२ ३ ४ प्रकीर्णम्

२.३.४.१. लघूनां वाक्यानां प्रयोगः

सरलसंस्कृते यावच्छक्यं लघूनां वाक्यानाम् एव प्रयोगः करणीयः । यतः वाक्यं यथा यथा दीर्घ भवति तथा तथा अर्थावगमने क्लेशः अधिकः भवति । वाक्यानां संख्या अधिका भवतु नाम, चिन्ता न करणीया, परन्तु तानि ह्रस्वानि भवेयुः।

२.३.४.२. सन्ध्यादिविषये व्यवस्था - सन्धिविरहितं वाक्यम्

संस्कृतभाषया व्यवहारसमये प्राथमिकस्तरे सन्धिः करणीयः उत न इति पृच्छन्ति बहवः । ‘प्राथमिकस्तरे न करणीयः’ इति अस्माकं मतम्।

संहितैकपदे नित्या नित्या धातूपसर्गयोः
नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते
इति वचनं तावत् सुप्रसिद्धम् । वाक्ये सन्धिः विवक्षाधीनः । अतः सन्धिविरहितस्य वाक्यस्य प्रयोगः कृतः चेदपि न दोषः । सन्धिरहिता शैली अपि सारल्यस्य कारणम् । सन्धियुक्तस्य वाक्यस्य पदच्छेदे कष्टम् अनुभवन्तः नूतनाः चिन्तयन्ति यत् संस्कृतं कठिनम् इति । यद्यपि काठिन्यं वाक्यशैलीगतं, तथापि तत् आरोप्यते भाषायाम् । अतः संस्कृतं सरलम् इत्यस्य भावस्य जागरणार्थं सन्धिविरहिता एव शैली आश्रयणीया।

किन्तु लोके यत्र अप्रयत्नेन सन्धिः क्रियते तत्र सन्धियुक्ताः शब्दाः तथैव प्रयोक्तव्याः । तन्नाम तत्रापि सन्धेः निवारणाय प्रयासः करणीयः नास्ति। कानिचन उदाहरणानि यथा - नास्ति, तथापि, कोऽपि, तत्रैव, तथैव, मास्तु, नावश्यकम्, नैव, एवमेव, इत्यादयः, इत्यपि, तन्नाम, इत्युक्ते, इत्येवम्, कदाचिदपि, कदाचिदेव, क्वचिदेव, इदानीमेव….

एतेषु सर्वेषु अपि उदाहरणेषु पदद्वयम् अस्ति इति तु स्फुटम् । पदयोः सन्धिः । लोके सन्धियुक्ततया एव प्रायः प्रयोगः एतेषाम् । अयमेव उच्यते - ‘अप्रयत्नेन कृतः सन्धिः’ इति । एतेषां प्रयोगावसरे सन्धिविच्छेदः (न अस्ति, तथा अपि, कः अपि इत्येवम् ……) करणीयः नास्ति।

वाक्ये सर्वत्र यदि सन्धिः क्रियते तर्हि तत् वाक्यं कठिनं स्यात् । यथा - विद्यालयेऽस्मिन् ममाप्येकश्छात्रोऽध्ययनङ्करोति । इत्येतत् सन्धिभूयिष्ठम् अस्ति । एतदेव – ‘विद्यालये अस्मिन् मम अपि एकः छात्रः अध्ययनं करोति’ इति सन्धिरहिततया प्रयुक्तं चेत् श्रोतारः सुखेन अवगन्तुं शक्नुवन्ति ।

उदाहरणान्तरं यथा - तथाप्यहमिदानीमागन्तुमशक्नुवन्निवेदयितुमिच्छामि यत्…..

अत्र पदविभागः कथं करणीयः इत्यत्र विज्ञाः अपि क्लेशम् अनुभवेयुः । द्विवारं पठित्वा पदानि पृथक् कुर्युः ते । एवं स्थिते प्राथमिकस्तरीयाणां का कथा ? एतदेव वाक्यं - ‘तथापि अहम् इदानीम् आगन्तुम् अशक्नुवन् निवेदयितुम् इच्छामि यत्’ इति यदि लिख्यते तर्हि पठिता विना क्लेशं पठेत् । ‘इत्युक्त्वाग्रिमकार्येऽ भवदुद्युक्तः’ इत्येतत् एव वाक्यं सन्धिरहिततया ‘इति उक्त्वा अग्रिमकार्ये अभवत् उद्युक्तः’ इति यदि लिख्येत तर्हि महत् आनुकूल्यं स्यात् एव ननु ?

