०२८ समभि (सम्+अभि)

गर्ज्

  • {समभिगर्ज्}
  • गर्ज् (गर्ज शब्दे)।
  • ‘कथमेवमशक्तस्त्वमस्मान् समभिगर्जसि’ (?? उ० १६२।५६)। समभिगर्जसि समाह्वयसे।

द्रु

  • {समभिद्रु}
  • द्रु (द्रु गतौ)।
  • ‘(पन्थानम्) अयोमुखैश्च काकाद्यैर्गृध्रैश्च समभिद्रुतम्’ (भा० स्वर्गा० २।२०)। समभिद्रुतमाक्रान्तम्।

पद्

  • {समभिपद्}
  • पद् (पद् गतौ)।
  • ‘पुत्रजन्म परीप्सन्वै पृथिवीमन्वसंचरत्। अहिच्छत्रं च विषयं द्रोणः समभिपद्यत’ (भा० आदि० १३८।७६)॥ समभिपद्यत=आसादयत्।
  • ‘कस्य कर्मेदमिति ते पर्यपृच्छन्समागताः। युवनाश्वो ममेत्येव सत्यं समभिपद्यत’ (भा० वन० १२६।१८)॥ सत्यं प्रत्यपद्यत=अभ्युपागच्छत्।

धाव्

  • {समभिधाव्}
  • धाव् (धावु गतिशुद्धयोः)।
  • ‘अद्य तूणीशया बाणा निर्मुक्ता इव पन्नगाः। रामं समभिधावन्तु’ (रा० ६।३४।२३)। राममुद्दिश्य त्वरन्ताम्, राममभि वेगेन पतन्तु।

ध्यै

  • {समभिध्यै}
  • ध्यै (ध्यै चिन्तायाम्)।
  • ‘अतोऽनुक्तेषु या नारी समभिध्याति दौहृदम्’ (सुश्रुत० १।३२३।१५)। सस्पृहं स्मरतीत्याह।

नन्द्

  • {समभिनन्द्}
  • नन्द् (टुनदि समृद्धौ)।
  • ‘समभिनन्दितो मन्त्रिभिः’ (कथा० २१।१४८)। प्रतिनन्दितः=वर्धितः=सभाजितः।

प्लु

  • {समभिप्लु}
  • प्लु (प्लुङ् गतौ)।
  • ‘तद्वियोगार्दितान्सर्वाञ्छोकः समभिपुप्लुवे’ (भा० वन० ५२।४)। समभिपुप्लुवे=व्याप।

रञ्ज्

  • {समभिरञ्ज्}
  • रञ्ज् (रञ्ज रागे)।
  • ‘कोऽयं नेत्रः समभिरज्यते’ (भा० शां० ३३२।१६)। सरागो भवति। संरक्तनयनः सम्पद्यत इत्यर्थः।

वृत्

  • {समभिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘निशा समभिवर्तते’ (भा० उ० १५१।३७)। प्रत्यासीदतीत्यर्थः।
  • ‘क्षिप्रं समभिवर्तन्तां मम वाक्येन नोदिताः’ (हरि० २।४३।२६)। समभिवर्तन्ताम्=समागच्छन्तु।
  • ‘भवतां च वचो नालमहं समभिवर्तितुम्’ (भा० आदि० १८०।१३)। समभिवर्तितुम् अनुवर्तितुम्।
  • ‘नात्र कश्चिद् यथाभावं प्राणी समभिवर्तते’ (?? २।१०५।२८)। यथाभिलाषं बन्धुभिः सह न भवतीत्युक्तं भवति।

हृ

  • {समभिहृ}
  • हृ (हृञ् हरणे)।
  • ‘विप्रकीर्णानामेकत्र राशीकरणं समुदायभावापत्तिर्मुख्यः समभिहारः, पौनःपुन्यं तु गौणः’ (पा० ३।१।२२ सूत्रे काशिका)। समभिहरणं समभिहारः। पुष्पाभिहारः। उत्पलाभिहार इति तत्रैव भाष्ये।
  • ‘तत्र यः फलान्तं पाकमवसाय्य क्रियान्तरमनभ्य पुनः पाकमेवारभते स प्रधानक्रियां समभिहरति’ (पा० ३।१।२२ सूत्रे न्यासे। समभिहरति पुनः पुनरनुतिष्ठति।