुदात्तो लोके प्रसिद्धः । बहूनां मध्ये यः श्लाघते स उत्कर्षवान् । तेन श्लाघ्यत्वमुदात्तलक्षणम् । तदिह काव्ये वाक्यार्थपोषाधायकतया सहृदयहृदयावर्जनक्षमत्वेन श्लाघाविषयत्वे विशेष्यत्वं च वाक्यार्थोऽतस्तद्विशेषणपदेषु यथोक्तरूप उत्कर्षोऽभिमतोऽनुदारश्चायं गुण इति स्वरूपविशेषकृतात्कान्तिशरीरान्तर्गताच्चमत्कारित्वाद्भिद्यते । नचात्र मुहतिरभिमतेति नैकमपि कान्तिरूपमस्ति । अत एव पुराणच्छायमुदाहरति—श्रुत्वेति । श्रुतिमात्रेणेयं दशा दर्शने तु न ज्ञायते कथं भविष्यतीति । यमिति । न ह्यन्यस्य श्रुतमात्रस्य तादृशप्रभावसम्भावना । सहसेति यावत्क्रीडासहचराणां धवलगृहादीनामपि च प्रेमानुरूपमापृच्छ्यते तावानपि समयो न लब्ध इति ध्वन्यते । आगतमिति निष्ठाप्रत्ययेन चेदिच्छति सिद्धमेवागमनमिति द्योतयति—निजेति । यस्यान्येन धर्षणं स्वप्नेऽपि न बुद्धिविषय आसीत् । सोपद्रवस्यापि यस्य न त्यागः कदापि कथञ्चिदभूदिति व्यज्यते । निर्गच्छतामिति हृदयवमुख्येन पुनः पुनरवतिष्ठमानानामसम्भवद्रूपं निर्गमनमिति द्योत्यते । शत्रूणामिति बहुवचनेन यदैकावस्कन्दमुद्दिश्यायं प्रचलति तदा सर्वेषामियं दशा भवतीति प्रत्याय्यते । अत एवासमासः सजीवः । वियोगवेदनादूनमानसानामुद्गतोऽपि बाष्पस्रावादन्तरेव विच्छिद्यत इति लवपदेन ध्वन्यते । पुनः समागमाशंसनशीलानाममङ्गलभिया बाष्पस्तम्भो लवपदरहस्यमित्येके मन्यन्ते । अन्यस्य बाष्पस्य निर्गमनानुपपत्तौ पुटयोरार्द्रभावमात्रम् । शुभ्र इति यत्र चन्द्रातपेन पल्लविताः कान्तयः क्षणदाविलासविहारेषु कामपि रसमात्रामुत्कर्षयन्तीति व्यनक्ति । तदनन्तरमेव व्याप्यामित्याह—नवाम्भोरुहीति । पूर्ववत्सम्भोगोद्गारः । सशाद्वल इत्यनेन रतिकुतूहलोत्कण्ठितानामद्रिशृङ्गारोहणश्रान्तानां तदेवास्तरणमिति प्रकटीक्रियते । विवलितग्रीवतया च पभ्द्यां पलायनमेव न तु शरीरवलनमपीति । शृङ्गाराद्भयानक एव रसः स्थायीति ध्वनितम् । तदेतत्सर्वमभिप्रेत्याह—अत्रेति ॥

अरीतिमत्करणोक्तमभिप्रेत्यौजोलक्षणमाह—

ओजः समासभूयस्त्वम्न

यथा—

‘जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दु- स्रवदमृतनिवृत्तप्रेमभावैः कपोलैः ।
विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥ ८४ ॥’

अत्र भुजगरज्जुग्रन्थीत्यादिना समासभूयस्त्वादोजः ॥

“ओज इति” । वैपुल्यवृत्तैर्बहुशब्दस्येयसुनि भूय इति रूपम् । तथा च समासस्य भूयस्त्वं वैपुल्यविकटत्वमिति यावत् । न चैवं गौडीया रीतिरेवेयमिति वाच्यम् । क्वचित्समासभूयस्तामात्रस्यैवौचितीवशेन विशेषशोभावहत्वात् । यथा—‘वाद्यन्ति दिग्गजगण्डकषणैर्भग्नस्रस्ता’ इति । न च समासाभावो नोचितः । नह्येक एव समासो रूपभेदमादाय गुणत्वमनलङ्कारत्वं च प्रयोजयतीति किमनुपपन्नम् । एवं प्रकृतोदाहरणेऽपि । तथा हि—परिणताः परिणामं गताः । बहूनां कल्पानां ब्रह्माण इति चतुर्णां पदार्थानां पिण्डत्वे चत्वारिपदानि समबहुव्रीहिरूढिभिर्भुजगरज्जुभिरिति ग्रन्थिदृढताबोधनाय रूपकम् । अत एव निवीत्युपसर्गस्तात्पर्यवान् । सद्यो विरचितनुतीत्यनेन कपालानामसाधारणो व्यापारः । बन्धो हि ब्राह्मरूपस्ताल्वादिकमन्तरेण न निष्पद्यते । जीवनानन्तरमेव त्रासावेशात्स्तुतिरूप एव व्रह्म-घोषं उदचरदिति भगवतस्त्रैलोक्यग्रहे निरङ्कुशप्रभावः सद्यःपदेन सूच्यते । अथवा चेदागमानामात्मलाभानन्तरमेव परमेश्वरस्तुतिरूपतात्पर्यावसानमिति सर्वस्या अपि श्रुतेः परमेश्वरप्रवणत्वमनन्यसाधारणभक्तिप्रह्वतां च कविरभिप्रैति । पुरारेरित्यनेन संहारिरूपता भगवतः प्रकृतपोषानुगुणा प्रकाशिता ॥

और्जित्यं गाढबन्धता ।

यथा—

‘अस्मिन्नीषद्वलितविततस्तोकविच्छिन्नभुग्नः किञ्चिल्लीलोपचितविततः पुञ्जितश्चोच्छ्रितश्च ।
धूमोत्पीडस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन्सृजति गगने गत्वरानभ्रभङ्गान् ॥ ८५ ॥’

अत्र गाढबन्धस्य स्पष्टमेव प्रतिभानादौर्जित्यम् ॥

“और्जित्यमिति” । ऊर्जितो महाप्राणस्तस्य भाव और्जित्यं तत्र सन्दर्भस्य महाप्राण्णता गाढत्वमन्तरान्तराविलम्बितनयद्भिः प्रयोगैः कुण्डिलत्वम् । गुणसामान्यलक्षणादतिप्रसङ्गो नास्ति । तथा हि—प्रकृतोदाहरणे प्रथमपादे विच्छिन्नभुग्न इत्यत्र तालव्यद्वयम् । कण्ठ्यदन्त्यसंयोगौ प्रस्फुटोन्मिश्रौ । अन्ये मृदवः । द्वितीयपादे औष्ठ्योपध्मानीयतालव्यचतुष्कसंयोगाः प्रस्फुटाः । स्वरव्यञ्जनमध्ये विसर्गपाठ उभयसञ्ज्ञाभिप्रायेणेति दुर्गसिंहः । तेन तदादेशस्यापि व्यञ्जनत्वम् । अन्ये मृदवः तृतीयपादे दन्त्योष्ठ्यदन्त्यकण्ठ्यसंयोगा उन्मिश्राः । अन्ये मृदवः । चतुर्थपादे रेफान्तसंयोगा भृदवो य इति न कापि कठोरता प्रतिभासते । तथा च—प्रथमतृतीयाभ्यामत्र द्वितीयचतुर्थयोर्गाढत्वम् । तथा—‘हस्ते लीलाकमलमलकं बालकुन्दानुविद्धम्-’ इत्यादेरगाढप्रथमतृतीययोरप्यस्ति धारणी महाप्राणता व्यक्तेत्याह—अत्रेति ॥

प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते ॥ ७१ ॥

यथा—

‘सौजन्याभ्बुनिधे बुधप्रिय गुणप्राकार धर्मद्रुम- प्रारोह प्रतिपन्नवत्सल महात्यागिन्विवेकाश्रय ।
लक्ष्म्यावास मनस्विनीमनसिजव्यापारदीक्षागुरो श्रीमन्मुञ्ज किमित्यमुं जनमुपस्प्रष्टुं दृशा नार्हसि ॥ ८६ ॥’

अत्र सौजन्याम्बुनिध इत्यादीनां प्रियार्थानां पदानामुपादानं प्रेयः ॥

“प्रेय इति” । परप्रियाख्यानं चाटूक्तिस्तत्र यद्विधीयते स प्रेयो नाम गुणः किं तु क्रियत इत्याह—प्रियतराख्यानमिति । प्रत्ययांशे तात्पर्यं लोके साधारण एव प्रिय इत्युच्यमाने यस्तत्रासाधारणः प्रकर्षोऽवसीयते स इत्यर्थो भवति । एतेन लक्षणपदे ईयसुन् व्याख्यातः । उक्तिखण्डैरुपचितोऽर्थः सन्नसन्वा भवतु कविप्रतिकृष्टा सूक्तिरेक एव त्रिभुवने भूयसीनामपामधिष्टानम् । एवं भवानपि तत्स्थानीयस्य सौजन्यस्येति प्रतीयते । वुधप्रियेति बहुव्रीहितत्पुरुषाभ्यामर्थद्वयमुपात्तम् । सूक्ष्मगुणप्रतिबिम्बभासितया यावदभिमतदायितया च प्रीतिध्वनितया च प्रकर्षमर्पयति—गुणप्राकारेति । यथा प्राकारे उपर्युपरि शिलादीनामवस्थितिरेवमहमहमिकया त्वयि गुणानाम् । अथवा यथा प्राकारः कलत्रावेक्षणस्थानमेवं भवानपि गुणानामेव प्रोच्यते । धर्मद्रुमप्रारोहेति । प्रारोहः प्ररोहोऽङ्कुरः । तेनातिजरतो भग्नानेकविक्रमादित्यादिशाखस्य धर्मतरोस्त्वमग्रिमः सन्तानोऽवलम्बः । यदि वाधोमुखी लम्बमानलता प्ररोहः । तथा च धर्मतरोरुपरि ब्रह्मलोकादिबद्धविस्तारस्य भगवद्रूपः प्रारोहो भूपृष्ठमधितिष्टतीति कोऽपि प्रीतौ प्रकर्षः । प्रतिपन्नवत्सलेति । उपकर्तव्यतया प्रतिपन्नः स्वीकृतस्तत्र वत्सलो झटिति स्नेहार्द्रान्तःकरणस्तेनाङ्गीकृतभङ्गभीरुतामात्रेण पुरुहूतादिवन्नापि श्लेषाविश्लेषान्विततया बलिकर्णादिवत्किं तु भवान् सिन्धुरिव वाञ्छितादिकमुपकारं करोतीति समानं पूर्वेण । महात्यागिन्निति । त्यागिनामपि यः पूज्यः स महात्यागी तेन नूनं दधीचिप्रभृतयो विश्राणितार्था अपि न तव तुल्यतामारोढुमीशत इति पूर्ववत् । विवेकाश्रय इति । यथाकर्तव्यताज्ञानं विवेकस्तस्याश्रयो विश्रान्तिस्थानं यदि त्वं मूलस्तम्भो नाभूस्तदा कमाश्रित्य विवेकप्रासादः पदमारोपयेदित्यादिकं स्वयमूहनीयमिति तदेतत्सर्वं सूचयन्नाह—प्रियार्थानां पदानामिति । प्रियार्थानां प्रीतिप्रकर्षार्थानाम् ॥

व्युत्पत्तिः सुप्तिङां या तु प्रोच्यते सा सुशब्दता ।

यथा—

‘तस्याजीवनिरस्तु मातरवमा जीवस्य माजीवतो भूयाद्वाऽजननिः किमम्ब’ ‘जनिना’ इति सटीकपुस्तकपाठःजनुषा जन्तोर्वृथा जन्मनः ।
यस्त्वामेव न वन्दते न यजते नोपैति नालोकते नोपस्तौति न मन्यते न मनुते नाध्येति न ध्यायति ॥ ८७ ॥’

अत्र अजीवनिः—अजननिः—इत्यादीनां सुवन्तानां वन्दते—यजते—इत्यादीनां तिङन्तानां च व्युत्पत्तिः सुशब्दता ॥

“व्युत्पत्तिरिति” । विशिष्टा उत्पत्तिर्व्युत्पत्तिः । सुबन्तानां तिङन्तानां च बहूनामपि चकारादिमन्तरेण घटनासौष्टवार्पकतया चमत्कारकारित्वमित्यर्थः । ‘आक्रोशे नञ्यनिः’ । किमर्थभिदमाशास्यत इत्यत आह—जीवतोऽवमान इति । जीवतोऽवमाननं माभून्मरणमपि तदपेक्षया वरमित्यर्थः । आयुःकर्मवशात्तथाभूतोऽपि जीविष्यतीति यद्रि तदाऽजननिरनुत्पत्तिरेव भूयात् । कुत इत्यत आह—किमिति । जनिनेति पुंलिङ्गनिर्देशश्चिन्त्यः इकः स्त्रीप्रकरणे विधानात् । जनिरुत्पत्तिरिति साहचर्याच्च । कस्येदं सर्वमाशास्यत इत्यत आह—यस्त्वामेवेति । त्वदन्यदेवताप्रवणस्य जन्मादिकं विफलमिति वदतः कोऽपि भगवतीविषये भक्तिप्रकर्षोऽवसीयते । अन्ये तु व्याचक्षते कवेः पदपरिचयान्तरी व्युत्पत्तिः । पदं च सुप्तिङन्ततया द्विविधम् । तयोरेकमुभयं वा यत्र निवेश्यमानं व्युत्पत्तिमभिव्यनक्ति तत्र सौशब्द्यमिति लक्षणार्थः । तथा हि—अजीवनिरिति सोपाधिसिद्धकृदन्तं जीवितमुपन्यस्य तदेव जीवस्य जीवत इति निरुपाधिसिद्धसाध्यार्थाभिधायिकृदन्तमुपन्यस्तवान् । मातरवमेति मातृत्वमुभयथोत्प्रेक्षितवान् । द्वितीयपादे जनिजीवमिवोपक्षिप्य जनिना जन्मेति तमेव प्रकारद्वयेनोपात्तवान् । एकैकधातुप्रपञ्चानां सुबन्तानां दुर्घटमेकसन्दर्भप्रवेशं तत्तदुचितक्रियासङ्गमेन विहितवानिति सुबन्तव्युत्पत्तिरिति दिक् । अवमेति अस्त्वित्यनुषज्यते । वृथादिवा पूर्वेणापि सम्बध्यते । अथोत्तरार्धे तिङन्तव्युत्पत्तिः । तत्र पूर्वप्रकारभेदो न घटते । अतः साभिप्रायाणामेवोत्प्रेक्षणं सा वाच्या । तथा हि—वन्दत इति जायमानमात्राभिवाद्यतया त्रिभुवनमातृता । यजत इति समस्तदेवतारुपत्वम् । उपैतीति सर्वोपगम्यतया जगच्छरण्यत्वम् । आलोकत इति विश्ववर्ति यावन्मनोहरत्वम् । स्तौतीति समस्ताभिमतदायिता । मन्यत इति निखिलज्ञेयस्वरूपता । मनुत इत्यवधारणीयतया तत्त्वात्मकता । अध्येतीति कान्तारादिस्मर्तव्यतया दुर्गादिभेदेन प्रपञ्च्यमानत्वम् । ध्यायतीति निदिध्यासनविषयतया प्रत्यग्ज्योतीरूपतेति परापरभेदभिन्ना भगवती स्तुता भवति । मन्यते मनुते इति यथा सामान्यविशेषाभिधायिनौ तथाध्येति ध्यायतीत्यपि । तिङन्तानां च दुर्घटोऽपि परस्पर-मन्वयः केनापि प्रकारेण घटित इति पूर्ववद्वोद्धव्यः । तदेतदाह—अत्रेत्यादिपदमुभाभ्यां सम्बध्यते । तेन जीवितवर्गो जनिवर्गश्चाभिमतः । मतिः सकृदेवावृत्त इति नोक्तः भूयसा हि लोके व्यपदेशो दृश्यत इति ॥

समाधिः सोऽन्यधर्माणां यदन्यत्राधिरोपणम् ॥ ७२ ॥

यथा—

‘प्रतीच्छत्याशोर्की किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति तालीपरिणतिम् ।
परिम्लानप्रायामनुवदति दृष्टिः कमलिनी- मितीयं माधुर्यं स्पृशति च तनुत्वं च भजते ॥ ८८ ॥’

अत्र प्रतीच्छति—अवतरति—अनुवदति—इत्यादिचेतनक्रियाधर्माणामचेतनेष्वधरादिषूपचारेणाध्यारोपणं समाघिः ॥

“समाधिरिति” । सम्यगाधानमारोपणं समाघिः । सम्यक्त्वं च कक्रतालोकातिगत्वं न तदधिकभावः । तदिदं लक्षणे स्फुटम् । ‘कमलानि निमीलन्ति कुमुदान्युन्मिषन्ति च’ इत्यादौ व्यभिचाराच्च । तेन सम्बन्धिता न धर्मविशेषणमत्राभिमता । अलङ्काराद्भेदश्चतुर्थे वक्ष्यते—प्रतीच्छतीति । प्रत्येषणं दीयमानस्य ग्रहणं चेतनधर्मः स विरहवत्या अचेतनेऽधरे समारोपितः । किसलयकान्तिमितो मन्दीभूततामवगमयति । देयस्य दातुरपसरणेऽन्यत्र सङ्क्रान्तौ च प्रत्येषणनिर्वाहाच्च । तथा चाशोककिसलयेभ्योऽपि कोमलपाटलत्वमधरस्येति माधुर्यपोषः । तदभिमुखप्रवर्तनमवतरणमपि चेतनधर्मः सोऽचेतने कपोले समारोपितः किञ्चित्पाण्डुतामवद्योतयति । न च प्रत्येषणवत्सामस्त्येन ग्रहणमपि तु सम्मुखीभावमात्रमित्याशयात् । तथा च पूर्ववन्माधुर्यं पुष्णाति, अनुवादोऽपि चेतनधर्म एव सोऽचेतनायां दृष्टावारोपितः पर्युषितकमलच्छायामखण्डामेवात्र बोधयति । परप्रकर्षाभिमुखेऽपि विप्रलम्भे कदाचित्सङ्कल्पोपस्थितप्राणनाथायां दृष्टौ कान्ती भवतीति प्रायःपदेन सूचितम् । स्पर्शस्य माधुर्यविषयेऽसम्भवात्स्पृशतीत्यप्यारोपः । प्रथमविग्रहशोभाविर्भावमभिव्यनक्ति—चेतनक्रियेति । प्रकृतापेक्षया क्रियाक्रियावतोः सादृश्याभावान्नेयं गौणी किं तूपचरितैव शुद्धेत्याह—उपचारेणेति । एतेन रूपकादिभ्यो भेदः समर्थितः ॥

अन्तः सञ्जल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते ।

यथा—

‘केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।
धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥ ८९ ॥’

अत्र श्रुतावगतवाक्यार्थस्य सृजति—संहरति—शास्ति—स्तूयते—इति शब्दानामन्तःसञ्जल्परूपेण सूक्ष्मतया सूक्ष्मत्वम् ॥

“अन्तरिति” । यथा करितुरगादिरूपकाणां पाषाणशिलादावभिव्यक्तमवस्थितौ सूक्ष्मरूपता तथा शब्दानां श्रूयमाणानामपि कथमन्यथा वाक्यार्थभावनदशायां शेषनियमेनोन्मेषः । केवलमित्यादौ सृजति—संहरति—शास्तयो धातवः कर्तर्येव भगवद्विषये प्रयुज्यमानाः प्रत्ययान्प्रयोजयन्ति न कर्मणीति वाक्यार्थो यदा भाव्यते तदैवायं सृजति संहरति शास्ति, न तु सृज्यते संह्रियते शिष्यते इति शब्दाः प्रकाशन्ते । एवं स्तौतिर्विपरीतकारकः । अत्र स्तौतिः कर्मण्येव प्रत्ययप्रयोजको न कर्तरीति वाक्यार्थभावनासमय एव नायं किञ्चित्स्तौति किन्तु सर्वैः स्तूयत एवेति शब्दा उन्मिषन्ति । तदेतदाह—अत्र श्रुतावगतेति । यावदेव वाक्यं श्रूयमाणमवगम्यते तस्यैव भावनापल्लवः पश्चादवसीयत इति वटबीजन्यायमुपोद्बलयति । सोऽयं सहृदयप्रतीतिसाक्षिकोऽर्थः ॥

ध्वनिमत्ता तु गाम्भीर्यम्

यथा—

‘मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं चक्राङ्कं वह पादयुग्ममवनीं दोष्णा समभ्युद्धर ।
ल्क्षमीं भ्रूनिकटे निवेशय भव ज्यायान्दिवौकस्पते- र्विश्वान्तःकरणैकचौर तदपि ज्ञातं हरिः खल्वसि ॥ ९० ॥’

अत्र नाभ्यां पुण्डरीकधारणं परिमितविक्रमत्वं चक्राङ्कितकरत्वं दंष्ट्रया वसुधोद्धारणं वक्षःस्थलनिवेशितलक्ष्मीकत्वमिन्द्रावरजत्वं च ध्वनयतीति गाम्भीर्यम् ॥

“ध्वनिमत्तेति” । ध्वननं ध्वनिर्व्यञ्जनात्मा व्यापारः । स द्विविधः—शब्दध्वनिः अर्थध्वनिश्च । येन शब्द एव ध्वन्यते स शब्दध्वनिरभिमत इति केचित्, तन्न । शब्दस्यैव ध्वन्यतानङ्गीकारात् । नाभ्यां पुण्डरीकधारणमित्यादि व्याख्याग्रन्थभङ्गप्रसङ्गाच्च । तस्माच्छब्दाश्रितं ध्वननं शब्दध्वनिरर्थाश्रितं चार्थध्वनिरिति वक्तव्यम् । प्रभूतध्वनिसम्बद्धपदकदम्बकस्य गाम्भीर्यम् । अथवा ध्वनयतीति ध्वनिः शब्दात्मको यत्रास्ति पदसमुदायस्तद्गाम्भीर्यम् । तथा हि पुण्डरीकपदप्रस्तावात्सितच्छत्रे नियताभिधानशक्तिकं कांस्यतालानुस्वानस्थानीयां सिताम्भोजव्यक्तिमुपजनयच्चोपलभ्यते । अनेकार्थनियताभिधानशक्तिकत्वाच्च । तदाह—‘अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृव्द्यापृतिरञ्जनम् ॥’ इति । एवं विक्रमादिषु । तथापि विक्रमः पौरूषं परिशिष्टः पादविक्षेपश्च । चक्रं चक्रवर्तिचिह्नं रेखासन्निवेशलक्षणमायुधविशेषश्च । अभ्युद्धरणं सम्यग्लाभपालनप्रापणमुत्थापनं च । लक्ष्मीः सम्पद्देवताविशेषश्च । ज्यायान् प्रशस्यतरो वयोज्येष्ठश्च । इदमेवाभिसन्धाय दिवौकस्पतेरित्यन्तं व्याचष्टे—अत्रेति । तदपीत्यपिशब्देन विरोधद्योतिना हरिभावमाचरन्निति प्रतीयते पुण्डरीकधारणादेरुभयतुल्यत्वान्मौलावित्यादिविरुद्धम्, अतस्तद्विपरीतस्थानीयं विष्णौ ध्वनयत्प्रसिद्धिबलान्नाभ्यादिकमेव ध्वनयति । प्रसिद्धिरपि हि विशिष्टार्थप्रतिपत्तौ कारणमेवेत्यभिप्रेत्य शब्दध्वनिप्रस्तावेऽप्यन्यव्द्याख्यातवान् । अन्यथा तु प्रकृतासङ्गतिशङ्कया न वाच्यार्थपुष्टिः स्यात् । सोऽयं विरोधरूपमूलः प्रतीयमानव्यतिरेको वाक्यार्थः शब्दध्वनिश्चात्र जीवभूतः । विश्वान्तःकरणैकचोर इत्यनेन त्रिभुवनमनोहरता । दिवानिशमन्तःकरणानि चोरयन्नभ्यासकौशलादिवात्यन्तप्रसिद्धानि नारायणचिह्नानि गोपायसीति प्रतीयमानोत्प्रेक्षा । ननु वस्तुध्वनिं शब्दशक्तिमूलमेके न मन्यन्ते । कथं तर्हि ‘पन्थिअ न एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे । उन्नअपओहरं पेक्खिअ उण जइ वससि ता वससु ॥’‘पथिक नात्र स्रस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य पुनर्यदि वससि तद्वस ॥’ इति च्छाया इत्यादौ वस्तुवर्णनं? न ह्यत्र श्लेषन्यायो न वा समासोक्तिन्यायः सम्भवति । किं चालङ्कार ध्वनावपि शब्दशक्तिरेवोपयुक्तेत्यक्षुण्णः शब्दध्वनिः । ये तु वदन्ति शब्दस्याभिधाव्यतिरिक्ता वृत्तिरेव नास्तीति, लक्षणापि तैरनङ्गीकरणीया स्यात् । न चानङ्गीकर्तव्येति वाच्यम् । “गङ्गायां घोषः” इत्यत्र सप्तम्यनन्वयापत्तेः । प्रकृत्यनुगतस्वार्थाभिधानं हि विभक्तीनां व्युत्पन्नमिति घोषप्रतियोगिकाधिकरणभावयोग्यः कश्चिदर्थो गङ्गापदस्य वक्तव्यः । तथा च कान्या नाम लक्षणा । एवं पुण्यत्वादि- प्रतीतिस्तत एव भवन्ती ध्वननमुपस्थापयतीत्यादिकमस्माभिः काव्यप्रकाशविवरणे प्रपञ्चितम् । इह तु ग्रन्थगौरवभिया विरम्यते ॥

व्यासेनोक्तिस्तु विस्तरः ॥ ७३ ॥

यथा—

‘जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच- स्तथावस्थं चैनं निदधतु शुभैः ‘शुक्तिवदने’ इति मूलपुस्तकपाठःशुक्तिवदनैः ।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दतु यथा रुचिं तन्वन्पीनस्तनि हृदि तवायं विलुठति ॥ ९१ ॥’

अत्र कथमहं त्वत्कुचतटे विलुठामीत्यभिप्रायस्य विस्तरेण प्रकाशितत्वादयं विस्तरः ॥

“व्यासेनेति” । यत्र स्तोकेऽपि वाच्ये वचनपल्लवश्चमत्कारकारी तत्र स एव गुणकक्षाधिरोहणक्षम इति शब्दगुणेषु युक्तो विवेक्तुमत एवोक्तिं विशेष्यतया निर्दिशति । जनः पुण्यैरित्यादौ कथमहमित्यादौ निर्दिष्टोऽपि वक्राभिप्रायरूपोऽर्थ उक्तिपल्लवेन प्रकर्षमानीयते । तथा हि जन इति तटस्थोक्त्या न ममेदृशानि भागघेयानि येनाहत्य मनो निर्वहति । पुण्यैरिति बहुवचनेनानेकजन्मोपात्तानामेवेदं फलम् । यायादिति सम्भावनाभिप्रायेण लिङा मुक्ताफलपरिणतियोग्यजलधिजलप्राप्तिसम्भावनापि कस्यचिदेव धन्यजन्मन इति प्रकाशिते कोऽपि कारणप्रकर्षः । जलमुच इत्यनेन येषां न जलदानमेव व्यापारः, अपि तु विश्वसन्तापच्छिदुराणामन्योपकारप्रवणतया शुक्तिमुखपर्यन्तमपि नयनमुपपद्यत इति । तथावस्थमित्यनेन यदैव स्मरावस्था तदैव जलधरैः पानमाशंसामात्रगोचरो न तु पूर्ववत्सम्भावनामात्रगोचरः, अत एव शुभैरिति समयविलम्बनस्य प्राक्तनपुण्यमानहेतुकत्वादित्यादि स्वयमवसेयम् । एतेन ‘पदर्थे वाक्यरचनम्’ इति यदन्यैर्गुणान्तरमभिहितं तद्विस्तारमेकमेव । घटनासौष्ठवमात्रोपयुक्तस्तु पल्लवो विशेषगुणेष्वस्माभिरभिधास्यते । त्वत्कुचतटे लुण्ठनमत्यल्पपुण्यस्य न सम्पद्यत इत्येतावानेवार्थो विवक्षाविषय इति कार्यविकासस्यैव चमत्कारार्पणे प्रागल्भ्यमिति शब्दप्रधानकतया युक्तमत्र परिसङ्ख्यानमिति ॥

समासेनाभिधानं यत्स सङ्क्षेप उदाहृतः ।

यथा—

‘स मारुतिसमानीतमहौषधिहृतव्यथः ।
लङ्कास्त्रीणां पुनश्चके विलापाचार्यकं शरैः ॥ ९२ ॥’

अत्र कथाविस्तरप्रतिपाद्यस्यार्थस्य प्रकृतसङ्ग्रामरसविच्छेदाशङ्कया श्लोकार्धमात्रेणोक्तत्वात्सङ्क्षेपः ॥

“समासेनेति” । अस्ति कश्चिद्विशेषो यत्र वाक्यसङ्कोचः प्रकृतौचितीवशेन चमत्कारकारणम् । तथा हि—स मारुतीत्यादौ मारुतिना यदोषधेरानयनम्, यच्च तया व्यथाहरणम्, तदुभयमपीतिहासकथाविस्तरेण प्रतिपादितमिह तु श्लोकार्धमात्रेणेति शब्ददत्तभर एवायं गुणो यद्यपि भवति, तथापि यावद्विवक्षितोपादानकाव्यरूपेणार्थसङ्कोचो वक्तव्यः । स च तथाविधवक्रोक्तिसङ्क्रोच एव भवतीत्युक्तावेव सङ्कोच उल्लिखति । कथमयं सङ्कोचः प्राप्तोचितभाव इत्याह—प्रकृतेति । अत एवोपक्षिप्तमपीतिहासार्थमपहाय त्वराविष्टेन कविना प्रकृतमुत्तरार्ध एवासंहितं पूर्वोत्तरार्धसामञ्जस्याय सङ्क्षिप्यैव प्रकृतमप्युक्तम् ॥

