१४९ सुपरि (सु+परि)

नी

  • {सुपरिणी}
  • नी (णीञ् प्रापणे)।
  • ‘सर्वान्सुपरिणीतांस्तान् कारयेथा युधिष्ठिर’ (भा० शां ८९।१९)। सुपरिणीतान् सत्कृतानिति नील०।

लिख्

  • {सुपरिलिख्}
  • लिख् (लिख अक्षरविन्यासे)।
  • ‘सुपरि-लिखितनखाभ्यामङ्गुलिभ्यां कण्ठमभिस्पृशन्’ (चरक० सू० १५।१२)। सुपरिलिखिताः सुकृत्ताः (नखाः)।