वाक्ये यदि सन्धिः क्रियेत तर्हि अन्तादिज्ञाने बहुत्र क्लेशः स्यात् अपि । यथा - ‘कार्यक्रमा जाता इति ।’ अत्र उभयत्र आकारान्तता उत विसर्गलोपः इति सन्देहः स्यात् । “एतच्छ्रुत्वा’ (एतत् श्रुत्वा) इत्यादिषु पदविभागः कीदृशः स्यात् इति ज्ञातुं कष्टम् अनुभवेयुः सामान्याः।

अन्यच्च, ये सर्वान् सन्धीन् जानीयुः ते एव पठन्ति लिखन्ति वदन्ति च इति न । ये सन्धीन् न अधीतवन्तः तेऽपि पठने सम्भाषणे वा प्रवृत्ताः भवेयुः । वाक्ये सन्धिः कृतः चेत् तादृशाः महत् कष्टम् अनुभवेयुः । संस्कृतं जनभाषा स्यात् इति अपेक्षा यदि स्यात् तर्हि सरलाः एव नियमाः अनुसरणीयाः प्राथमिके स्तरे । येषां नियमानाम् अनुसरणं विनापि संस्कृतेन व्यवहारः शक्यः ते नियमाः निवारणीयाः इति तु पूर्वम् उक्तम् एव ।

संस्कृतं कठिनम् इति भावः अद्य यदि केषाञ्चित् मनसि स्यात् तर्हि तत्र सन्धिसमासादीनि अपि कारणभूतानि एव । यः सामान्यम् अर्थं ज्ञातुम् इच्छति सः यदि अन्वयादिषु एव महान्तं क्लेशम् अनुभवेत् तर्हि संस्कृताध्ययनं न अनुवर्तयेत् एव । सरलं मुखं दर्शितं चेदेव तस्य उत्साहः वर्धेत, सः संस्कृताध्ययने अग्रे प्रवर्तेत च।

२.३.४.३. कर्तरिप्रयोगस्य आधिक्येन उपयोगः

कर्तरिप्रयोगः, कर्मणिप्रयोगः, भावेप्रयोगः च इति त्रयः प्रयोगाः संस्कृतभाषायां प्रसिद्धाः सन्ति । संस्कृते तु तेषां त्रयाणाम् अपि प्रायः समानतया उपयोगः भवति । संस्कृतज्ञैः प्रायः कर्मणिप्रयोगः आधिक्येन क्रियते । (यथा पूर्वतने वाक्ये !) अभ्यासवशात् संस्कारवशात् वा सर्वे अपि संस्कृतज्ञाः कर्मणिप्रयोगम् एव आधिक्येन कुर्वन्ति । किन्तु इदम्प्रथमतया ये संस्कृतं शृण्वन्ति, अभ्यासं वा कुर्वन्ति, ते प्रत्येकम् अपि संस्कृतवाक्यं स्वमातृभाषानिबद्धेन वाक्येन तुलयन्ति । तस्यां मातृभाषायां तु कर्मणिप्रयोगः विरलतया एव प्रयुज्यते । अतः तयोः वाक्ययोः विन्यासे समानतां यदा न पश्यन्ति तदा ते अवश्यमेव भ्रान्ताः भवन्ति । एतस्य परिहारार्थम् अस्माभिः सरलसंस्कृते कर्तरिप्रयोगः एव आधिक्येन करणीयः । कर्मणिप्रयोगः भावेप्रयोगः वा कादाचित्कतया प्रयोक्तुं शक्यः । किन्तु आधिक्येन तु कर्तरिप्रयोगः एव करणीयः ।