यावदर्थपदत्वं च सम्मितत्वमुदाहृतम् ॥ ७४ ॥

यथा—

‘केचिद्वस्तुनि नो वाचि केचिद्वाचि न वस्तुनि ।
वाचि वस्तुनि चाप्यन्ये नान्ये वाचि न वस्तुनि ॥ ९३ ॥’

अत्रार्थस्य पदानां च तुलाविधृतवत्तुल्यत्वेन सम्मितत्वम् ॥

“यावदिति” । यावन्ति वर्णानि विना प्रकृतमनुसर्तुमेव न शक्यन्ते तावन्मात्रमयत्वं वाक्यस्य सम्मितत्वम् । अतः सङ्क्षेपाद्भेदः । कवेः शक्तिव्युत्पत्तिभ्यामसत्यपि पल्लवे कदाचिद्धटनालावण्यमुन्मिषत्येव । यथा पूर्वमुदाहृतम्—‘का त्वं शुभे कस्य परिग्रहो वा’ इत्यादि । अर्थव्यक्तिसङ्करशङ्काप्यत एव निराकृता । ऽअस्त्युत्तरस्यां दिशि देवतात्मा’ इति केचिदुदाहरन्ति तदयुक्तम् । अनेन नामपदयोः पल्लवरूपत्वात्सम्मितत्वाभावे कथमाभासत्वं भवतीति विस्भृतव्यमिचारिगुणप्रकरणस्य भाषितमुपेक्षणीयम् । केचिदिति सर्वनाम्न एवाभिमतकविविशेषे पर्य-वसानं सामर्थ्येन सम्भवतीति नाध्याहारशङ्का । शक्ता इत्यादिक्रियापि सामर्थ्येनावसीयते तदेतत्सर्वमभिप्रेत्याह—तुलाविधृतवदिति ॥

भावतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम् ।

यथा—

‘एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥ ९४ ॥’

अत्र हर्षवशादनौचित्येनापि ‘वन्देऽथवा चरणपुष्करकद्वयम्’ इत्यादीनामुक्तत्वाद् भाविकत्वम् ॥

“भावत इति” । भावनादृशापन्ना चित्तवृत्तिर्भावः । भावना वासनाव्याप्तिरित्यनर्थान्तरम् । तथा ह्युच्यते—अनेन गन्धेन रसेन वा सर्वं भावितमिति । हर्षादिभावितचेतसो हि वीचिप्राया उक्तिभेदाः प्रादुर्भवन्ति यैरप्रत्यूहमेव भावोऽभिव्यज्यते तदिदमुक्तं या भावतो वाचः काव्यरूपायाः प्रवृत्तिर्निष्पत्तिः सैव भाविकम् । भावप्रधानो निर्देशः । तथा हि—प्रकृतोदाहरणे एहीत्येकेनैव युष्मदर्थाविनाभाविनाभिमुखीकरणे वृत्ते द्वितीयस्य यदुपादानम्, पूर्णचन्द्रेति यदग्रिमक्रियास्वनुपयुक्तस्यैवाभिधानम्, चुम्बामीति करिष्यमाणस्यापि यो वर्तमानोपदेशः, चुम्बामीत्यत्र विशेषणमनुपादाय परिष्वज इत्यत्र चिरमिति यद्विशेषणोपादानम्, त्वमिति योग्यार्थस्यापि प्रयोगः पूर्वोपात्तवदुत्तरक्रियास्पर्धितया यदेकस्यैव वहनस्य भाषणमेव समस्तसमकक्षतयैव यद्वहनाभिधानम्, वत्सेत्यभिधाय चरणौ बन्द इति या विरूद्धोक्तिः, यच्च ते इत्यस्यावगतार्थस्यापि वचनम्, तत्सर्वमधर्मसिद्धमेवेति भावार्थस्य निष्पादितया स्वादहेतुर्भवति । प्रवर्तन्ते हि लौकिकानां स्नेहार्थानामुत्कलिकाप्राया वाचः स्वदन्ते च । यथा—‘इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोरसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः’ इति । तदेतदभिप्रेत्य व्याचष्टे—अत्रेति । उद्भटत्वात्तेन शेषाण्युपलक्षयति—अनौचित्येनापि वन्द इति ॥

गतिर्नाम क्रमो यः स्यादिहारोहावरोहयोः ॥ ७५ ॥

यथा—

‘वराहः कल्याणं वितरतु स वो यस्य शशभृ- त्कलाकोटीकान्तं क्रमविगलदभ्युद्भृतिभिया ।
मिथः सम्मूर्च्छद्भिश्चतुरुदधिकल्लोलपटलै- रनामृष्टं दंष्ट्राशिखरमधिशेते वसुमती ॥ ९५ ॥’

अत्र पूर्वार्धे स्वरस्यारोहादुत्तरार्धे चावरोहाद्गतिः ॥

“गतिरिति” । केचिव्द्याचक्षते । यतीनामारोहावरोहौ विवक्षितौ क्वचित्कविशक्तिवशाद्यद्यव्द्यारूढा अवरूढा इव प्रकाशन्ते । यथा—‘भुवो नीचैर्नीचैरवटपरिपाटीषु पततां स्फुरत्यर्वागर्वागखिलभुवने भोगितिलकः । क्रमादुच्चैरुच्चैर्गिरिशिखरभाजामपि नृणामयं दूरे दूरे भवति भगवानम्बरमणिः ॥’ अत्र यती नानारोहावरोहौ तिलतन्दुलवत्प्रकाशेते । इयं तु वृत्तौचिती वक्ष्यते । तथा च द्वितीये सङ्गता स्यात् । तस्मादयमर्थः—स्वराणामकारादीनामुपर्युपरितया बोधः सन्निकृष्टानामिव प्रकाशनं गतिरिति । तथा च व्याख्यास्यति—स्वरस्येति । तथा हि प्रकृतोदाहरणे वराहः कल्याणमित्यत्राकारद्वयं तुल्यजातीयं निर्दिश्य स वो इत्यत्रोकारेण तुङ्गत्वमिव विधाय द्वितीयपादोपक्रमे कलाकोटीकान्तमित्यत्राभिन्नजातीयारोहपरम्परा विहिता । उत्तरार्धे तु तथा नास्ति । शेते इत्यत्रापि न सोल्लेख आरोहः सोऽयमानुभविको गुणः श्लोकार्धश्लोकपादश्लोकांशक्रमेण नरसिंहवद्भवति । अत्रोपलक्षणतयाद्यमुदाहरति—अत्र पूर्वार्ध इति । क्रमैरितस्ततश्चरणविन्यासैर्विगलन्ती असम्पद्यमाना याभ्युद्धृतिरभ्युद्धरणं तस्या या भीर्भयं तयेति केचित् । अन्ये तु वदन्ति—क्रमेण विगलदभ्युद्धृतिभयमूर्ध्वनयने स्फुटनादिभयं यस्याः सा क्रमविगलदभ्युद्धृतिभियेति ॥

उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते ।

यथा—

‘ग्राव्णा नासि गिरेः क्षता न पयसा नार्तासि न म्लायिता न श्वासैः फणिनोऽसि न त्वदनुगा नायासिता क्वापि न ।
स्वं वेश्म प्रतिगच्छतोरिति मुहुः श्रीशार्ङ्गिणोः सस्पृहं सा प्रश्नोत्तरयुग्मपङ्क्तिरुभयोरत्यायता पातु वः ॥ ९६ ॥’

अत्र प्रत्येकपदानन्तरं नञो विनिवेशात्कमाभेदो रीतिः ॥

“उपक्रमस्येति” । यादृशी पदसन्निवेशत्वेनोपक्रम्यते तादृश्या वृत्तनिर्वाहः क्वचिद्विशेषशोभावहो भवति । अत एवात्र नात्यन्तनिर्वाहोऽभिमतः । एकादशवृत्तेरप्यभिप्रायसमग्रकाव्यजीवभूतत्वादेतस्या एव नातिप्रसङ्गोऽपि तथा प्रकृतोदाहरणे प्रथमोत्थिताया अब्धिदुहितुरव्याजसर्वाङ्गीणलावण्यमवलोकयिता कृष्णः स्वचक्षुषोः कृतार्थतां गमितवान् । इदानीमधरोष्ठमुद्राभेदेन यदि वर्णमात्रामपि भारतीं निश्चरन्तीमाकर्णयामि तदा श्रोत्रयोः सफलता भवेदिति मन्यते । न चेत्थमेव मुग्धाङ्गनानामालापः प्रवर्तते अपि तु नायकसन्निधौ भयादेवेति प्रथमं पृच्छति—ग्राव्णा नासि गिरेः क्षतेति । अनन्तरं च यदि न वक्ष्यामि तदा धृष्टामाकलयिष्यतीति जानत्या द्वयमुत्तरमौचित्यापन्नं स्यात् शिरःकम्प एकाक्षरं च । तत्राद्यः कालिदासेन प्रयुक्तो ‘मूर्धकम्पमयमुत्तरं ददौ’ इति । द्वितीयं कविना विनिवेशितम्—नेतिः । एवं श्रुतजल्पिताभृतस्तदनुबन्धेन कृतकृत्यमिवात्मानं मन्यमानोऽधिकत्रासहेतुं स्मारयन्पृच्छति—पयसेति । तदिदमुक्तम्—आर्तेति । प्रकारान्तरेणोत्तरदानासम्भवात्पुनरप्याह—नेति । तदनन्तरं व्याजरसायाः कियदधिकवचनश्रवणोत्कण्ठितः सर्वं लोकप्रसिद्धं भयहेतुं स्मारयन्पृच्छति—म्लायितेति । अभिमतस्यानिष्टं स्वप्नेऽपि न सज्जत इति दृष्टासीति नोक्तम् । एवं प्रसिद्धमपि वचनपल्लवनेन समस्तमुग्धाङ्गनाप्रसिद्धेन वचनोन्मुद्रणप्रकारेण पृच्छति—त्वदनुगेति । सर्वाकारेणोत्तमतामभिज्ञायमानो दृप्तः स्ववेश्म प्रत्येव गतवान् न तु पृष्टवानिति । तदिदं सर्वमभिप्रेत्य व्याचष्टे—अत्रेति ॥

विशिष्टा भणितिर्या स्यादुक्तिं तां कवयो विदुः ॥ ७६ ॥

यथा—

‘कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् ।
पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ ९७ ॥’

अत्र कुशलं तस्या इति पृष्टे कुशलमकुशलं वेति वक्तव्ये योऽयं जीवतीत्याद्युक्तिभङ्ग्या जीवितमात्रशेषताप्रतिपादनप्रकारः स काव्ये शब्दगुणेषूक्तिसञ्ज्ञां लभते ॥

“विशिष्टेति” । लोकोत्तराः सन्ति हि भणितिप्रकारा लोकप्रसिद्धाः । यथा सुप्तोऽसीति प्रश्ने गृहे देवकुले वेत्यादि । एतत्प्रसिद्धिव्यतिक्रमेण तु या काचित्कविप्रतिभया भणितिराकृष्यते सा भवति लोकोत्तरा । तथा च प्रतिभाकृष्टतया चमत्कारित्वाद्गुणत्वम् । अत एव कवय इत्याह । कविसहृदयानामेव तादृशोक्तिपरिचयसम्भवात् । तथा हि—प्रकृतोदाहरणे कुशलप्रश्ने कुशलं वेति लोकप्रसिद्धमतस्तदेव वक्तुमर्हति । यत्तु तदपहाय जीवतीत्युपात्तमपरत्रापि प्रश्ने तथैवोक्तं तत्प्रतिभाकृष्टतया सामिप्रायमुन्नीयत इत्याह—अत्र कुशलमकुशलमित्यादि ॥

सम्प्रति प्रकर्षकाष्ठालक्षणं वाक्यस्य गुणं लक्षयति—

उक्तेः प्रौढः परीपाकः प्रोच्यते प्रौढिसञ्ज्ञया ।

यथा—

‘अभ्युद्धृता वसुमती दलितं रिपूरः क्षिप्तक्रमं कवलिता बलिराजलक्ष्मीः ।
अत्रैकजन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराणः ॥ ९८ ॥’

अत्र प्रकृतिस्थकोमलकठोरेभ्यो नागरोपनागरग्राम्येभ्यो वा पदेभ्योऽभ्युद्धृतादीनां ग्राम्यादीनामुभयेषां वा पदानामावापोद्वापाभ्यां सन्निवेशचारुत्वेन योऽयमाभ्यासिको नालिकेरपाको मृद्वीकापाक इत्यादिर्वाक्यपरिपाकः सा प्रौढिरित्युच्यते । तथा चैतद्वाक्यं नालिकेरपाक इत्युच्यते । एवं सहकारमृद्वीकापाके अप्युदाहरणीये इति ॥

“उक्तेरिति” । उक्तेर्वाक्यस्यायं पाकः सा प्रौढिः । शब्दानां पर्यायपरिवर्तासहत्वं पाकः । यदाह—‘यत्पदानि त्यजन्त्येव परिवृत्तिसहिध्णुताम् । तं शब्दन्यायनिष्णाताः शब्दपाकं प्रचक्षते ॥’ इति । प्रौढ इति । उपक्रमोपसंहारयोर्निर्व्यूढः स चायं नायं नालिकेरसहकारमृद्वीकोपलक्षणैस्त्रिविधो गीयते । तद्यथा—नालिकेरफलं पक्वं त्वचि कठिनं शिरास्वविवृतकोमलप्रायं कपालिकायां कठिनतरं तथा कश्चित्सन्दर्भो मुखे कठिनस्तदनन्तरं मृदुप्रायस्ततः कठिनतरो नालिकेरपाक इत्युच्यते । तथा हि—प्रकृतोदाहरणे प्रथमपादेऽभ्युद्धृतेति वर्णचतुष्टयमारम्मे कठिनं ‘वसुमती दलि’ इति वर्णषट्कं कोमलं ‘तं रिपूरः’ इत्यनुस्वाररेफदीर्घैरक्षरचतुष्टयं कठिनतरम् । अत्रापि तमिति मृदुप्रायानिवेशनेन कोमलकपालिकामुखभागसारूप्यं द्रढयतीत्यस्मदाराध्याः । एवं द्वितीयादिपादत्रये चतुष्कषट्कचतुष्कैर्नालिकेरफलसाम्यमुत्रेयम् । कथं पुनरेवंविधः पाकः सम्भवतीत्यत आह—अत्रेति । अभ्यासेन निर्वृत्त आभ्यासिकः । काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरभ्यासः । असावपि कथं पाकविशेषो भवतीत्यत आह—सन्निवेशचारुत्वेनेति । सन्निवेशो रचना तस्यां चारुत्वम् । तदपि कथमित्यत आह—आवापोद्वापाभ्यामिति । सन्दर्भानुप्रवेशनमावापः । ततःसमुद्धरणमुद्वापः । केषामित्यत उक्तम्—पदानामिति । उद्धृतानामिति बुध्द्या पृथक्कृतानाम् । केभ्य इत्यत उक्तम्—प्रकृतिस्थादित्यादि । तेनायमर्थः—प्रकृतिस्थादिपदतोऽप्येतदेवोद्धर्तव्यं यद् घटनासौष्टवेन पर्यायपरिवर्तनं न सहते । भवति हि सहृदयानामेवमन्यत्पदं नास्तीति व्यवहारः । सोऽयं रचनासिद्धिविशेषः कथमन्यथा तज्जातीयमेव पदमन्यत्र सन्दर्भे निवेशितं न तथा स्वदते । अत एवासौ वाक्यगुणः । काठिन्यं च संयोगैर्दीर्घैर्वा स्वरैर्भवति । यथात्रैवोदाहरणे रिपूर इत्यादौ । सुप्तिङ्व्युत्पत्तिलक्षणस्तु वार्ताकपाकः कैश्चिदुक्तः, स तु सुशब्दतालक्षणगुण एव । एवमिति । यथा द्राक्षाफलं त्वच आरभ्य कोमलमन्तरा द्वित्रिचतुरास्थिसम्पादितं किञ्चित्काठिन्यमेवं कश्चित्सन्दर्भमुपक्रमोपसंहारयोः कोमल एव मध्ये कठिन एव । संयोगदीर्घस्वरमात्रकृतमनाक्कठो रभावो मृद्वीकापाक इत्युच्यते । यथा—‘अयि त्वदावर्जितवारिसम्भृतं प्रवालमा- सामनुबन्धिवीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ऽ, यथा च—‘अनवरतनयनजललवनिपतनपरिपीतहरिणमदतिलकम् । वदनमपयातमृगमदशशिकिरणं वहन्ति लोलदृशः ॥’ अत एव “कविकल्पलताकारा”दिभिरुक्तो नीलकपित्थपाकश्चतुर्थो नास्ति । यद्वच्च परिणतं सहकारफलमारमभादेव कोमलमस्थनि तु कठोरप्रायमेवमपरः सन्दर्भो मुखादारम्य मृदुरन्तरे कठिनतरः सहकारपाक इत्युच्यते । यथा—‘कमलिनि कुशलं ते सुप्रभातं रथाङ्गाः कुमुदिनि पुनरिन्दावुद्गते त्वं रमेथाः । सखि रजनि गतासि त्वं तमो जीर्णमुच्चैरिति तरलितपक्षाः पक्षिणो व्याहरन्ति ॥’ अत्रैवोदाहरणेऽपि द्विधा कठोरत्वमवसेयम् । तेऽमी त्रय एव शुद्धपाकाः । व्यतिकरजन्मानस्तु भूयांसः । एत एवार्थपाकाः पञ्चमे प्रकारान्तरेण प्रतिपादयिष्यन्ते ॥

सूत्रकार एवार्थगुणप्रकरणे सङ्गतिं करोति—

उक्ताः शब्दगुणा वाक्ये चतुर्विंशतिरित्यमी ॥ ७७ ॥

अथैतानेव वाक्यार्थगुणत्वेन प्रचक्ष्महे ।
तेषां श्लेष इति प्रोक्तः संविधाने सुसूत्रता ॥ ७८ ॥

यथा—

‘दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ ९९ ॥’

अत्रैकासनसंस्थितयोः प्रियतमयोर्विलासिना ह्येका नयनमीलनकेलिकर्मणा वञ्चिता । अन्या तु वदनचुम्बनेन रञ्जितेति । सेयं संविधाने सुसूत्रता । श्लेषो नाम वाक्यार्थगुणः ॥

“उक्ता इति” । वृत्तकीर्तनं हेतुभावप्रदर्शनार्थम् । एतानेव श्लेषादिनामकानिति । एषामिति निर्धारणे षष्ठी । ‘वाक्यार्थशरीरभूतः श्लेषः प्रथमं लक्ष्यत इति । घटनाश्लेषः’ इति सूत्रयित्वा ‘क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना’ इति “वामनेन” व्याख्यातम् । अस्यार्थः—इदं कृत्वा इदं कर्तव्यमिति क्रमस्तत्रैव कौटिल्यं लोकातिगामिनी वक्रता । अवक्रयोः शब्दर्थयोः वचनमात्रत्वात् । अतिमात्रतया प्रतिभासाभावोऽनुल्बणत्वम् । कथमेवमर्थः सङ्गच्छत इत्यनुपपत्तिसमाधानौपयिकविशेषनिवेशनमुपपत्तिः । तथा च कमेण कौटिल्येनानुल्बणतया उपपत्त्या योजनमर्थस्य श्लेष इति तत्र संविधानक्रमानुल्बणत्वेन सूत्रशब्देनोपत्ते स्वपदेन कौटिल्यमुक्तमघटमानस्येव वाक्यार्थस्य बुद्धिचातुर्येण घटनेति वाक्यार्थः । दृष्ट्वेति । एका नायिका । अपरा नायिका च तत्सखी प्रच्छन्ननायकप्रेमपात्रं तेनैकासनसङ्गतिः । प्रियतमे इति तदनुरञ्जनमेव जीवितसर्वस्वमिति मन्यमानस्य युगपत्प्रवृत्तिः । आदरेण निमृतपदन्यासता तथा भूत्वा युगपत्कराभ्यां नयनद्वयपिधानं लोकप्रसिद्धा केलिः । ईषदिति कन्धरामात्रं यथा चलते न तु शरीरमपि । अन्यथा चलनज्ञाने नायिकायाः कषायभावः स्यात् । निभृतरागोन्मुद्रणात् पुलकोद्गमः । अत एव प्रेम्णा स्वगोचरलोकोत्तरत्वाभिमानरूपेण तत्तदनेकभावोर्मिभिरान्दोलनं मनस उल्लासः । साधुवञ्चनं न जानातीत्यभिप्रायिकसपत्नीगतधिक्कारभावनया निभृतहासोन्मेषः । वञ्चनाचातुर्येण स्वमनीषितसम्पादनं धूर्तता । तदेतव्द्याचष्टे—अत्रैकासनेति ॥

यत्तु प्राकट्यमर्थस्य प्रसादः सोऽभिधीयते ।

यथा—

‘अयमुदयति मुद्राभञ्जनः पद्मिनीना- मुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्द- न्कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥ १०० ॥’

अत्र पद्मिनीविकासकरणे उदयशैलावतरणे कोकशोकहरणे तमोविदारणे चानुक्तोऽपि सूर्यलक्षणोऽर्थः प्रकटमुपलक्ष्यते ॥

“यत्तु प्राकट्यमिति” । समभिव्याहृतपदार्थसंसर्गात्मनि वाक्यार्थे दर्पणतल इवानुपात्तस्यापि विवक्षितस्य वस्तुनः प्रतिभासोऽर्थप्रसादः । न चेदमनुमानं समानसंवित्संवेद्यत्वात् । तदाह—अनुक्तोऽपि सूर्यलक्षणोऽर्यः प्रकटमुपलक्ष्यत इति ॥

अवैषम्यं क्रमवतां समत्वमिति कीर्तितम् ॥ ७९ ॥

यथा—

‘अग्रे स्त्रीनखपाटलं कुरबकं श्यामं द्वयोर्भागयो- र्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।
ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥ १०१ ॥’

अत्र मधुश्रियो मौग्ध्यत्यागयौवनारम्भकृतानां विशेषणानामवैषम्यात्समता ॥

“अवैषम्यमिति” । येन रूपेण लोकेऽर्थः प्रतीतस्तदनतिक्रमेण तस्योक्तिः समता । वक्रता चात्र विशेषणमूहनीयम् । अन्यथा मुक्त्वा व्रजतीत्यतः को विशेषः स्यात् । अग्रे इति । मुग्ध इति कोषात्प्रथममुद्भिद्यमाना कुरबककलिका कान्तानखवत्पाटला भवतीति मधुश्रियो बाल्यम् । ततः प्रौढिमापद्यमानासु कलिकासु श्यामो वन्तभागः स्फुटितत्वाद्द्विधावतिष्ठत इति यौवनम् । एवं बालाशोकमित्यादौ क्रमेण बाल्ययौवनचिह्नोपदर्शनमवसेयम् ॥

माधुर्यमुक्तमाचार्यैः क्रोधादावप्यतीव्रता ।

यथा—

‘भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता- मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् ।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च नो प्रश्रयः ॥ १०२ ॥’

अत्र वासवदत्तालक्षणस्यार्थस्य कोपेऽपि योऽयं विनयावम्बनेन कोपचिह्ननिह्नवस्तन्माधुर्यम् ।

“माधुर्यमिति” । शृङ्गारकरुणौ हि मधुरौ ततस्तव्द्यञ्जकोऽर्थोऽपि मधुरस्तस्य शर्करादिरससोदरं माधुर्यम् । यथा हि—शर्करारसः सहृदयस्यासहृदयस्य वा, सुस्थस्यासुस्थस्य वा, झटिति रसनाग्रमर्पितश्चमत्कारमावहति, तथा चित्तद्रुतिसारचर्वणैकप्राणरसव्यञ्जकोऽर्थस्तेन तव्द्यञ्जनशक्तिसमुद्रैकनिर्वहणं वाक्यार्थस्य माधुर्यमिति पर्यवसितोऽर्थः । तत्र वासनापरिपाकवशादुदयव्ययवतीषु दीप्तचित्तवृत्तिषु जागरूकास्वपि समस्तन्यग्भावनया विरोधः सम्पद्यत इति क्रोधादावप्यतीव्रता इत्युक्तम् । तथा हि—भ्रूमेदे इत्यादौ गात्रस्खलितादिना कदाचिदपराद्धे नायके प्रेमस्वभावादीर्ष्यारोषलक्षणव्यभिचारिप्रादुर्भावात्तदनुभावभ्रूभेदोद्गमो रतिप्रकर्षाद्भविष्णुनावहित्थेन न्यग्भाव्यते । विरोधिविजये हि भूयान्प्रकर्षः परस्य भवति । अत एव परामित्युक्तम् । एवं ‘ईषन्मां प्रति भेदकारि हसितम्’ इत्यादौ माधुर्यमुन्नेयम् । तदिदमाह—अत्र वासवदत्तालक्षणस्येति ॥

अनिष्ठुरत्वं यत्प्राहुः‘प्रोक्तम्’ ग सौकुमार्यं तदुच्यते ॥ ८० ॥

यथा—

‘सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी सीता जवात्रिचतुरापि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम् ॥ १०३ ॥’

अत्र सीतायाः पुरीपरिसरेऽपि कियदस्ति गन्तव्यमिति वचनं शृण्वतो रामस्य शिरीषमृदुतदङ्गावलोकनेनाश्रुणोऽवतारः सौकुमार्यमाह ॥

“अनिष्ठुरत्वमिति” । सामग्रीसम्भवेऽपि चित्तद्रुतिमनासादयन्नीरसः कठोरोऽभिधीयते । अतथाभूतस्तु झटिति तन्मयीभवनयोग्यान्तःकरणः सुकुमारस्तदिदमुक्तमनिष्ठुरत्वमिति । प्राहुरित्यनेन प्रसिद्धिं द्योतयति—“सद्य इति” । सहगन्तुमुत्सुका कथमेवं सुकुमारप्रकृतिः कान्तारेषु भविष्यसीति वार्यमाणापि हृदयवैमुख्येन पभ्द्यामतित्वरितं गमिष्यामीति स्नेहमूढा त्रिचतुराणि पदानि जवाद्गतवती । अश्रुणः प्रथमावतारो भविष्यदश्रुपरम्पराप्रचारभूतः । सौकुमार्यमाहेति अश्रुपातेनानुभावाश्रुनिमित्तभूता चित्तद्रुतिः करतलामलकवत्प्रकाश्यते ॥

अर्थव्यक्तिः स्वरूपस्य साक्षात्कथनमुच्यते ।

यथा—

‘पृष्ठेषु शङ्खशकलच्छविषु च्छदानां रेखाभिरङ्कितमलक्तकलोहिताभिः‘लोहिनीभिः’ ग ।
गोरोचनाहरितबभ्रुबहिःपलाश- मामोदते कुमुदमम्भसि पल्वलस्य ॥ १०४ ॥’

अत्र कुमुदस्वरूपस्य साक्षादिव प्रतीयमानत्वेन यत्स्पष्टरूपाभिधानमसावर्थव्यक्तिः ॥

“अर्थव्यक्तिरिति” । स्वरूपं स्वमसाधारणं कविप्रतिभैकगोचरं चमत्कारिरूपं तस्य साक्षात्कथनम् । कविशक्तिवशात्साक्षात्कारसोदरप्रतीतिजनकपदवत्त्वं सन्दर्भस्यार्थव्यक्तिनामा गुणः । अर्थो यथोक्तस्तस्य व्यक्तिः प्रत्यक्षायमाणता । जातेर्भेदस्तृतीये वक्ष्यते ॥ “‘पृष्ठेऽपि’ इत्यादर्शपाठःपृष्ठेष्विति” । ईषद्विकस्वरस्य कुमुदस्य किञ्चिद्विघटमानवहिः पलाशसम्बन्धिषु शीतातपासम्पर्कादत्यन्तविशदानां दलानां पृष्ठानि पाकलोहितरेखाङ्कितानि दृश्यन्ते । अत एवामोदते किञ्चिदुद्भिदुरेण मुखेन गर्भपिण्डितमामोदं मुञ्चतीति ॥

कान्तिर्दीप्तरसत्वं स्यात् ।

यथा—

‘मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः ॥ १०५ ॥’

अत्र नायिकाया सपत्न्यामीर्ष्यानुबन्धेन प्रतिपादितस्य प्रियतमानुरागलक्षणस्य शृङ्गारस्य दीप्तरसत्वं कान्तिः ॥

“कान्तिरिति” । रसोऽभिमानात्मा शृङ्गारस्तस्य दीप्तत्वं विभावानुभावव्यभिचारिभिः सम्यक् सञ्चलितेन स्थायिना निरन्तरमुपचीयमानस्य परमकोटिगमनम् । तथा हि—मा गर्वमित्यादौ यत्र भङ्गेषु बहुतरसूक्ष्मभङ्गविशेषमयमञ्जरीलिखितेन बहिर्विषयातिरोधानलक्षणतादवस्थ्यात् प्रकाशनेन नायकस्य सपत्न्यामनुरागे विच्छायभावोक्तिः । स्वात्मनि तु सहसाविर्भवत्सात्त्विकप्रतिपादनेन जीवितसर्वस्वाभिमानात्मक्रतिस्थायिभावप्रकाशने तस्या: सापेक्षभावे नायिकाया अपि तदवस्थैव सा प्रतीयते । तदिदमाह—प्रियतमानुरागेति । अनुरागेण लक्ष्यते सप्तार्चिरिवार्चिषोपचीयत इत्यनुरागलक्षणः ॥

भूत्युत्कर्ष उदारता ॥ ८१ ॥

यथा—

‘प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया ।
ध्यानं रत्नशिलागृहेषु विबुधस्रीसन्निधौ संयमो यद्वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ १०६ ॥’

