+शिक्षणम्

प्रवेशे क्रमः

  • “लक्ष्यकेन्द्रितमेव लक्षणाध्ययनम् भवेत्” इति स्वरसम् एव। तत्र लक्ष्यं नाम महाकाव्यान्येवेति न - स्तोत्राण्यपि सहस्रनामादीनि स्युः। केवलव्याकरणाध्येतारो न हि भूयासुस् साधारणतया जनाः।
  • लघुकौमुद्याः कक्ष्यासमये श्रीमहाबलेश्वरभट्टैः किञ्चिदुक्तं स्मर्यते “व्याकरणाध्ययनात् पूर्वं भाषायां शब्दप्रयोगरीतिः ज्ञातव्या । तच्च ज्ञानं सम्भाषणेन काव्याध्ययनेन च लभ्यते । तद्विना तु किमर्थमिदं सूत्रमित्यपि न ज्ञायते ।” इति।
  • महाकाव्यानि पठित्वैव व्याकरणादिकम् पाठ्यमिति स्वानुभवं विरुणद्धि। सर्वेष्वपि शास्त्रेषु यथा युगपदेवाऽऽल्पः प्रवेशः स्यात् तथा लौकिकशिक्षणे पश्याम एव। तद्ध्युपकारकम् अनुकरणीयञ्च। सर्वाण्यपि शास्त्राणि परस्परं सम्बद्धानि। पुरा च बाल्ये ह्य् अष्टाध्यायिरटनम् भवति स्मेति यात्रिककथनानि प्रमाणम्।