२.३.४.४. अन्वयानुसारेण वाक्यप्रयेगः

‘रामः गृहं गच्छति’ इत्यत्र आदौ कर्तृपदं, ततः कर्मपदम्, अन्ते क्रियापदं च अस्ति । प्रायः एषा आनुपूर्वी प्रादेशिकभाषासु अपि दृश्यते । संस्कृते अपि एतस्याः एव शैल्याः अनुसरणात् अवगमनं सुकरं भवति।

संस्कृतभाषायां कारकव्यवस्थायाः प्राधान्यात् पदानां स्थानपरिवर्तने कृते अपि अर्थस्य न कापि हानिः । ‘गृहं गच्छति रामः’ ‘गच्छति गृहं रामः’ ‘गच्छति रामः गृहम्….’ इति कथञ्चित् वाक्यं प्रयुज्येत चेदपि अर्थः तु समानः । सर्वत्रापि रामः एव कर्ता, गृहमेव कर्म, गमनम् एव क्रिया । किन्तु आङ्ग्लभाषायाम् एवं नास्ति । Rama killed Ravana इति वाक्ये रामः कर्ता, रावणः कर्म । अत्र रामरावणपदयोः स्थानपरिवर्तनात् कर्तृकर्मणोः अपि परिवर्तनं भवति । अतः Ravana killed Rama इति यदि उच्यते तर्हि तत्र रावणः कर्ता, रामः कर्म स्यात् ।

कर्तृकर्मादीनां स्थानस्य अनियतत्वात् श्लोकादिषु पदानि छन्दसः अनुगुणं यत्रक्वचिदपि निवेश्यन्ते । ततः अन्वयं कृत्वा अर्थः अवगम्यते पाठकेन । एवं न करणीयं सामान्ये व्यवहारे । अन्यासु प्रादेशिकभाषासु यथा कर्ता आदौ, कर्म ततः, अन्ते क्रिया च उच्यते तथैव आचरणीयम् अस्माभिः ।

संस्कृतभाषायां ‘न’कारः वाक्यादौ प्रयुज्यते बहुत्र । यथा - ‘न सर्वोऽपि देशः भ्रष्टाचारमयः जातः इति भावयामः वयम् । ’ एतादृशेषु वाक्येषु (नञ्) ‘न’कारस्य अन्वयः ‘भावयामः’ इत्यनेन सह । अतः ‘न भावयामः’ इति आशयः । किन्तु क्वचित् वाक्यादौ कृतं नकारप्रयोगं विस्मृत्य अर्थः गृह्यते । तदा विपरीतार्थप्रतीतिः भवितुम् अर्हति । अतः प्राथमिके स्तरे एतादृशी शैली न आश्रयणीया। अन्वयानुसारेण एव पदानां प्रयोगे अर्थावगमः स्फुटः भवेत्।

२.३.४.५. प्रयोगः

कर्तरिप्रयोगः कर्मणिप्रयोगः, भावेप्रयेगः चेति प्रयोगाः त्रिप्रकारकाः । प्राथमिके स्तरे ‘कर्तरिप्रयोगः’ एव करणीयः । यतः प्रादेशिकभाषायां सः एव दृश्यते आधिक्येन । यद्यपि संस्कृतभाषायां कर्मणिप्रयोगस्य प्राचुर्य, तथापि कर्तरिप्रयोगस्य एव अनुसरणं वरम् । यथा - अहं गृहं गच्छामि। सः गृहं गच्छति। सः गृहं गतवान्। सा पाठं पठितवती।

२.३.४.६. समासः

सन्धिविषये या नीतिः, सा एव नीतिः समासविषये अपि । तन्नाम अप्रयत्नेन यत्र समासः स्यात् तत्र एव समस्तपदानि प्रयोक्तव्यानि । तदन्यत्र व्यस्तप्रयोगः एव करणीयः प्राथमिकस्तरे । महाराजः, प्रधानमन्त्री, मुख्यमन्त्री, कुलपतिः, महानगरम्, स्वतन्त्रतादिवसः, कार्यालयः, मन्त्रालयः इत्यादीनि नामपदत्वेन अतीव प्रसिद्धानि समस्तपदानि तु तथैव स्वीकर्तव्यानि । अप्रयत्नेन समासस्य उदाहरणानि यथा -