अत्र मारीचाश्रमस्य सत्कल्पवृक्षादिपदैर्वैभवोत्कर्षस्य प्रतिपादनमुदारता ॥

“भूतीत्यादि” । भूतिः सम्पत्तस्या उत्कर्षो लोकातिगप्रकर्षस्तस्यैव सहृदयचमत्कारार्पकतत्या गुणधुराधिरोहणक्षमत्वात् ॥ “प्राणानामिति” । उचिता तपोयोग्या । वनस्य कल्पतरुसम्बन्धः सम्पत्, तत्रैव सत्पदेन मुक्तास्तबकमाणिक्यमञ्जरीचीनांशुककिसलयादिविशेषद्योतिना प्रकर्षः । पद्मप्रकरस्तोयसम्पत्, तत्रैव काञ्चनमयत्वेन पद्मानां प्रकर्षः । बहुत्वं शिलावेश्मसम्पत्, तत्रैव रत्नरूपताप्रकर्षः । सन्निधि स्रीप्रतियोगिकतासम्पत्, तत्रैव विबुधेति प्रकर्षः । तदिदमाह—सत्कल्पवृक्षादिपदैरिति ॥

आशयस्य य उत्कर्षस्तदुदात्तत्वमिष्यते ।

यथा—

‘पात्रे पुरोवर्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलयेऽपि देये ।
व्रीडास्मितं तस्य तदा तदासीच्चमत्कृतो येन स एव देवः ॥ १०७ ॥’

अत्र सकलक्ष्मावलयप्रदानेऽपि जातव्रीडतया बलेराशयोत्कर्षप्रतिषादनादुदात्तत्वम् ॥

“आशयस्येति” । उत्कर्षः पूर्ववत् । उच्चाशयो लोके उदात्त इति प्रतीतः ॥ “पात्र इति” । विश्वनाथ इति यदाज्ञावशंवदा त्रिलोकी सोऽपि यत्प्रार्थयत इति, वलयेऽपीत्यपिशब्देन यस्यैकदेशः कुरुपाण्डवनिधननिदानतया विख्यातस्तस्यापि देये लज्जत इति । देवासुरकिन्नरादिरयं जङ्गमस्थावरप्रपञ्चो यदुच्छ्वासविलसितं सोऽपि चमत्कृत इति पदार्थानभिहितः प्रकर्षोऽभिधेयः ॥

ओजः स्वाध्यवसायस्य विशेषोऽर्थेषु यो भवेत् ॥ ८२ ॥

यथा—

‘तान्येव यदि भूतानि ता एव यदि शक्तयः ।
ततः परशुरामस्य न प्रतीमः पराभवम् ॥ १०८ ॥’

अत्र परशुरामो विजयत एवेत्यस्मिन्नर्थे स्वाध्यवसायप्रतिपादनमोजः ॥

“ओज इति” । अध्यवसायो निश्चयस्तत्र विशेषः पूर्ववत् । स्वपदेन वक्ताभिमतः ॥ “तानीति” । यदि हन्तव्यजातीयमेव न विपर्यंस्तम् । ता एवेति । प्रभावोत्साहमन्त्रजास्तद्वदर्थनिबर्हणप्रौढिप्रख्यातकीर्तयः शक्तयो यदि न विलीनतामयासिषुः । परशुराम इति । अर्जुनभुजसहस्रच्छेदादिना यस्य परशु(राम)र्वरदानेन त्रिभुवनेऽपि प्रसिद्ध इत्यादि ॥

रूढाहङ्कार‘मौर्जित्यम्’ क-खतौर्जित्यम्

यथा—

‘उमा वधूर्भवान्दाता याचितार इमे वयम् ।
वरः शम्भुरलं ह्येष त्वत्कुलोद्भूतये विधिः ॥ १०९ ॥’

अत्रेमे वयमित्यात्मान्वितव्रतचर्यादिसमुत्थप्रौढाहङ्कारप्रतिपादनादौर्जित्यम् ॥

“रूढेति” । ऊर्जितशब्दोऽहङ्कृते प्रसिद्धस्तात्कालिकनिमित्तोपनिपाते वासनाविकासात्तमोनिर्भेदस्थानेषु सुप्तप्रबुद्ध इव स्थायिभिरसंसृज्यमानः प्रथमप्रादुर्भूतोऽभिमानोऽहङ्कार इत्युच्यते । रूढः सूक्ष्मावस्थातो द्वितीयामाविर्भावदशामापन्नोऽहङ्कारो यस्य स रूढाहङ्कारस्तस्य भावस्तत्ता । सुगममुदाहरणम् ॥

प्रेयस्त्वर्थेष्वभीष्टता ।

यथा—

‘रसवदमृतं कः सन्देहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ ११० ॥’

अत्रामृतप्रभृतिम्यः प्रियादशनच्छदस्याभीष्टताप्रतिपादनं प्रेयः ॥

“प्रेय इति” । शब्दगुणे तु निप्पादितवर्णनीयप्रीतिजनकत्वं पदानामुक्तम् । इह तु वाक्यार्थस्य वक्तृप्रीतिगोचरत्वमुच्यत इति विशेषः । प्रीतिरुक्तपूर्वा । तत्रैवाभिशब्देन प्रकर्षो द्योतितः । अभीष्टता प्रेय इति प्रेयःपदप्रवृत्तिनिमित्तम् । “रसवदिति” । प्रशंसायां मतुप् । अमृतमिति यस्य प्रसादात्त्रिदशैरमरत्वमासादितं नान्यथेति प्रत्यक्षसाक्षिके वस्तुनि प्रमाणान्तरानुसरणम् । प्रसन्नरसमिति अम्लतालक्षणकाव्यार्थापगमेन परिणतिरित्यादि ॥

अदारुणार्थपर्यायो दारुणेषु सुशब्दता ॥ ८३ ॥

यथा—

‘देवव्रते वाञ्छति दीर्घनिद्रां द्रोणे च कर्णे च यशोऽवशेषे ।
लक्ष्मीसहायस्य तवाद्य वत्स वात्सल्यवान्द्रौणिरयं सहायः ॥ १११ ॥’

अत्र मुमूर्षामरणादीनां दारुणार्थानां दीर्घनिद्रां वाञ्छति यशोऽवशेष इत्यादिभिः सुशब्दैः पर्यायेण भणनं सुशब्दता । सा च मुख्यार्थव्यतिक्रमस्य वाक्यार्थत्वान्न शब्दगुणः ॥

“अदारुणेत्यादि” । झटित्यातङ्कदायी दारुणस्तस्य साक्षादभिधाने विवक्षितप्रतीतिस्खलनखेदसम्भवात्तदुपनीतस्य वस्तुनस्तदध्यासान्तरितस्य वाक्यार्थत्वादिति । सर्वत्रैव हि लक्षणायामर्थाध्यासोऽङ्गीक्रियते । लौकिकी चेयं लक्षणेति न प्रयोजनगवेषणमपीति । सुगममुदाहरणम् ॥

व्याजावलम्बनं यत्तु स समाधिरिति स्मृतः ।

यथा—

‘दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ ११२ ॥’

अत्र गमने सति प्रियजनावलोकनाभिलाषिण्याः शकुन्तलाया दर्भाङ्कुरचरणक्षतिवल्कलव्यासङ्गादिव्याजावलम्बनं समाधिः ॥

“व्याजेति” । चित्तवृत्तिषु बलादाविर्भवन्तीषु प्रकृतरसौचित्यविरोधिप्रकर्षात्प्रकटमनावरणीयासु च यदन्यथा समर्थनं तव्द्याजावलम्बनं प्रस्तुतोचितसमाधानात्मकत्वात् । तथा हि—पूर्वानुरागे त्रपासाध्वसविवशायास्तावन्नायकसमीपादपसरणमौचित्यापन्नम् । अनन्तरं तूत्कण्ठातरलितायाः कथमालोकमात्रेणापि कृतार्थः स्यादिति परावर्तनम् । तत्र च मौग्ध्यभङ्गशङ्कायां दर्भाङ्कुरक्षतिप्रभृतिव्याजावलम्बनमेव कार्यसर्वस्वभाभासत इति ॥

सौक्ष्म्यमित्युच्यते तत्तु यत्सूक्ष्मार्थाभिदर्शनम् ॥ ८४ ॥

यथा—

‘अन्योन्य‘सञ्चलित’ इति सटीकपुस्तके; ‘सम्मिलित’ गसंवलितमांसलदन्तकान्ति सोल्लासमाविरलसं वलितार्धतारम् ।
लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति ॥ ११३ ॥’

अत्रान्योन्यसंवलितमांसलदन्तकान्तीत्यादिवाक्ये दम्पत्योरनुरागलक्षणस्य सूक्ष्मार्थस्य दर्शनात्सौक्ष्म्यम् ॥

“सौक्ष्म्यमिति” । सूक्ष्ममित्यादिवाक्यैकगोचरोऽर्थः कुशाग्रीयबुद्धितया सूक्ष्म- स्तस्य दर्शनमुपायवैलक्षण्यात्तत्तद्विशेषवतः प्रत्यक्षायमाणता । सूक्ष्मालङ्काराद्भेदस्तृतीये करिष्यते । स चायं भाव्यो वासनीयश्च । भावनामात्रगम्यो भाव्यो यथा—

‘उच्चइ आगमहि आवड्ढ सिज्जन्तरो सपरिआरम् ।
पाणौ पसरन्तमत्ताचंवफलिहचसअम्भुहं बाला ॥’‘उच्यारागच्छेरावर्धय सिद्धान्तरः सपरिवारम् । पाणौ प्रसरन्त॥। ॥। ॥। ॥। ॥। ॥।बाला’ इति च्छाया

एकाग्रताप्रकर्षगम्यो वासनीयस्तमुदाहरति—“अन्योन्येति” । व्याजापसृतपरिवारे लीलावेश्मनि तत्कालकलितमन्मथोन्माथं विदग्धमिथुनमुत्तरोत्तरमपनीयमानत्रपासाध्वसतया प्रतिकलं नवेन्दुवत्कान्तिविशेषमासादयति । विचित्रमव्यभिचार्यनुप्रवेशे हर्षरुदितस्मितादीनामव्यवस्थिततया व्यतिरेकरूपकिलकिञ्चिताख्यशृङ्गारभावोन्मेषः ॥

शास्त्रार्थसव्यपेक्षत्वं गाम्भीर्यमभिधीयते ।

यथा—

‘मैत्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोध्दुम् ॥ ११४ ॥’

अत्र मैत्त्र्यादिपदानां शास्त्रार्थसव्यपेक्षत्वाद्गाम्भीर्यम् ॥

“शास्त्रार्थ इति” । एकपुरुषार्थप्रयोजनकपदार्थव्युत्पादनं विधिनिषेधव्युत्पत्तिफलकं शास्त्रं तदर्थसव्यपेक्षत्वम् । तदुक्तप्रक्रियानिरूपणाधीननिरूपणत्वं वाक्यार्थस्य गाम्भीर्यम् । मैत्रीकरुणामुदितोपेक्षा इति चतस्त्रश्चित्तसम्मार्जनाः । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । चित्तवृत्तिनिरोधो योगः; स एव व्युत्थानहेतुभिरनास्कन्दनीयः सबीजः । सत्त्वं प्रधानम्, पुरुषश्चिद्रूपस्तयोर्भेदः प्रथाख्यातिरिति साङ्ख्यप्रक्रिया । अत्र मैत्र्र्यादिपदानामिति । वाक्यार्थस्यैव यथोक्तरूपत्वे तत्प्रतिपादकपदानामवश्यं तथाभावो भवतीति वैशेषिकाद्भेदो वक्ष्यते ॥

विस्तरोऽर्थविकासः स्यात्

यथा—

‘सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्त्तिरनघा कीर्त्या च सप्ताब्धयः ॥ ११५ ॥’

अत्र विपक्षवधात्सप्ताब्धिव्यापिनी कीर्तिरर्जितेत्येतावतोऽर्थस्य ‘बहुधा’ कबहुविधं विकासितत्वाद्विस्तरः ॥

“विस्तर इति” । वाक्यार्थस्य पल्लवभूततत्तत्सहृदयचमत्कारिविशेषप्रसारणं संवृतविवृतपटवत् विस्तराख्यो गुणः । विस्तर इव विस्तरः शब्दप्रपञ्चवदित्यर्थः । अन्यथा विस्तार इति स्यात् । सङ्ग्रामाङ्गणेत्यादौ तु शत्रुशिरश्छेदात्सप्ताब्धिव्यापिनी त्वया कीर्तिरार्जितेत्येतावान्वाक्यार्थो लौकिकसाधारणतया च चमत्कारास्पदमिति सङ्ग्रामाङ्गणसङ्गतिरेव न तथा यथा वीरमात्रस्योचिता तत्रापि चापसमारोपणमिति काप्युत्साहशक्तिः । अत एव बलवदाश्रयप्रसक्तलुण्टाकवधेन यदवसितं तेनैव तदासादितमिति सोपस्कारकर्तृकर्मप्रपञ्चेन विकासनमेव काव्यपदवीप्राप्तिबीजम् । तदिदमाह—बहुविधं विकासितत्वादिति । नात्र शब्दविकासाधीनः प्रकर्ष इति शब्दविस्तराद्भेदः ॥

सङ्क्षेपस्तस्य संवृतिः ॥ ८५ ॥

यथा—

‘श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि ‘न परेषाम्’ ख गपरेषां न समाचरेत् ॥ ११६ ॥’

अत्र शास्त्रे विस्तरप्रतिपादितस्य धर्मस्य श्लोकार्धेनोक्त‘प्रतिपादितत्वात्’ खत्वादयमर्थसङ्कोचः सङ्क्षेपः ॥

“सङ्क्षेप इति” । तस्येत्यर्थस्य समासे गुणीभूतस्यापि बुध्द्या विभज्य परामर्शः । यथा—‘अथ शब्दानुशासनम् । केषां ? शब्दानामिऽति । अशेषविशेषोपग्राहकपुरस्कारेण वाक्यार्थस्याभिधानं विवृतसंवृतपटवत्सङ्क्षेपः ॥ श्रूयतामिति । अत्र तेन तेन विशेषेण विस्तरतः प्रतिपादयितव्यस्य धर्मस्य यत्किञ्चिदात्मनः प्रतिकूलमन्यस्य नाचरणीयमिति सामान्येनाभिधानमप्रवृत्तप्रवर्तने प्रगल्भायमानमतिसुन्दरमाभासते । नात्र रचनासङ्कोचप्रतिष्ठितं काव्यमिति शब्दगुणाद्भेदः ॥

शब्दार्थौ यत्र तुल्यौ स्तः सम्मितत्वं तदुच्यते ।

यथा—

‘इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने देयाद्वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः ।
संवादः प्रणवेन यस्य दलता कायैकतायां तयो- रूर्ध्वद्वारविचिन्तितेन च हृदि ध्यातः स्वरूपेण च ॥ ११७ ॥’

अत्र प्रणवलक्षणस्यार्थस्य तुल्यत्वेन यथावद्विभज्य विनिवेशनं सम्मितत्वम् ॥

“शब्दार्थाविति” । शब्दस्यार्थौ तयोर्विभज्य विनिवेशनं सम्मितत्वमिति केचित्, तन्न । शब्दग्रहणवैयर्थ्यप्रसङ्गात् । द्वित्वाविवक्षाप्रसङ्गाच्च ।

‘पल्लविअं विअ करपल्लवेहिं पप्फुल्लिअं व मुणहअच्छेहिम् ।
फलिअम्मिव पीणपओहरेहिं अज्जाइ लावण्णम् ॥’‘पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितगिव मुग्धाक्षिभ्याम् । फलितमिव पीनपयोधराभ्यामार्याया लावण्यम् ॥’ इति छाया

इत्यादौ द्विप्रभृतीनामर्थानामविभज्य विनिवेशनमिष्यते । तस्माच्छब्दश्चार्थश्च शब्दार्थौ । तयोस्तुल्यत्वं यावदुद्देशशब्दार्थम् । अर्थस्य विभज्य तुलाधृतवत्प्रतिनिवेशः सम्मितत्वमिति । अर्थमुद्दिश्य शब्दतुलनं काव्यभावबीजं शब्दगुणः, शब्दमुद्दिश्य त्वर्थतुलनमर्थगुणश्च । तथाहि—परमेश्वरस्य मूर्ध्नि बालेन्दुः, पार्वतीस्तने नखाङ्क इति पृथक्शब्देनोद्दिश्य तदुपमायोग्यतया कायैकतायां दलनं हृत्पद्मनवमद्वारयोर्ध्यानेन युगपत्सन्निधानमिति सम्यग्विभज्य तुलितस्येव प्रणवस्य प्रतिनिर्देश इति ॥ तदिदमाह—अत्रेति । यथावदिति । येन प्रकारेण सङ्गच्छत इति तदनतिक्रमेणेति ॥

साभिप्रायोक्तिविन्यासो भाविकत्वं निगद्यते ॥ ८६ ॥

यथा—

‘दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः ॥ ११८ ॥’

अत्र तमालमालावलयितसरित्तीरकृतसङ्केतायाः कुलटायाः स्वतनौ भाविनां परपुरुषनखक्षतानां नलग्रन्थ्यालेखव्याजगोपनेन साभिप्रायभणनं भाविकम् ॥

“साभिप्राय इति” । अभिप्रायविशेषप्रतिबद्धस्य वाक्यार्थस्योक्तिविन्यास उक्त्या विशेषो न्यासः । शब्दगुणे पदानां भाव्यर्थनिष्पादिता इह त्वर्थस्येति विशेषः । तथा हि—दृष्टिमित्यादौ तनुमालिखन्तु जरठच्छेदा नलग्रन्थय इत्युक्त्या विन्यस्यमान एव भाविनलग्रन्थ्यालेख्यरूपार्थः कुलटास्वरूपानुसन्धानदत्तान्तः करणस्य प्रतिपत्तुरनन्तरमेव स्वैंरविहारचिह्नगोपनमभिव्यनक्ति ॥

गतिः सा स्यादवगमो योऽर्थादर्थान्तरस्य तु ।

यथा—

‘शुभे कोऽयं वृद्धो गृहपरिवृढः किं तव पिता न मे भर्ता रात्रौ व्यपगतदृगन्यच्च बधिरः ।
हु हुं हुं श्रान्तोऽहं शिशयिषुरिहैवापवरके क्व यामिन्यां यासि स्वपिहि ननु निर्दंशमशके ॥ ११९ ॥’

अत्र प्रश्नादर्थमवगम्य उत्तरादर्थान्तरावगमो गतिः ॥

“गतिरिति” । अर्थादर्थविशेषात् । हृदयसंवादिन इति यावत् । अर्थान्तरस्य तथाभूतस्य । तेन यत्र सहृदयहृदयङ्गमादर्थात्कांस्यतालानुस्वानुस्वानन्यायेन तादृशमर्थान्तरमवगम्यते सा गतिरिति लक्षणार्थः ॥ “शुभे कोऽयं वृद्ध इति” । सर्वाकारमनवद्यायास्तावद्दास्यमपि नायमर्हतीति हृदयानुकूलमर्थं प्रश्नादवगत्य गृहपरिवृढ इत्युत्तरम् । अस्मादपि मम नायं कोऽपि किं तु गृहस्वामीति हृदयसंवादिनमर्थमवधार्य किं कव पितेत्यादिकमप्रश्नोत्तरशृङ्खला गवेषणीया । तदेतव्द्याचष्टे—उत्तरादिति । उत्तरप्रत्युत्तरवाक्यात् । उत्तरं तु पदं प्रश्नपदमेव ॥

रीतिः सा यस्त्विहार्थानामुत्पत्त्यादिक्रियाक्रमः ॥ ८७ ॥

यथा—

‘प्रथममरुणच्छायस्तावत्ततः कनकप्रभ- स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
प्रभवति पुनर्ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ १२० ॥’

अत्रोदयादारभ्य चन्द्रस्योत्पत्त्यादिक्रियाक्रमो रीतिः ॥

“रीतिरिति” । उत्पत्त्यादीनां क्रियाणां क्रमः काव्यशोभावहत्वेन गुणः । नेदं वस्तुस्वभाववर्णनमिति जातेरर्थव्यक्तेश्च भेदः । सुगममुदाहरणम् ॥

उक्तिर्नाम यदि स्वार्थो भङ्ग्या भव्योऽभिधीयते ।

यथा—

‘त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथः ।
अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वा- मतः शेषं चेत्स्याज्जितमिह तदानीं गुणितया ॥ १२१ ॥’

अत्राभीष्टस्य नायकनायिकासङ्गमस्य भङ्ग्या भणनमुक्तिः ॥

“उक्तिरिति” । स्वीयोऽभीष्टोऽर्थः स्वार्थः । तस्य साक्षात्प्रतिपादनमनुचितमिति अर्थान्तरभङ्गिभिः प्रतिपादनमर्थगुणः । भव्यो मनोहरः । सुगममन्यत् । नायकनायिकासङ्गमस्येति । नायकस्य नायिकया तस्याश्च नायकेनेति परस्परोत्कण्ठाप्रकर्षो विवक्षितः । तेनैकशेषो न भवति ॥

विवक्षितार्थनिर्वाहः काव्ये प्रौढिरिति स्मृता ॥ ८८ ॥

यथा—

‘त्वद्वक्त्रेन्दुविलोकनाकुलधिया धात्रा त्वदीयां श्रियं निक्षिप्य प्रतिराजकेषु विदुषां लक्ष्म्या त्वमापूरितः ।
तेनैते नियतं दरिद्रति गृहेष्वेषामियं दृश्यते नैनामाद्रियसे त्वमिच्छसि नु तां त्वामेव सा धावति ॥ १२२ ॥’

अत्र त्वद्वक्त्रविलोकनाकुलेन धात्रा त्वदीया लक्ष्मीः शत्रुषु निक्षिप्य विदुषां च लक्ष्मीस्त्वय्यारोपिता । ‘यतः’ गअतस्त्वं विपक्षलक्ष्मीमाद्रियसे सा च त्वामनुधावति । या च विदुषां लक्ष्मीस्तया त्वमापूरितस्तेन ते दरिद्राः । अत एव त्वमेनां नाद्रियसे । इयं च विद्वद्गेहेष्वेव दृश्यते इत्येतावतः प्रभूतस्यार्थस्यानेकवाक्येन प्रतिपादितत्वाद्विवक्षितार्थनिर्वहणं प्रौढिः ॥

“विवक्षितेति” । कवेरभिमतस्य भूयसोऽप्यर्थस्य स्वल्पेनैव वाक्येन प्रतिपादनं प्रौढिः । तथा हि—त्वां निर्माय जगद्विलक्षणवस्तुनिर्वहणचमत्कृतस्य धातुस्त्वद्वक्त्रेन्दुविलोकनं तदासङ्गेन त्वदर्थनिर्भितायाः श्रियः प्रतिराजकेषु भ्रमणक्रमेण सञ्चारणं तत्पूर्वापरप्रतिसङ्घात (न)बलाद्विद्वभ्द्यो लक्ष्मीमाकृष्येत्यादिको भूयानर्थः स्तोकेन वाक्येनोपनीत इति ॥

सम्प्रत्यतिप्रसङ्गवारणार्थं क्रमप्राप्ता वैशेषिकगुणा लक्षितव्याः । ते च दोषा अपि सन्तो गुणीभावमापन्ना उच्यन्ते । तत्रैष कवीनामालापः—

‘‘सामान्यसुन्दरीणां विभ्रभमुद्वहत्यविनयोच्छ्रायः । धूमोच्चयः प्रज्वलितानां बहुमतः सुरभिदारूणाम् ॥’ इति छायासामण्णसुन्दरीणं विब्भममुव्वहइ अविणओच्चेअ ।
धूमोच्चिअ पज्जलिआणं बहुमओ सुरहिदारूणम् ॥’

‘क्वचिद्दूषणानामपि गुणत्वमिति दर्शयन्नाह—‘ इति भवेत्दारुणानां गुणत्वमिति शङ्कां दर्शयन्नाह—

पदाद्याश्रितदोषाणां ये चानुकरणादिषु ।
गुणत्वापत्तये नित्यं तेऽत्र दोषगुणाः स्मृताः ॥ ८९ ॥

त्रिविधा अपि ते भूयश्चतुर्विंशतिधा बुधैः ।
प्रोक्ता यथा गुणत्वेन प्रविभज्य तथोच्यते ॥ ९० ॥

या म्लिष्टम्लेच्छितादीनां पददोषेष्वसाधुता ।
निरूपितानुकरणे गुणत्वं सा प्रपद्यते ॥ ९१ ॥

यथा—

‘उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या ।
हुं हु मुञ्च मममेति च मन्दं जल्पितं जयति मानवतीनाम् ॥ १२३ ॥’

अत्र हुं हु मममेत्यसाध्वोरपि म्लिष्टम्लेच्छितयोरनुकरणत्वाद्गुणत्वम् ॥

“पदादीति” । पदवाक्यवाक्यार्थदोषाणां गुणत्वापत्तये नित्यं ये भवन्ति, तेऽनुकरणादिषु मध्ये दोषगुणाः स्मृता इति सम्बन्धः । यद्यपि चानुकरणादिका एव न गुणाः, तथाप्यनुक्रियमाणाद्यभेदोपचारेणोक्तम् । पदादिदोषेष्वन्त्यान्त्यस्यैकस्य नवधामेदे चतुर्विंशतिप्रकाराः । “यथेति” । येनोपाधिना गुणीभवनमाचार्यैरुपपादितं तत्तदुपाधिविभागप्रदर्शनं करिष्यत इति । “या म्लिष्टेति” । इह द्वये दोषा नित्या अनित्याश्च । तत्रानुकरणमात्रानपवदनीयदोषभावाश्च्युतसंस्काराप्रयुक्तादयो नित्याः । अनुकरणीयानुकरणानपवादकहेतुकाः श्रुतिकटुत्वप्रभृतयस्त्वनित्याः । येषु पददोषेषु म्लिष्टम्लेच्छितप्रभृतीनां यासाधुता निरूपिता, सा गुणत्वमनुकरणे प्रपद्यत इत्यन्वयः । लुप्तैकदेशं म्लिष्टम् । अव्यक्तरूपं म्लेच्छितम् । आदिग्रहणेन ग्रस्तनिरस्तो-पघ्मातकम्पितादयः । हुं हु इति द्वितीयहुङ्कारे बिन्दुप्रोञ्छनान्म्लिष्टम् । मममेति किं मुञ्च मुञ्चेति म्लिष्टमुत ममेति न निश्चीयते । “अनुकरणत्वाहुणत्वमिति” । अर्थविशेषे हि साधुत्वव्यवस्थेति । यच्चाशक्तिजमसाधुरूपम्, तस्यानुकरणे साधुत्वमिष्यत इत्युक्तम्, अनुक्रियमाणं तु स्वरूपपदानुकरणतया पूर्वार्थत्यागेन साघ्वेव । तस्यैवानुकरणस्य तत्कालरञ्जकमानवतीमममवचनानुकारतया च गुणीकरणसामर्थ्यमिति ॥

गुणत्वमप्रयुक्तस्य तथानुकरणे भवेत् ।

यथा—

‘दिवं पत्काषिणो यान्ति येऽचीकमत भाषिणः ।
पत्काषिणोऽपि नो यान्ति ये वचन्ति प्रयुञ्जते ॥ १२४ ॥’

अत्राचीकमत वचन्तीत्यादिपदानां कविभिरप्रयुक्तानामप्यनुकरणत्वाद्गुणत्वम् ॥

“गुणत्वमिति” । पत्काषिण इति पादमपि कषन्तः । ‘हिमकाषिहतिषु च’ इति पादशब्दस्य पद्भावः । वचेर्वचन्तीत्येव रूपमप्रयुक्तम् । न त्वन्यथापि । ‘सत्यं नाम न वच्मि’ इत्यादेरनुमतत्वात् । इत्यादिपदानामित्युदाहरणान्तराभिप्रायेण ॥

यच्छ्रुतेर्विरसं कष्टं तस्य दुर्वचकादिषु ।
गुणत्वमनुमन्यन्ते सानुप्रासस्य सूरयः ॥ ९२ ॥

यथा—

‘‘नाष्ट्रा’ स्व-रा; ‘नांष्ट्रा’ इति पठित्वा ‘नांष्ट्रा राक्षसाः’ इति व्याख्यातं काव्यानुशासनविवेके हेमचन्द्राचार्यैःत्वाष्ट्रास्त्वाष्ट्रारिराष्ट्रे न भ्राष्ट्रे नादंष्ट्रिणो जनाः ।
धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे च नोष्ट्रिणः ॥ १२५ ॥’

अत्र श्रुतिविरसत्त्वात् कष्टत्वेऽपि दुर्वचकत्वाद्गुणत्वम् ॥

“यच्छ्रुतेरिति” । दुर्वचकयोगा इति व्यावहारिकचतुःषष्ट्यां दुर्वचकप्रयोगोऽनुमतः । तस्यानुप्रासघटकत्वेऽलङ्कारनिर्वहणक्षमतया कविशक्तिव्यञ्जकस्य गुणीभावः । आदिपदेन रौद्रादिरसानुप्रवेशः । यदाह—

‘शषौ सरेफसंयोगौ टवर्गश्चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे तेन वर्णा रसच्युताः ॥

त एव विनिवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्येव तेन वर्णा रसच्युताः

॥’ इति ।

त्वाष्ट्रा राक्षसास्त्वष्टुरपत्यं वृत्रस्तस्यारिरिन्द्रस्तस्य राष्ट्रे स्वर्गे न सन्ति । भ्राष्ट्रे चणकादिभर्जनस्थाने न कुण्ठदंष्ट्रा भवन्ति । असितचञ्चुचरणा हैमा‘हंसा’ ख धार्तराष्ट्रा व विद्यन्ते । उष्ट्रिण उष्ट्रोपजीविनः ॥

यत्पादपूरणाद्यर्थमनर्थकमुदाहृतम् ।
गुणत्वमनुमन्यन्ते तस्यापि यमकादिषु ॥ ९३ ॥

यथा—

‘योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ॥ १२६ ॥’

