०७८ निरनु (निर् अनु)

  • {निरन्वि}
  • इ (इण् गतौ)।
  • ‘स्यात्साहसं त्वन्वयवत् प्रसभं कर्म यत्कृतम्। निरन्वयं भवेत् स्तेयम्’ (मनु० ८।३३२)। निरन्वयं स्वामिपरोक्षम्।
  • ‘प्रागाघारनिरन्वयप्रमथनादुच्छेदमेवाकरोः’ (महावीर० ३।१३)। निरन्वयप्रमथनं नि:शेषो विध्वंसः। नाशो द्विविधः। सान्वय-विनाशो निरन्वय-विनाशश्चेति। तत्र दीपादेरुत्तरोत्तरज्वालोदयशिरस्कः पूर्वज्वालाविनाशः सान्वयविनाशः। निर्वापणादिना सजातीयज्वालोदयानर्हविनाशस्तु निरन्वयविनाश इति वीरराघवष्टीकाकारः।
  • ‘का त्वमेकाकिनी भीरु निरन्वयजने वने’ (भट्टि० ५।६६)। निरन्वयजने निर्गतान्वयिजने, निरनुगे इत्यर्थः। अन्वेतीत्यन्वयोऽनुगोऽनुयायी, कर्तर्यच्।

युज्

  • {निरनुयुज्}
  • युज् (युजिर् योगे)।
  • ‘निरनुयोज्यैर्हेतुभिस्तस्य मौनव्रतमिवोपदिश्य’ (अवदा० जा० २३)। निरनुयोज्यैरप्रतिवक्तव्यैः।