देवालयः, दिनदर्शिका, शिलामण्डपः, संस्कृतप्रचारः, दण्डदीपः, वर्णलेखनी, देवपूजा, पाकशाला, वित्तकोषः, मासिकपत्रिका, विश्वविद्यालयः, सेवासंस्था, न्यायाधीशः, उद्यानपालकः, क्रीडाङ्गणम्, श्वासकोषः, रथोत्सवः, वृषभशकटः, भूगोलम्, धूमकेतुः, करवस्त्रम्, केशसूची, स्नानगृहम्, मशकजालम्, शयनप्रकोष्ठः, प्रश्नपत्रिका, प्रयोगशाला, चलनचित्रम्, मल्लयुद्धम्, धनस्यूतः, स्नानफेनकम्, अग्निपेटिका इत्यादीनि।

सुदीर्घाणां समस्तपदानां प्रयोगे संस्कृतकवीनां, तत्रापि गद्यकवीनां महती आसक्तिः । आधिक्येन समासानां प्रयोगः गद्यस्य लक्षणम् इत्यपि मन्यन्ते अलङ्कारशास्त्रज्ञाः । उक्तम् अस्ति यथा -

ओजः समासभूयस्त्वम् एतद् गद्यस्य जीवितम् इति । अतः एव बाणभट्टादयः प्रसिद्धाः गद्यकवयः स्वकृतिषु अतिदीर्घाणि समस्तपदानि प्रयुक्तवन्तः सन्ति ।

तत् तु शोभनम् एव । किन्तु ये वयं श्रोतॄणां वाचकानां च सुखेन अवगमनम् इच्छामः तैः अस्माभिः समासानां प्रयोगः अपि अत्यल्पप्रमाणेन एव करणीयः । तत्रापि प्राथमिकदशायां तु समासानां परिहारः एव वरम्।

२.३.४.७. विमतिः निराधारा

वाक्ये सन्धेः अकरणस्य विषये केचन विमतिं प्रदर्शयन्ति । ‘संहितैकपदे नित्या… सा विवक्षामपेक्षते’ इति यद्यपि श्लोके उक्तं, तथापि प्राचीनग्रन्थेषु सर्वत्र सन्धियुक्तस्य एव प्रयोगस्य दर्शनात् वाक्ये अपि सन्धियुक्ताः एव प्रयोगाः करणीयाः इति तेषां कथनम् । ___ एकपदे समासे, श्लोकेषु च सन्धिः सर्वत्र भवतु । यतः तत्र संहितायाः नित्यत्वमेव उक्तं शास्त्रेण । किन्तु वाक्ये तु सन्धिः (संहिता) विवक्षाधीनः । अतः सन्धेः अविवक्षा कृता चेत् न कोऽपि दोषः । कालस्य आवश्यकतां मनसि निधाय, अध्येतॄणां क्लेशस्य निवारणाय, संस्कृतं सरलम् इति भावस्य जागरणाय च अयं मार्गः आश्रयणीयः । यदि सरलस्य मार्गस्य अनुसरणे वयं संस्कृतज्ञाः मतिं न कुर्याम तर्हि संस्कृतस्य जनभाषात्वं कदापि न सिद्ध्येत्, संस्कृतस्य ह्रासः अपि अवरोढुं शक्यः न स्यात् च ।