बभौ मुखेनाप्रतिमेन काचन श्रियाधिकानां प्रति मेनका च न ॥ १२७ ॥’

अत्र खलुशब्दस्य चशब्दस्य च पादपूरणमात्रेऽपि प्रयोजने यमकत्वाद्गुणत्वम् ॥

“यत्पादपूरणेति” । द्योतनीयमर्थमन्तरेण प्रयुक्तमव्ययपदमनर्थकमित्युक्तम् । पादपूरणार्थत्वं तु दूषणताबीजम् । आदिग्रहणाद्गद्यपूरणम् । सति तूपयोगे तस्य तद्बिजाभावाद्दोषभावविरहोऽलङ्कारारम्भे च गुणत्वम् । तदिदमुक्तम्—“यमकादिष्विति” । आदिशब्दोऽनुप्रासचित्रादिपरः । वाक्यालङ्कारार्थत्वमपि शब्दालङ्कारारम्भकत्वमेव । यदाह—‘आर्षार्षिपुत्रकर्षिकवैदिकादिवाक्यानामलङ्कारहेतवो वाक्यालङ्कारार्थाः’ इति । तेन—

‘उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि ।
अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन

॥’ इति ।

अत्र हि प्र इत्येतयोर्न वाक्यालङ्कारप्रयोजकत्वमित्युक्तप्रायम् । योषितामित्यादाबतितरां नखलूनं योषितां गात्रमुज्ज्वलतया नोनमित्येव पर्याप्ते द्वितीयपादे तदुभयमपि यमकारम्भकं सत्प्रस्तुतोपयोगितया कविव्युत्पत्तिपुरस्कार प्रवृत्तमपजहाति दोषभावमुपादत्ते च गुणत्वमिति ॥

यत्तु रूढिच्युतत्वेन प्रोक्तमन्यार्थसञ्ज्ञितम् ।
प्रहेलिकादिषु प्रायो गुणत्वं तस्य युज्यते ॥ ९४ ॥

यथा—

‘‘खादयः’ खखातयः कनि काले ते स्फातयः स्फार्हवल्गवः ।
चन्द्रे साक्षाद्भवन्त्यत्र वायवो मम धारिणः ॥ १२८ ॥’

अत्र ‘खादयः’ खखातय इत्यादीनां घर्घरिकादौ धृङश्चानवस्थाने न रूढिः । गूढार्थे तु प्रहेलिकादौ तन्न दुष्यतीति तेषां दोषगुणत्वम् ॥

“यत्त्विति” । रूढिच्युतत्वेन द्वितीयां सञ्ज्ञां प्रयोजयति । आकीर्णामन्त्रणाद्युपयोगिनी प्रहेलिका । तथा च—तद्विद्यसम्भाषायां विदग्धैरुपन्यासैः स्वार्थाप्रत्यायकत्वलक्षणबीजाभावान्न दोषः, गुणस्तु भवति । अनुकरणादिकमादिपदेन गृह्यते । खातयो घर्घरिकाः । कनीति कन्यासम्बोधनम् । कालश्चरणः कर्णाटदेशभाषानुसारात् । स्फातयः स्फीताः । स्फार्हो मनोहरः । वल्गुर्ध्वनिः । चन्द्र आह्लादकः । वायवः प्राणाः । धारिणोऽनवस्थिताः । तदयं वाक्यार्थः—हे कनि कन्ये, तवाह्लादकचरणबद्धा यथोक्तविशेषणा घर्घरिकाः साक्षाद्भवन्ति श्रोत्रेण प्रत्यक्षीक्रियन्ते । अत्र प्रस्तावे मम प्राणा उद्दीपनप्रकर्षमसहिष्णवो धारिणोऽनवस्थिता इति । व्रणप्ररोहस्थानादौ खात्यादिशब्दानां रूढिर्न तु घर्घरिकादावित्याह—अत्रेति । नामधातुविवक्षया द्विधा व्याख्यातम् ॥

तुच्छवाच्यमपुष्टार्थमिति यत्प्राक्प्रकाशितम् ।
तस्य च्छन्दोऽनुरोधादौ गुणत्वमवधार्यते ॥ ९५ ॥

यथा—

‘द्विरष्टवर्षाकृतिमेनमर्थिनामुशन्ति कल्पोपपदं महीरुहम् ।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ १२९ ॥’

अत्र द्विरष्टवर्षाकृतिमिति कल्पोपपदं महीरुहमिति हिरण्यपूर्वं कशिपुमित्यस्य तुच्छार्थत्वेऽपि च्छन्दोऽनुरोधाद्गुणत्वम् ॥

“तुच्छेति” । शब्दपल्लवनस्य प्रकृतरसाननुगुणत्वेन दोषत्वप्रसङ्गे क्वचिदनन्यगतिकतया कवेरुत्पाद्यते । तथा हि—भिन्नसर्गान्तैरित्यादिना सर्गाणामौत्सर्गिकैकवृत्तनिर्वाहौचित्ये स यथोक्तसङ्क्षिप्तशब्दाप्रवेशात्पररूपेण तदर्थत्वस्य विवक्षितत्वाच्च शब्दविकासे न दोषः, किं तु गुण एव । प्रकृतोदाहरणे द्विरष्टवर्षाकृतिमिति कल्पोपपदं महीरुहमिति च निदर्शनं मन्यन्ते । षोडशादिशब्दानामपि वंशस्थप्रवेशत्वादनन्यगतिकत्वाभावात् । हिरण्यपूर्वं कशिपुमिति तु सङ्गच्छते । नहि हिरण्यकशिपुशब्दोऽत्र प्रविशति । प्रदर्शनार्थं तु द्वयमन्यदप्युपात्तम् । एवंविधः शब्दविस्तरो गुणतामासादयतीत्याशयात् । तेनायमर्थः—पल्लवाख्यशब्दगुणे तावत्तुच्छता चमत्कारकारितया गुणधुराधिरूढैवाविस्तरविविक्तविषयतया क्व विशेषगुणस्य भवतीति जिज्ञासायां तु छन्दोऽनुरोधो विहितः । सोऽपि हि कादाचित्कः करोत्येव दोषभावव्यावृत्तिमिति ॥

प्रतिपादितमादौ यदसमर्थमवाचकम् ।
तस्यापि खलु मन्यन्ते गुणत्वं सीत्कृतादिषु ॥ ९६ ॥

यथा—

‘आशु लङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिककराहततन्त्री मण्डलक्वणितचारु चुकूजे ॥ १३० ॥’

अत्र कूजितस्य पक्षिणोऽन्यत्रावाचकत्वेऽपि कामशास्त्रेऽनुमतत्वाद्गुणत्वम् ॥

“प्रतिपादितमिति” । अस्ति कश्चिदेवं विषयो यत्रासमर्थस्य चारुतया गुणभावः । तथा हि—यद्यपि गणपाठादव्यक्तशब्दः कूजितम्, तथापि लोके पक्षिविषय एव नियतम्, तथा चाभिमतविषये प्रयुक्तं पक्षिविरुताकारमावेदयति । ऽहारीतप्रभृति—‘ इत्यादिना कामशास्त्रकारैः सीत्कारोपदेशनात् । सीत्कारस्य च चतुःषष्टिकलात्वेन प्रवणतयात्यन्तमुपादेयत्वात् । तदाह—‘अन्यान्यप्याकृतिग्रहणान्युपलक्षयेत्’ इति ॥

शास्त्रमात्रप्रतीतत्वादप्रतीतं यदुच्यते ।
गुणत्वं तस्य तद्विद्यसम्भाषादौ विदुर्बुधाः ॥ ९७ ॥

यथा—

‘सर्वकार्यशरीरेषु मुक्ताङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥ १३१ ॥’

अत्राङ्गस्कन्धपञ्चकमित्यस्य शास्त्रमात्रप्रसिद्धस्यापि तद्विद्यसम्भाषायां गुणत्वम् ॥

“शास्त्रेति” । शास्त्रमात्रप्रसिद्धानामाहत्यप्रतीत्यजननेन विवक्षितवाक्यार्थप्रत्ययपरिस्खलनं खेददायी नानामृदुदुष्टताबीजम् । यदि तु कुतश्चिद्विशेषाज्झटित्येव प्रतीतिं जनयेत्तदा कथं दोषः । अस्ति च प्रतिपत्तिव्युत्पत्त्यतिशयलक्षणो विशेषः । तदिदमुक्तम्—तद्विद्येति । मन्त्रणाद्यवसरे औचितीवशात्तत्तत्पदानां गुणत्वमपि निर्वहति । शास्त्रप्रकियापेक्षित्वं गाम्भीर्यम् । शास्त्रव्यवहारसङ्केतितपदानां गुणत्वमित्यन्यः प्रकारः । यथावद्विनियोगः कार्यस्तस्य प्रकारसाकल्यं शरीरम्, शब्दच्छलात्कायः, आत्मा सारभूतः क्षेत्रज्ञश्च । कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिरिति पञ्चाङ्गानि । रूपं सञ्ज्ञा संस्कारो वेदना विज्ञानमिति पञ्च स्कन्धाः ॥

अर्थप्रतीतिकृद्दूरे क्लिष्टं नाम यदुच्यते ।
झटित्यर्थप्रतीतौ तद्गुणत्वमनुगच्छति ॥ ९८ ॥

यथा—

‘अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।
पितुः पदं मध्यममुत्पतन्ती काञ्चीगुणस्थानमनिन्दितयाः ॥ १३२ ॥’

अत्रात्मना पदं शब्दगुणमिति पितुः पदं मध्यममिति चाकाशविषया काञ्चीगुणस्थानं नितम्बविषयमिति सर्वप्रसिद्धेर्झटित्येव प्रतीतिं करोतीति क्लिष्टस्यास्य गुणत्वम् ॥

“अर्थप्रतीतिकृदिति” । इहापि तदेव दूषणताबीजं झटिति प्रतीतिजनने सति समाधीयते । समाधानोपायश्च पदान्तरसन्निधानमतिप्रसिद्धिः प्रकरणं वा । तथा हि—प्रकृतोदाहऱणे उत्तरार्धे हरिरित्यभिधानादात्मनः पदमिति हरेः पदमिति सम्पन्नम्, अस्य च सामान्यशब्दत्वादाकाशविषया प्रतीतिर्यद्यपि झटिति नोत्पत्तुमर्हति, तथापि शब्दगुणमिति विशेषणेन पदार्थान्तराद्यवच्छिद्य विवक्षिताभिमुखी प्रतीतिरुपजन्यते । पितुः पदमिति । यद्यपि पदमिति सामान्यं तथाप्याकाशस्यैव मध्यमचरणविन्यासस्थानत्वेन प्रसिद्धेर्न तथोचितप्रतीतिव्यवधानम् । काञ्चीगुणस्थानमिति । चरणादारभ्य वर्णनाक्रमे नितम्ब एव काञ्चीनिवेशनस्योचितत्वान्न प्रती-तिव्यवधानम् । तदिदमुदाहरणत्रयप्रयोजनमुदाहरणादेरनेकोऽत्र वाक्यार्थो गवेषणीयः । कथं तर्हि सर्वप्रसिद्धेरिति ब्रवीति । इत्थं शब्दगुणशब्दस्य बहुव्रीहित्वादवश्यं विशेषपर्यवसानाय प्रसिद्धिरनुसरणीया । अवश्यं न वर्णनक्रमेऽपि काञ्चीगुणस्थानमनिन्दिताया इत्यत्र काञ्चीगुणस्थानशब्दस्य नितम्बविशेषपर्यवसानार्थं कवीनामौचित्यप्रसिद्धिरङ्गीकर्तव्येति । ननु चात्मनः पदं शब्दगुणत्वमित्यत्र प्रसादः कस्मान्न भवति । एवमाह न भवतीति । उदाहरणस्यादूषणत्वात्सामान्यशब्दस्य विशेषपर्यवसानम्, अन्यच्च समभिव्याहृतपदार्थसंसर्गरूपे वाक्यार्थे स्वच्छसलिल इवाभिमतविशेषप्रतिबिम्बनमित्युपाधिद्वयस्य सङ्कराच्च ॥

अप्रसिद्धार्थसम्बन्धं यद्गूढार्थमिति स्मृतम् ।
तव्द्याख्यानादिषु प्रायो गुणत्वेन तदिष्यते ॥ ९९ ॥

यथा—

‘अम्हारिसा वि कइणो कइणो ‘अन्द’ (चन्द)’ ख गहलिबुढ्ढसालिपमुहा वि ।
मण्डुक्कमक्कडा वि हु होन्ति हरीसप्पसिंहा वि ॥ १३३ ॥’

[अस्मादृशा अपि कवयः कवयो हरिवृद्धशालिप्रमुखा अपि ।
मण्डूकमर्कटा अपि खलु भवन्ति हरिसर्पसिंहा अपि ॥]

अत्र मण्डूकमर्कटसर्पसिंहेष्वप्रसिद्धप्रयोगत्वाद्गूढस्यापि हरिशब्दस्य स्वयं व्याख्यातत्वाद्गुणत्वम् ॥

“अप्रसिद्धार्थसंवन्धमिति” । तस्य गुणार्थस्य व्याख्यानं तव्द्याख्यानम् । अत्राप्यतिप्रसिध्द्याकृष्टस्यानतिप्रसिद्धार्थप्रतीत्यकरणं दुष्टताबीजमभिधानीयम्, तत्तु प्रतीतिपर्यवसानादेव निवर्तते । भवति चाभिधानकोप इव व्याख्याने झटिति प्रत्ययः । अस्मादृशा अपि मन्दप्रतिभानाः कवयः कविशब्दवाच्या हरिवृद्धशालिप्रमुखाश्च लोकोत्तरप्रतिभाशालिनस्तदवयवतां विख्याते चाविख्याते च शब्दाः साधारणा भवन्ति । तद्यथा—हरिशब्द एवेति व्याख्यानम् । ततो दोषत्वाभावः प्रतिवस्तुलक्षणालङ्कारपर्यवसायितया च प्रकृतार्थानुगुणत्वेन गुणत्वलाभः । तदेतव्द्याचष्टे—स्वयं व्याख्यातत्वाद्दोषाभावो गुणत्वं पुनराभिप्रायिकात्प्रकृतानुगुणभावादिति बोद्धव्यम् ॥

नेयार्थं यत्स्वसङ्केतक्लृप्तवाच्यं ‘तदीरितम्’ क-खनिरूपितम् ।
प्रहेलिकादिषु प्राज्ञैस्तद्गुणत्वेन गण्यते ॥ १०० ॥

यथा—

‘मोरु कलावेण वहइ तह णामह सरिणाउ ।
उस्सीसा पाअन्तिगओ अणुणत्तिर्हि जणु णाउ ॥ १३४ ॥’

[मयूरः कलापेन वहति तस्य नाम्नः सदृशनामा ।
उच्छीर्षात्पादान्तगतोऽनुनक्तं यथा नौका ॥]

अत्र मयूरबर्हचन्द्रकसङ्केतेन कल्पितस्य चन्द्रनाम्नो नेयार्थत्वेऽपि प्रहेलिकात्वाद्गुणत्वम् ॥

“नेयार्थमिति” । अत्रापि पूर्ववदेव वासना । आकीर्णामन्त्रणादौ विदग्धानां लक्षणादयः प्रहेलिकाविशेषानुन्मीलयन्त उपयुज्यन्ते । तथा हि—मयूरेति । ऽजिअनाउ’ इति पाठे जितनौक इति स एवार्थः । मयूरो बर्हभारे चन्द्रकं वहति । अनेन सङ्केतेन चन्द्रनाम लभ्यते । संविष्टस्य शिरोदेश उच्छीर्षम्, चरणदेशः पादान्तः । उच्छीर्षेण प्राची दिग्लक्ष्यते । ‘प्राक्शिराः शयीत’ इति वचनात् । अर्थात्पादान्तेन प्रतीची । ततश्च ‘प्राच्याः प्रतीचिमर्धचन्द्रो गतः’ इति प्रातःकालोद्भेदो वाक्यार्थः । ‘अणुणेन्ति अजिणणाउ’ इति पाठे सुभगमानिनं कान्तमनुनयन्त्या मया ज्ञात हति खण्डितकामिनीखेदोक्तिः । न चैतासां लक्षणानामस्ति किञ्चित्प्रयोजनमिति नेयार्थत्वप्रसक्तौ प्रहेलिकाभाव एव समाधानहेतुः । ननु चोच्छीर्षपादान्तरपदयोरस्तु, मयूरकलाप इत्यादौ तु कथम् । यमिति हि सर्वनामाभिमतमेव तावदुपस्थापयति । बर्हे बहूनां बहुले कथमेकस्य प्रतीतिरित्यभिधानेऽपि कदाचित्क्लिष्टस्य विशेषगुणः स्यात् । नात्र नेयार्थता, किं तु तेन सङ्केतेन कल्पितस्य चन्द्रनाम्न इति । तस्य नाम्नः सदृशनामेत्यनेन मुख्यवृत्त्यैव विवक्षितसदृशलाभादिति । अत्रेदं वक्तव्यम्—तस्य नाम्न इत्यनेन चन्द्रकपदमुपस्थापितम्, न च तेन सहास्ति चन्द्रपदस्य सादृश्यमिति । तत्र लक्षणाश्रयणीया । तदिदमुक्तं चन्द्रसङ्केतेन कल्पितस्य चन्द्रनाम्न इति । उपलक्षणतया च एकदेशव्याख्यानम् ॥

यदनिश्चयकृत्प्रोक्तं सन्दिग्धं तद्गुणी भवेत् ।
भवेद्विशेषावगमो यदि प्रकरणादिभिः ॥ १०१ ॥

यथा—

‘महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
स शार्ङ्गचक्रासिगदाब्जपाणिर्मेघच्छविः पातु जगन्ति शौरिः ॥ १३५ ॥’

अत्र तस्मिन्नपत्ये इत्यनिश्चितस्याप्यपत्यविशेषस्य सन्दिग्धत्वेऽपि गौर्यामिति प्रकरणेन गम्यते । मेघच्छविरित्यस्य च नवश्यामादिपदानुपादानेऽपि शौरिसम्बद्धत्वान्नवमेघच्छविर्मेघश्यामच्छविरिति वा विशेषो निश्चीयत इति तस्यापि गुणत्वम् ॥

“यदिति” । संशायकजातीयस्य सन्देहजनकत्वं नाम दूषकताबीजम् । तद्यदिकुतश्चिद्विशेषाद्विवक्षितप्रतीतिरप्रत्यूहमुपपद्यते तदा भवत्येव दोषाभावः । विशेषावगमो विशेषदर्शनं तस्यैव संशयविरोधित्वात् । महीभृत इत्यादावपत्यशब्दो यद्यपि गौरीशब्दोऽपि तदितरदत्तपद इति संशायकजातीयो भवति, तथापि तच्छब्दोपस्थापित एव विवक्षितविशेषे पर्यवस्यन्नपजहाति दोषत्वम् । तच्छब्द एव कथं तमर्थमुपनयतीत्यत्र तु प्रकरणमेव जाग्रदवस्थमस्ति । मेघच्छविरित्यत्र तु यद्यपि मेघपदं श्यामाश्यामदत्तपदतया संशायकजातीयम्, तथापि प्रसिद्धपदनीलवर्णार्थगौरीपदसमभिव्याहाराच्छब्दान्तरसन्निधिरपि विशेषे नियमयति तद्वा छविपदं वा विशेषे पर्यवस्यति । अत्र प्रकरणादीनां विशेषस्मृतिहेतुत्वात् । अत एव सूत्रे बहुवचनादिपदानुपादानादनुपात्तास्तदेतदभिसन्धाय व्याचष्टे—“अत्रेत्यादि” । एवं नवमेघच्छविरिति चोक्ते यथा नियमेनार्थप्रतीतिरप्रत्यूहा भवति तथा मेघच्छविरित्युक्त इति । अत एव कविसमयप्रसिद्धविशेषावगमसामग्रीसम्पादनेन गुणत्वमिति । कथं पुनरिदं क्लिष्टस्य वैशेषिकं न भवति को वाक्यभूतेन भवति । किं तु संशायकत्वमापादयतः प्रतिभासोऽप्युक्तयुक्त्या निवर्तत इत्यभिमतम् । न चैवंरूपता क्लिष्टवैशेषिके सम्भवति । एकस्यैव चित्रपदस्य संशयशक्तिरिति न वाक्यार्थगामिता ॥

यत्तद्विरुद्धमित्युक्तं विपरीतप्रकल्पनम् ।
तथाभूताभिधानेन गुणत्वं प्रतिपद्यते ॥ १०२ ॥

यथा—

‘अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ १३६ ॥’

अत्र विपरीतार्थकल्पनं विरुद्धत्वेऽपि सन्ध्यर्थविग्रहार्थयोः स्फुटभिन्नार्थत्वेनाभिधानाद्गुणत्वम् ॥

“यत्तदिति” । एवं वस्तु प्रकृतमभिसन्धाय वाक्यरचने तदुपमर्दकवस्त्वन्तरप्रवेशो विरोधः । यत्र द्वे अपि वस्तुनी प्रकृते वस्त्वन्तरमेव वा प्रकृतं तद्यथोक्तरूपाभावे कथं दोषः । तथा हि—अभिधायेत्यादौ दूतवाक्ये सन्धिविग्रहयोर्मिथो विरोधिनोरपि विवक्षितं स दोषः । सरुषः सक्रोधस्य तव माननां पूजां शिशुपाल इच्छति । अनुशयः पश्चात्तापः । अभिमुखं सोत्कण्ठं मनो यस्य स तथेति सन्धिपक्षे । विग्रहपक्षे त्वनुशयः क्रोधो भवतः सकाशादभि भयशून्यं मनो यस्येति नित्यसापेक्षत्वात्समासः । सरुषो मानना उपयोगस्तदिह निसृष्टार्थस्योभयोपन्यासो यद्रोचते तद्विधीयतामित्यभिसन्धाय रचित इति गुणत्वमित्युभयविवक्षापक्षे व्याख्यानम् । यदा तु शासनहरो दूतस्तदोद्यतेष्वपि शस्त्रेषु यथोक्तवक्तारो दूता भवन्तीति न्यायेन विग्रहर्थमेवाभिमतः विपक्षस्यापि प्ररोचना दूतकर्तव्येति मुखे सन्धिः पर्यायभूतो युक्त एव । तदिदं व्याख्यानेन स्फुटयति—अत्रेति । सन्धिरूपोऽर्थः सन्ध्यर्थः, विग्रहरूपोऽर्थो विग्रहार्थः । तयोरभिधानेन स्फुट एव भिन्नोऽर्थः प्रयोजनम् । पक्षद्वयेऽपि यत्प्रयोजनमुक्तं तदभिप्रायेणैतव्द्याख्यानम् ॥

अप्रयोजकमित्युक्तमविशेषविधायकम् ।
स्वरूपमात्रे वक्तव्ये तस्यापि गुणतेष्यते ॥ १०३ ॥

यथा—

‘‘ते चा’ खतेऽप्याकाशमसिश्याममुत्प्लुत्य परमर्षयः ।
साग्रं वर्षसहस्रं स तपस्तेपे महामनाः ॥ १३७ ॥’

अत्रासिश्याममित्याकाशं प्रति, साग्रमित्यनेन च वर्षसहस्रं प्रति विशेषानभिधानेऽपि दूरोत्पतनचिरतपश्चरणयोरुपयोगविवक्षायां गुणत्वम् ॥

“अप्रयोजकमिति” । तदेव कविभिरुपादीयत इति यदभिप्रेतसन्धिमाधत्ते । यत्र वाक्यार्थप्रविष्टमपि न तथाभावमासादयति तदप्रयोजकमित्युक्तम् । तस्य यदि विशेषस्वरूपाभिधाने पर्यवसानेन प्रयोगो न तर्हि दोषः । तथा हि—आकाशमित्यादौ नातिश्यामतारूपं विशेषमाकाशे काञ्चिदपि विशेषमात्रामुन्मुद्रयति, आकाशस्य सर्वदा तद्रूपानपायात् । एवमसमग्रस्य सहस्रत्वाभावात्साग्रमित्यपि न विशेषाधायकम् । आकाशसहस्रयोस्तु यदेव रूपभावेदनीयमित्यत्रैतावन्मात्राभिप्रायेण नास्ति दूषणम्, तथापि नान्तरीयकयोरभिधाने किं प्रयोजनं येनानयोर्गुणभावसम्पत्तिरित्यत आह—“दूर इति” । अतिदूरे श्यामत्वमधिकं प्रतिभाति । क्षणमात्रमपि न विरतिरासीदिति साग्रपदाभिप्रायोऽत एव नात्र पौनरुक्त्यम् । तर्हि वाक्यार्थे विशेषाधायकत्वमेवानयोरिति कथं दूषणत्वसम्भावना । इत्थम् । यस्मिन्ननुपादीयमानेऽपि नाभिमतन्यूनता तत्पदमप्रयोजकम् । अस्ति चात्र द्वयोरपि तज्जातीयतायां दोषत्वप्रसङ्गः । स प्रकृतोपयोगविवक्षायामेव निवर्तते । सर्वथा प्रकृतानुपयोगे दूषणत्वानपायिता । अस्ति चात्रोचित एवोपयोगो यो विवक्षितुमर्हतीत्याह—“विवक्षायामिति” ॥

यदव्युत्पत्तिमद्देश्यमिति पूर्वं निरूपितम् ।
महाकविनिबद्धं सत्तदप्यत्र गुणी भवेत् ॥ १०४ ॥

यथा—

‘षण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला-
मालम्ब्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः ॥ १३८ ॥’

‘पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवम् ॥ १३९ ॥’

‘किरन्तः कावेरीलडहलहरीशीकरकणान् ॥ १४० ॥’

अत्र तल्लगल्ललडहलहरीप्रभृतीनामव्युत्पत्तिमत्त्वेनोद्देश्यत्वेऽपि महाकविभिरङ्गीकृतत्वाद्गुणत्वम् ॥

“यदिति” । सन्दर्भच्छायावैषम्यमत्र कष्टताबीजमिति पूर्वमुक्तं तत्र यदि समानच्छायशब्दमध्यनिवेशनेन प्रतिक्षिप्यते तदा कथं दोषः । तथाभूतानामेव पदानां सन्दर्भनिर्वाहकतया महाकविनिबद्धमिति । अत एव शब्दगमकतया गुणत्वलाभः । उद्दण्डत्वेन पिण्डीतगराणां कठोरता । तादृशानामपि तरलनेन प्रौढिः । उत्ताले-त्याद्यनुप्रासवत्प्रोढपदसजातीयमेव तल्लपदम् । एवं गल्लेत्यादौ बोद्धव्यम् । तदिदमाह—अत्र तल्लगल्लेत्यादि ॥

ग्राम्यं घृणावदश्लीलामङ्गलार्थं यदीरितम् ।
तत्संवीतेषु गुप्तेषु लक्षितेषु न दुष्यति ॥ १०५ ॥

तत्र संवीते यथा—

‘तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने योजयितुं यतस्व ।
योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥ १४१ ॥’

अत्र तद्वीर्यनिषेकभूमिरित्यश्लीलस्यापि संवीतत्वाद्गुणत्वम् ॥

यदाह—

‘संवीतस्य हि लोकेषु न दोषान्वेषणं क्षमम् ।
शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ॥’

“ग्राम्यमिति” । अत्र केचिद्यथासङ्ख्यं व्याचक्षते—घृणावदादीनां त्रयाणां क्रमेण सङ्ख्यानगोपनलक्षणानि दोषत्वाभावबीजानीति, तदसत् । घृणावदर्थादिमात्र एवाग्रे प्रतिसम्भेदत्रिकमुपादाय संव्यानादित्रिकस्योपदर्शनात् । एतादृशयथासङ्ख्यसूचनायैव लक्षणातिक्रमेण घृणावतः प्रथममुपादानम् । तस्मात्सङ्ख्यानमिव सङ्ख्यानं लोकानुमतिः । किञ्चित्पदं दुष्टजातीयमपि लोके नोपादानात्ताद्रूप्यं जहात्येव । प्रायेण लोकानुसारि काव्यदर्शनं भवत्यतः प्रतिस्वं भेदत्रितयसम्बन्धादुपपन्नं यथासङ्ख्यं स्यादित्यभिधाय पूर्वक्रमेणोदाहरति—“अत्रेति” । एतेन संवीतेष्वित्यादिकं बहुवचनं व्याख्यातम् । यथा शिवलिङ्गस्य संस्थान इत्यत्र यद्यपि मुख्यविधैव शिवलिङ्गपदम्श्लील एवार्थे, तथाप्यविगानेनादिप्रयोगयोगित्वान्न व्रीडादानक्षमं तथेहापि तद्धीर्येति । शिवलिङ्गेत्यत्र भगवत्सम्बन्धः प्रयोजक इति तु तुल्यमत्रापीत्याह—“तदिति” । अत्र हि जगदन्तर्यामिणो भगवतस्तद्विरोधितया प्रसिद्धिरुपजीव्या तदुपजीवने व्रीडादायिनी प्रतीतिरनुत्थायिन्येव । अत्रैवाचार्यमतं लिखति—“संवीतस्य हीति । कस्यासभ्यत्वेति” । भावना सकललोकसाधारणं ज्ञानम् ॥

गुप्ते यथा—

‘सुदुम्त्यजा यद्यपि जन्मभूमिर्गजैरसम्बाधमयाम्बभूवे ।
स तेऽनुनेयः सुभगोऽभिमानी भगिन्ययं नः प्रथमाभिसन्धिः ॥ १४२ ॥’

अत्र जन्मभूमिसम्बाधसुभगभगिनीशब्दानामश्लीलार्थान्तरत्वेऽपि प्रथमार्थप्रभावभावनागुप्तत्वाद्गुणत्वम् ॥

यदाह—

‘वस्तुमाहात्म्यगुप्तस्य पदार्थस्य‘स्याविभावनात्’ इति पाठष्टीकानुसारी भवेत् विभावनात् ।
भगिनीभगवत्यादि नासभ्यत्वेन भाव्यते ॥’