सर्वत्र सन्धिः करणीयः एव इति ये वदन्ति, ते सम्भाषणे किं तं नियमम् अनुसरन्ति ? अग्रिमपदस्य आद्यवर्णम् अवलम्ब्य सन्धिकार्य प्रवर्तते । सम्भाषणावसरे भाषणावसरे वा भावस्य प्राधान्यं भवति इत्यतः मनसि आगतानि पदानि एकैकशः उच्चार्यन्ते, न तु अग्रिमं पदं कीदृशं भवेत् इति विचिन्त्य पूर्वतनं पदं प्रयुज्यते । तादृशेषु स्थलेषु सन्धिविरहिताः एव प्रयोगाः क्रियन्ते । ‘सम्भाषणादिषु क्वचित् एवं भवेत्, किन्तु लेखनावसरे तु सन्धिनियमाः अवश्यमेव अनुस्रियन्ते अस्माभिः’ इति उत्तरं दद्युः ते च इत्थं प्रष्टव्याः । लेखने वाक्ये सन्धिः अवश्यं भवेत् इति नियमः किं स्वकल्पितः, उत शास्त्रमर्यादासिद्धः इति ? शास्त्रं तु वाक्ये सन्धिकरणे अकरणे वा प्रयोक्तुः, लेखनस्य च स्वातन्त्र्यं इति वदति । प्रयोगे विसन्धिः, लेखने सन्धिः इति नियमस्तु नास्ति । स्वकल्पितस्य नियमः कथं सार्वत्रिकः स्यात् ? किञ्च एकस्मिन्नेव वाक्ये कस्मिंश्चित् भागे सन्धिः, कस्मिंश्चित् भागे विसन्धिश्च शास्त्रकृद्भिः एव कृतः इति अग्रे सोदाहरणं प्रदर्शयिष्यते । अतः आवश्यकताम् अनुसृत्य, अर्थात् सम्बोध्यमानश्रोतृगणस्य सामर्थ्यम् अनुलक्ष्य सन्धिः वा विसन्धिः वा कार्यः । सम्भाषणादिषु (केषुचित् अवसरेषु) यदि सः नियमः परित्यज्यते, तर्हि कालस्य आवश्यकता मनसि निधाय, संस्कृतस्य प्रसाराय इतरत्रापि त्यज्यताम् । विरोधः न शास्त्रस्य, अपि तु मनसः । औदार्यम् आश्रितं चेत् संस्कृताभिवृद्ध्यर्थं महत् उपायनं दत्तं भवेत् ।

अत्र केचन वदन्ति - “रामः गृहं गच्छति’ इति यदा उच्यते तदवसरे संहिता न विवक्षिता इति वदन्तः अपि ‘रामः’ इति पदम् उच्चार्य अविलम्बेन ‘गृहम्’ इति पदम् उच्चारयन्ति । तदवसरे अर्धमात्राकालात्मकं व्यवधानं न भवति । अतिशयितस्य सामीप्यस्य सद्भावात् अवसानाभावः सिद्धः । तस्मात् सन्धिः अवश्यमेव करणीयः” इति । अत्र उच्यते - ‘वाक्ये तु सा विवक्षामपेक्षते’ इति वचनस्य तात्पर्यमिदम् । अस्ति शास्त्रे वाक्यसंस्कारपक्षः, पदसंस्कारपक्षः इति पक्षद्वयम् । पूर्वोक्तं वचनं वाक्यसंस्कारपक्षस्य । वाक्यसंस्कारपक्षे वाक्यस्य अङ्गभूतानि पदानि संस्क्रियन्ते । तन्नाम वाक्यघटकभूतानि कति पदानि सन्ति इति निश्चित्य अग्रिमं पदं परिशील्य पूर्वपदं संस्क्रियते । अतः तत्र संहितादिकं दृष्ट्वा सन्धिकार्यादिकं क्रियते । किन्तु पदसंस्कारपक्षे न अयं नियमः । प्रक्रियाम् अवलम्ब्य एकैकं पदं संस्क्रियते । संस्कृतानि पदानि संयोज्य वाक्यं रच्यते । अस्य तात्पर्यं यत् वाक्यसंस्कारपक्षे ‘रामः’ गृहम्’ ‘गच्छति’ इति त्रीणि अपि पदानि युगपत् एव संस्क्रियन्ते । अतः विसर्गप्राप्तितः पूर्वमेव सकारस्य रुत्वम् उत्वं च सम्भवति । अतः ‘रामो गृहं गच्छति’ इति रूपं सिद्ध्यति । पदसंस्कारपक्षे तु ‘रामः’ ‘गृहम्’ ‘गच्छति’ इति त्रीणि पार्थक्येन संस्क्रियन्ते । ‘रामः’ इत्यस्य संस्कारस्य समये पदान्तरस्य असद्भावात् विसर्गः प्राप्तः एव । वाक्ये विसर्गयुक्तं पदमेव (रामः इति रूपेण युक्तम्) स्थाप्यते । अतः अत्र अग्रिमं पदं किम् अस्ति इति न अवलोक्यते । वैयाकरणमूर्धन्येन नागेशेन एव इयं व्यवस्था स्पष्टीकृता परिभाषेन्दुशेखरे ‘अकृतव्यूहपरिभाषा’ व्याख्यानस्य अन्ते।

वाक्ये अपि सन्धिः करणीयः एव इति यदि उच्यते तर्हि ‘वाक्ये सा विवक्षाम् अपेक्षते’ इत्यस्य नियमस्य उच्छेदः एव स्यात् । समासादिषु यथा तथैव अत्रापि इत्येव सिद्धत्वात् विवक्षाधीनताकथनं निरर्थकं भवेत् । अतः ‘संहितैकपदे…’ इत्यस्य परमप्रामाण्यम् अङ्गीकुर्वता अपि वाक्ये सन्धिविरहितप्रयोगः अपि अभ्युपगन्तव्यः एव । लौकिकानि वाक्यानि शास्त्रदृष्ट्या न प्रयुज्यन्ते इत्यतः, वक्तुः श्रोतुः च आनुकूल्यदृष्ट्या प्रयुज्यन्ते इत्यतः च सामान्यव्यवहारे सन्धिविरहितस्य प्रयोगस्य एव परमौचित्यम्।

तथा च संहिताविवक्षायाः वाक्ये वाक्यसंस्कारपक्षविषयकत्वेन, पदसंस्कारपक्षे तस्याः विवक्षायाः परित्यागः एव । अतः सामान्यवाक्यप्रयोगावसरे पदसंस्कारपक्षस्य आश्रयणम् इति कथनात् सन्धिविरहितवाक्य प्रयोगशैल्याः न क्वापि शास्त्रविरोधिता अपि।

इदानीं पुनः प्रश्नः उदियात् - ‘लोके व्यवहारकाले वाक्यसंस्कारपक्षः आश्रयणीयः, उत पदसंस्कारपक्षः ?’ इति । वस्तुतः अत्र उत्तरं तु ‘उभयथा अपि’ इति । (पूर्वपक्षिपक्षे अस्मत्पक्षे चापि) यत्र अप्रयत्नेन सन्धिः , तत्र सन्धियुक्तमेव रूपं भवतु इति उक्तं ननु । अतः ‘तथापि’ ‘नैव’ ‘कोऽपि’ इत्यादिषु सन्धेः आश्रयणात् सिद्धं यत् वाक्यसंस्कारपक्षः आश्रितः इति । ‘करोमि इति सः अवदत्’ इत्यादिषु संहितायाः अविवक्षितत्वात् पदसंस्कारपक्षः आश्रितः इति सिद्धम्।

क्वचित् पदसंस्कारपक्षः, क्वचित् वाक्यसंस्कारपक्षः च आश्रीयते लोके । इयं परम्परा प्राचीनग्रन्थेषु (व्याख्यानादिषु) अपि बहुत्र आश्रिता दृश्यते। द्वित्राणि उदाहरणानि यथा -

  • सिद्धान्तकौमुद्याः बालमनोरमाव्याख्याने - “इको यणचीत्यत्र अचि इकः यण् स्यादित्यवगतम् । तत्र अचो वर्णान्तराधिकरणत्वं न सम्भवतीति सति सप्तम्याश्रयणीया । अचि सति इको यण् स्यादिति । तत्र व्यवहिते अव्यवहिते इको यण् प्राप्तः । ततश्च समिधमित्यत्र धकारस्य व्यवहिते अकारे सत्यपि मकारादिकारस्य यण् स्यात् । तथा अचि सति पूर्वस्य परस्य वा इको यण प्राप्त…… । (‘तस्मिन्निति निर्दिष्टे पूर्वस्य’ इत्यत्र)
  • सिद्धान्तकौमुद्याः तत्त्वबोधिनीव्याख्याने - “सुङस्योरिति । सोरुकारः ‘अवर्णस्त्रसौ–’ इत्यत्र विशेषणार्थः । ‘असि’ इत्युक्ते हि अकारादावित्यर्थः स्यात् । तथा च ‘वाजमर्वत्सु’ इति न सिध्येत् । (‘स्वौजसमौट्….’ इति सूत्रे)
  • माधवीयधातुवृत्तौ - ‘तितुत्र’ इति इनिषेधः । हस्तोऽस्यास्तीति हस्ती - ‘हस्ताज्जातौ’ इति इनिप्रत्ययः । (‘हसे हसने’ इति धातोः विवरणे)
  • रघुवंशव्याख्याने मल्लिनाथः यथा - अत्र ‘त्यागाय’ इत्यादिषु ‘चतुर्थी तदर्थ-’ इत्यादिना….. । ‘दारेष्वपि गृहाः’ इत्यमरः । ‘जाया च गृहिणी गृहम्’ इति हलायुधः । ‘मेधृ संगमे’ इति धातोर्णिनिः। (त्यागाय सम्भृतार्थानाम् - रघु.१.७)