यस्य पदस्य व्युत्पत्तिलभ्यमर्थान्तरं ग्राम्यम्, यस्य वा समभिव्याहारलभ्यम्, तत्र गोपनं समाधानबीजम् । तदुभयं भवति रूढेर्वा बलवत्त्वं जलधरादिष्विव तथा तात्पर्योन्नयनप्रतिबन्धेन विपरीतार्थतात्पर्योन्नयनपर्यवसानं वा । यथोदाहरिष्यमाणे तथा च प्रतीतेरप्रत्यूहे दूषणताबीजाभावस्तत्र प्रथमकक्षापक्षीकरणेनाद्यमुदाहरति । रूढ्युपस्थापितः प्राथमिकोऽर्थस्तस्य भावो झटिति वाक्यार्थज्ञानं तस्य भावना वासना तया गोपनं चमत्कारार्पणमतिरोधानम् । अमुमेवार्थमाचार्यमतेन स्वहस्तयति—“वस्तुमाहात्म्येति । अविभावनादिति” । विरुद्धं व्रीडादायितया भावनं तस्याभावात् । तेन क्वचिद्योगोपादानेऽपि तथाभावसम्पत्तौ न दोषः । एतदेवोदाहरणेन स्फुटयति—“भगिनीति” । एतेन भगवतीति पूर्वानुपात्तमुदाहरणं व्याख्यातम् । द्वितीयगोपनमशस्तार्थान्तरे व्यक्तीभविष्यतीति ॥

लक्षिते यथा—

‘ब्रह्माण्डकारणं योऽप्सु निदधे बीजमात्मनः ।
उपस्थानं करोम्येष तस्मै शेषाहिशायिने ॥ १४३ ॥’

अत्र ब्रह्माण्डोपस्थानशब्दयोरसभ्यस्मृतिहेतुत्वेऽपि अन्यत्र लक्षितत्वाद्गुणत्वम् ॥

यस्य पदस्यैकदेशो ग्राम्यानुगामी तस्य स्मृतिहेतुता । तत्र कुत्रचिदुक्तिवैचित्र्यादेकदेशो झटिति स्मारकः, क्वचित्तथैव समुदायशक्त्या विपरीतार्थोपस्थापनाज्झटिति स्वार्थं समुदाय एव प्रतिपादयति । आद्यो दूषणम् । द्वितीयस्तु वैजात्याभावाद्गुणः । तदेवं लक्षणं यत्राद्ये ग्राम्यत्वं ततोऽन्यत्रैव बहुधा लक्षणात्तदिदमुक्तम्—“अन्यत्र लक्षितत्वादिति” ॥

एवमशस्तादीनामपि गुणत्वम् ।

यथा—

‘भद्रे मारि प्रशस्तं वद सदसि मुदा नृत्य कृत्ये मुहूर्तं‘मुहुर्ते’ ख मृत्यो रत्नैश्चतुष्कं विरचय रचयारात्रिकं कालरात्रि‘रात्रे’ ख ।
चामुण्डे मुण्डमालामुपनय ‘विनयस्त्रायतां’ खविनयस्वायतां भैरवीर्ष्या- मेवं देवे भवानीं वदति परिजनव्याहृतिस्त्रायतां वः ॥ १४४ ॥’

अत्र मारीकृत्यादीनामशस्तार्थानामपि पदानां समस्तमङ्गलायतनस्य भगवतो विश्वेश्वरस्य सम्बन्धेनोक्तत्वाद्गुणत्वम् ॥

पुनरपरेण प्रकारेण संव्यानं भवतीत्यप्रशस्ते स्फोरयति । परमेश्वरस्य मङ्गलायतनत्वं तत्सम्बन्धिमात्रस्यैव मङ्गलीभवननियमेन शास्त्रेतिहासादौ प्रसिद्धत्वात् । तदुक्तम्—‘तथापि स्मर्तॄणां वरद परमं मङ्गलमसि’ इति । अयं च प्रकारोऽप्रशस्तार्थ एव भवति । मार्यादयो मातृविशेषाः । आरात्रिकं नीराजनदीपव्यासङ्गपात्रम् । परिजनपदं सम्बन्धं पुष्णाति ॥

द्वितीयं गोपनप्रकारमशस्तार्थान्तरं व्यञ्जयति—

यथा वा—

‘सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ १४५ ॥’

अत्र धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे निपतन्तीत्यस्यामङ्गलार्थान्तरत्वेऽपि ‘हंसानहं धार्तराष्ट्रानिति व्यपदिशामि’ इति वक्ष्यमाण‘वाक्यान्तरगुप्तत्वात्’ खवाक्यगुप्तत्वाद्गुणत्वम् ॥

“यथा वेति” । पक्षः पतत्रं परिकरश्च । आशा दिक् प्रत्याशा च । मदः क्षीबता दर्पश्च । निपात आगमनं शस्त्रादिहतानां मेदिनीसङ्गतिश्च । रङ्गमङ्गलान्तः स्वस्त्ययनप्रवृत्तस्य सूत्रधारस्य मङ्गलार्थाधिकारवस्तुप्रस्तावनं तावद्बुद्धिपूर्वकमत्र न सम्भवति हंसानहमित्यादिना तात्पर्यस्य नियमितत्वात् । स्वशक्त्या तु पदार्थान्तरमा- भासयन्ति पदानि दोषतया न प्रतिभासते । तत्र वीथ्यङ्गविशेषोपक्षेपस्यामुखशरीरत्वादौचित्यनिवेश एव स्फुटं कारणमित्याशयो बोद्धव्यः । औचित्यविरोधो न सार्वत्रिक इति नातिप्रसङ्ग ॥

‘यथा वा’ गयथा च—

‘कोऽभिप्रेतः सुसंस्थानस्तस्या इति न निश्चयः ।
आशापिशाचिकैषा तु कुमारी मां वरिष्यति ॥ १४६ ॥’

अत्राभिप्रेतसुसंस्थानाशापिशाचिका कुमारीति पदानामशस्तस्मृतिहेतूनामपि लोकैरन्यत्र लक्षितत्वाद्गुणत्वम् ॥

कोऽभिप्रेत इत्यादौ पूर्ववदेव वासना ॥

एवं घृणावदर्थादीनामपि गुणत्वम् ।

तत्र घृणावतो यथा—

‘पद्मान्यर्कांशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः ।
भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः ॥ १४७ ॥’

अत्र—

‘निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरमन्यत्तु ग्राम्यकक्षां विगाहते ॥’

घृणावदर्थान्तरस्य यथा—

‘कामिनीगण्डनिस्य‘निःस्यन्दि’ खन्दबिन्दुरिन्दुर्मतो‘र्मातर्मम’ ख-ग मम ।
अन्यथा कथमेतस्य जगदुद्द्योतिनी द्युतिः ॥ १४८ ॥’

अत्र रागातिशयहेतुभूतयोः कामिनीकपोलचन्द्रमसोः स्वरूपभावनामाहात्म्येनार्थान्तरभावना गुप्तेति गण्डनिस्यन्दबिन्दुरित्यस्य घृणावदर्थान्तरस्यापि न ‘दोषः’ क-खदोषत्वम् ॥

अथापरं सङ्ख्यानप्रकारं घृणावदर्थे कथयति—“यथेति” । गुणवृत्तिव्यापाराश्रयेष्ववान्तरादिपदेषु प्रथमत एवान्यक्रियादिधर्माणामन्यत्रारोपे समाधिप्रादुर्भावा-दनुत्थानं दोषाभावत्वद्वारं, ततश्च मुख्य एव स्थाने जुगुप्सादायित्वं पूर्वाचार्यश्लोकेनैव व्याचष्टे—“अत्रेत्यादि” । गुणग्रस्तत्वमभिप्रेत्यातिशयसम्पत्तौ प्रकृतौचित्यात्कपोलस्यैव प्रतिभासस्तदिदमुक्तम्—“रागातिशयहेतुभूतयोरिति” । तथा च जगन्नयनानन्दभूतस्य निःशेषिताशेषतमसश्चन्द्रमसो यदिदमभिप्रेतकामिनीकपोललावण्यबिन्दुमात्रतया भानं तदुचितमेवेति ॥

प्राच्यानामेव वासनामभिसन्धाय स्मृतिहेतुमुदाहरति—

घृणावत्स्मृतिहेतुर्यथा—

‘विपूयरशनावन्तः पलाशाषाढधारिणः ।
‘ब्रह्मवर्चसिनः’ इति पाठष्टीकानुसारीब्रह्मवर्चस्विनो यान्ति द्विजपोगण्डका इमे ॥ १४९ ॥’

अत्र विपूयपलाशब्रह्मवर्चसपोगण्डशब्दानां घृणावत्स्मृतिहेतुत्वेऽप्यन्यत्र‘प्यत्र’ क-ख लक्षितत्वाददोषत्वम् ॥

“यथेति” । आषाढो दण्ड; । “ब्रह्मवर्चसिन इति” । ‘ब्रह्महस्तिभ्यां वर्चसः’ इति समासान्तस्ततो मत्वर्थीय इनिः । पोगण्डो बालः ॥

एवमन्यप्रकारमपि सङ्ख्यानादिकं स्वयमुन्नेयमित्याह—

एवम‘न्यत्र’ कन्यदपि द्रष्टव्यम् । अत्र च—

किञ्चिदाश्रयसम्बन्धाद्धत्ते शोभामसाध्वपि ।
कान्ताविलोच‘लोकने’ कनन्यस्तं मलीमसमिवाञ्जनम् ॥ १०६ ॥

तद्यथा—

‘अन्त्रप्रोतबृहत्कपालनलककूरक्वणत्कङ्कण- प्रायप्रेङ्खितभूरिभूषणरवैराघोषयत्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लस- व्द्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥ १५० ॥’

अत्राश्रयस्य बीभत्सरसो चितत्वाददोषत्वम्‘दोषः’ क-ख ॥

“एवमिति” । अनित्योऽयं दोषः । तेन यत्र दोषता नास्ति तत्र विषये रसप्रकाशसामग्र्याभन्तर्भावात्कथं न गुणत्वम् । अन्तर्भावश्च द्विधा—प्रयोगविषयौचित्येन वा, वागनुभावौचित्येन वा । तत्र प्रथमं दर्शयति—“किञ्चिदिति” । यथाञ्जनस्य नाञ्जनवल्ल्यादिसङ्गतत्वेन शतशो भाव्यमानस्याप्युद्दीपनविभावना । भवति तु कान्ताविलोचनचुम्बितयानुसन्धीयमानस्य । तथापदस्यापि विषयेऽतद्विषये च प्रयुज्यमानस्य । तदेतव्द्याचष्टे—“अत्राश्रयस्येति” ।

सन्निवेशवशात्किञ्चिद्विरु‘दुरुक्त’ गद्धमपि शोभते ।
नीलं पलाशमाबद्धमन्तराले स्रजामिव ॥ १०७ ॥

तद्यथा—

‘अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः ‘पिनद्धशिरसा’ गपिनह्य सहसा हृत्पुण्डरीकस्रजः ।
एताः शोणितपङ्ककुङ्कुमजुषः सम्भूय कान्तैः पिब- न्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ १५१ ॥’

अत्र श्रृङ्गारिणो हि जगदपि श्रृङ्गारमयं पश्यन्तीति बीभत्सरसेऽपि ‘मार्दवेन’ कमाधवेनान्त्रादियदानामन्तरालेषु निवेशितानां मङ्गलप्रतिसरादिपदानामदोषः ॥

द्वितीयमन्तर्भावप्रकारं व्युत्पादयति—“सन्निवेशवशादिति” । सन्निवेशो वागनुभावः । औचित्याकृष्टपदघटना तद्वशत्वं तदाकृष्टत्वमत एव विरोधिसङ्गततया विजातीययोरप्यौचितीवशेन कान्तिविशेषोन्मीलकत्वात् पत्रपुष्पव्यतिकरजमालासादृश्यं दर्शयति—“नीलमिति” । अन्त्रैरित्यादौ प्रत्युत्पन्नदोषोन्मत्तप्रेताङ्गनावलोकस्य माधवस्यालम्बनोद्दीपनविभावादिप्रकर्पे बीभत्सरसोत्सेकस्तावदुपपन्नः । यस्त्वयमकस्मादेव मङ्गलादिपदानां शृङ्गारानुयायिनामिह निवेशः स कथं दोषभावादपनेतव्यः, कथं वा गुणत्वमासादयितव्यमित्यतो हेतुगर्भं व्याचष्टे—“अत्र श्रृङ्गारिण इति” । श्रृङ्गारवासनानिविष्टः श्रृङ्गारी । तथा च पूर्वं बीभत्सरसान्वयेऽपि प्रकृत श्रृङ्गारभङ्गो मा भूदित्येतदर्थमेव कविना ‘मम हि’ इत्यादिना प्रतिज्ञाय ‘लीनेव’ इत्यादिवासनादृढत्वमुपपादितम् । अत एव प्रतिपदं रूपकमाविष्टाभिप्रायमेवं श्रृङ्गारमयं श्रृङ्गाराङ्ग-तया रसतापन्नम् । उपपद्यते च तच्चित्तस्य सादृश्यमात्रेण तद्रूपतानुसन्धानम् । ततश्च कथं नोद्दीपनता वस्तुसत्त्वस्यानुपयोगित्वात् । अत एव सूत्रितस्य बीभत्सस्य प्रकृतेन बाधात् प्रकृतार्थानुपोष इति ॥

ननु कथमुद्देशे चतुर्विंशतिधेत्युक्तम् । दोषा हि पूर्वं षोडशैव विभक्ता इत्यत आह—

अश्लीलादेरमी भेदा भिद्यन्ते यत्त्रिधा त्रिधा ।
भवन्ति नव तेनैते पूर्वोक्ता दश पञ्च च ॥ १०८ ॥

चतुर्विंशतिरित्येषा प्रोक्ता पदसमाश्रया ।
समासात्पू‘पूर्वदिष्टानां’ खर्वनिर्दिष्टदोषाणां गुणक्लृप्तये‘कल्पना’ ग ॥ १०९ ॥

इत्येतत्पददोषाणामदोषत्वमुदीरितम् ।

“अश्लीलादेरिति” । निगदव्याख्यातम् । “चतुर्विंशतिरित्येषेति” । आ दशभ्यः सङ्ख्या सङ्ख्येये बर्तते, ततः सङ्ख्याने सङ्ख्येये चाभिधानात् केवलसङ्ख्यानवचनत्वेन गवां विंशतिरितिवत्पदसमाश्रयेत्युपपन्नम् ।

इदानीं वाक्यदोषाणां गुणत्वमभिधीयते ॥ ११० ॥

क्रमप्राप्तवाक्यदोषगुणीभावव्युत्पादनमवतारयति—“इदानीमिति” ॥

तत्र शब्दविहीनस्य विवक्षावशतः क्वचित् ।
निसर्गसुन्दरत्वेन गुणत्वं परिकल्प्यते ॥ १११ ॥

यथा—

‘आक्षिपन्त्यरविन्दानि मुग्धे तव मुखच्छविम् ।
कोशदण्डसमग्राणां किमेषां खलु दुष्करम् ॥ १५२ ॥’

अत्र ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इति कर्तृकर्मणोः षष्ठीप्रतिषेधे किमेषां‘षामस्ति’ ग दुष्करमित्यपभाषणेऽपि सम्बन्धमात्रविवक्षातो गुणत्वम् ।

यदाह—

‘इदं हि शास्त्रमाहात्म्यदर्शनालसचेतसाम् ।
अपभाषणवद्भाति न च सौभाग्यमुज्झति ॥’

यस्य वस्तुनो नानारूपाणि विजातीयरूपाणि तत्र तद्रुपविवक्षावैचित्र्याच्छब्दचैचित्र्यं सङ्गच्छत इति दोषत्वाभावः । एवं रूपता शब्दहीनदोषोदाहरणभूते ‘नीरन्ध्रं गदितवति’ इत्यादौगमितवतीत्यादौ कदापि नास्तीतिदोषरूपतैषा । क्वचित्पुनरस्ति रूपान्तरमित्याह—“क्वचिदिति” । भवत्वेवम् । गुणत्वं तु कथमित्यत आह—“निसर्गेति” । नियतरूपविवक्षा हि महाकवीनां न लावण्यमनुसन्धाय भवितुमर्हति । तथाहि—आक्षिपन्तीत्यादौ एषां दुष्करमित्यत्र खलर्थयोगे ‘न लोकाव्ययनिष्ठाखलर्थतुनाम्’ इत्यनेन षष्ठीप्रतिषेधादेषामिति कथं षष्ठीति दुष्टजातीयतामादाय शेषरूपविशेषविवक्षा समाधानहेतुः । अस्ति हि षष्ठ्यर्थस्य सम्बन्धस्य द्वरूप्यम्—सम्बन्धसामान्यं विशेषश्च जन्यजनकभावादिः । तत्र सम्बन्धविशेषविहितषष्ठीमुपादाय ‘न लोक—‘ इत्यादिना निषेधः । सम्बन्धसामान्यरूपमुपादाय षष्ठी केन वार्यते । अयमेव सम्बन्धः शेष इत्युच्यते । एवं तावन्न दोषत्वम् । यथा कोषसमग्राणां राज्ञां विपक्षश्रीहरमुपदिश्य यत्किमपि सम्बन्धिमात्रमेव न दुष्करं तथा पद्मानामिति समर्थयामहे । कथमन्यथा दुरापत्वद्वदनश्रीहरणमिति प्रकृतपोषलाभाद्गुणत्वमतिसुलभं तदेतव्द्याचष्टे—“अत्रेति” । ननु सम्बन्धमात्रविवक्षायां दोषता मा भूत्, गुणत्वं तु कथमिति यथोक्तमभिसन्धाय परमतं लिखति—“इदं हीति” । शास्त्रमाहात्म्यं विधिनिषेधयोः परस्परासङ्कीर्णविषयत्वम् ॥

यत्नः सम्बन्धनिर्ज्ञानहेतुः कोऽपि कृतो यदि ।
क्रमलङ्घनमप्याहुर्न दोषं सूरयो यथा ॥ ११२ ॥

बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु ।
आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः ॥

आद्यन्तौ मध्यम इति सम्बन्धनिर्ज्ञानहेतोर्विधानान्न शाब्दक्रमलङ्घनन्दोषः । वक्तुश्च बन्धुत्यागदेशत्यागयोस्तनुत्यागाद्ग्रीयस्त्वेनाभिमतत्वादित्यर्थक्रमलङ्घनस्यापि गुणत्वम् ॥

“यत्न इति” । क्रमभ्रंशे हि यथाभिमतान्वयप्रतीतिप्रत्यूहो दूषकताबीजम् । तद्यदि कुतश्चिद्विशेषादस्खलितैव प्रतीतिरुपजायते तदा बीजाभावेन तथाभावो निवर्तत एव । स च विशेषः प्रतिपदमनुक्रमितुं न शक्यते इति कोऽपि यत्न इति सामान्येन प्रतिपादितम् । सोऽयं शब्दक्रमलङ्घनापवादः । अर्थक्रमलङ्घने त्वभि-प्रायविशेषः । तथा हि—बन्धुत्याग इत्यादौ बन्धुत्यागतनुत्यागदेशत्यागान्कमेणोद्दिश्य तथैवानुदेशोऽप्यर्हति न त्वादिममुद्दिश्य ततोऽन्त्यस्ततो मध्य इति उद्देशानुदेशलक्षणशास्त्रक्रमभ्रंशजातीयत्वेऽपि सम्बन्धज्ञानहेतुयत्नकरणाददूषणत्वं व्यवस्थाप्यते । यत्नश्चायमेव यदादिपदैरुल्लेखः । तानि हि तत्तत्स्थानविशेषगामिन एव प्रतीतिमुपजनयन्ति । अवश्यं चानेन क्रमेणात्र वक्तुमुचितं तनुत्यागस्य विजातीयताविवक्षया पृथगेव वक्तुमर्हत्वात् । एवं चानुपपत्तिर्लोके बन्धुत्यागापेक्षया शरीरत्यागस्यातिकृच्छ्रत्वेन प्रसिद्धिः । अतश्च ‘मध्यम आयतक्लेश आद्यन्तौ क्षणिकज्वरौ’ इति वचनमुचितमिति आर्थक्रभमभ्रंशः कथं न भवति तत्राह—“वक्तुश्चेति” । अभिमत‘मतत्वादि’ इति स्यात्मित्यनेनाभिप्रायविशेषोऽपवादहेतुः—‘यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासो व्यर्थ एकस्मिन्ननुसन्धानसाधितः ॥’ इत न्यायादुपपन्नमेवैतदिति ॥

विरूपसन्धि यत्पूर्वं विसन्धि च निरूपितम् ।
न च दुर्वचके प्रायः प्रगृह्यादौ च दुष्यति ॥ ११३ ॥

तत्र दुर्वचके विरूपसन्धिर्यथा—

‘जयन्ति वर्षास्विति भर्गदुर्गयोः सुदुर्वचा दुर्वचकप्रयुक्तयः ।
अभेण्नगेड्जे खमपोग्रभोग्ररुग्ध्रुड्भ्रमब्रुण्मुखि सध्र्यगेधि नः ॥ १५३ ॥’

अत्रोत्तरार्धस्य विरूपसन्धित्वेऽपि दुर्वचकत्वेन कलाविद्भिराद्दतत्वाद्गुणत्वम् ।

यदाहुः—

‘शुकस्त्रीबालमूर्खाणां मुखसंस्कारसिद्धये ।
प्रहासाय च गोष्ठीषु वाच्या दुर्वचकादयः ॥ १५४ ॥’

प्रगृह्यादौ विगतसन्धिर्यथा—

‘कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः ।
स इतोऽब्दऋतावृतप्रियो न ऋचस्त्वं न यजूंषि ऊहसे ॥ १५५ ॥’

अत्र विसधेः प्रगृह्यादिहेतुकत्वाद्गुणत्वम् ।

यदाह—

न संहितां विवक्षामीत्यसन्धानं पदेषु यत् ।
तद्विसन्धीति निर्दिष्टं न प्रगृह्यादिहेतुकम् ॥ ११४ ॥

“विरूपेति” । विरूपो दुर्वचको विसन्धिर्विगतं संहिताकार्यं दुर्वचके कलाविशेषरूपतयानुमते संहिताकार्यनियमः । द्वितीये कुत्रादूषणमित्याह—“प्रगृह्यादाविति” । प्रगृह्यं ‘ईदूदेव्द्दिवचनं प्रगृह्यम्’ इत्यादिना यत्र प्रगृह्यसञ्ज्ञा विहिता, आदिग्रहणाद्विनापि प्रगृह्यसञ्ज्ञया यत्र प्रकृतिभावविधानं तथोदाहरिष्यते । यत्र वा वक्तुः खेदादिना विच्छिद्य पाठे विरतिर्भवति । यथा—का एकशिरोरुहेति । तदेवं दुर्वचकप्रगृह्यादि यथासङ्ख्यं विरूपविसन्धिविगतसन्धानयोरपवादकारणे इत्याह—“अत्रेति” । प्रयुज्यन्त इति प्रयुक्तयो दुर्वचकाश्च ताः प्रयुक्तयश्चेति दुर्वचकप्रयुक्तय इति कर्मधारयः । सुदुर्वचा इति अन्येनोच्चारयितुमशक्याः । स्वयमेव कविः प्रतिज्ञाय उत्तरार्धे दुर्वचकान्याह—“अमेडित्यादि” । हे नगेड्जे पर्वतराजपुत्रि, खमाकाशं भेड् भानां नक्षत्राणामीडीश्वरश्चन्द्रः सोऽविद्यमानो यत्र । तिरोधानादसत्कल्पना चन्द्रमसः । केन पुनस्तिरोधानमित्याकाङ्क्षायां द्वितीयं विशेषणम्—“अपोग्रेति” । अपगतोग्रदीप्तिर्भ उग्ररुचिरादित्यस्तदीयद्रोहकारिणोऽभ्रपदवाच्या मेघा यत्र । अप्सु रोहतीत्यब्रुट् पद्मं तद्वन्मुखं यस्या इति देवीसम्बोधनम् । चेदीदृशं तर्हि सध्र्यङ् सहचरो भवास्माकमिति गौर्या उत्तरम् । कलारूपत्वेन विरूपसन्धानस्य गुणत्वमित्याह—“कलाविद्भिरादृतत्वादिति । कमले इवे”त्यादावुदाहरणत्वान्नैकः श्लोकार्धः । पूर्वार्धे कमले इत्यादित्रितयं प्रगृह्यसञ्ज्ञोदाहरणम् । उत्तरार्धे विनैव प्रगृह्यसञ्ज्ञां प्रकृतिभावविधानं यत्र तत्त्रितयोदाहरणम् । तथाहि—“अब्दऋताविति” । ‘न ऋच’ इति च ‘ऋत्यकः’ इत्यनेन प्रकृतिभावः । यजूम्पि ऊहस इति ऽइकोऽसवर्णे शाकल्यस्य ह्रस्वश्च’ इत्यनेन । अपरमादिपदग्राह्यं पूर्वमुदाहृतम् । अत्रापि स इति वोद्धव्यम् । तदेतच्छास्त्रानुमतमपि घटनासौष्टवेन निवेशनीयम् । न त्वन्यथा । उक्तं च पूर्वमेव यत्प्रगृह्यादिहेतुकमपि नासकृत्प्रयोक्तव्यमिति ॥

अनुकम्पाद्यतिशयो यदि कश्चिद्विवक्ष्यते ।
न दोषः पुनरुक्तेऽपि प्रत्युतेयमलङ्क्रिया ॥ ११५ ।

यथा—

‘हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा ।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी ॥ १५६ ॥’

अत्र हन्यते हन्यत इति शब्दपुनरुक्तं चारुसर्वाङ्गी वरारोहेत्यर्थपुनरुक्तं तदुभयमप्यनुकम्पाद्यतिशयविवक्षायामदोष इति गुणत्वम् ॥

“अनुकम्पेति” । सम्भ्रमादौ यावद्बोधमित्यादिना पदद्विरुक्त्यादेरनुमतत्वान्न दोषत्वम् । अभिप्रायव्यञ्जननैयत्येन प्रकृतिपोषानुगुणतया गुणत्वम् । तथाहि—हन्यत इत्यादौ हन्यत इति यद्यप्यभिधेयतात्पर्यमिति शब्दपुनरुक्तजातीयं भवति, यद्यपि च वरारोहेत्यभिधाय चारुसर्वाङ्गीत्यभिन्नाभिधेयतात्पर्यं पर्यायरूपत्वादर्थपुनरुक्तजातीयम्, तथापि विरहवेदनादूनायामनुकम्पातिशयादसकृदुपादानमहिरहिर्बुध्यस्वेति लोकानुसारात् । अनुकम्पाभयाद्यस्य हि तादृशी पदद्विरुक्तिरभिप्रायविशेषार्थनिष्पादितया गुणकक्षाधिरोहणक्षमैवेत्याशयवान्व्याचष्टे—“तदुभयमपीति” ॥

पदानां व्युत्कमो यत्र क्रमेण व्युत्कमेण वा ।
तव्द्याकीर्णं विदुस्तस्य न दोषः क्वापि तद्यथा ॥ ११६ ॥

‘जुगुप्सत स्मैनमदुष्टभावं मैवं भवानक्षतसाधुवृत्तः ।
इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः ॥ १५७ ॥’

अत्र ‘मा स्म जुगुप्सत’ इति वक्तव्ये ‘जुगुप्सत स्मैनमदुष्टभावं मैवम्’ इति पदव्यतिक्रमस्य ‘व्यस्तेऽपीच्छन्ति केचित्’ इति लुङ्लङोर्विशेषलक्षणत्वाद्गुणत्वम् ॥

“पदानामिति” । एकस्मिन् वाक्ये पदानामुचितसन्निवेशविपर्यासः क्रमभ्रंशः । स द्विधा भवति—पूर्वापरभावनियतानां तादृशक्रमप्रच्यावनेन वा । यथा बहुतृणमित्यन्योऽर्थः, तृणं बह्वित्यन्यः । पूर्वापरनियमशून्यानामिति तादृगुच्चारणविपर्यासेन वा । यथा कपालमनुलिम्पति, दुकूलं परिदधातीत्यत्र क्रमनियमोऽभिमतः । अनुलिम्पति कपालम्, परिदधाति वस्त्रमित्यपि कृतेन तस्यैवार्थस्य लाभात् । यदा तु कपालं परिदधाति दुकूलमनुलिम्पतीति क्रियते तदा भवति सन्निधिविपर्यासस्तदेतव्द्याकीर्णसङ्कीर्णयोस्तुल्यं, तदिदमुक्तम्—“क्रमेण व्युत्क्रमेण वा” । ननु ‘स्मोतरे लङ् च’ इत्यनेन माशब्दादुत्तरं यत्र स्मशब्दप्रयोगस्तत्र लुङ्लङोर्विधाने पदक्रमनियमः कृतस्तत्कथं स्म ममेति प्रयुक्ते सोऽर्थः प्रत्येतव्य इत्यत आह—“व्यस्त इति” । विशेषेण लक्ष्यत इति विशेषणलक्षणं तस्य भावस्तत्त्वम् ॥

पर्यायेण द्वयोर्यत्र वाक्यं प्रश्नोत्तरादिषु ।
सङ्कीर्णं तन्न दोषाय वाकोवाक्यविदो विदुः ॥ ११७ ॥

यथा—

‘बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ १५८ ॥’

अत्र सङ्कीर्णत्वेऽपि वाकोवाक्यत्वान्न दोषः ॥

“पर्यायेणेति” । यत्र वाक्यैकवाक्यतायामवान्तरवाक्येषु परस्परपदार्थप्रवेशेन यथाभिमतसंसर्गप्रतीतिः स्खलिता भवति तत्र सङ्करो दूषणम्, प्रतीतेरस्खलने तु न दोषः । स्खलनं चानेकवक्तृकपर्यायप्रवृत्तवाक्यावयवमिश्रणेन भवति । तदपि मिश्रणं प्रश्नोत्तररूपमन्यादृशं वा भवतीत्याह—“प्रश्नोत्तरादिष्विति” । विषयसप्तमीयम् । वाक्ये वाक्यं वाकोवाक्यं पृषोदरादित्वात्साधु । तत्र प्रश्नोत्तरादिरूपं वाकोवाक्यमुदाहरति—“बाले इति” । अत्र ‘बाले विमुञ्च मां प्रति रुषम्’ इति प्रथमप्रश्नवाक्यम् । ‘नाथ रोषान्मया किं कृतम्’ इति तादृशमेवोत्तरवाक्यम् । तत्र बाले इति वाक्यप्रतीकानन्तरमेव नाथेति वाक्यान्तरप्रतीकस्य निर्देशः सङ्कीर्णजातीयतामाकारयितुमुद्यतः प्रश्नोत्तरप्रभावादपोद्यते । सङ्कीर्णयोरपि वाक्ययोः पर्यायनिर्देशे भवत्येव वाकोवाक्यमिति चेत्, न । व्यतिकरस्याभिप्रायविशेषव्यञ्जकतया चमत्कारकारित्वेन विजातीयत्वात् । अत एव गुणत्वम् । तथा हि बाले इति पदं परचित्तानभिज्ञायाः क्षुद्रसहचरीवचसि विश्वासभाजः सोपालम्भं सम्बोधनमाविष्करोति । एतदाकर्ण्यानन्तरमेवेर्ष्याकषायकामिनीवचनमुचितमिति नाथेति सम्बोधनं साभिप्रायम्, प्रभुरसि न पुनरस्मासु दत्ताशयो न वा स्वाधीनतासौभाग्यभागिति विवक्षितत्वात् । एवमुत्तरत्र स्वयमुन्नेयम् । उपलक्षणं च द्वयोरिति एकस्यापि वक्तुः प्रहेलिकादौ तद्विद्यविषये तदाभाषणस्योचितत्वात् । विजातीयवाक्यद्वयसन्दंशपतित-पदे किमिदमनेनान्वीयतेऽनेन वेति सन्देहसङ्कीर्णतासंशयोऽपि सङ्करमध्यासीन एवेति गुरवः । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र राजपदं सन्दंशपतितं किं पूर्वेणाथ परेणान्वीयत इति सन्दिह्यते । राजगोक्षीरादौ द्वयेनान्वयो गोपदस्य निश्चित इति ॥

प्रकृतिस्थादिभेदेन ग्राम्यादिभिरथापि या ।
अपदं तस्य चानुज्ञा भाषाचित्रे विधीयते ॥ ११८ ॥

यथा—

‘हा तो जो ज्जलदेउ नैव मदनः साक्षादयं भूतले ‘ता किं’ ग; परन्तु ‘तक्किम्’ इति भवेत्तत्किं दीसइ सच्चमा हतवपुः कामः किल श्रूयते ।
‘पच्छा ऐ’ इति टीकासम्मतमुख्यपाठःऐ दूए किअलेउ भूतपतिना गौरीविवाहोत्सवे ऐसें सच्च जि बोल्लु हस्तकटकः किं दर्पणेनेक्ष्यते ॥ १५९ ॥’

अत्र ग्राम्यः प्रष्टा नगरमागतो राजानं दृष्ट्वा ग्राम्यैः प्रकृतिस्थैरेव वा पदैः प्राकृतेन पृच्छति—‘हा तो जो ज्जलदेउ’ इति । नागरश्च तमनुजिघृक्षुरुपनागरैः कोमलैर्वा पदैः सवक्रोक्ति प्रत्याचष्टे—‘नैव मदनः साक्षादयं भूतले’ इति । अथ ग्राम्य आहितप्रतिभः पूर्वपदानुरोधादर्धप्राकृतेनैव ग्राम्योपनागरैः प्रकृतिस्थकोमलैर्वा पदैस्तमुपालभते—‘तत्किं दीसइ सच्चमा हतवपुः कामः किल श्रूयते’ इति । अथ नागरो ज्ञाततत्प्रावीण्यः‘ण्यस्तत्पदा’ क-ख पादानुरोधादेव अर्धप्राकृतेन ग्राम्योपनागरनागरैः प्रकृतिस्थकोमलकठोरैर्वा पदैः समाधत्ते—‘ऐ दूए किअलेउ भूतपतिना गौरीविवाहोत्सवे’ इति । अथ ग्राम्यः श्लोकसमाप्तेः पादस्य तदुत्तरस्य चानुरोधाद्ग्राम्याणि प्रकृतिस्थानि वा त्रिचतुराणि पदानि प्राकृते नोक्त्वा पादार्ध एव तिष्ठति—‘ऐसें सच्च जि बोल्लु’ इति । अथ नागरो जितकाशी ग्राम्यो-पनागरनागरैः प्रकृतिस्थकोमलकठोरैर्वा पदैः श्लोकमुत्तरं च पूरयति—ऽहस्तकटकः किं दर्पणेनेक्ष्यते’ इति । तत्र च प्राकृतानां सर्वेषामपि ग्राम्यत्वम् । प्रष्टुः संस्कृतपदेषु वपुरित्युपनागरं शेषाणि ग्राम्याणि, प्रतिवक्तुश्च हस्तविवाह गौरीपदानि ग्राम्याणि, भूतपतिनेति नागरम्, शेषाण्युपनागराणि । तदिदमीदृशि प्रमेये तथैवोपक्रमादेतन्न दुष्यति ॥

“प्रकृतिस्थेति” । ‘विभिन्न-’ इत्यादावपदलक्षणसूत्रे षण्णामिति व्यतिकर एकत्वेन नाभिप्रेतः । अपि तु ग्राम्यादित्रिकस्य वा प्रकृतिस्थादित्रिकस्य वेति विकल्पेनोपन्यासप्रयोजनमनुज्ञासम्पत्तिस्तेन दोषताभावगुणीभावौ प्रतिपादितौ । विषयं दर्शयति—“भाषाचित्र इति” । संस्कृतादिव्यतिकरस्यापदत्वेनाभिप्रेतत्वात् संस्कृतादयो ग्राम्यादयः प्रकृतिस्थादयश्च भाषाशब्देनाभिमताः । यथा हि—नानावर्णारब्धमालेख्यचित्रं यथा वा भिन्नप्रकारतन्तुनिर्वातः पटश्चित्रपटस्तथा नानाभाषाभिरारब्धं किञ्चित्काव्यं चित्रमुच्यते । चित्रमाश्चर्यं तत्कारि च चित्रम् । तेन रूपद्वयसम्पत्तौ युक्तिपोषः स्यादेवं यथौचित्याकृष्टनानाभाषाव्यतिकरजमेकं सम्भवतीत्याशङ्क्य। सङ्क्षेपात्सर्वं भाषासङ्करमेवोदाहरति—“यथेति” । सङ्करमाचितीं च व्याख्यानेन स्फुटयति—“अत्र ग्राम्य इति” । ग्रामवासी किञ्चिव्द्युत्पन्नश्च । ग्राम्याश्च नगरवस्तुन्यद्भुतचमत्कारवन्तो जिज्ञासवश्च भवन्तीति जातिः । तत्र राजानं दृष्ट्वेति अद्भुतवस्तुकथनेन चमत्कारः । पृच्छतीति जिज्ञासा बहुमान आदरश्चमत्कारेणैव । यद्वा यान्पृच्छति तेष्वेव बहुमानो धन्यास्ते ये नामगोत्रादिकमेतस्य जानन्तः सततमेनमवलोक्यन्त इत्याशयात् । प्रस्तुतग्राम्यप्रकृतेश्चास्य प्राकृतपदैरेव प्रश्नो योग्यः । तदेतत्सर्वमादर्शयितुं प्रश्नं पृथक्कृत्य दर्शयति—“हा तो इत्यादि” । ‘हा तो’ इति महाराष्ट्रभाषायां प्रश्नकाकुरयं स इत्यर्थे । स इति यो नामैतन्नगरनायकत्वेनास्मद्ग्रामेऽपि वहुशो विख्यातकीर्तिरिति चमत्कारः । “जो ज्जलदेउ इति” । जिज्ञासासामान्यतश्च नगरसञ्चरिष्णुजनगोचरोऽयं प्रश्नः । अत्र सर्वाण्येव पदानि नातिहीनपात्रे ग्राम्ये प्रकृतिभवान्यपभ्रंशपदानि देशीपदत्वेन सर्वेषां ग्राम्यता । ‘हा तो’ इत्यनेन स्वरकृतगौरवम् । ‘जो ज्जलदेउ’ इत्येकसंयोगवर्णापादितगौरवं च प्रकृतिस्थं तदत्र प्राकृतग्राम्ययोरौचित्याकृष्टम् । प्रकृतिस्थे तु नौचित्यमुपयुज्यते । अपि तु सन्दर्भारम्भस्तेन प्रक्रान्त इति विवक्षितम् । अधिकस्य प्रष्टव्यस्याभावादेतत्प्रश्नानन्तरमेवोत्तरावसरः । ततश्च नानौचित्यम् । प्रश्नो-त्तरोपन्यासो हि प्रकृत्यैव च नागरका ग्राम्यमतविरोधिनो वक्रोक्तिरसिका भवन्ति । यदि तस्य ग्राम्ये जघन्यबुद्धिः किमित्युत्तरमेष दास्यतीत्यत उक्तम्—“अनुजिघृक्षुरिति” । सबहुमानं पृच्छति । ग्राम्ये यस्य दया तदानीमासीत् । जिज्ञासानिवर्तक्रज्ञानजननमनुग्रहः । यद्यपि नागरस्य नागराणि पदानि प्रयोक्तु‘मर्हाणि’ इति स्यात्मर्हन्ति, तथापि ग्राम्यानुग्रहे कर्तव्ये तद्बोधयोग्यमेवाभिमतं न तु नागरकत्वम् । तर्हि ग्राम्यैरेव कुतो न ब्रवीतीत्यपि न वाच्यम् । सहसैव तथाकरणे ग्राम्यमतविरोधः । अपि तूपनागरकरूपभङ्गप्रसङ्गात्, ततो मध्यमान्युपनागराणि प्रयोगयोग्यानीत्याह—“उपनागरैरिति” । स्वभावत एव प्राकृतप्रकृतिस्थानां संस्कृतप्रकृतिस्थानां प्रौढत्वं भवति । तेन यद्यपि ग्राम्यप्रयुक्तजातीयान्येव सन्दर्भैकरूपतासिध्द्यर्थं घटयितुमुचितानि तथाप्यौचितीप्राप्तसंस्कृतपदनिवेशने यदि प्रकृतिस्थत्वमाद्रियेत ततश्छायावैरूप्यं स्यादित्याशयेन कोमलप्रायाण्येव निवेशितानीत्याह—“कोमलैर्वेति” । भूयसा व्यपदेशो भवतीति लोकन्यायानुसारात् ‘साक्षात्’ इत्येकस्य प्रकृतिस्थत्वेऽपि कोमलैरित्युक्तम् । साकाङ्क्षप्रश्ने च किमर्थं लोकोत्तरो ‘जो ज्जलदेउ’ नान्यः कश्चित्तादृगिति भावो विवक्षितस्तत्र नेत्येवोक्तेनानुग्रहः कृतः स्यादित्यधिकमपि किञ्चिद्वक्तुमुचितमित्याह—“सवक्रोक्तीति” । एतेन नागरकवृत्तिरुपबृंहिता । नैवेत्येवकारेण मनुष्य एवायं न भवति दूरे तद्विशेषरूपो ‘जो ज्जलदेउ’ इति प्रकाशितम् । साक्षादिति प्रत्यक्षेणावधार्यमाणः किञ्चिव्द्युत्पन्नत्वेन ग्राम्यस्योक्तत्वात् । कामव्यावृत्तसाक्षाद्भावलक्षणविरुद्धधर्मानुसन्धानेन मदनदाहव्यतिकरता सम्भवतीति लब्धावसरं ग्राम्यानुयोगमवतारयति—“अथेति” । शिक्षाविशेषस्पर्शिनी बुद्धिः प्रतिभा । मामेकान्ततो नागरकवृत्तपरिचयपराधीनं मा शङ्किष्ठा इत्याशयशौटीर्येण नागरकप्रयुक्तजातीयैरेव पदैः प्रश्नो योग्यो न चैतावतैव सर्वथा प्रकृतित्यागोऽर्हतीत्यतः स्वप्रयोगयोग्यान्यपि प्रयोगमर्हन्ति तत्रार्धं प्रकृतिवैशसेनार्धं प्राकृतमर्धं ग्राम्यं च प्रश्नवाक्यानुचितमित्याह—“पूर्वपदानुरोधादिति” । पूर्वं परप्रयुक्तं पदं ‘तत् किम्’ इति स्यात्तर्कितम् । ‘सच्चमा’ इति सूलादर्शत्रये पाठःसच्चिमा सत्यः । यावती ग्राम्यस्य व्युत्पत्तिरर्हति तावतीमुपन्यस्यति—“श्रूयत इति” । ऐतिहासिकमुखादेवमाकर्णितं पुनरद्यापि निर्णयो वर्तत इत्यर्थः । तर्कितमिति प्रकृतिस्थम् । दीसईति कोमलम् । ‘सच्चमा’ इति सूलादर्शत्रये पाठःसच्चिमेति प्रकृतिस्थम् । हतवपुरिति कोमलम् । कामः किलेत्यपि तथा । श्रूयत इति प्रकृतिस्थमिति । अनन्तरं नागरिकस्योत्तरा-वसरः । कथं परमार्थवादिन्युत्तरं दातव्यमित्यनुपपत्तावयं समाधानप्रकारो भवति । अस्ति ग्राम्यस्य ‘किल श्रूयते’ इत्येताभ्यां सन्दिहानत्वं किञ्चिव्द्युत्पन्नत्वं चोन्नीतमिति किमप्यलीकमेव बुद्धिकौशलात्तथा प्रतीयमानमभिधाय प्रतारणमुपपद्यते । तन्मात्रपरत्वाच्च सर्वाकारमधिकाव्युत्पत्तिराहत्य दर्शयितुमर्हतीति तर्कितमित्यादिपदे यावती ग्राम्यस्य व्युत्पत्तिस्ताबदनुकरणं कियदधिकव्युत्पत्तिपुरस्कारमर्हतीत्याशयवानुत्तरमवतारयति—“अथेति” । पादस्तर्कितमित्यादिग्राम्यप्रयुक्तस्तस्यानुरोधो व्युत्पत्त्यनुकरणम् । पच्छा पश्चात् । ऐ एषः । ‘ऐ दूए’ इति पाठे दूअं व्याजोऽनेन व्याजेन । भूतपतिः पशुपतिः । ननु न क्वचिदेवं श्रूयते तत्कथं ग्राम्यस्य प्रबोधो भवतीत्याह—“गौरीविवाहोत्सव इति” । मा श्रूयतामुपपत्त्या तु सिद्धो द्वितीयो यदि कामप्रादुर्भावो न स्यात्कथं गौरीपाणिग्रहे भगवत उत्साह इत्यतस्तेनैव करुणासन्तानशान्तात्मना भूयः सृष्टः स्यादित्यर्थः । पच्छेति प्रकृतिस्थम्, ऐ इति कठोरम्, किअलेउ इति कोमलम्, भूतपतिनेति तथा, गौरीविवाहोत्सव इति प्रकृतिस्थम् । ऽएँदूएँ’ इति पाठे द्वयमपि कठोरम् । तदत्र कठोरनिवेशनं व्युत्पत्त्याधिक्यसूचनाय । एतावत्युक्ते परीक्षणव्युत्पत्तिर्न किञ्चिद्ग्राम्यं प्रतिभाति । न च तस्याद्यापि निःशङ्कता वर्तते । ततो नागरकप्रामाण्यदत्तभरः प्रश्नो घटत इत्याशयवानवतारयति—“अथ ग्राम्य इति” । प्रकृत्यापन्न एव, तेन यथा प्रथमं ‘हा तो’ इत्यादिप्रश्ने गतिस्तथात्रापीति ग्राम्यप्रकृतिस्थयोरुपन्यासः । भाषाचित्रेण परस्परसङ्घर्षादेककाव्यरचनाप्रवृत्तयोर्ग्राम्यस्यापि श्लोकश्लोकसमाप्तिपदारम्भो योग्य एव । यदि चायमेव समस्तं निर्वाहयन्नशेषशङ्कानिवृत्त्युपयुक्तमुत्तरं नागरस्य निवेशितं स्यादिति तदुत्तरानुरोधेन पादार्ध एव विलम्बोऽप्युचितः । ‘ऐसें’ एवमित्यत्रार्थे काकुगर्भम् । ‘सच्च जि बोल्लु’ इति जिरवधारणे । सत्यमेवैतदुक्तम् । यदि सत्यपुरःसरं ब्रूयास्तदा प्रत्येमीत्यर्थः । एवं ग्राम्यताप्रतारणसिद्धौ किमत्र सर्वलोकसाक्षिके वस्तुनि वक्रोक्त्यैव पूर्वव्युत्पत्तिमात्रनिवेशनेनोत्तरं दत्त्वा श्लोकपूरणमेव नागरस्योचितमित्याशयेनोत्तरमवतारयति—“अथेति” । हस्ते इति प्रकृतिस्थम्, कटकमिति कोमलम्, दर्पणेनेक्ष्यते इत्येते प्रकृतिस्थे, इति प्रकृतिस्थादीनां सुपरिचेयत्वाद्ग्राम्यादीन्येव व्याचष्टे—“तत्र चेति” । प्रकृतिव्यतिकराव्यतिकरत्वयोरौचित्यापन्नत्वाद्भाषासङ्करः शोभावहत्वेन गुण एव भवतीत्युक्तमुपसंहरति—“तदिति” ॥

वाक्यान्तरसगर्भं यद्वाक्यं तद्वाक्यगर्भितम् ।
रसान्तरतिरस्कारे तदिष्टं नेष्टमन्यथा ॥ ११९ ॥

यथा—

‘दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥ १६० ॥’

अत्र ‘यथोक्ता मही साध्यते, सिद्धा सा च विप्राय प्रतिपाद्यते इति वक्तव्ये, येयं वीराद्भुतरसवशप्रवृत्तेन ‘वदन्त एव हि वयं रोमा ञ्चिताः पश्यत’ इति वाक्येन प्रकृतवाक्योक्तेरसमाप्तावेव ‘विप्राय इत्यादिपदविच्छित्तिः सा रसान्तरतिरस्कृतिरित्युच्यते । तया चेदं वाक्यान्तरसगर्भमपि वाक्यं न दोषाय भवति ॥

“वाक्यान्तरेति” । रसान्तरं रसविशेषः प्रकृतरसानुसंहितो रसस्तेन तिरस्कारो दोषभावस्य, तस्मिन् सति तथाकृतं वाक्यमिष्टमेव कवीनामुपादानयोग्यमेव अन्यथा नेष्टं दुष्टमेवेत्यर्थः । तेनायमर्थो भवति—प्रकृतरसतिरोधायकत्वं किल दूषणताबीजं तदतिरोधानेनैव निवर्तते । प्रत्युत द्वितीयपरिच्छेदे वक्ष्यमाणगर्भादिवाक्ययोजनप्रकारसम्पत्तावलङ्कारलाभे गुणत्वं भवति । तथा हि—दिङ्मातङ्गानां घटया विभक्ताः पृथगुद्भिद्य व्यवस्थापिताश्चत्वार आघाटा यस्यां सा, तथा तेन ‘सप्तद्वीपा वसुमती साध्यते’ इति विवक्षितम् । ये तावद्भरतभगीरथप्रभृतयः प्रथितप्रतापातिशयास्तेषां तद्दूषणपरिनिष्ठितशक्तीनामेकस्यापि समस्तक्षत्त्रवंशोन्मूलनेन नवखण्डमेदिनीसिद्धौ नोत्साहशक्तिः श्रवणगोचरतामयासीदिति लोकोत्तरा परशुरामस्योत्साहशक्तिरावेद्यते । ऽसिद्धा सा च’ इत्यनेन यावदभिलषितं तावदेव सिद्धमित्यहो विजिगीषुतेति पूर्ववदेवाभिप्रायः । न चेदसौ सिद्धिमभिसन्धाय प्रवृत्तः । अनुपदमेव सा सम्पन्नेति चकारेण द्योत्यते । एवमभिहिते ‘विप्राय‘ऽभिप्राये’ इत्यादर्शे पाठ आसीत्’ इत्यादिकमस्ति वाक्यशेषभूतम्, तद्विच्छिद्यैव मध्ये ‘वदन्त एव हि वयं रोमाञ्चिताः’ इति वाक्येन सगर्भता, सा न दोषाय । अनेन हि वाक्येन लोकोत्तरवस्तुभावनात्मकविभावसम्पत्तौ प्रादुर्भवन् वक्तुमभिमतो रसो व्यज्यते । स च वीरानुसन्धानहेतुर्वीराद्भुतयोः समानभूमिकयोरन्योन्यानुगमनेन प्रतिकूलता विरहता । तत्र यथा शृङ्गाररौद्रबीभत्सानामेक-प्रघट्टकेन सूत्रेण सन्निपातितैरपि हास्यकरुणभयानकैर्न तिरस्कारः, ‘स्वाङ्गमव्यवधायकम्’ इति न्यायात्, तथेह वीरस्याद्भुतेनात एवाद्भुतादुद्वेलस्य प्रादुर्भूतपुत्रकाङ्कुरलक्षणानुभावप्रदर्शनम्—‘पश्यत’ इति । न चात्र दोषोदाहरणे ‘मया’ इति कारकविभक्तेरुत्थिताकाङ्क्षाया ‘रक्षैनम्’ इत्यादिना स्वरसम्बाधस्तथात्र सम्भवति, ऽसिद्धा’ इत्येतावत्यपि दर्शिते वाक्यार्थपर्यवसानात् । न च सम्पूर्णे रसे ‘वदन्त एव’ इत्यादिकमभिधातुमर्हति । अद्भुतता च पार्थिवानुभावस्य तन्मात्रपूरणापेक्षत्वात् । एवं रसानुभावनातृप्तस्य तत्रैव पुनः पुनरुत्कण्ठायां जिगीषुकरणीयलव्धपात्रप्रतिपत्तिविशेषस्फोरणे ‘विप्राय प्रतिपाद्यते’ इत्युक्तम् । दानवीरोऽपि वीर एव । अत एवाधिकस्य कर्तव्यस्याभावे किमपरमित्यादिरुपसंहारः । तदेतत्सर्वं व्याचष्टे—“अत्रेति” ॥

यद्भिन्नलिङ्गमित्युक्तं विभिन्नवचनं च यत् ।
उपमादूषणं तन्न यत्रोद्वेगो न धीमताम् ॥ १२० ॥

यथा—

‘अन्यदा भूषणं पुंसः शमो लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ १६१ ॥’

अत्र ‘पुंसो योषित इव’ ‘शमो लज्जेव’ ‘पराक्रमो वैयात्यमिव’ इति लिङ्गभेदः । ‘परिभवे सुरतेष्विव’ इति तु लिङ्गभेदो वचनभेदश्च दृश्यते । स चैषामेव परस्परमुपमानोपमेयभावविवक्षायां पर्यायान्तराभावादन्यथाकर्तुं न शक्यत इति सहृदयानुद्वेजकत्वान्न दुष्यतीति दोषस्यापि गुणत्वम् । तदिदं द्वयोरप्येकमुदाहरणम् ।

अथ भिन्नलिङ्गस्यैव यथा—

‘यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च ।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १६२ ॥’

अत्र प्राग्वदेव पर्यायान्तराभावात् ‘स लोहकारभस्त्रेव’ इति लिङ्गभेदस्य न दोषः ॥

“यद्भिन्नेति” । दोषप्रकरणानुरोधेन समस्तव्यस्तोदाहरणं बोद्धव्यम् । सहृदयोद्वेजकत्वेन हि दोषता । यत्र तु कथञ्चित्तथाभावो न भवति, तत्र दोषत्वहानिरुचितैव । तथा हि स्त्रीपुंसयोरेव प्रकृतानुगुणोपमानोपमेयभावविवक्षायामावश्यकं लिङ्गवञ्चनभेदयोरन्यतरदेकस्य पुंस उपमेयत्वेन दारशब्दस्य भिन्नवचनत्वनियमात्कलत्रपदं भिन्नवचनमेव । पर्यायाणामपि लिङ्गभेदो नियतः । न च पुंवचनं किञ्चित्समानस्वभावमस्ति येनायं प्रकारो निवर्तेत । न चैवंविधोपमामन्तरेण प्रस्तुतवाक्यार्थपोषः । एवमनन्यगतिका भिन्नलिङ्गता भिन्नवचनता वा साहित्यसमयविदामुद्वेगं नोत्पादयति । अत एवालङ्कारौचितीसम्पदा गुणत्वसिद्धिः । एवं शमलज्जयोः पराक्रमवैयात्ययोः परिभवसुरतयोश्च बोद्धव्यमित्याशयवान् व्याचष्टे—“अत्रेति” । ‘रतं, रहः, शयनं, मोहनम्’ इति सुरतवाचिनां सर्वेषामेव नपुंसकता न दुष्यतीति सहृदयहृदयानुद्वेजकत्वादिति हेतुर्गुणत्वेत्वाभिप्रायिकः । स च दर्शित एव । “अथेति” । धर्मार्थकामास्त्रिवर्गः । वह्निविध्मापनचर्मपुटो भस्त्रा सा यथा वातेन पूर्यते, वातं च मुञ्चति, न तु किञ्चित्पुरुषार्थमासादयति, तथा त्रिवर्गशून्येऽपि भस्त्रापर्यायस्य समानलिङ्गस्याभावेन सहृदयानामनुद्वेगालङ्कारसम्पत्त्या गुणत्वमुपपन्नमित्याह—“अत्र प्राग्वदेवेति” । ‘न दोषः’ इति मूलपुस्तकेअदोष इत्युपलक्षणम्, गुणश्च भवतीत्यपि बोद्धव्यम् ॥

भिन्नवचनस्यैव यथा—

‘प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः ।
मुक्तात्मा नः शिवं नेमिरन्येऽपि ददतां जिनाः ॥ १६३ ॥

अत्र ‘नेमिरन्येऽपि’ इति वचनभेददोषेऽपि ‘ददताम्’ इति क्रियापदादेर्वचनश्लेषमाहात्म्याद्गुणत्वम् । न चेदं वाच्यमत्रेवादिर्न विद्यत इति नोपमात्वम् । इवस्यापिना समुच्चयार्थेन तुल्यधर्माणां तु ‘धर्मस्य प्रभवः’ इत्यादिभिर्वचनश्लेषैर्विषयापहारात् । यथा अग्रतो द्योतकलोप उपमायाम्—ऽकोमलापाटलौ तन्वि पल्लवश्चाधरश्च ते ।’ नन्वेषोऽपि श्लेषः कस्मान्न भवति । उच्यते—‘यत्र द्वयोः सदृशयोरभिधानं स श्लेषः । यत्र सदृशात्सदृशप्रतिपत्तिस्तदुपमानम्, यत्र द्वयोः सादृश्यमभिधीयते प्रतीयते वा सोपमा’ इति प्रबन्धेनाग्रतो वक्ष्यामः । उपलक्षणं चैतत्—यदुपमायामेव लिङ्गवचनभेदो न दूषणमिति । तस्य सर्वालङ्कारसाधारणत्वात्केवलं ‘सादृश्यमात्र’ गसादृश्यमलङ्कार इति दर्शने उपमायामुदाह्रियते ॥