दिङ्मात्रम् इह दर्शितम् । यत्र कोषसूत्रादिकम् उल्लिख्य ‘इति’ पदं प्रयुज्य विवरणं प्रदत्तं तत्र सन्धेः अकरणं शास्त्रग्रन्थेषु सर्वत्र दृश्यते एव । एतादृशेषु वाक्येषु किम् असाधुत्वं वक्तुं शक्येत ? न खलु ? शिष्यबुद्धिविशदतायै, स्पष्टतायै, मुद्रणानुकूल्याय वा एवं कृतं तैः इति किमपि समाधानं वक्तव्यम् ।

तस्यां शैल्याम् असाधुता न आरोप्यते, न वा असाधुता आरोपयितुं शक्या अस्माभिः । पदसंस्कारपक्ष वाक्यसंस्कारपक्षयोः व्यामिश्रणं बहुधा दृश्यते व्याख्यानादिग्रन्थेषु इत्येतत् निरूपयितुम् एतानि वाक्यानि उपस्थापितानि । ‘उभयमिश्रिता शैली प्राचीनैः आश्रिता । अतः वयमपि उभयमिश्रितां तामेव शैलीम् आश्रयामः’ इति तु न वक्तव्यम् । व्याख्यानकारादीनां दृष्टिः अन्या आसीत् । विषयस्पष्टतार्थम् उद्यताः ते यावत् आवश्यकं तावता प्रमाणेन सन्धिविरहितान् प्रयोगान् कृतवन्तः । अतः अस्माभिः अपि आवश्यकतानुसारं प्रयोगः कर्तव्यः । अद्यतनी आवश्यकता तु इयम् । सामान्येषु जनेषु संस्कृतप्रीतिः जनयितव्या अस्ति अस्माभिः । यदि एषा व्यवहाररीतिः न अङ्गीक्रियेत तर्हि संस्कृतस्य ह्रासं निरोर्बु, संस्कृतं संरक्षितुं च न शक्नुयाम एव । अतः एव शास्त्रस्य विरोधः यथा न स्यात् तथा सरलः मार्गः आश्रयणीयः एव । शास्त्रविरुद्धः व्यवहारः न उचितः । किन्तु शास्त्रकारैः एव दर्शिताः सरलाः मार्गाः अवश्यमेव अनुसरणीयाः ।

२.३.४.८. प्राचीनसाहित्यस्य न हानिः

एतस्मिन् प्रसङ्गे अन्यः अपि प्रश्नः उदियात् - यदि सर्वत्र अपि सन्धिविरहितस्य एव प्रकारस्य प्रचारः स्यात् तर्हि प्राचीनसाहित्यस्य (सन्धियुक्तसाहित्यस्य) द्रष्टारः एव न भवेयुः, सन्धियुक्तशैल्याः प्रयोक्तारः एव न स्युः, सन्धिरहितया एव शैल्या साहित्यसृष्टिः भवेत्, प्राचीनसाहित्यस्य अवसानमेव भवेत् कालान्तरे इति । भीतिः एषा सर्वथा अस्थाने । सन्धिरहितशैल्याः आश्रयणं सन्धिसहितशैल्याः निराकरणाय न भवति । नूतनानाम् आनुकूल्याय एषा सन्धिरहिता शैली आश्रीयते प्राथमिकस्तरे । अतः एव इतःपूर्वं स्तरत्रयस्य प्रतिपादनं कृतम्।

सन्धिरहितशैल्या ये भाषाभ्यासं कृतवन्तः ते तावता एव विरमन्ति इति न मन्तव्यम् । सन्धिसहितायाः शैल्याः अपि पठनं ते करिष्यन्ति एव भाविनि काले । अतः सन्धिसहिता शैली उच्छिन्ना भवेत् इति भीतिः अस्थाने । अन्यच्च उभयोः अपि शैल्योः परस्परपूरकता एव, न तु परस्परविरोधः ।

प्राथमिकस्तरे सरलस्तरस्य परिचयः भवतु इत्यस्य प्रतिपादनस्य उद्देशस्तु - नूतनाः बहवः संस्कृताध्ययनं कुर्वन्तु, संस्कृतस्य प्रचारः अधिकाधिकतया भवतु च इति । एवं भाषापरिचयं प्राप्तवन्तः अग्रे क्व गच्छेयुः ? ते काव्यादीनां शास्त्राणां च अध्ययने प्रवृत्तिं दर्शयेयुः । अग्रिमाणि सोपानानि आरोढुम् एव भवन्ति प्राथमिकसोपानानि । तत्र सरलता कल्पनीया इत्येव एव सरलमानकसंस्कृतस्य लक्ष्यम् ।

प्राथमिकस्तरे सरलताश्रयणात् अन्यविधाः शैल्यः उच्छिन्नाः न भवेयुः इत्येतत् वयम् अन्यभाषाक्षेत्रेषु पश्यामः अवश्यमेव । सामान्यान् उद्दिश्य यः व्यवहारः प्रचलति तत्र सरलता एव भवति । तावता अन्यविधा शैली उच्छिन्ना न भवति, प्रत्युत सामान्याः जनाः गच्छता कालेन तामपि शैलीम् अवगन्तुं शक्नुवन्ति एव ।

सरलमानकसंस्कृतं नाम किम् इत्येतावतः अवगमनमात्रेण, सा अनुसरणीया इति इच्छामात्रेण वा तत्सम्बद्धं कौशलम् आत्मसात् न भवति । तद्विषये निरन्तरं प्रयासः करणीयः । तदा एव सा शैली अनुसृता स्यात् ।

एषा शैली विद्वद्भिः अपि किम् अनुसरणीया ? ‘आम्’ इत्येव उत्तरम् । काव्यादिलेखनसमये अभिलषित शैल्याः अनुसरणे वयं स्वतन्त्राः । किन्तु सामान्याः अवगच्छेयुः इति उद्देशेन यत् लिख्यते, यत् भाषणं क्रियते, तत्र एतस्य सरलमानकसंस्कृततत्त्वस्य अनुसरणम् अवश्यं करणीयम् । नूतनानां बोधनावसरे अपि सा एव शैली आश्रयणीया । पत्रिकाः एतामेव शैलीम् अनुसरेयुः । आकाशवाणीदूरदर्शनादयः एतया एव शैल्या वार्ताप्रसारं कुर्युः । पाठ्यक्रमेषु अपि एतस्याः शैल्याः अनुसरणं प्रचलेत्।।

सरलमानकसंस्कृतस्य अपरमपि प्रयोजनं नाम - भाषाशुद्धौ विकासः । विद्वद्भिः अनुस्रियमाणां शैलीम् अनुकुर्वन्तः बहवः स्पष्टज्ञानाभावात् बहुधा दोषान् कुर्वन्ति । सरलनियमाश्रयणात् ते दोषाः न भवेयुः । विस्तृतभाषापरिधौ कार्यं कुर्वतां ज्ञानपरिधिः अपि विस्तृतः एव भवेत् । ज्ञानपरिधिः येषाम् अल्पः ते विस्तृत भाषापरिधौ कार्यं कुर्वन्ति इत्यतः भाषादोषाः अधिकाः भवन्ति । सामान्यपरिधौ कार्यकरणात् दोषाः न्यूनाः भवेयुः अवश्यमेव।