“प्राज्येति” । आर्हतानां नेमिनामा जिनविशेषोऽन्ये जिना ऋषभनाथप्रभृतयः प्राज्यमुचितं तथाभूतः प्रभावः सिद्धिरूपो यस्य तादृशो नेमिः शिवं ददतां ददातु । ऽदद दाने’ इति धात्वनुसारात् । कस्मै इत्यपेक्षायां मुक्तात्मा इत्यत्र नः । पक्षे वो‘नोऽस्मभ्यं’ इति स्यात्; यद्वा ‘नोऽस्मभ्यम्’ पक्षे ‘वो युष्मभ्यम्’ इत्येव पाठे ‘प्राज्यप्रभाः’ इति प्रथमान्तमपि पृथक् कल्पनीयम् युष्मभ्यं शिवं ददतां ददत्विति । धर्मस्य ‘प्रभव उत्पत्ति—’ इति स्यात्प्रभवमुत्पत्तिनिमित्तं नेमिः । प्रभवः प्रभुता यथावदनुशासनेन जिनाः । रजश्च तमश्च रजस्तमसी ते अस्ते क्षिप्ते येन स तथाभूतो नेमिः । अस्तं रजो यैस्तेऽस्तरजसस्तेषु प्रकृष्टास्तमप्यरजस्तमाः । मुक्तो निरावरण आत्मा आत्मशब्द आत्मवचनः स्वरूपवचन इति वा बहुव्रीहिस्तादृशो नेमिः । जिनास्तु मुक्तात्मान इति स्पष्टम् । तदिह वचनभेदमन्तरेण वचनश्लेषाभावाद्भिन्नवचनत्वस्यावश्यकत्वेन दोषः । श्लेषलक्षणालङ्कारघटनया गुणत्वम् । ननु च लिङ्गादिभेद उपमाया दूषणत्वमुक्तम्, इह त्वलङ्कारान्तर उदाह्रियते, तत्कथं पूर्वापरसमञ्जसत्वम् । न चात्रोपमा सम्भवति, तत्सामग्र्यसम्भवात् । उपमानोपमेयसाधारणधर्मेवादिशब्दाः किल तद्धटकाः । तदत्र त्रितयसम्बद्धे‘बद्धेऽपीव’ इति स्यात् त्वपीववद्वाप्रभृतिंशब्दानुपादानात्कथमुपमेति शङ्कामुत्थाप्य निरस्यति—“न चेति” । इवादयो हि शब्दाः सादृश्यद्योतकाः । तथा च क्वचित्प्रसिद्धस्य प्रकृते सम्बन्धप्रतीतिस्तेभ्यो भवति बिम्बप्रतिबिम्बन्यायाश्रयणात् । एवं च न युगपत्तुल्यरूपसम्बन्धः । अपिशब्दस्तु युगपत्तुल्यरूपसम्बन्धं बोधयतीति विभिन्नविषयत्वम् । नहीवादिशब्दाभावे सादृश्यमेव न प्रतीयते, लुप्तोपमाप्रपञ्जभङ्गप्रसङ्गात् । अन्यत एव प्रतीतिसिद्धेरुपायान्तरवैयर्थ्यात् । किमितीह नेवादिपदं प्रयुक्तमिति प्रश्नोऽवशिष्यते तत्रेदमुत्तरम्—“इवस्येत्यादि” । नेमिरन्येऽपीत्यपिशब्देन समुच्चयोऽप्यवसीयते । स च युगपदेकसम्बन्धाभिधाने निर्वहति । तेनानेकमुद्दिश्य किञ्चिदेकसम्बन्धाभिधानं समुच्चयाभिधायिनो विषयः । एकमुद्दिश्य प्रसिद्धान्यध‘धर्माभिधानं तु यथेवादे’ इति स्यात्र्मविधानं तु यथेवादिरिति विषयविरोधान्न प्रयुज्यत इति । स्यादेतत्— इववद्वायथादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिस्तथा चानेनेदं तुल्यमिति साधारणधर्मविधिरूपा कथमुपमेत्यत उक्तम्—“तुल्यधर्माणां त्विति” । नात्र वचनश्लेषतुल्यधर्मागमः, अपि तु तथा ‘व्यवस्थितानामेव शब्दतन्त्रता’ इति ‘धर्मस्य प्रभवः’ इत्यादिभि‘र्भिहिं वचनश्लेष’ इति स्यात्र्द्विवचनश्लेषैस्तथापि विषयोपहृत इति । यदि चेवादिमन्तरेण नोपमाप्रतीतिस्तर्हि प्रसिद्धमुपमोदाहरणं भज्येतेत्याह—“यथेति” । अग्रतश्चतुर्थपरिच्छेदे । अत्राप्युपमामनङ्गीकुर्वतो मतमाशङ्कते—“नन्विति” । इहापि चकाराभ्यां युगपत्पल्लवाधरयोरेकधर्मविधानस्य तुल्यत्वादिति देश्याभिप्रायः । उक्तयुक्तया दूषयति—“उच्यत इति” । तर्हि प्रकृतोदाहरणे नास्त्येवोपमा, कथं वचनभेदस्य गुणीभाव उदाह्रियत इत्याह—“यत्रेति” । यद्यप्यभिधीयमानं नास्ति सादृश्यम्, तथापि प्रतीयमानोपमा व्यवह्रियतामित्यर्थः । शब्दमात्रसाम्यं श्लेषसङ्कीर्णमेवेत्युपेक्षितवान् । ननु यत्रोपमया काव्यव्यपदेशस्तत्र प्रतीयमानमपि सादृश्यमूरीक्रियते । यत्र त्वलङ्कारस्वभावव्यवस्थापितमेव काव्यं न तत्रापीत्याह—“उपलक्षणमिति” । प्रतिपत्तिवैरूप्यस्यालङ्कारान्तरसाधारण्यादुपमातोऽन्यत्रापि लिङ्गवचनभेदो दूषणमेव । तद्यथा ऽमुखं पद्मम्’ इति रूपके, ‘मुखं पद्मं वा’ इति संशये, ‘न मुखं पद्ममेव’ इत्यपह्नवे । एवमन्येऽपि । अत एव द्वे भिन्नलिङ्गवचने इत्यत्र नोपमाग्रहणम् । यद्येवं कथमुपमायामेव दूषणमुदाह्रियत इत्यत आह—“केवलमिति” । चिरन्तनैर्हि भरतमुनिप्रभृतिभिर्द्वे एव यमकोपमे शब्दानुगतालङ्कारत्वे नेष्टे । तत्प्रपञ्चनमात्रं तु पुनरन्यैरलङ्कारकारैः कृतमुपमायाः प्रभूतविषयतया प्राधान्याच्चोदाहृतमतिस्फुटं भवतीति सङ्क्षेपः ॥

यत्रोपमानधर्माः स्युर्नोपमेयेन सम्मिताः ।
तद्धीनोपममित्याहुस्तत्प्रसिद्धौ न दुष्यति ॥ १२१ ॥

यथा—

‘स मारुताकम्पिन्तपीतवासा बिम्भ्रत्सलीलं शशिभासमब्जम् ।
यदुप्रवीरः प्रगृहीतशार्ङ्गः सेन्द्रायुधो मेघ इवाबभासे ॥ १६४ ॥’

अत्र सेन्द्रायुध इति ‘कार्मुकमात्रोपादानं’ क; ‘कार्मुकस्योपादा’ गकार्मुकमात्रस्योपादानं वासःशङ्ख्योस्त्वनुपादानादूनोपमत्वम् । तत्रेन्दुविद्युतोरतिप्रसिद्धत्वाददोषत्वम् ॥

यदाह—

‘सर्वं सर्वेण सारूप्यं नास्ति भावस्य कस्यचित् ।
यथोपपत्ति कृतिभिरुपमानं प्रयुज्यते ॥

अखण्डमण्डलः क्वेन्दुः क्व कान्ताननमद्युति ।
यत्किञ्चित्कान्तिसाम्यात्तु शशिनैवोपमीयते ॥’

“यत्रोपमानेति” । उपमेयेनोपमेयविशेषणेन सम्मितास्तुल्यसङ्ख्याः । इन्द्रायुधमिन्द्रधनुरेकमुपमाने उपमेये पीतं वासः शार्ङ्गमब्जः शङ्ख इति त्रीणि विशेषणानि तदिहाधिकविशेषणविषय इति जिज्ञासासमकालमेवाप्रसिद्धेन्दुबिम्बयोरुपमानयोर्मेघानुसन्धानात् स्खलनाभिमुखी प्रतीतिरवलक्ष्यते । ध्वननव्यापारोन्मेषाच्च गुणत्वलाभः । तदुक्तम्—‘मुख्या महाकविगिरामलङ्कृतिभृतामपि । प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥’ इति । न चैवं स्तनितादीनामिति कथं प्रतीतिरिति वाच्यम् । प्रतीयमानस्यापि प्रतिपत्तिवैरूप्यसमाधावानौपयिकस्थानाकाङ्क्षितत्वेनादरादित्याह—“सर्वं सर्वेणेति” । यथोपपत्तिपर्यन्तो यावतोपमानविशेषणत्वेन प्रकृतमुपमेयविशेषणप्रतिबिम्बता नीयते तदतिक्रमेणैकप्रतीत्यनुरोधे कल्पितेनाप्युपमेयविशेषणेनेत्यर्थः । अन्यथा चन्द्रमुखादीनां नोपमा पर्यवस्येतेत्याह—“अखण्डेति” ॥

अमुमेव प्रकारमधिकोपमेये योजयन्नाह—

क्रमेणानेन कृतिभिरेष्टव्यमधिकोपमम् ।
विशेषस्तूपमेयाङ्गमनुमानात्प्रतीयते ॥१२२ ॥

यथा—

‘स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः ।
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥ १६५ ॥’

अत्र शशिनो ग्रहणादधिकोपमत्वेऽप्युपमानत्वेनाविवक्षितत्वाद्गुणत्वम् । यदि वोपमाने धर्मोद्धाटनानुमानात् ‘शङ्खचक्रगदाधरो विष्णुः’ इति प्रसिद्धेः शार्ङ्गमनुमेयम् ॥

“क्रमेणेति” । यत्रोपमानेऽधिकविशेषणसङ्क्षेपस्तद्वाक्यमधिकोपममित्युच्यते तत्र झटिति प्रतिबिम्बभूतोपमेयविशेषणप्रतिसन्धानेन दोषः । तदेव तु कथमत उक्तम्—“विशेषस्त्विति” । उपमेयांशे विशेष‘विशेषादिति’ इत्यादर्शपाठःविशेषणमुपादाना(?)दुपमानविशेषणात्प्रतीयते । शतह्रदा विद्युत् । उपमानत्वेनाविवक्षितत्वादित्यापाततः । उपमानविशेषणानां यावत्प्रतीति न ग्रहणमिति प्रकाशयितुं पारमार्थिकस्त्वयं सिद्धान्त इत्याह—“यदि वेति” । उपमानधर्मस्याधिकस्योद्धाटनमभिधानं तस्यानु पश्चान्मानं ज्ञानम् । कथमेतदित्याह—“इतिइति मूले पाठः प्रसिद्धेरिति” ॥

यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् ।
न च्छन्दोभङ्ग‘भङ्गमप्याहुः’ क इत्याहुस्तदा दोषाय सूरयः ॥ १२३ ॥

यथा—

‘जह ण्हाउं ओइण्णे अब्भन्तमुल्हासिअमंसुअद्धन्तम् ।
तह अ ण्हाआ सि तुमं सच्छे गोलाणईतूहे ॥ १६६ ॥’

[यथा स्नातुमवतीर्णे आर्द्रीभूतमुल्लासितमुंशुकार्धान्तम् ।
तथा च स्नाता भवसि त्वं स्वच्छे गोदानदीतीर्थे ॥]

अत्र द्वितीयैकादशत्रयोविंशतिवर्णानां संयोगपरत्वाद्गुरुत्वेऽपि ण्हाल्हादिसंयोगस्य तीव्रप्रयत्नोच्चारणेन ‘पुनर्लघु’ गपूर्वलघुत्वे न छन्दोभङ्ग इति गुणत्वम् ॥

“यदेति” । प्रयतनं प्रयत्नः स्थानकरणव्यापारस्तस्य तीव्रत्वमुद्रेकस्तत एव हि पिण्डाक्षरादीनामकठोरत्वमाभासते । आदिग्रहणादिवहिकारौ‘इहिकारा विन्दुजुआ’ इति प्राकृतपिङ्गलोक्त्या ‘इकारहिकारौ’ इति; ‘इहिकारौ’ इति वा पाठः सानुस्वारौ च केवलौ पदान्ते वर्तमानौ तत्तद्भाषाविषयेऽवसेयौ । क्वचिदेव हि वर्णे तथावभासते न तु सर्वत्र । तदुपलक्षणमेव ‘रह वञ्जणसञ्जोए’ [ ‘रहौ व्यञ्जनसंयोगे’ ] इत्यादिकं छन्दोविचितौ दर्शितम् । “जहेति” । स्नातुमवतीर्णे त्वयि अंशुकार्धमुद्भ्रष्टं सदब्भन्तमार्द्रोभूतं यथा चलत्वं‘लब्धम्’ स्यात् स्थितेस्तथावगम्यते न त्वन्तर्जलं जलकेलिस्थानमवतीर्ण इत्यभिप्रायशेषः । कथमन्यथा गोदावरीनद्याः स्वच्छं जलं दृश्यते इति । तूहं तीर्थम् । अत्र द्वितीयैकादशादिस्थानेषु यद्यपि संयोगात्पूर्वभावे गुरुत्वं विद्यते-र्तथापि तीव्रप्रयत्नोच्चारणीयशकारहकारादिसंयोगमहिम्ना नावच्छेदश्रव्यता कलुषीक्रियत इति । एवमन्यदप्युदाहार्यम् । यथा—

‘धबलाइं गलेत्ति धवलेहिं अणञ्जणसामलेहि णिसालआए ।
णखवत्तकुसुमाइं णहअलाओ ओसरइ ॥’

इत्यादि नामधातुभागे स्वरासन्धाने च पठितिविच्छेदो न भवतीत्युक्तं स ‘मुल्लङ्घ्य’ स्यात्तदुल्लङ्ङ्घनमात्रेण समाधीयते शोभां पुष्यतीति ॥

वाक्यमस्थानविरति प्राग्भग्नयतिसञ्ज्ञया ।
समुद्दिष्टं यदधुना गुणत्वं तस्य कल्प्यते ॥ १२४ ॥

यथा—

‘शोभां पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधः किञ्चिद्भावालसमसरलप्रेक्षितं कामिनीनाम् ।
कार्याकार्याण्ययमविक‘विकलेनागमेनैव’ कलान्यागमेनैव पश्य- न्वश्यामुर्वीं वहति नृप इत्यस्ति चायं प्रयोगः ॥ १६७ ॥’

अत्र पादत्रये चतुर्थस्थाने यतौ कर्तव्यायां पञ्चमस्थाने कृतत्वादपरत्र च पादस्य मध्यभागे निविष्टकेवलस्वरत्वाद् यतिभ्रंशेऽपि स्वरसन्धिकृतत्वादविभिन्ननामधातुशरीरत्वाच्च न दोषत्वम् ॥

यदाह—

‘स्वरसन्ध्यकृते प्रायो धातुभेदे तदिष्यते ।
नामभेदे च शेषेषु न दोष इति सूरयः ॥

लुप्ते पदान्ते शेषस्य पदत्वं निश्चितं यथा ।
तथा सन्धिविकारान्तं पदमेवेति वर्ण्यते ॥’

“वाक्यमिति ।॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।।”

“शोभामिति ।॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।”

कार्याकार्येति च नामभागमुल्लङ्घ्य विच्छेदश्रव्यता च परस्य यणादेशेन ‘किञ्चिद्भावा’ इति ‘नृप’ इति च स्वरसन्धाने विच्छेदोऽत एव श्रव्यत्वमपि । तदेतव्द्याचष्टे—“अत्रेति” । ‘मन्दाक्रान्ता मभनतयुगं गद्वयं वेददिग्भिः’ इति चतुर्थदशमयोर्यतिराम्नाता । “पञ्चमस्थान इति” । प्रथमतृतीययोर्द्वितीये तु षष्ठे यतिकरणादिति बोद्धव्यम् । ननु पदच्छेदे स्वरसन्धानपठितिविरामः सोल्लेखो लक्ष्यते, न तु चतुष्पादे तथास्तीति कथं श्रव्यत्वमत आह—“लुप्त इति” । सन्धौ विकारो यत्वयलोपादिकं कार्यं, तथा च पदान्ते सति पदच्छेद एवायमिकारोऽवतिष्ठत इत्यर्थः ॥

अशरीरं क्रियाहीनं क्रियापेक्षा न यत्र तु ।
‘प्राशस्त्यादे’ कयत्रास्त्यादेरपेक्षा वा न दोषस्तत्र तद्यथा ॥ १२५ ॥

यथा—

‘कियन्मात्रं जलं विप्र जानुदघ्नं नराधिप ।
तथापीयमवस्था ते नहि सर्वे भवादृशाः ॥ १६८ ॥’

अत्र त्रिषु पादेषु पदानि क्रिया विशेषक्रिया । क्रियासामान्यवाचकपदं तु ‘तिङ्समानाधिकरणे प्रथमा’ इत्युक्त्यनुसारेण प्रथमासिध्द्यर्थमपेक्षितमेव । अतएव ‘सापेक्षम्’ इत्याद्यग्रिमग्रन्थसङ्गतिःक्रियापदं नापेक्षन्ते । सापेक्षं चासमर्थं भवति । चतुर्थे तु नहीत्यादिभिः सन्तीत्यपेक्षते‘प्रेक्ष्यते’ इति स्यात् न चैतावतामीषामसामर्थ्यं भवति । यदाह—‘यत्रान्यत् क्रियापदं नास्ति, ‘अस्तिर्भवन्तीपरः प्रथमपुरुषः’ कतत्रास्ति भवतीति पदं प्रथमपुरुषे प्रयुज्यते’ इति ॥

“अशरीरमिति” । प्रधानाविमर्शे हि दूषणमित्युक्तं तदुपात्तानामेव पदार्थानां प्रधानगर्भीकरणे तत्प्रतिबन्धेऽवश्यविधेयमन्यं प्रति गुणीभावे वा समाधीयते । अत एव विशेषाद्गुणत्वम् । तथा हि—‘कियन्मात्रं’ ‘जानुदघ्नम्’ इत्यनयोः ‘परिमितिक्रिया’ स्यात्परिमितम् । क्रिया प्रधानगर्भभूता । ‘नहि सर्वे भवादृशाः’ इत्यत्र तु सत्ताक्रियायाः सकलपदार्थाव्यभिचारात् ‘अपेक्ष्यते’ इति सिद्धिः । तदिदमाचार्यमतेनाह—“यत्रान्यदिति” । भवन्ती वर्तमाना । तदेतद्वाक्यं क्रियाप्रधानमिति ‘दर्शने’ इति स्यात्ददर्श ‘स‘सा’ इति स्यात् प्रधानं विशेष्यमात्रं तु वाक्यार्थे’ इति परमार्थः । तेन ‘राधा रहः साक्षिणाम्’ इत्यादावावश्यकविधेयसाक्षिभावादिगुणतया राधासम्बन्धादीनां वैवक्षिकप्राधान्यानामपि प्रधानत्वाविमर्शो न दोष इत्युक्तं भवति ॥

श्लिष्टमस्पृष्टशैथिल्यं शिथिलं तद्विपर्ययः ।
गौडीयैरिष्यते तत्तु बन्धप्राशस्त्यगौरवात् ॥ १२६ ॥

यथा—

‘लीलाविलोलललना ललितालकलालसाः‘लासकाः’ क ।
विलुप्तमालतीमाला जलकालानिला ववुः ॥ १६९ ॥’

अत्र शैथिल्यदोषेऽपि बन्धप्राशस्त्येन गौडैरादृतत्वाद्गुणत्वम् ॥

“श्लिष्टमिति” । पारुष्यशैथिल्याभ्यां विना कृतं श्लिष्टमित्युक्तं तस्य विपर्ययो विपरीतं वाक्यं शिथिलं भवति । परुषमल्पप्राणाक्षरोत्तरं वेत्यर्थः । एवंविधमपि चैतदनुप्राससौष्ठवात्पदानामेकताप्रतिभासे समाधीयत उद्भटानुप्रासतया च कान्तिप्राधान्ये गौडीयरीतिप्राधान्येन गुणत्वमासादयति तदिदमुक्तम्—“बन्धप्राशस्त्यगौरवादिति” । गौडीयैर्गौडीयरीतिगोचरहेतुवाक्प्रकर्षशालिभिः ॥ “लीलेति” । अत्र दन्त्यवर्णमयत्वेनाल्पप्राणाक्षरोत्तरतायामपि पदैकताप्रतिभासानुप्रासयोरुद्रेकः कान्तिप्रकर्षोऽवसेयः ॥

न दोषः क्वापि वैषम्येऽप्यर्थालङ्कारकारणात् ।
पौरस्त्यैरादृतत्वाच्च शब्दाडम्बरतोऽपि वा ॥ १२७ ॥

यथा—

‘चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः ।
स्पर्धते रुद्धमद्धैर्यो वररामा‘मुखा’ कननानिलैः ॥ १७० ॥’

अत्र सत्यपि ‘शब्दवैषम्यदोषे’ गवैषम्यदोषे शब्दालङ्कारगुणादर्थालङ्कारगुणात्पौरस्त्यैरादृतत्वाच्च गुणत्वम् ॥

“न दोष इति” । अर्थालङ्कारकारणादर्थालङ्काररूपम् । यत्र हिशब्दस्यार्थोऽन्यथान्यथारूपं भजते तत्रावश्यं तदनुयायिना पदसन्दर्भेण भिन्नरूपेण भाव्यम् । एवमपि छायावैरूप्यं वैरस्यमेवावहतीत्याशङ्क्य ‘शब्दाडम्बर’ इत्युक्तम् । आडम्बर उद्भटता । ‘तस्याप्येकरीत्यनिर्वाहो दूषणमित्यत्र ‘पौरस्त्यैः’ इत्युक्तम् । शरावत्याः प्राग्देशभवाः पौरस्त्यास्तदीयहेवाकप्राचुर्यभाज एव हि खण्डरीतयः । “चन्दनेति” । अत्र यद्यपि मलयानिल एक एव वाक्यार्थस्तथापि चन्दनप्रणयेन प्रवृद्धसौरभे मन्द इत्याभ्यां शृङ्गाराङ्गताप्रतीतावुन्मिश्रः सन्दर्भः । मलयमारुत इति कोमलः, वररामामुखानिलैरित्यपि तथा, तत्राप्यारभटीप्रकाशने स्पर्धत इति स्फुटम् । एवं रूद्धमद्धैर्य इति । तदेवं समताविपर्यासेऽपि विशेषणानामर्थानां भिन्नभिन्नरसानुप्रवेशे पृथगर्थालङ्कारः प्रकाशन्ते । अस्ति चात्र शब्दाडम्बरवशादेव छायारूपाप्रतिभासः । लाटीया च रीतिः ॥

कठोरमपि बध्नन्ति ‘प्रदीप्तमपरे’ गदीप्तमित्यपरे पुनः ।
तेषां मतेन तस्यापि दूषणं नैव विद्यते ॥ १२८ ॥

यथा—

‘न्यक्षेण पक्षः क्षपितः क्षत्रियाणां क्षणादयम् ।
अत्र कठोरत्वेऽपि दीप्तत्वाद्गुणत्वम् ॥’

“कठोरमिति” । सुकुमारताविपर्यासः कठोरः सन्दर्भः प्रस्फुटतरवर्णाप्रधानमिति यावत् । सोऽयं दीप्तरसानुप्रवेशादौचित्येन गुणत्वं भजत इति व्यक्तम् । अपरे पौरस्त्याः । न्यक्षेण सामस्त्येन ॥

अविद्वदङ्गनाबालप्रसिद्धार्थं प्रसादवत् ।
विपर्ययोऽस्याप्रसन्नं चित्रादौ तन्न दुष्यति ॥ १२९ ॥

यथा—

‘याश्रिता पावनतया यातनाच्छिदनीचया ।
याचनीया धिया मायायामायासं स्तुता श्रिया ॥ १७१ ॥’

अत्राप्रसाददोषेऽपि चित्रत्वाद्गुणत्वम् ॥

“अविद्वदिति” । विपर्ययः प्रत्यनीकभूतं वाक्यम् । आदिग्रहणाद्यमकश्लेषप्रहेलिकाप्रकरणानि । या देवी पवित्रत्वेनाश्रिता । अनीचया तुङ्ग्या बुध्द्या मायायामस्य अविद्याविस्तारस्यायासं ग्लानिं विच्छेदं याचनीया प्रार्थनीया । यतो यातनं नरका-नुभवनीयं दुःखं छिनत्ति । श्रियापि स्तुतेति । अष्टदलकमलबन्धोऽयम् । तदिह तथा वरा(?)सन्निवेशस्य चमत्कारकारित्वेन प्रसादोऽपि सहृदयश्लाघाविषयो गुणतामध्यास्त इति ॥

अध्याहारादिगम्यार्थं नेयार्थं प्रागुदाहृतम् ।
स गम्यते प्रसिद्धश्चेन्न तद्दोषवदिष्यते ॥ १३० ॥

यथा—

‘मां भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा ।
वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥ १७२ ॥’

अत्र दहत्वित्यादीनामध्याहार्यतया नेयत्वेऽप्यतिप्रसिध्द्या प्रतीयमानत्वाद्गुणत्वम् ॥

“अध्याहारेति” । असम्पूर्णं वाक्यं नेयार्थमित्युक्तं तस्यैवंरूपता झटिति श्रुतार्थापत्तिप्रादुर्भावपरिह्नवकसन्धानात्समाधीयते । तथा हि—‘मा भवन्तमनलः’ इत्यादौ वृक्षसमभिव्याहारेण दहनादीनां योग्यतया शीघ्रमेव धाक्षीदित्यादिक्रियान्वयोऽवसीयते । स्वस्तिवचनेन चामङ्गलप्रस्तावनिरासात्तथाभूतक्रियानुपादानं वक्रक्षमतया गुण इति ॥

असभ्यार्यं मतं ग्राम्यं तद्ग्राम्योत्त्क्यैव दुष्यति ।
विदग्धोक्तौ तु तस्याहुर्गुणवत्त्वं मनीषिणः ॥ १३१ ॥

यथा—

‘कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः ।
त्वयि ‘निर्भर्त्सनो’ गनिर्मत्सरो दिष्ट्या सोऽयमस्मास्वनुग्रहः ॥ १७३ ॥’

अत्र ग्राम्यत्वेऽपि ग्राम्यार्थस्य विदग्धोक्त्या तिरस्कृतत्वाद्गुणत्वम् ॥

“असभ्यार्थमिति” । रसस्यादीप्तिः कान्तिविपर्ययो ‘वचनापरार्धेन’ इति पाठःवचनापराधेन दूषणतामध्यास्ते, स समाधीयतेऽत्र ग्राम्योक्तिपरिहारेणैव । अत एवोक्तिसमर्पितच्छायाविशेषयोगे गुणत्वलाभः । सहृदयसभायां न साधुरसभ्यः । वैदग्ध्यविधुरं ग्राम्यम् ॥

ओजः समासभूयस्त्वं तद्दीप्तार्थेषु वध्यते ।
विपर्ययोऽस्याः समस्तं तद्दीप्तं चेन्न दोषभाक् ॥ १३२ ॥

यथा—

‘यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥ १७४ ॥’

अत्रासमस्तत्वेऽपि ‘व्यूढ’ इति टीकासम्मतः पाठःप्रौढबन्धत्वाद्गुणत्वम् ॥

“ओज इति” । दीप्तरसानुप्रविष्टार्थप्रतिपादकसन्दर्भौचित्येन समासभूयस्त्वमोजः । अस्य विपर्ययो दीप्तेरप्रत्यूहादेव समाधीयते । तदिदमुक्तम्—‘दीप्तार्थं बध्यते यत्र तद्दीप्तं चेन्न दुष्यति’ इति । सुगममुदाहरणम् । व्यूढःप्रौढः ॥

समस्तमसमस्तं वा न निर्वहति यद्वचः ।
तदनिर्व्यूढमस्यापि न दोषः क्वापि तद्यथा ॥ १३३ ॥

यथा—

‘प्रसीद चण्डि त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः ।
किमर्थमुत्कम्पितपीवरस्तन- द्वयं त्वया लुप्तविलासमास्यते ॥ १७५ ॥’

‘अत्र समस्तरीत्या’ क-खअत्रासमस्तरीत्यनिर्वाहादनिर्व्यूढत्वेऽपि रसान्तरपरिग्रहेण रीत्यन्तरपरिग्रहाद्गुणत्वम् ॥

“समस्तमिति” । उपक्रान्तरीतेरनिर्वाहे ‘मधुरसपर्यन्ता’ इति स्यात्मधुररसपर्यन्ता प्रतीतिः स्खलतीति दूषणताबीजमुक्तम् । तथाभूतरसानुगुणव्यभिचार्यनुप्रवेशव्यञ्जनौचित्यादुपक्रमनिर्वाहः सर्वस्वायमानो गुणतामासादयति । तथा हि—प्रसीदेत्यादौ प्रणयकेलिकुपितकामिनीप्रसादनायां शृङ्गारविरोधिसमासव्यतिकरेण रीतेरप्यपक्रमे रोषलक्षणभावानुभावभूः‘भूतस्तन’ स्यात् स्तनकम्पवर्णनायां समासोऽनुप्रविष्ट इति व्यक्तः पूर्वरीतेरनिर्वाहः । रसान्तरं प्रकृतविजातीयरससम्बद्धो व्यभिचारी भावः ॥

‘निरलङ्कार’ गअनलङ्कारमित्याहुरलङ्कारोज्झितं वचः ।
पूर्वोत्तरानुसन्धाने तस्य साधुत्वमिष्यते ॥ १३४ ॥

यथा—

‘निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।
शिष्याय बृहतां पत्युः प्रस्तावमदिशद्दृशा ॥ १७६ ॥’

अस्यानलङ्कारत्वेऽपि पूर्वापरानुसन्धानप्रयोजनभूतत्वाद्गुणत्वम् ॥

“अनलङ्कारमिति” । अनुत्कृष्टाप्रविष्टविशेषणवद्वाक्यं निरलङ्कारः पूर्वोत्तरवाक्यसङ्गतिकरणप्रयोजनकतया न दोषः । कथं तथाभूतस्य काव्यत्वमित्यपि न वाच्यम् । अनुगतेन वक्रीभावेन तत्समर्थनात् । व्यक्तमुदाहरणम् ॥

सूत्रकार एव वाक्यार्थदोषगुणीभावविवेचनं सङ्गमयति—

वाक्याश्रयाणां दोषाणां गुणीभावोऽयमीरितः ।
अथ वाक्यार्थदोषाणामदोषः कथ्यतेऽधुना ॥ १३५ ॥

समुदायार्थशून्यं यत्तदपार्थं प्रचक्षते ।
तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दुष्यति ॥ १३६ ॥

यथा—

‘क्वाकार्यं‘कृत्यं’ ग शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणामुपशान्तये श्रुतमहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियो‘धियः स्वप्नेऽपि सा दुर्लभा’ ग रेखैव सान्यादृशी चेतः स्वास्थ्यमुपेहि कः खलु युवा धन्योऽधरं धास्यति ॥ १७७ ॥

अत्र समुदायार्थशून्यत्वेनापार्थस्याप्युन्मत्तवचनत्वाद्गुणत्वम् ॥

“वाक्याश्रयाणामिति” । ‘मत्तादिववनान्य’ पाठःसत्तादिवचनान्यनुक्रियमाणानि चमत्कारमर्पयन्ति । अत एव छायालङ्कारप्रादुर्भावाद्गुणः । अनित्यदोषतया चानुकरणादन्यदपि गुणीभवनबीजमुन्नेयमित्युदाहरणेन व्यञ्जयन्नाह—“क्वाकृत्यमिति” । अत्र श्रुतिशालिनो नायकस्य वासनापरिपाकवशाद्विप्रलम्भावेशेऽपि प्रथमं प्रादुर्भावः—‘क्वाकृत्यं शशलक्ष्मणः क्व नु कुलम्’ इति । तदेवं शान्तरसानुयायिनमनन्तरमेव बाधित्वा चित्तानुरञ्जकप्रकृतरसाव्यभिचारिणा औत्सुक्यस्य प्रादुर्भावः—‘भूयोऽपि दृश्येत सा’ इति । एवं ‘दोषाणामुपशान्तये श्रुतम्’ इत्याद्यौचित्यादीनां पूर्वपूर्वप्रादुर्भूतानामुत्तरोत्तरभाविभिश्चिन्ताप्रभृतिभिरपवादे प्रकृतवासना प्रौढिरवसेया । “उन्मत्तवचनत्वादिति” । रसाविष्टचेतसस्तदुत्कलिकाप्रायाणां भावानामव्यवस्थया कीर्तनमुन्मादः ॥

‘प्रयोजकं’ गयदप्रयोजनं यच्च गतार्थं व्यर्थमेव यत् ।
तस्यापि क्वापि निर्दोषः प्रयोगो दृश्यते यथा ॥ १३७ ॥

यथा—

‘गीता विदुरवाक्यानि धर्माः शान्तनवेरिताः ।
न श्रुता भारते येन तस्य जन्म निरर्थकम् ॥ १७८ ॥’

अत्र गीताविदुरवाक्यादीनां कथायामप्रयोजकत्वेऽपीतिहासव्याजेन चतुर्वर्गप्रतिपादनस्यारम्भ एव प्रतिज्ञानाद्गुणत्वम् । तदिदमप्रयोजनम् ॥

“यद्प्रयोजनमिति” । प्रबन्धार्थपोषा‘पोषो नाधायक’ पाठःनाधायकवाक्यमप्रयोजनम् । अर्थंलाभप्रतिपादकतया कृतकरं व्यर्थम् । एवकारो भिन्नक्रमस्तच्छब्दानन्तरं द्रष्टव्यः । दृश्यत इत्यनेन तत्र तत्र प्रकृतसङ्गतौ सत्यां दोषाभावोऽवसेय इति दर्शितम् । यद्यपि भगवद्गीतायां मोक्षाधिकारिणामस्त्येव प्रकृतशान्तरसपरिपोषकत्वम्, तथापि तदन्तर्गतानां भूयसामाहत्य नास्ति । भीष्मविदुरवाक्यानां तु धर्माधिकारे प्रकृतानां व्यक्त एव निष्प्रयोजनप्रस्तावः‘स्तावः’ पाठः । सोऽयं यथा समाधीयते तद्विवृणोति—“अत्रेति” । इतिहासरूपे प्रबन्धे सत्यपि शान्तस्य वाक्यार्थाभावेन बहूनामितिहासानां त्रिवर्गाधिकारित्वाच्चतुर्वर्गप्रतिपादनमेव महर्षेरभिमतम्, धर्मादित्रितयस्य च प्रासङ्गिकतया न पूर्ववदस्यार्थैकताविरोधः । तदिदमुक्तम्—“व्याजेनेति” । एवं च व्युत्पादयितव्यविषयजिज्ञासोपादाने धर्मार्थप्रवृत्तये वाक्यमिदं सफलतामासादयद्गुण एव भवति ॥

एवं गतार्थमपि यथा—

‘हृत्कण्ठवक्त्रश्रोत्रेषु कस्य नावस्थितं तव ।
श्रीखण्डहारकर्पूरदन्तपत्रप्रभं यशः ॥ १७९ ॥’

अत्रैकेनैवोपमानेन ‘शुभ्रत्व’ गशौक्ल्यप्रतीतौ शेषोपमानपादानां व्यर्थत्वेऽपि यशसः स्मर्यमाणत्वगीयमानत्वस्तूयमानत्वश्रूयमाणत्वैर्हृदयादिषु श्रीखण्डादिवदनस्थानस्य प्रतीयमानत्वाद्गुणत्वम् ॥

“एवं गतार्थमपीति” । श्रीखण्डेनैवोपमाने यशसः शुद्धत्वमवगतं श्लेषोपमानपदानि केवलकृतकराणीति व्यर्थत्वप्रसङ्गे स्मरणादिविशेषविवक्षया तिरस्क्रियते, यथासङ्ख्यादिभङ्गिसौभाग्येन च गुणीभाव इति ॥

अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते ।
तदेकार्थं रसाक्षिप्तचेतसां तन्न दुष्यति ॥ १३८ ॥

यथा—

‘असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् ।
अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ १८० ॥’

ऽअसारं संसारम्’ इत्युक्त्वा ‘परिभुषितरत्नं त्रिभुवनं निरालोकं लोकम्’ ‘जगज्जीर्णारण्यम्’ इति यदुक्तम्, तस्य विशेषानभिधायकत्वेऽपि रसाक्षिप्तेन वक्त्राभिहितत्वाद्गुणत्वम् ॥

“अविशेषेणेति” । पूर्वोक्तपूर्वोक्ताभिन्नतात्पर्यकमविशेषेण तात्पर्यावृत्तिप्रयोजनमन्तरेण तन्मयीभवनं चेतस आक्षेपः । ‘असारं संसारम्’ इत्यनेन स्थावरजङ्गमप्रपञ्चस्य निःसारतां प्रतिपाद्य ‘जातौ जातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते’ इति । ऽपरिभुषितरत्नम्’ इत्यत्रापि तावानेव तात्पर्यार्थः । एवं ‘निरालोकं लोकंऽ, ‘जगज्जीर्णारण्यम्’ इत्यत्रापि द्रष्टव्यम् । सुगममन्यत् ॥

संशयायैव सन्दिग्धं यदि जातु प्रयुज्यते ।
स्यादलङ्कार एवासौ न दोषस्तत्र तद्यथा ॥ १३९ ॥

‘कुत्तो लम्भइ पन्थिअ सत्थरअं एत्थ गामणिघरम्मि ।
उण्णअपओहरे पेक्खिऊण जइ वससि ता वससु ॥ १८१ ॥’

[कुतो लभ्यते पथिक स्रस्तरकमत्र ग्रामणीगृहे ।
उन्नतपयोधरान्प्रेक्ष्य यदि वससि तदा वस ॥]

अत्र केनापि पथिकयूना प्रावृडारम्भे ग्रामणीवधूः पीनोन्नतस्तनी सत्थरअमिति स्रस्तरकव्याजेन शस्तरतं याचिता । तं प्रत्याचक्षाणेव यथोक्तं ब्रूते—‘कुतोऽत्र ग्रामणीगृहे स्रस्तरकः, कुतो वा शस्तं रतम् । उन्नतौ पयोधरौ मम हृदये नभसि वा पयोधरान्दृष्ट्वा यदि वससि तदा वस’ इति तदेतस्य गोपनाय ‘नानार्थैरेव’ गव्द्यर्थैरेव पदैः प्रयुक्तमिति सन्दिग्धस्याप्यस्य गुणत्वम् ॥

“संशयायैवेति” । मिश्रो विरुद्धार्थवाक्यं संशयापादनेन दुष्यतीत्युक्तम् । यदा तु सन्देह एव तात्पर्यमवधार्यते तदा स एव रञ्जकतयालङ्कारतामारोहतीति ‘कथं न’ स्यात्कत्थनं गुणीभाव इति, तदिदम्भुक्तम्—“स्यादलङ्कार एवेति” । कुतो लभ्यते पथिक स्रस्तरः शस्तरतं चात्र ग्रामणीगृहे । ग्रामणीर्ग्रामप्रधानम् । उन्नतपयोधरान्मेधान् पयोधरौ स्तनौ वा दृष्ट्वा यदि वससि तद्वस । अत्र प्रष्टुः सन्देहजनकत्वेन निभृतानुरागप्रकाशनं पथिकविषये प्रतीयते ॥ “द्व्यर्थैरिति” । तदुक्तम्—‘व्द्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु’ इति ॥

वाक्ये प्रबन्धे चार्थानां पौर्वापर्यविपर्ययः ।
दोषः सोपक्रमो नाम चित्रहेतौ च दुष्यति ॥ १४० ॥

यथा—

‘पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् ।
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥ १८२ ॥’

अत्र पौर्वापर्यविपर्ययादपक्रमदोषस्य चन्द्रोदयं प्रति रागोद्दीपनप्रकर्षप्रकाशनत्वाददोषः ॥

“वाक्य इति” । अर्थानां कार्यकारणभूतानां तेषामेव पौर्वापर्यनियमाद्य इति पूर्वार्धेऽध्याहार्यम् । चित्रहेताविति प्रसिद्धरूपविपर्यासेन हेतुवचनद्वारा प्रकृतवाक्यार्थपरिपोषाधानं चित्रहेतुः । पर्यस्य विस्तार्य चन्द्रोदयरागोद्दीपनयोः सत्यपि हेतुहेतुमद्भावेन पौर्वापर्ये प्रथमं रागसागरः पश्चाच्चन्द्रमण्डलमुदीर्णमिति विपर्यासप्रतीतिसमसमयमुद्दीपनविभावनानुसन्धानाद् हिमांशोरतिशीघ्रकारिताप्रकाशनात् प्रकृतशृङ्गाररसो दीप्यते । एवं कुलकादिरूपं प्रबन्धान्तर्गतवाक्येष्वपि गुणत्वमवसेयम् ॥

यस्मिन्रीतेरनिर्वाहः खिन्नं तदभिधीयते ।
न दोषस्तस्य तु क्वापि यत्र च्छाया न हीयते ॥ १४१ ॥

यथा—

‘अभिनववधूरोषस्वादुः करीषतनूनपा- दसरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवे- र्विरहिवनितावक्रक्लैब्यं बिभर्ति निशाकरः ॥ १८३ ॥’

अत्रोपमानानि सामान्यवचनैः समस्यन्त इति प्रक्रान्तरीतेरनिर्वाहेऽपि समासव्याख्यापरत्वेनैव इवशब्दतद्धितयोः प्रयोगे प्रत्युत च्छायोत्कर्ष इति गुणत्वम् ॥

“यस्मिन्निति” । वाक्यार्थस्य धर्मिणो यदलङ्कारभङ्ग्या प्रक्रमस्थया निर्वहणाभावः खेदः । स तु पूर्वालङ्कारविश्रान्तौ प्रतीतेरस्खलने न दोषः । गुणत्वं च तस्य भङ्ग्यन्तरैरपि प्रकृतालङ्कारे ध्वननात् । तथा हि—‘अभिनववधूरोषस्वादु असरलजनाश्लेष इव क्रूरः’ इत्युपमानानि सामान्यवचनैः समस्यन्त इति समासद्वयेनोपमामुपक्रम्य मलिनविभवस्याज्ञेवेति समासत्यागाद्विरहिवनितावक्रक्लैब्यं बिभर्तीति चान्तरधर्मारोपेण चोपमात्यागात्सत्यपि रीतेरनिर्वाहे उपमायामेव पर्यवसानं समाधानहेतुः । गुणत्वहेतुमाह—व्याख्यापरत्वेनेति । गलितविभावाज्ञामसृणेति समासे कर्तव्ये योऽयमिवशब्दप्रयोगः स इवार्थे पूर्वौ समासौ बोधयति । क्लैब्यं बिभर्तीति सामान्यालङ्कारे कथमन्यधर्ममन्यो वहतीति प्रतिसन्धानसमसमयं वक्रक्लैब्यमस्येत्यन्तर्गतोपमाप्रकटीभावे उपमासमासपदयोरपि सा प्रतीयते इति सेयं कविचातुरीप्रतीयमानच्छायामेव पुष्णाति । तदिदमुक्तम्—प्रत्युतेति ॥

लोकातीत इवार्थे यः सोऽतिमात्र इहेष्यते ।
वार्तादौ तेन तुष्यन्ति विदग्धा नेतरे जनाः ॥ १४२ ॥

तच्च वार्ताभिधानेषु वर्णनास्वपि विद्यते ।
कान्तं जगति तत्कान्तं लौकिकार्थानुयायि यत् ॥ १४३ ॥

लौकिकार्थमतिक्रम्य प्रस्थानं यत्प्रवर्तते ।
तदत्युक्तिरिति प्रोक्तं गौडानां मनसो मुदे ॥ १४४ ॥

यथा—

‘देव धिष्ण्यभिवाराध्यमद्य प्रभृति नो गृहम् ।
युष्मत्पादरजःपातधौतनिःशेषकल्मषम् ॥ १८४ ॥’

अत्रातिमात्राख्ये दोषेऽपि वार्ताभिधानेऽभिधेयस्य कान्तिगुणस्या- भ्यनुज्ञानाद्गुणत्वम् ।

यथा वा—

‘अल्पं निर्मितमाकाशमनालोच्यैव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ १८५ ॥’

अत्रातिमात्रत्वेऽपि वर्णनार्थत्वाद्गुणत्वम् । अथानतिमात्रं कीदृक् ।

उच्यते—

वार्ते तावद्यथा—

‘गृहाणि नाम तान्येव तपोराशिर्भवादृशः ।
सम्भावयन्ति यान्येवं पावनैः पादपांसुभिः ॥ १८६ ॥’

अथ वर्णनायां यथा—

‘अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ १८७ ॥’

“लोकान्तीत इति” । ‘अनामये प्रियालापे वार्तं वार्ता च कीर्त्यते । वर्णनास्वपि’ इत्यादिपदविवरणं दृश्यते । कान्तमित्यभिसम्बन्धः । लौकिकार्थानुयायि यज्जगति लोके कान्तमुच्यते तथाभूतमतिक्रम्य यत्कवीनां प्रस्थानं प्रवर्तते तदपि गौडानां मनसो मुदे प्रोक्तम् । शब्दाडम्बरात्मकगौडरीतिप्रियाणां विदग्धकामाज्ञापकं सद्गुणी भवतीति श्लोकार्थः । धिष्ण्यं गृहम् । ननु प्रियालापवर्णनयोरेवंविधा एव लोके काव्ये च वचनसन्दर्भा इति नास्त्यतिमात्रतानतिमात्रतयोर्भेद इति पृच्छति—“अथेति” । सुगभमन्यत् ॥

परूषं निष्ठुरार्थं तु यदतीव विगर्हितम् ।
विरुद्धलक्षणाद्यासु तदुक्तिषु न दुष्यति ॥ १४५ ॥

यथा—

‘हालाहलं विषं भुङ्क्ष्व सखि मा तत्र विश्वसीः ।
यद्वा न दह्यसे काष्ठैः स्वल्पैस्त्वमिति मे मतिः ॥ १८८ ॥’

अत्र पारुष्येऽपि विरुद्धलक्षणयार्थान्तरस्य लक्षितत्वाद्गुणत्वम् ॥

“परुषमिति” । विरुद्धलक्षणा लौकिकी तस्या हि झटित्यभिधानाविनाभावादपरुषार्थप्रतीतेरभिधानतः पारुष्यं न दोषो लक्षणापरिग्रहेण च गुणत्वम् । तदाहुः—‘अभिधेयाविनाभावप्रतीतिर्लक्षणेति या । सैषा काव्ये दग्धवक्रा जीवितं वृत्तिरिष्यते ॥’ इति ।

अप्रस्तुतरसं प्राहुर्विरसं वस्तु सूरयः ।
अप्राधान्ये तदेष्टव्यं शिष्टैः स्याद्रसवस्तुनोः ॥ १४६ ॥

यथा—

‘क्षिप्तो हस्तावलग्न: प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥ १८९ ॥’

अत्र करुणे श्रृङ्गारस्याप्र‘स्तुतत्वे’ इति सटीकपुस्तकपाठःकृतत्वेऽपि शम्भुप्रभाववर्णनाङ्गभूतत्वेन द्वयो- रप्यप्राधान्यादवैरस्येन गुणत्वम् ॥

“अप्रस्तुतेति” । अप्राधान्य इत्युपलक्षणं बाध्यत्वेऽपीति च बोद्धव्यम् रसवस्तुनोः परस्परविरोधिरसव्यञ्जकयोः । यद्वा मिथोविरोधिरसरूपयोरेव वस्तुनः । तदाह—‘बाध्यानामङ्गभावं वा प्राप्तानामवि‘मुक्तिवत्सला’ इति पाठःमुक्तता’ इति ॥

हीनं यत्रोपमानं स्यादुपमेयं गुणाधिकम् ।
हीनोपमं तदस्याहुः कवयः क्वाप्यदुष्टताम् ॥ १४७ ॥

यथा—

‘ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥ १९० ॥’

अत्रोपमानस्य हीनतायामपि रागातिशयहेतुत्वाद्गुणत्वम् ॥

“हीनमिति” । जातिप्रमाणाभ्यामपकृष्टं हीनं चन्द्रापेक्षया कामिनीकपोलस्यापकर्षे आत्मनस्तुल्यतामुद्दीपनस्य प्रतिपाद्यमानः प्रकृतशृङ्गारप्रकर्षमर्पयिष्यतीति गुणत्वम् । एवमधिकोपमेऽपि ॥

यत्रोपमानमुत्कृष्टमुपमेयं निकृष्यते ।
ज्ञेयं तदधिकौपम्यमस्यापि क्वाप्यदोषता ॥ १४८ ॥

यथा—

‘कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम् ।
राजन्ननुकरोषि त्वं सौभाग्येनापि मन्मथम् ॥ १९१ ॥’

अस्याधिकौपम्येऽपि राज्ञो लोकपालांशत्वेन शिष्टैरादृतत्वाद्गुणत्वम् ॥ऽ

उपमानस्य‘नेन’ इति सटीकपुस्तकपाठः वैषम्याद्भवेदसदृशोपमम् ।
तस्याभ्यनुज्ञामिच्छन्ति व्यतिरेकोपमादिषु ॥ १४९ ॥

यथा—

‘प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा ।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ १९२ ॥’

अस्यासदृशोपमत्वेऽपि व्यतिरेकोपपादकत्वाद्गुणत्वम् ॥

“उपमानस्येति” । उपमानेन वैषम्यमन्वयेन सादृश्याभावात् । व्यतिरेकोपमादीत्यादिग्रहणाव्द्यतिरेकदृष्टान्तोत्त्क्यादिपरिग्रहः ॥

यस्योपमानं लोकेषु न प्रसिद्धं तदिष्यते ।
अप्रसिद्धोपमं नाम तत्क्वचिन्नैव दुष्यति ॥ १५० ॥

यथा—

‘उद्गर्भहूणरमणीरमणोपमर्द- भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरबिसकाण्डकडारगौरै- र्विष्णोः पदं प्रथममग्रकरैर्व्यनक्तिः ॥ १९३ ॥’

अस्थां प्रसिद्धोपमत्वेन दूषणत्वेऽपि द्वयोरपि श्रृङ्गारोद्दीपकत्वसाम्याद्गुणत्वम् ॥

“यस्योपमानमिति” । लोकप्रसिद्धमेव कविभिरुपमाने कान्तं भवति तेन यत्र लोके प्रसिद्धं तेन सहोपमावर्णने सम्भवदप्यप्रसिद्धोपमत्वं रसानुप्रवेशेन गुणी भवति । उद्गर्भत्वेन स्तनाग्रश्यामिका तया लाञ्छनानुकरणमभिलषितम् ॥

निरलङ्कारमित्याहुरलङ्कारोज्झितं वचः ।
अर्थौर्जित्येषु तस्यापि क्वचिन्निर्दोषता मता ॥ १५१ ॥

यथा—

‘याच्ञां दैन्यपराभवप्रणयिनीं नेक्ष्वाकवः शिक्षिताः सेवासंवलितः कदा रघुकुले मौलौ निबद्धोऽञ्जलिः ।
सर्वं तद्विहितं तथाप्युदधिना नैवोपरोधः कृतः पाणिः सम्प्रति मे हठात्किमपरं स्प्रष्टुं धनुर्वाञ्छति ॥ १९४ ॥’

अत्र निरलङ्कारत्वेऽपि अर्थौर्जित्याद्गुणत्वम् ॥

“निरलङ्कारमिति” । दैन्यपराभवप्रणयिनीमित्याद्युत्कृष्टपुष्टिविशेषणयोगादस्तिशब्देऽस्पष्टे वक्रतार्थे तु नास्ति वक्रत्वं चालङ्कार इति । यद्यपि वाक्यार्थो निरलङ्कार इव भासते, तथापि विशेषतोऽलङ्काराध्यवसायेऽपि सामान्येन वक्रता प्रकाशत एव । नहि लौकिकशास्त्रीयवचनार्थवैपरीत्यमिह प्रतीयते । तदिदमुक्तमर्थौर्जित्यादिति ॥

अस्ति हि वयं याचामह इत्युक्ते याच्ञा च भिक्षाकरानालक्षिता(?)इत्युक्तौ नायकप्रकर्षाभिव्यञ्जको विशेष इत्याह—

असभ्यार्थं यदश्लीलं तदर्थान्तरवाचि वा ।
तस्येह दृश्यते भूम्ना प्रयोगो नापि दुष्यति ॥ १५२ ॥

यथा—

‘अद्यापि तत्कनककुण्डलघृष्टगण्ड- मास्यं स्मरामि विपरीतरताभियोगे ।
आन्दोलनश्रमजलस्फुटघर्मबिन्दु- मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ १९५ ॥’

अत्राश्लीलार्थेऽपि कविभिरविगीतत्वाद्गुणत्वम् ॥

“असभ्यार्थमिति” । क्वचित्प्राथमिक एव पदार्थसंसर्गोऽश्लीलः । क्वचित्तु न तस्मिंस्तथाभूतेऽपि संसर्गान्तरमिति यदश्लीलमर्थान्तरवाचि वेत्युक्तम् । कविभिरविगीतत्वादिति । अविपरीताद्विपरीतं रतमुत्कृष्यत इति शास्त्रकारैराम्नानात्तस्य शृङ्गारोद्दीपनतया कविभिरादृतत्वादित्यर्थः ॥

देशोऽद्रिवनराष्ट्रादिः कालो रात्रिन्दिवर्तवः ।
नृत्यगीतप्रभृतयः कलाः कामार्थसंश्रयाः ॥ १५३ ॥

चराचराणां भूतानां प्रवृत्तिर्लोकसञ्ज्ञिता ।
हेतुविद्यात्मको न्यायः संस्मृतिः श्रुतिरागमः ॥ १५४ ॥

तेषु तेष्वयथारूढं यदि किञ्चित्प्रवर्तते ।
कवेः प्रमादाद्देशादिविरोधीत्येतदुच्यते ॥ १५५ ॥

विरोधः सकलेष्वेव‘लोऽप्येष’ इति सटीकपुस्तकपाठः कदाचित्कविकौशलात् ।
उत्क्रम्य दोषगणनां गुणवीथीं विगाहते ॥ १५६ ॥

तत्र देशविरुद्धस्य गुणीभावो यथा—

‘तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे ।
आर्द्रांशुकप्रवालानामास्पदं सुरशाखिनाम् ॥ १९६ ॥’

अत्र देशविरुद्धत्वेऽपि तस्य राज्ञः प्रभावेणेति कारणोपन्यासाद्गुणत्वम् ॥

“देशोऽद्रीति” । आदिपदेन द्वीपादिपरिग्रहः । कामार्थसंश्रयाः, अर्थसंश्रयाः प्रवृत्तयोऽवस्थाविशेषाः । हेतुविद्या आन्वीक्षिकी । अयथारूढं अप्रसिद्धम् ॥

कालविरुद्धस्य यथा—

‘राज्ञां विनाशपिशुनश्चचार खरमारुतः ।
चुम्बन्कदम्बकुसुमैः सह सप्तच्छदोद्गमान् ॥ १९७ ॥’

अत्र कालविरुद्धत्वेऽपि राज्ञां विनाशपिशुन इत्यनिष्टसूचकोत्पात रूपत्वाद्गुणत्वम् ॥

“कालविरुद्धस्येति” । उपघात उत्पातः ॥

लोकविरुद्धस्य यथा—

‘ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् ।
अबलाविरहक्लेशविह्वलो गणयत्यलम् ॥ १९८ ॥’

अत्र लोकविरुद्धत्वेऽपि कामिभिस्तथा संवेद्यमानत्वाद्गुणत्वम् ॥

युक्तिविरुद्धस्य यथा—

‘स सङ्कोचश्चन्द्रादिव कुमुदराशेरशरणः स सूर्यात्कोकानां विरह इव लुप्तप्रतिविधिः ।
गुणेभ्यस्ते खेदप्रशमनकरेभ्योऽपि यदयं खलानामुद्वेगस्तदिदममृतादेव मरणम् ॥ १९९ ॥’

अत्र युक्तिविरुद्धत्वेऽपि छेकोत्त्क्या सम्भाव्यमानोपमया तथाप्रतीतेर्गुणत्वम् ।

“स सङ्कोच इति” । यदि चन्द्रादिभ्यः कुमुदसङ्कोचादयो भवेयुस्तदा भवद्गुणेभ्यः खलानामुद्वेग उपमीयेत न तु तथा सम्भवति तेनायमलौकिकत्वादाश्चर्यमर्पयतीति वाक्यार्थपरिपोषात्तथोपन्यासो गुण एवेति ॥

औचित्यविरुद्धस्य यथा—

‘तेनाथ नाथ दुरुदाहरणातपेन सौम्यापि नाम परुषत्वमभिप्रपन्ना ।
जज्वाल तीक्ष्णविशदाः सहसोद्गिरन्ती वागर्चिषस्तपनकान्तशिलेव सीता ॥ २०० ॥’

अत्र स्त्रीत्वादौचित्यविरोधेऽपि तत्समयोचितत्वाद्गुणत्वम् ॥

वचनविरुद्धस्य यथा—

‘परदाराभिलाषो मे कथमार्यस्य युज्यते ।
पिबामि तरलं तस्याः कदा नु रदनच्छदम् ॥ २०१ ॥’

अत्र वचनविरोधेऽपि वक्तुस्तथाविधावस्थत्वाद्गुणत्वम् ॥

“वचनविरुद्धस्येति” । अष्टमी कामावस्थाम्प्रक्षिप्तोऽयं पाठः ॥

धर्मविरोधस्य यथा—

‘पञ्चानां पाण्डुपुत्राणां पत्नी पाञ्चालकन्यका ।
सतीनामग्रणीस्त्वासीद्दैवो हि विधिरीदृशः ॥ २०२ ॥’

अत्र धर्मविरोधेऽपि दैवो विधिरित्यनेनाभिहितत्वाददोषः ॥

“धर्मविरोधस्येति” । दैवो हीति । सिद्धादेशाच्च सतीत्वं पाञ्चालकन्यकायाः । तिरस्कृतमित्यत एव वा पञ्चधा विवक्षित इत्यागमः ॥

अर्थशास्त्रविरुद्धस्य यथा—

‘नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।
विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः ॥ २०३ ॥’

अत्रापन्न: शत्रुरभियातव्य इति नीतिः, तच्च मानिनो ह्रिये भवती‘तोऽति’ मूलपुस्तकपाठःतिविरुद्धमपि उद्धतपुरुषभाषितत्वान्न दुष्यतीति गुणत्वम् ।

“अर्थशास्त्रेति” । उद्धतपुरुषभाषितत्वादिति । पूर्वपक्षतया सिद्धान्तोपोद्धातत्वादित्यर्थः ॥

कामशास्त्रविरुद्धस्य यथा—

‘दोलातिप्रेरणत्रस्तवधूजनमुखोद्गतम् ।
कामिनां लयवैषम्याद्गेयं रागमवर्धयत् ॥ २०४ ॥’

अत्र त्रासतो लयवैषम्येण गेयस्य रागहेतुत्वेऽपि कामिनीमुखोद्गीर्णत्वाद्रागविवर्धनत्वेन गुणत्वम् ॥

“कामशास्त्रेति” । लयवैषम्यादिति गीतस्य कलाप्रकथनात्तस्य च विषमलयस्यारञ्जकत्वात्कथं रागवर्धनमिति दूषणं दोलागतागतत्रस्तकामिनीगीतप्रभावोक्तेश्चमत्कारित्वात्तिरोधीयत इति गुणभावं च नीयते । भावान्तरालवर्ती कामो लयः ॥

इत्थं गुणाश्च दोषाश्च काव्ये दोषगुणाश्च ये ।
आख्यातास्ते स्फुटं सम्प्रत्यलङ्कारान्प्रचक्ष्महे ॥ १५७ ॥

ननु गुणैरेव शब्दार्थयोः सनाथीकरणे किमलङ्कारविवेचनप्रयासेनेत्यत आह—

युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव ।
विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ॥ १५८ ॥

“युवतेरिति” । अङ्गेत्याक्षेपसम्बोधने । अलङ्कारसाहित्यबुद्धिसङ्गतिः प्रणयः ॥

विकल्पो विशेषस्तर्हि किमुत्तरसिद्धौ पूर्वेणेति न्यायेन त्यज्यन्तां गुणा इत्यत आह—

यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनबन्धमङ्गनायाः ।
अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥ १५९ ॥

“यदि भवतीति” । विवृतमेतत् ॥

ते चालङ्कारा यथास्थानं निवेश्यमाना एव सहृदयरञ्जनक्षमा इति कवीञ्शिक्षयति—

दीर्घापाङ्गं नयनयुगलं भूषयत्यञ्जनश्री- स्तुङ्गाभोगौ प्रभवति कुचावर्चितुं हारयष्टिः ।
मध्ये क्षामे वपुषि लभते स्थानकूर्पासलक्ष्मीः श्रोणीबिम्बे गुरुणि रशनादाम शोभां बिभर्ति ॥ १६० ॥

“दीर्घेति” । तेन शब्दादिविषयविभागेनालङ्कारविवेचनं सप्रयोजनमेवेति तात्पर्यार्थः । शेषमतिरोहितम् ॥

इति श्रीमिश्ररत्नेश्वरविरचिते रत्नदर्पणनाम्नि सरस्वतीकण्ठाभरणविवरणे गुणविवेचनो नाम प्रथमः परिच्छेदः ।

इति श्रीमहाराजाधिराजभोजदेवेन विरचिते सरस्वतीकण्ठाभरणनाम्नि अलङ्कारशास्त्रे गुणविवेचनं नाम प्रथमः परिच्छेदः ।